भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 1.19

1.19.1

इति श्रीविष्णुपुराणे प्रथमे ऽंशे प्रह्लादचारिते ऽष्टादशो ऽध्यायः (18)
श्रीपराशर उवाच
हिरण्यकशिपुः श्रुत्वा तां कृत्यां वितथीकृताम् ।
आहूय पुत्रं पप्रच्छ प्रभावस्यास्य कारणम्

1.19.2

हिरण्यकशिपुर् उवाच
प्रह्लाद सुप्रभावोसि किमेतत्ते विचेष्टितम् ।
एतन्मन्त्रादिजनितमुताहो सहजं तव

1.19.3

श्रीपराशर उवचा
एवं पृष्टस्तदा पित्रा प्रह्लादो ऽसुरबालकः ।
प्रणिपत्य पितुः पादाविदं वचनमब्रवीत्

1.19.4

न मन्त्रादिकृतं तात न च नैसर्गिको मम ।
प्रभाव एष सामान्यो यस्य यस्याच्युतो हृदि

1.19.5

अन्येषां यो न पापानि चिन्तयत्यात्मनो यथा ।
तस्य पापागमस्तात हेत्व भावान्न विद्यते

1.19.6

कर्मणा मनसा वाच परिपीडां करोति यः ।
तद्वीजं जन्म फलति प्रभूतं तस्य चाशुभम्

1.19.7

सो ऽहं न पाप मिच्छामि न करोमि वदामि वा ।
चिन्तयन्सर्वभूतस्थमात्मन्यपि च केशवम्

1.19.8

शारीरं मानसं दुःखं दैवं भूतभवं तथा ।
सर्वत्र शुभचित्तस्य तस्य मे जायेत कुतः

1.19.9

एवं सर्वेषु भूतेषु भक्तिरव्यभिचारिणी ।
कर्तव्या पण्डितैर् ज्ञात्वा सर्वभूतमयं हरिम्

1.19.10

श्रीपराशर उवाच
इति श्रुत्वा स दैत्येन्द्रः प्रासादशिखरे स्थितः ।
क्रोधान्धकारितमुखः प्राह दैतेयकिङ्करान्

1.19.11

हिरण्यकशिपुर् उवाच
दुरात्मा क्षिप्यतामस्मात्प्रासादाच्छतयोजनात् ।
गिरिपृष्ठे पतत्वस्मिन् शिलाभिन्नाङ्गसंहतिः

1.19.12

ततस्तं चिक्षुपुः सर्वे बालं दैतेयदानवाः ।
पपात सो ऽप्य् अधः क्षिप्तो हृदयेनोद्वहह्नरिम्

1.19.13

पतमानं जगद्धात्री जगद्धातरि केशवे ।
भक्तियुक्तं दधारैनमुपसंगम्यमैजिनी

1.19.14

ततो विलोक्य तं स्वस्थमविशिर्णस्थिपञ्जरम् ।
हिरण्यकशिपुः प्राह शम्बरं मायिनां वरम्

1.19.15

हिरण्यकशिपुर् उवाच
नास्माभिः शक्यते हन्तुमसौ दुर्बुद्धिबालकः ।
मायां वेत्ति भवांस्तस्मान्माययैनं निषूदय

1.19.16

शम्बर उवाच
सूदयाम्येव दैत्यैन्द्र पश्य मायाबलं मम ।
सहस्रमत्र मायानां पश्य कोटिशतं तथा

1.19.17

श्रीपराशर उवाच
ततः स ससृजे मायां प्रह्लादे शम्बरो ऽसुरः ।
विनाशमिच्छन्दुर्बुद्धिः सर्वत्र समदर्शिनि

1.19.18

समाहितमतिर्भूत्वा शम्बरेपि विमत्सरः ।
मैत्रेय सो ऽपि प्रह्लादः सस्मार मधुसूदनम्

1.19.19

श्रीपराशर उवाच
ततो भगवता तस्य रक्षार्थं चक्रमुत्तमम् ।
आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनम्

1.19.20

तेन मायामहस्रं तच्छम्बरस्याशुगामिना ।
बालस्य रक्षता देहमेकैकं चारिशोधितम्

1.19.21

संशोषकं तथा वायुं दैत्येन्द्रस्त्विदमब्रवीत् ।
शीग्रमेष ममादेशाद्दुरात्मा नीयतां क्षयम्

1.19.22

तथेत्युक्त्वा तु सो ऽप्य् एनं विवेश पवनो लघु ।
शीतोतिरुक्षः शोषाय तद्देहस्यातिदुः सहः

1.19.23

तेनाविष्टमथात्मानं स बुद्ध दत्यबालकः ।
हृदयेन महात्मानं दधार धरणीधरम्

1.19.24

हृदयस्थस्ततस्तस्य तं वायुमति भीषणम् ।
पपौ जनार्धनः क्रुद्धः स ययौ पवनः क्षयम्

1.19.25

क्षीणासु सर्वमायासु पवने च क्षयं गते ।
जगाम सो ऽपि भवनं कुरोरेव महामतिः

1.19.26

अहन्यहन्यथाचार्यो नीतिं राज्यफलप्रदाम् ।
ग्राहयामास तं बालं राज्ञामुसनसा कृताम्

1.19.27

गृहीतनीतिशास्त्रं तं विनीतं च यदा गुरुः ।
मेने तदैनं तत्पित्रे कथयामास शिक्षितम्

1.19.28

आचार्य उवाच
गृहीतनीतिशास्त्रस्ते पुत्रो दैत्यपते कृतः ।
प्रह्लादस्तत्त्वतो वेत्ति भार्गवेण यदीरितम्

1.19.29

हिरण्यकशिपुर् उवाच
मित्रेषु वर्तेत कथमरिवर्गेषु भूपतिः ।
प्रह्लाद त्रिषु लोकेषु मध्यस्थेषु कथं चरेत्

1.19.30

कथं मन्त्रि ष्वमात्येषु बाह्योष्वाभ्यन्तरेषु च ।
चारेषु पौरवर्गेषु शङ्कितेष्वितरेषु च

1.19.31

कृत्याकृत्यविधानञ्च दुर्गाटविकसाधनम् ।
प्रह्लाद कथ्यतां सम्यक् तथा कण्टकशोधनम्

1.19.32

एतच्चान्यच्च सकलमधीतं भवता यथा ।
तथा मे कथ्यतां ज्ञातुं तवेच्छामि मनोगतम्

1.19.33

श्रीपराशर उवाच
प्रणिपत्य पितुः पादौ तदा प्रश्रयभूषणः ।
प्रह्लादः प्राह दैत्येन्द्रं कृताञ्जलिपुटस् तथा

1.19.34

प्रह्लाद उवाच
ममो पदिष्टं सकलं गुरुमा नात्र संशयः ।
गृहीतन्तु मया किन्तु न सदेतन्मतंमम

1.19.35

साम चोपप्रदानं च भेददण्डौ तथापरौ ।
उपायाः कथिताः सर्वे मित्रादिनां च साधने

1.19.36

परमात्मनि गोविन्दे मित्रादींस्तात मा क्रुद्धः ।
साध्याभावे महाबाहो साधनैः किं प्रयोजनम्
सर्वभूतात्मके तात जगन्नाथे जगन्मये ।
परमात्मनि गोविन्दै मित्रादींस्तात मा क्रुद्धः ।
साध्याभावे महाबाहो साधनैः किं प्रयोजनम्

1.19.37

सर्वबूतात्मके तात जगन्नाथे जगन्मये ।
परमात्मनि गोविन्दे मित्रामित्रकथा कुतः

1.19.38

त्वाय्यस्ति भगवान् विष्णुर्मयि चान्यत्र चास्ति सः ।
यतस्ततोयं मित्रं मे शत्रुश्चेति पृथक्तुतः

1.19.39

तद् एभिर् अलम् अत्यर्थं दुष्टारम्भोक्तिविस्तरैः ।
अविद्यान्तर्गतैर् यत्नः कर्तव्यस्तात शोभेने

1.19.40

विद्याबुद्धिरविद्यायामज्ञानान्तात जायते ।
बालो ऽग्निं किं न खद्योतम् असुरेश्वर मन्यते

1.19.41

तत्कर्म यन् न बन्धाय सा विद्या या विमुक्तये ।
आयासायापरं कर्म विद्यान्या शिल्पनैपुणम्

