भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 1.2

1.2.1

इति श्रिविष्णुपुराणे प्रथमे ऽंशे प्रथमो ऽध्यायः (1)
श्रीपराशर उवाच
अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे

1.2.2

नमो हिरण्यगर्भाय हरये शङ्कराय च ।
वासुदेवाय ताराय सर्वस्थित्यन्तकारिणे

1.2.3

एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः ।
अव्यक्तव्यक्तरूपाय विष्णवे मुक्तिहेतवे

1.2.4

सर्गस्थितिविनाशानां जगतो यो जगन्मयः ।
मूलभूतो नसम्तस्मै विष्णवे परमात्मने

1.2.5

आधारभूतं विश्वस्याप्यणीयांसमणीयसाम् ।
प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम्

1.2.6

ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः ।
तमेवार्थस्वरूपेण भ्रन्तिदर्शनतः स्थितम्

1.2.7

विष्णु ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम् ।
प्रणम्य जगतामीशमजमक्षयमव्ययम्

1.2.8

कथयामि यथापूर्वं दक्षाद्यैर् मुनिसत्तमैः ।
पृष्टः प्रोवाच भगवानब्जयोनिः पितामहः

1.2.9

तैश् चोक्तं पुरुकुत्साय भूभुजे नर्मदातटे ।
सारस्वताय तेनापि मह्यं सारस्वतेन च

1.2.10

परः पराणां परमः परमात्मात्मसंस्थितः ।
रूपवर्णादिनिर्देशविशेषणविवर्जितः

1.2.11

अपक्षयविनाशाभ्यां परिणामर्द्धिजन्मभिः ।
वर्जितः शक्यते वक्तुं यः सदास्तीति केवलम्

1.2.12

सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः ।
ततः स वासुदेवेति विद्वद्भिः परिपठ्यते

1.2.13

तद्ब्रह्म परमं नित्यमजमक्षयमव्ययम् ।
एकस्वरूपं तु सदा हेयाभावाच्च निर्मलम्

1.2.14

तदेव सर्वमेवैतद्व्यक्ताव्यक्तस्वरूपवत् ।
तथा पुरुषरूपेण कालरूपेण च स्थितम्

1.2.15

परस्य ब्रह्मणो रूपं पुरूषः प्रथमं द्विज ।
व्यक्ताव्यक्ते तथैवान्ये रूपे कालस्तथापरम्

1.2.16

प्रधानपूरुषव्यक्तकालानां परमं हि यत् ।
पश्यन्ति सूरयः शुद्धं तद्विष्णोः परमं पदम्

1.2.17

प्रधानपूरुषव्यक्तकालास्तु प्रविभागशः ।
रूपाणि स्थितिसर्गान्तव्यक्तिसद्भावहेतवः

1.2.18

व्यक्तं विष्णुस्तथव्यक्तं पुरूषः काल एव च ।
क्रीडतो बालकस्येव चेष्टां तस्य निशामय

1.2.19

अव्यक्तं कारणं यत्तत्प्रधानमृषिसत्तमैः ।
प्रोच्यते प्रकृतिः सीक्ष्मा नित्यं सदसदात्मकम्

1.2.20

अक्षय्यं नान्यदाधारममेयमजरं ध्रुवम् ।
शब्दस्पर्शविहीनं तद्रूपादिभिर् असंहितम्

1.2.21

त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम् ।
तेनाग्रे सर्वमेवासीव्द्याप्तं वै प्रलयादनु

1.2.22

वेदवादविदो विद्वन्नियता ब्रह्मवादिनः ।
पठन्ति चैतमेवार्थं प्रधानप्रतिपादकम्

1.2.23

नाहो न रात्रिर्न नभो न भूमिर्नासीत्तमोज्योतिरभूच्च नान्यत् ।
श्रोत्रादिबुद्ध्यानुपलभ्यमेकं प्राधानिकं ब्रह्म पुमांस्तदासीत्

1.2.24

विष्णोः स्वरूपात्परतोदिते द्वे रूपे प्रधानं पुरूषश् च विप्र ।
तस्यैव ते ऽन्येन धृते वियुक्ते रूपातरं तद्द्विज कालसंज्ञम्

1.2.25

प्रकृतौ संस्थितं व्यक्तमतीतप्रलये तु यत् ।
तस्मात्प्राकृतसंज्ञोयमुच्यते प्रतिसंचरः

1.2.26

अनादिर्भगवान्कालो नान्तोस्त द्विज विद्यते ।
अव्युच्छिन्नस्ततस्त्वेते सर्गस्थित्यन्तसंयमाः

1.2.27

गुणसाम्ये ततस्तस्मिन्पृथक्पुंसि व्यवस्थिते ।
कालस्वरूपं तद्विष्णोर्मैत्रेय परिवर्तते

1.2.28

ततस्तु तत्परं ब्रह्म परमात्मा जगन्मयः ।
सर्वगः सर्वभूतेशः सर्वात्मा परमेश्वरः

1.2.29

प्रधानपुरूषौ चापि प्रविश्यात्मेच्छया हरिः ।
क्षोभयामास संप्राप्ते सर्गकाले व्ययाव्ययौ

1.2.30

यथा सन्निधिमात्रेण गन्धः क्षोभाय जायते ।
मनसो नोपकर्तृत्वात्तथासौ परमेश्वरः

1.2.31

स एव क्षोभको ब्रह्मन् क्षोभ्यश् च पुरूषोत्तमः ।
स संकोचविकासाभ्यां प्रधानत्वेपि च स्थितः

1.2.32

विकासाणुस्वरूपैश् च ब्रह्मरूपादिभिस् तथा ।
व्यक्तस्वरूपश् च तथा विष्णुः सर्वेश्वरेश्वरः

1.2.33

गुणसाम्यात्ततस्तस्मात्क्षेत्रज्ञाधिष्ठितान्मुने ।
गुणव्यञ्जनसंभूतिः सर्गकाले द्विजोत्तम

1.2.34

प्रधानतत्त्वमुद्भूतं महान्तं तत्समावृणोत् ।
सात्त्विको राजसश्चैव तामसश् च त्रिधा महान्

1.2.35

प्रधानतत्त्वेन समं त्वचा बीज मिवावृतम् ।
वैकारेकस्तैजसश् च भूतादिश्चैव तामसः

1.2.36

त्रिविधोयमहङ्कारो महत्तत्त्वादजायत ।
भीतेन्द्रियाणां हेतुःस त्रिगुणत्वान्महामुने ।
यथा प्रधानेन महान्महता स तथा वृतः

1.2.37

भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकं ततः ।
ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम्

1.2.38

शब्दमात्रं तथाकाशं भूतादिः स समावृणोत् ।
अकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह

1.2.39

बलवानभवद्वायुस्तस्य स्पर्शो मुणो मतः ।
आकाशं शब्दमात्रं तु स्वर्शमात्रं समावृणोत्

1.2.40

ततो वायुर्विकुर्वाणो रूपमात्रं ससर्ज ह ।
ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते

1.2.41

स्पर्शमात्रं तु वै वायू रूपमात्रं समावृणोत् ।
ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह

1.2.42

सम्भवन्ति ततोंभांसि रसाधाराणि तानि च ।
रसमात्राणि चाम्भांसि रूपमात्रं समावृणोत्

1.2.43

विकुर्वाणानि चाम्भांसि गन्धमात्रं सस र्जिरे ।
संघातो जायते तस्मात्तस्य गन्धो गुणो मतः

1.2.44

तस्मिंस्तस्मिंस्तु तन्मात्रं तेन तन्मात्रता स्मृता

1.2.45

तन्मात्रण्यविशेषाणि अविशेषास्ततो हि ते

1.2.46

न शान्ता नापि धोरास्ते न मूढाश्चाविशेषिणः ।
भूततन्मात्रसर्गोयमहङ्कारात्तु तामसात्

1.2.47

तेजसानीन्द्रियाण्याहुर्देवा वैकारिका दश ।
एकादशं मनश्चात्र देवा वैकारिकाः स्मृताः

1.2.48

त्वक् चक्षुर्नासिका जिह्वा श्रोत्रमत्र च पञ्च मम् ।
शब्दादीनामवाप्त्यर्थं बुद्धियुक्तानि वै द्विज

1.2.49

पायूपस्थौ करौ पादौ वाक् च मैत्रेय पञ्चमी ।
विसर्गशिल्पगत्युक्ति कर्म तेषां च कथ्यते

1.2.50

आकाशवायुतेजांसि सलिलं पृथिवी तथा ।
शब्दादिभिर् गुणैर् ब्रह्मन्संयुक्तान्युत्तरोत्तरै

1.2.51

शान्ता घोराश् च मूढाश् च विशेषस्तेन ते स्मृताः

1.2.52

नानाविर्याः पृथग्भूतास्ततस्ते संहतिं विना ।
नाशक्नुवन्प्रजाः स्रष्टुमसमागम्य सृत्स्त्रशः

1.2.53

समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः ।
एकसंघातलक्ष्याश् च संप्राप्यैक्यमशेषतः

1.2.54

पुरुषाधिष्ठितत्वाच्च प्रधानानुग्रहेण च ।
महदाद्य विशेषान्ता ह्यण्डमुत्पादयन्ति ते

1.2.55

तत्क्रमेण विवृद्धं सज्जलबुद्बुदवत्समम् ।
भूतेभ्योण्डं महाबुद्धे महत्तदुदकेशयम् ।
प्रकृतं ब्रह्मरूपस्य विष्णोः स्थानमनुत्तमम्

1.2.56

तत्राव्यक्तस्वरूपो ऽसौ व्यक्तरूपो जगत्पतिः ।
विष्णुर्ब्रह्मस्वरूपेण स्वयमेव व्यवस्थितः

1.2.57

मेरुरुल्बमभूत्तस्य जरायुश् च महीधराः ।
गर्भोदकं समुद्राश् च तस्यासन्सुमहात्मनः

1.2.58

साद्रिद्वीपसमुद्राश् च सज्योतिर्लोकसंग्रहः ।
तस्मिन्नण्डे ऽभवद्विप्र सदेवासुरमानुषाः

1.2.59

वारिवह्न्यनिलाकाशैस् ततो भूतादिना बहिः ।
वृतं दशगुणैर् अण्डं भूतादिर्महता तथा

1.2.60

अव्यक्तेनावृतो ब्रह्मंस्तै सर्वैः सहितो महान् ।
एभिर् आवरणैर् अण्डं सप्तभिः प्रकृतैर् वृतम् ।
नालिकेरफलस्यान्तर्बाजं बाह्यदलैर् इव

1.2.61

जुषन् रजो गुणं तत्र स्वयं विश्वेश्वरो हरिः ।
ब्रह्माभूत्वास्य जगतो विसृष्टौ संप्रवर्तते

1.2.62

सृष्टं च पात्यनुयुगं यावत्कल्पविकल्पना ।
सत्त्वभृद्भगवान्विष्णुरप्रमेयपराक्रमः

1.2.63

तमोद्रेकी च कल्पान्ते रुद्ररूपी जर्नादनः ।
मैत्रेयाखिलभूतानि भक्षयत्यतिदारूणः

1.2.64

भक्षयित्वा च भूतानि जगत्येकाणवीकृते ।
नागपर्यङ्कशयने शेते च परमेश्वरः

1.2.65

प्रबुद्धश् च पुनः सृष्टिं करोति ब्रह्मरूपधृक्

1.2.66

सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् ।
स संज्ञां याति भगवानेक एव जनार्दनः

1.2.67

स्त्रष्टा सृजति चात्मानं विष्णुः पाल्यं च पाति च ।
उपसंह्रियते चान्ते संहर्ता च स्वयं प्रभुः

1.2.68

पृथिव्यापस् तथा तेजो वायुराकाश एव च ।
सर्वेन्द्रियान्तःकरणं पुरुषाख्यं हि यज्जगत्

1.2.69

स एव सर्वभूतात्मा विश्वरूपो यतो ऽव्ययः ।
सर्गादिकं तु तस्यैव भूतस्थमुपकारकम्

1.2.70

स एव सृज्यः स च सर्गकर्ता स एव पात्यत्ति च पाल्यते च ।
ब्रह्माद्यवस्थाभिर् अशेषमूर्तिर्विष्णुर्वरिष्ठो वरदो वरेण्यः

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc