भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 1.21

1.21.1

इति श्रीविष्णुपुराणे प्रथमेंशोध्यायः (20)
प्रह्लादपुत्र आयुष्माञ्छिबिर्बाष्कल एव च ।
विरोचनस्तु प्राह्लदिर्बलिर्जज्ञे विरोचनात्

1.21.2

बलेः पुत्रशतं त्वसीद्बाणज्येष्ठं महामुने ।
हिरण्याक्षसुताश्चासन्सर्व एव महा बला

1.21.3

झर्झरः शकुनिश्चैव भूतसन्तापनस् तथा ।
महानाभो महाबाहुः कालनाभस्तथापरः

1.21.4

अभवन्दनुपूत्राश् च द्विमूर्ध शंबरस् तथा ।
अयोमुखः शङ्कुशिराः कपिलः शङ्करस् तथा

1.21.5

एकचक्रो महाबाहुस्तारकश् च महाबलः ।
स्वर्भानुर्वृषपर्वा च पुलोम च महाबलः

1.21.6

एते दनोः सुताः ख्याता विप्रचित्तिश् च विर्यवान्

1.21.7

स्वर्भानोस्तु प्रभा कन्या शर्मिष्ठा वार्षपर्वणी ।
उपदानी हयशिरः प्रख्याता वरकन्यकाः

1.21.8

वैश्वानरसुते चोभे पुलोमा कालका तथा ।
उभे सुते महाभागे मारीचेस्तु परिग्रहः

1.21.9

ताभ्या पुत्रसहस्राणि षष्टिर्दानवसत्तमाः ।
पौलोमाः कालके याश् च मारीचतनयाः स्मृताः

1.21.10

ततो ऽपरे महावीर्या दारुणा स्त्वतिनिर्घृणा ।
सिंहिकायामथोत्पन्ना विप्रचित्ते सुतास् तथा

1.21.11

त्र्यंशः शल्यश् च बलवान् नभश्चैव महाबलः ।
वातापी नमुचिश्चैव इल्वलः खसृमस् तथा

1.21.12

आन्धको नरकश्चैव कालनाभस्तथैव च ।
स्वर्भानुश् च महावीर्यो वक्त्रयोधी महासुरः

1.21.13

एते वै दानवाः श्रेष्ठा दनुवंशविवर्धनाः ।
एतेषां पुत्रपौत्रश् च शतशो ऽथ सहस्रशः

1.21.14

प्रह्लादस्य तु दैत्यस्य निवात कवचाः कुले ।
समुत्पन्नाः सुमहता तपसा भावितात्मनः

1.21.15

षट् सुताः सुमहासत्त्वास्ताम्रायाः परिकीर्तिताः ।
शुकी श्येनी च भासी च सुग्रीवी शुचिगृद्ध्रका

1.21.16

शुकी शुकानजनयदुलूकप्रत्युलूकिकान् ।
श्येनी श्येनांस् तथा भासी भासान्गृर्ध्यांश् च गृद्ध्र्यपि

1.21.17

शुच्यौ दकान्पक्षिगणान्सुग्रीवी तु व्यजायत ।
अश्वानुष्ट्रान्गर्दभां श् च ताम्रावंशः प्रकीर्तितः

1.21.18

विनतायास्तु द्वौ पुत्रौ विरतौ गरुडारुणौ ।
सुपर्णः पततां श्रेष्ठो दारुणः पन्नगाशनः

1.21.19

सुरसायां सहस्रं तु सर्पाणाममितौजसाम् ।
अनेकशिरसां ब्रह्मन् खेचरामां महात्मनाम्

1.21.20

कान्द्रवेयास्तु बलिनः सहस्रममितौजसः ।
सुपर्णवशागा ब्रह्मन् जज्ञिरे नैकमस्तकाः

1.21.21

तेषां प्रधानभूतास्तु शेषवासुकितक्षकाः ।
शङ्खश्वेतो महापद्मः कम्बलाश्वतरौ तथा

1.21.22

एलापुत्रस् तथा नागः कर्कोटकधनञ्जयौ ।
एते चान्ये च बहवो दन्दशुका विषोल्बणा

1.21.23

गणं क्रोधवशं विद्धि तस्याः सर्वे च दंष्ट्रिणः ।
स्थलजाः पक्षिणोब्जाश् च दारुणाः पिशिताशनाः

1.21.24

क्रोधात्तु पिशाचांश् च जनयामास महाबलान् ।
गास्तु वै जनयामास सुराभीर्महिषीस् तथा ।
इरावृक्षलतावल्लीस्तृमजतीश् च सर्वशः

1.21.25

स्वसा तु यक्षरक्षांसि मुनिरप्सरसस् तथा ।
आरीष्टा तु महासत्त्वान् गन्धर्वान्समजीजनत्

1.21.26

एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः ।
तेषां पुत्राश् च पौत्राश् च शतशो ऽथ सहस्रशः

1.21.27

एष मन्वन्तरे सर्गो ब्रह्मन्स्वारोचिषेस्मृतः

1.21.28

वैवस्वते च महति वारुणे वितते कृतौ ।
जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते

1.21.29

पूर्वं यत्र तु सप्तर्षिनुत्पन्नान्सप्तमानसान् ।
पुत्रत्वे कल्पयामास स्वयमेव पितामहः ।
गन्धर्वभोगिदेवानां दानवानां च सत्तम

1.21.30

दितिर्विनष्टपुत्रा वै तोषयामास काश्यपम् ।
तया चाराधितः सम्यक्काश्यपस्तपतां परः

1.21.31

वरेण च्छन्दयामास सा च वव्रे ततो वरम् ।
पुत्रमिन्द्रवधार्थाय समर्थम मितौजसम्

1.21.32

स च तस्मै वरं प्रादाद्भार्यायै मुनिसत्तमः ।
दत्त्वा च वरमत्युग्रं कश्यपस्तामुवाच ह

1.21.33

शक्रं पुत्रो निहन्ता ते यदि गर्भं शरच्छतम् ।
समाहितातिप्रयता शौचिनी धारयिष्यसि

1.21.34

इत्येवसुक्त्वा तां देवीं संगतः कश्यपो मुनिः ।
दधार सा च तं गर्भं सम्यक्छोचसमन्विता

1.21.35

गर्भमात्मवधार्थाय ज्ञात्वा तं मघवानपि ।
शुश्रूषुस्तामथागच्छद्विनयादमराधिपः

1.21.36

तस्या श्चैवान्तरप्रेप्सुरतिष्ठत्पाकशासनः ।
ऊने वर्षशते चास्या ददर्शान्तरमात्मना

1.21.37

अकृत्वा पादयोः शौचं दितिः शयनमाविशत् ।
निद्रां चाहारयामास तस्याः कुक्षिं प्रविश्य सः

1.21.38

वज्रपाणिर्महागर्भं चिच्छेदाथ स सप्तधा ।
सम्पीड्यमानो पज्रेण स रुरोदादिदारुणम्

1.21.39

मा रोदीरिति तं शक्रः पुनःपुनरभाषत ।
सो ऽभवत्सप्तधा गर्भस्तमिद्रः कुपितः पुनः

1.21.40

एकैकं सप्तधा चक्रे वज्रेणारिविदारिणा ।
मरुतो नाम देवास्ते बभूवुरतिवेगिनः

1.21.41

यदुक्तं वै भगवता तेनैव मरुतो ऽभवन् ।
देवा एकोनपछ्चाशत्सहाया वज्रपाणिनः

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc