भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 1.1

1.1.0

अथ श्रीविष्णुमहापुराणं विष्णुचित्त्यात्मप्रकाशाख्यश्रीधरीय व्याख्याद्वयोपेतं प्रारभ्यते
श्रीमते रामानुजाय नमः
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीव्यासं ततो जयमुदीरयेत्

1.1.1

श्रीसूत उवाच
ओं पराशरं मुनिवरं कृतपौर्वाह्निकक्रियम् ।
मैत्रेयः परिपप्रच्छ प्रणिपत्याभिवाद्य च

1.1.2

त्वत्तो हि वेदाध्ययनम् अधीतम् अखिलं गुरो ।
धर्मशास्त्राणि सर्वाणि तथाङ्गानि यथाक्रमम्

1.1.3

त्वाप्रसादान् मुनिश्रेष्ट मामन्ये नाकृतश्रमम् ।
वक्ष्यन्ति सर्वशास्त्रेषु प्रयशो येपि विद्विषः

1.1.4

सोहमिच्छामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत् ।
बभूव भूयश् च यथा महाभाग भविष्यति

1.1.5

यन्मयं च जगद्ब्रह्मन्यतश्चौतच्चराचरम् ।
लीनमासीद्यथा यत्र लयमेष्यति यत्र च

1.1.6

यत्प्रमाणानि भूतानि देवादीनां च संभवम् ।
समुद्रपर्वतानां च संस्थानं च यथा भुवः

1.1.7

सूर्यादीनां च संस्थानं प्रमाणं मुनिसत्तम ।
देवादीनां तथा वंशान्मनून्मन्वन्तराणिच

1.1.8

कल्पान् कल्पविभागांश् च चातुर्युगविकल्पितान् ।
कल्पान्तस्य स्वरूपं च युगधर्मांश् च कृत्स्नशः

1.1.9

देवर्षिपार्थिवानां च चरितं यन्महामुने ।
वेदशाखाप्रणयनं यथावव्द्यासकर्तृकम्

1.1.10

धर्मांश् च ब्रह्मणादीनां तथा चाश्रमवासिनाम् ।
श्रेतुमिच्छाम्यहं सर्वं त्वत्तो वासिष्ठनन्दन

1.1.11

ब्रह्मन्प्रसादप्रवणं कुरुष्व मयि मानसम् ।
येनाहमेतज्जानीयां त्वत्प्रसादान्महामुने

1.1.12

श्रीपराशर उवाच
साधु मैत्रेय धर्मज्ञ स्मारितोस्मि पुरातनम् ।
पितुः पिता मे भगवान् वसिष्ठो यदुवाच ह

1.1.13

विश्वामित्रपुयुक्तेन रक्षसा भक्षितः पुरा ।
श्रुतस्तातस्ततः क्रोधे मैत्रेयाभून्ममातुलः

1.1.14

ततो ऽहं रक्षसां सत्रं विनाशाय समारभम् ।
भस्मी भूताश् च शतशस्तस्मिन्सत्रे निशाचराः

1.1.15

ततः संक्षीयमाणेषु तेषु रक्षस्वशेषतः ।
मामुवाच महाभागो वसिष्ठी मत्पितामहः

1.1.16

अलमत्यन्तकोपेन तात मन्युमिमं जहि ।
राक्षसा नापराध्यन्ति पितुस् ते विहितं हि तत्

1.1.17

मूढानामेव भवति क्रोधो ज्ञानवतां कुतः ।
हन्यते तात कः केन यतः स्वकृतभुक्पुमान्

1.1.18

सञ्चिचस्यापि महता वत्स क्लेशेन मानवैः ।
यशसस्तपसश्चैव क्रोधो नाशकरः परः

1.1.19

स्वर्गापवर्गव्यासेधकारणं परमर्षयः ।
वर्जयन्ति सदा क्रोधं तात मा तद्वशो भवः

1.1.20

अलं निशाचरैर् धग्धैर् दीनैर् अनपकारिभिः ।
सत्रं ते विरमत्वेतत्क्षमासारा हि साधवः

1.1.21

एवं तातेन तेनाहमनुनीतो महात्मना ।
उपसंहृतवान्सत्रं सद्यस्तद्वाक्यगौरवात्

1.1.22

ततः प्रीतः स भगवान्वसिष्ठो मुनिसत्तमः ।
संप्राप्तश् च तदा तत्र पुलस्त्यो ब्रह्मणः सुतः

1.1.23

पितामहेन दत्तर्घ्यः कृतासनपरिग्रहः ।
मामुवाच महाभागो मैत्रेय पुलहाग्रजः

1.1.24

पुलास्त्य उवाच
वैरे महति यद्वाक्याद्गुरोरद्याश्रिता क्षमा ।
त्वया तस्मात्समस्तानि भवाञ्शास्त्राणि वेत्स्यति

1.1.25

संततेर्न ममोच्छेदः क्रुद्धेनापि यतः कृतः ।
त्वया तस्मान्महाभाग ददाम्यन्यं महावरम्

1.1.26

पुराणसंहिताकर्त भवान्वत्स भविष्यति ।
देवतापारमार्थ्यं च यथावद्वेत्स्यते भवान्

1.1.27

प्रवृत्ते च निवृत्ते च कर्मण्यस्तमला मतिः ।
मत्प्रसादादसंदिग्धा तव वत्स भविष्यति

1.1.28

ततश् च प्राह भगवान्वसिष्ठो मे पितामहः ।
पुलस्त्येन यदुक्तं ते सर्वमेतद्भविष्यति

1.1.29

इति पूर्वं वसिष्ठेन पुलस्त्येन च धीमता ।
यदुक्तं तत्स्मृतिं याति त्वत्प्रश्रादखिलं मम

1.1.30

सो ऽहं वदाम्यशेषं ते मैत्रेय परिपृच्छते ।
पुरामसंहितां सम्यक् तां निबोध यथातथम्

1.1.31

विष्णोः सकाशादुद्भुतं जतत्तत्रैव च स्थितम् ।
स्थितिसंयमकर्तासौ जगतोस्य जगच्च सः

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc