विष्णु पुराण · अध्याय 1.3
इति श्रीविष्णुपुराणे प्रथमे ऽंशें द्वितीयो ऽध्यायः (2)
मैत्रेय उवाच
निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मनः ।
कथं सर्गादिकर्तृत्वं ब्रह्मणोभ्युपगम्यते
श्रीपराशार उवाच
शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः ।
यतो ऽतो ब्रह्मणस्तस्तु सर्गाद्या भावशक्तयः ।
भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता
तन्निबोध यथा सर्गे भगवान्संप्रवर्तते ।
नारायणाख्यो भगवान्ब्रह्मा लोकपितामाहः
उत्पन्नः प्रोच्यते विद्वन्नित्यमेवोपचारतः
निजेन तस्य मानेन आयुर्वर्षशतं स्मृतम् ।
तत्पराख्यं तदर्द्ध च परार्धमभिधियते
कालस्वरूपं विष्णोश् च यन्मयोक्तं तवानघ ।
तेन तस्य निबोधे त्वं परिमाणोपपादनम्
अन्येषां चैव जन्तूनां चराणामचराश् च ये ।
भूभूभृत्सागरादीनामशेषाणां च सत्तम
काष्ठा पञ्चदशाख्याता निमेषा मुनिसत्तम ।
काष्ठात्रिंशत्कला त्रिंशत्कला मौहूर्तिको विधिः
तावत्संख्यैर् अहोरात्रं मुहूर्तैर् मानुषं स्मृतम् ।
अहोरात्राणि तावन्ति मासः पक्षद्वयात्मकः
तैः षड्भिर् अयनं वर्षं द्वे ऽयने दक्षिणोत्तरे ।
अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनम्
दिव्यैर् वर्षसहस्रैस् तु कृतत्रेतादिसंज्ञितम् ।
चतुर्युगं द्वादशभिस् तद्विभागं निबोद मे
चत्वारित्रीणि द्वे चैकं कृतादिषु यथाक्रमम् ।
द्विव्याब्दानां सहस्राणि युगोष्वाहुः पुराविदः
तत्प्रमाणैः शतैः संध्या पूर्वा तत्राभिधीयते ।
सन्ध्यांशश्चैव तत्तुल्यो युगस्यानन्तरो हि सः
सन्ध्यासंध्यांशयोरन्तर्यः कालो मुनिसत्तम ।
युगाख्यः स तु विज्ञेयः कृतत्रेतादिसंज्ञितः
कृतं त्रेता द्वापरश् च कलिश्चैव चतुर्युगम् ।
प्रोच्यते तत्सहस्रं व ब्रह्मणां दिवसं मुने
ब्रह्मणो दिवसे ब्रह्मन्मनवस्तु चतुर्दश ।
भवन्ति परिणामं च तेषां कालकृतं शृणु
सप्तर्षयः सुराः शक्त्रो मनुस्तत्सूनवो नृपाः ।
एककाले हि सृज्यन्ते संह्नियन्ते च पूर्ववत्
चतुर्युगाणां संख्याता साधिका ह्येकसप्ततिः ।
मन्वन्तरं मनोः कालः सुरादीनां च सत्तम
अष्टौ शत सहस्राणि दिव्यया संख्यया स्मृतम् ।
द्विपञ्चाशत्तथान्यानि सहस्राण्यधिकानि तु
त्रिंशत्कोट्यस्तु संपूर्णाः संख्याताः संख्यया द्विज ।
सप्तषष्टिस्तथान्यानि नियुतानि महामुने
विंशतिस्तु सहस्राणि कालोयमधिकं विना ।
मन्वन्तरस्य संख्येयं मानुषैर् वत्सरैर् द्विज
चतुर्दशगुणो ह्येष कालो ब्रह्ममहः स्मृतम् ।
ब्रह्मो नैमित्तिको नाम तस्यान्ते प्रतिसञ्चरः
तदा हि दह्यते सर्व त्रैलोक्यं भूर्भुवादिकम् ।
जनं प्रयान्ति तापार्ता महर्लोकनिवासिनः
एकार्णवे तु त्रैतोक्ये ब्रह्मा नारायणात्मकः ।
भोगिशय्यां गतः शेते त्रैलोक्यग्रासबृंहितः
जनस्थैर् योगिभिर् देवश्चित्यमानोब्जसम्भवः ।
तत्प्रमाणां हि तांरात्रिं तदन्ते सृजते पुनः
एवं तु ब्रह्मणो वर्षमेवं वर्षशतं च यत् ।
शतं हिं तस्य वर्षाणां परमायुर्महात्मनः
एकमस्य व्यतीतं तु परार्धं ब्रह्मणो ऽनघ ।
तस्यान्तेभून्महाकल्पः पाद्म इत्यभिविश्रुतः
द्वितीयस्य परार्धस्य वर्तमानस्य वै द्विज ।
वाराह इति कल्पोयः प्रथमः परिकीर्तितः
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0