1.19.42

तदेतदवगम्याहमसारं सारमुत्तमम् ।
निशामय महाभाग प्रणिपत्य ब्रवीमि ते

1.19.43

न चिन्तयति को राज्यं को धनं नाभिवाञ्छति ।
तथापि भाव्यमेवैतदुभयं प्राप्यते नरैः

1.19.44

सर्व एव महाभाग महत्त्वं प्रति सोद्यमाः ।
तथापि पुंसां भग्यानि नोद्यमा भूतिहेतवः

1.19.45

जडानामविवेकानामशूराणमपि प्रभो ।
भाग्यभोज्यानि राज्यानि सन्त्यनीतिमतामपि

1.19.46

तस्माद्यतेत पुण्येषु य इच्छेन्महतीं श्रियम् ।
यतितव्यं समत्वे च निर्वाणमपि चेच्छता

1.19.47

देवा मनुष्याः पशवः पक्षिवृक्षसरीसृपाः ।
रूपमेतदनन्तस्य विष्णोर् भिन्नम् इव स्थितम्

1.19.48

एतद्विजानता सर्वं जगत्स्थावरजङ्गमम् ।
द्रष्टव्यमात्मवद्विष्णुर् यतो ऽयं विश्वरूपधृक्

1.19.49

एवं ज्ञाते स भगवाननादिः परमेश्वरः ।
प्रसीदत्यच्युतस्तस्मिन्प्रसन्ने क्लेशसंक्षयः

1.19.50

श्रीपराशर उवाच
एतच्छ्रुत्वा तु कोपेन समुत्थाय वरासनात् ।
हिरण्यकशिपुः पुत्रं पदा वक्षस्यताडयत्

1.19.51

उवाच च स कोपेन सामर्षः प्रज्यलन्निव ।
निष्पिष्य पाणिना पिणिं हन्तुकामो जगद्यथा

1.19.52

हिरण्यकशिपुर् उवाच
हे विप्रचित्ते हे राहो हे बलैष महार्णवे ।
नागापाशैर् दढैर् बद्धा क्षिप्यतां मा विलंब्यताम्

1.19.53

अन्यथा सकला लोकास् तथा दैतेयदानवाः ।
अनुयास्यन्ति मूढस्य मतमस्य दुरात्मनः

1.19.54

बहुशो वारि तोस्माभिर् अयं पापस्तथाप्यरेः ।
स्तुतिं करोति दुष्टानां वध एवोपकारकः

1.19.55

पराशर उवाच
ततस्ते सत्वरा दैत्या बद्धा तं नागबन्धनैः ।
भर्तुराज्ञां पुरस्कृत्य चिक्षिपुः सलिलार्णवे

1.19.56

ततश्चचाल चलता प्रह्लादेन महार्णवः ।
उद्वेलोभूत्परं क्षोभमुपेत्य च सम न्ततः

1.19.57

भुर्लोकमखिलं दृष्ट्वा प्लाव्यमानं महाम्भसा ।
हिरण्यकशिपुर्दैत्यानिदमाह माहमते

1.19.58

हिरण्यकशिपुर् उवाच
दैतेयाः सकलैः शैलैर् अत्रैव वरुणालये ।
निश्छिद्रैः सर्वशः सर्वैश् चीयतामेष दुर्मतिः

1.19.59

नाग्निर्दहति नैवायं शस्त्रैश् छिन्नो न चोरगैः ।
क्षयं नीतो न वातेन न विषेण न कृत्यया

1.19.60

न मायाभिर् न चैवोच्चत्पातितो न च दिग्गजैः ।
बालोतिदुष्टचित्तोयं नानेनार्थोस्ति जीवता

1.19.61

तदेष तोयमध्ये तु समाक्रान्तो महीधरैः ।
तिष्ठत्वब्दसहस्रान्तं प्राणान्हास्यति दुर्मतिः

1.19.62

ततो दैत्यादानवाश् च पर्वतैस् तं महोदधौ ।
आक्रम्य चयनं चक्रुर्योजनानि सहस्रशः

1.19.63

स चितः पर्वतेरन्तः समुद्रस्य महामतिः ।
तुष्टावाह्निक वेलायामेकाग्रमतिरच्युतम्

1.19.64

प्रह्ला उवाच
नमस्ते पुण्डरीकाक्ष नमस्ते पुरुषोत्तम ।
नमस्ते सर्वलोकात्मन्नमस्ते तिग्मचक्रिणे

1.19.65

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमोनमः

1.19.66

ब्रह्मत्वे सृजते विश्वं स्थितौ पालयते पुनः ।
रुद्ररूपाय कल्पान्ते नमस्तुभ्यं त्रिमूर्तये

1.19.67

देवा यक्षाः सुराः सिद्धा नागा गन्धर्वकिन्नराः ।
पिशाचा राक्षसाश्चैव मनुष्याः पशवस् तथा

1.19.68

पक्षिणस्थावराश्चैव पिपीलिकसरीसृपाः ।
भूम्यापोग्निर्नभोवायुः शब्दः स्पर्शस् तथा रसः

1.19.69

रूपं गन्धो मनो बुद्धिरात्मा कालस् तथा गुणाः ।
एतेषां परमार्थश् च सर्वमेतत्त्वमच्युत

1.19.70

विद्याविद्ये भवान्सत्यमसत्यं त्वं विषामृते ।
प्रवृत्तं च निवृत्तं च कर्म वेदोदितं भवान्

1.19.71

समस्तकर्मभोक्ता च कर्मोपकरणानि च ।
त्वमेव विष्णो सर्वाणि सर्वकर्मफलं च यत्

1.19.72

मय्यन्यत्र तथान्येषु भूतेषु भुवनेषु च ।
तवैवाव्याप्तिरैश्वर्यगुणसंसूचिकी प्रभो

1.19.73

त्वां योगिनश्चिन्तयन्ति त्वां यजन्ति च याजकाः ।
हव्यकव्यभुगेकस्त्वं पितृदेवस्वरूपधृक्

1.19.74

रूपं महत्ते स्थितमत्र विश्वं ततश् च सूक्ष्मं जगदेतदीश ।
रूपामि सर्वाणि च भूतभेदास्तेष्वन्तरात्माख्यमतीव सूक्ष्मम्

1.19.75

तस्माच्च सूक्ष्मादिविशेषणानामगोचरे यत्परमात्मरूपम् ।
किमप्यचिन्त्यं तव रूपमस्ति तस्मै नमस्ते पुरुषोत्तमाय

1.19.76

सर्वभूतेषु सर्वात्मन्या शक्तिरपरा तव ।
गुणाश्रया नमस्तस्यै शाश्वतायै सुरेश्वर

1.19.77

यातीतगोचरा वाचां मनासां चाविशेषणा ।
ज्ञानिज्ञानपरिच्छेद्य तां वन्दे स्वेश्वरीं पराम्

1.19.78

ओं नमो वासुदेवाय तस्मै भगवते सदा ।
व्यतिरिक्तं न यस्यास्ति व्यतिरिक्तोखिलस्य यः

1.19.79

नमस्तस्मै नमस्तस्मै नमस्तस्मै महात्मने ।
नाम रूपं न यस्यैको योस्तित्वेनोपलभ्यते

1.19.80

यस्यावताररूपामि समर्चन्ति दिवौकसः ।
अपश्यन्तः परं रूपं नमस्तस्मै महात्मने

1.19.81

योन्तस्तिष्ठन्नशोषस्य पश्यतीशः शुभाशुभम् ।
तं सर्वसाक्षिणं विश्वं नमस्ये परमेश्वरम्

1.19.82

नमोस्तु विष्णवे तस्मै यस्या भिन्नमिदं जगत् ।
ध्येयः स जगतामाद्यः स प्रसीदतु मे ऽव्ययः

1.19.83

यत्रोतमेतत्प्रोतं च विश्वमक्षरमव्ययम् ।
आधारभूतः सर्वस्य स प्रसीदतु मे हरिः

1.19.84

ओं नमो विष्णवे तस्मै नमस्तस्मै पुनः पुनः ।
यत्र सर्वं यतः सर्वं यः सर्वं सर्वसंश्रयः

1.19.85

सर्वगत्वादनन्तस्य स एवाहमवस्थितः ।
मत्तः सर्वमहं सर्वं मयि सर्वं सनातने

1.19.86

अहमेवाक्षयो नित्यः परमात्मात्मसंश्रयः ।
ब्रह्मसंज्ञो ऽहमेवाग्रे तथान्ते च परः पुमान्

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc