विष्णु पुराण · अध्याय 1.20
इति श्रीविष्णुपुराणे प्रथमेंश एकोनविंशतितमो ऽध्यायः (19)
श्रीपराशर उवाच
एवं संचिन्तयन्विष्णुमभेदेनात्मनो द्विज ।
तन्मयत्वमवाप्यग्र्य मेने चात्मानमच्युतम्
विसस्मार तथात्मानं नान्यत्किञ्चिदजानत ।
अहमेवाव्ययो ऽनन्तः परमात्मेत्यचिन्तयत्
तस्य तद्भावनायोगात्क्षीणपापस्य वै क्रमात् ।
शुद्धेन्तःकरणे विष्णुस्तस्थौ ज्ञानमयोच्युतः
योगप्रभावात्प्रह्लादे जाते विष्णुमये ऽसुरे ।
चलत्युरगबन्धैस् तैर् मैत्रेय त्रुटितं क्षणात्
भ्रन्तग्राहगमः सोर्मिर्ययौ क्षोभं महार्णवः ।
चचाल च मही सर्वा सशैलवनकानना
स च तं शैलसंघातं दैत्यैर् न्यस्तमथोपरि ।
उत्क्षिप्य तस्मात्सलिलान्निश्चक्राम महामतिः
दृष्ट्वा च स जगद्भू6यो गगनाद्युपलक्षणम् ।
प्रह्लादोस्मीति सस्मार पुनरात्मानमात्मनि
तुष्टाव च पुनर्धामाननादिं पुरुषोत्तमम् ।
एकाग्रमतिरव्यग्रो यतवाक्वायमानसः
प्रह्लाद उवाच
ओंनमः परमार्थाय स्थूल सूक्ष्मक्षराक्षर ।
व्यक्ताव्यक्तकलातीत सकलेश निचञ्जन
गुणाञ्जन गुणाधार निर्गुणात्मन् गुणस्थित ।
मूर्तामूर्तमहामूर्ते सूक्ष्ममूर्ते स्फुटास्फुट
करालसौम्यरूपात्मन्विद्याविद्यामयाच्युत ।
सदसद्रूपसद्भाव सदसद्भावभावन
नित्यानित्यप्रपञ्चात्मन्निष्प्रपञ्चामलाश्रित ।
एकानेक नमस्तुभ्यं वासुदेवादिकारण
यः स्थूलसूक्ष्मः प्रकटः प्रकाशो यः सर्वभूतो न च सर्वभूतः ।
विश्वं यतश्चैतदविश्वहेतो नमोस्तु तस्मै पुरुषोत्तमाय
पराशर उवाच
तस्य तच्चेतसो देवः स्तुतिमित्थं प्रकृर्वतः ।
आविर्बभूव भगवान् पीताम्बरधरो हरिः
ससम्भ्रमस् तम् आलोक्य समुत्थायाकुलाक्षरम् ।
नमोस्तु विष्णवेत्येतव्द्याजहारास कृद्द्विज
प्रह्लाद उवाच
देव प्रपन्नार्तिहर प्रसादं कुरु केशव ।
अवलोकनदानेन भूयो मां पावयाच्युत
श्रीभगवान् उवाच
कुर्वतस्ते प्रसन्नोहं भक्तिमव्यभिचारिणीम् ।
यथाभिलषितो मत्तः प्रह्लाद व्रीयतां वरः
प्रह्लाद उवाच
नाथ योनिसहस्रेषु येषु येषु व्रजाम्य् अहम् ।
तेषु तेष्वच्युताभक्तिरच्युतास्तु सदा त्वयि
या प्रीतिरविवेकानां विषयेष्वनपायिनी ।
त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु
श्रीभगवानुवाच
मयि भक्तिस्तवास्त्येव भूयो ऽप्य् एवं भविष्यति ।
वरस्तु मत्तः प्रह्लाद व्रीयतां यस्तवेप्सितः
प्रह्लाद उवाच
मयि द्वेषानुबन्धोभूत्संस्तुतावुद्यते तव ।
मत्पितुस्तत्कृतं पापं देव तस्य प्रमश्यतु
शस्त्राणि पातितान्यङ्गे क्षिप्तो यच्चाग्निसंहतौ ।
दंशितश्चोरगैर् दत्तं यद्विषं मम भोजने
बद्धा समुद्रे यत्क्षिप्तो यच्चितो ऽस्मि शिलोच्चयैः ।
अन्यानि चाप्यसाधूनि यानि पित्रा कृताति मे
त्वयि भक्तिमतो द्वेषादघं तत्संभवं च यत् ।
त्वत्प्रसादात्प्रभो सद्यस्तेन मुच्यतु मे पिता
श्रीभगवानुवाच
प्रह्लाद सर्वमेतत्ते मत्प्रसादाद्भाविष्यति ।
अन्यच्च ते वरं दघ्नि व्रीयतामसुरात्मज
प्रहलाद उवाच
कृतकृत्योस्मि भगवन्वरे णानेन यत्त्वयि ।
भवित्री त्वत्प्रसादेन भक्तिरव्यभिचारिणी
धर्मार्थकामैः किं तस्य मुक्तिस्तस्य करे स्तिता ।
समस्तजगतां मूले यस्य भक्तिः स्थिरा त्वयि
श्रीभगवानुवाच
यथा ते निश्चलं चेतो मयि भक्तिसमन्वितम् ।
तथा त्वं मत्प्रसादेन निर्वाणम्परमाप्स्यसि
श्रीपराशर उवाच
इत्युक्त्वान्तर्दधे विष्णुस् तस्य मैत्रेय पश्यतः ।
स चापि पुनरागम्य ववन्दे चरणौ पितुः
तं पिता मूर्ध्न्युपाघ्राय परिष्वज्य च पीडितम् ।
जीवसीत्याह वत्सेति बाष्पार्द्रनयनोद्विज
प्रीतिमांश्चाभवत्तस्मिन्ननुतापी महासुरः ।
गुरुपित्रोश्चकारैवं शुश्रूषां सो ऽपि धर्मतम्
पितर्युपरतिं नीते नरसिंह स्वरूपिणा ।
विष्णुना सो ऽपि दैत्यानां मैत्रेयाभूत्पतिस्ततः
ततो राज्यद्युतिं प्राप्य कर्मशुद्धिकरीं द्वीज ।
पुत्रपौत्रांश् च सुबहून् अवाप्यैश्वर्यमेव च
क्षीणाधिकारः स यदा पुण्यपापविविर्जितः ।
तदा स भगवद्ध्यानात्परं नीर्वाणमाप्पवान्
एवं प्रभावो दैत्यो ऽसौ मैत्रेयासीन् महामतिः ।
प्रह्लादो भगवद्भक्तो यं त्वं माम् अनुपृच्छसि
यस्त्वेतच्चारीतं तस्य प्रह्लादस्य महात्मनः ।
शृणोति तस्य पापानि सद्यो गच्छन्ति संक्षयम्
अहोरात्रकृतं पापं प्रह्लादचरितं नरः ।
शृण्वन् पठंश् च मैत्रेय व्यपोहति न संशयः
पौर्ममास्याममावास्यामष्टम्यामथ वा पठन् ।
द्वादश्यां तदाप्रन्तोति गोप्रदानफलं द्विज
प्रह्लादं सकलापत्सु यथा रक्षितवान्हरिः ।
तथा रक्षति यस्तस्य शृणोति चरितं सदा
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0