भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 1.18

1.18.1

इति श्रीविष्णुपुराणे प्रथमे ऽंशे प्रह्लादानुचरितं नाम सप्तदशोध्यायः (17)
श्रीपारशर उवाच
तस्यैतां दानवाश्चेष्टां दृष्ट्वा दैत्यपतेर्भयात् ।
आचचख्युः स चोवाच सूदानाहूय सत्वरः

1.18.2

हिरण्यकशिपुर् उवाच
हे सूदाःमम पुत्रोसावन्योषामपि दुर्मतिः ।
कुमार्गदेशिको दुष्टो हन्यतामविलम्बितम्

1.18.3

हालाहलं विषं तस्य सर्वभक्षेषु दीयताम् ।
अविज्ञातमसौ पापो हन्यतां मा विचार्यताम्

1.18.4

श्रीपराशर उवाच
ते तथैव ततश्चक्रुः प्रह्लादाय महात्मने ।
विषदानं यथाज्ञाप्तं पित्रा तस्य महात्मनः

1.18.5

हालाहलं विषं घोरमनन्तोच्चारणेन सः ।
अभिमन्त्र्य सहान्नेन मैत्रेय बुभुजे तदा

1.18.6

अविकारं स तद्भुक्त्वा प्रह्लादः स्वस्थमानसः ।
अनन्तख्यातिनिर्विर्यजरयामास तद्विषम्

1.18.7

ततः सूदा भयत्रस्ता जीर्णं दृष्ट्वा महद्विषम् ।
दैत्येश्वरमुपागम्य प्रणिपत्येदमब्रुवन्

1.18.8

सूदा ऊचुः
दैत्यराज विषं दत्तमस्माभिर् अतिभीषणम् ।
जीर्णं तेन सहान्नेन प्रह्लाहेन सुतेन ते

1.18.9

हिरण्यकशिपुर् उवाच
त्वर्यतां त्वर्यतां हे हे सद्यो दैत्यपुरोहिताः ।
कृत्यां तस्यविनाशाय उत्पादयत मा चिरम्

1.18.10

श्रीपराशर उवाच
सकाशमागम्य ततः प्रह्लादस्य पुरोहिताः ।
सामपूर्वमथोचुस्ते प्रह्लादं विनयान्वितम्

1.18.11

पुरोहिता ऊचुः
जातस्त्रैलोक्यविख्यात आयुष्मन्ब्रह्मणः कुले ।
दैत्यराजस्य तनयो हिरण्यकशिपोर्भवात्

1.18.12

किन्देवैः किमनन्तेन किमन्येन तवाश्रयः ।
पिता ते सर्वलोकानां त्वं तथैव भविष्यसि

1.18.13

तस्मात्परित्यजैनां त्वं विपक्षस्तवसंहिताम् ।
श्लाघ्यः पिता समस्तानां गुरूणां परमो गुरुः

1.18.14

प्रह्लाद उवाच
एवम् एतन् महाभागाः श्लाघ्यमेतन्महाकुलम् ।
मरिचेः सकलेप्यस्मिन् त्रैलोक्ये ना न्याथा वदेत्

1.18.15

पिता च मम सर्वास्मिञ्जगत्युक्तृष्टचेष्टितः ।
एतदप्यवगच्छामि सत्यमत्रापि नानृतम्

1.18.16

गुरूणामपि सर्वेषां पिता परमको गुरुः ।
यदुक्तं भ्रान्तिस्तत्रापि स्वल्पापि हि न विद्यते

1.18.17

पिता गुरुर्न सन्देहः पूजनीयः पूयत्नतः ।
तत्रापि नापराध्यामीत्येवं मनसि से स्थितम्

1.18.18

यत्त्वेतत्किमनन्तेनेत्युक्तं युष्माभिर् इदृसम् ।
को ब्रवीति यथान्याय्यं किं तु नैतद्वचोर्थवत्

1.18.19

इत्युक्त्वा सो ऽभवन्मौनी तेषां गोरवयन्त्रितः ।
प्रहस्य च पुनः प्राह किमनन्तेन साध्विति

1.18.20

साधु भोः किमनन्तेन साधु भो गुरुवो मम ।
श्रूयतां यदनन्तेन यदि खेदं न यास्यथ

1.18.21

धर्मार्थकाममोक्षाश् च पुरुषार्था उदाहृताः ।
चतुष्टयमिदं यस्मात्तस्माक्तिं किमिदं वच

1.18.22

मरीचिमिश्रैर् दक्षाद्यैस् तथैवान्यैर् अनन्ततः ।
धर्म प्राप्तस् तथा चान्यैर् अर्थः कामस्तथापरैः

1.18.23

तन्तत्त्ववेदिनो भूत्वा ज्ञानध्यानसमाधिभिः ।
अवापुर्मुक्तिमपरे पुरुषा ध्वस्तबन्धनाः

1.18.24

सम्पदैश्वर्यमाहात्म्य-ज्ञानसंततिकर्मणाम् ।
विमुक्तेश्चैकतो लभ्यं मूलमाराधनं हरेः

1.18.25

यतो धर्मार्थकामाख्यं मुक्तिश्चपि फलं द्विजाः ।
तेनापि किङ्किमित्येवमनन्तेन किमुच्यते

1.18.26

किं चापि बहुनोक्तेन भवन्तो गुरवो मम ।
वदन्तु साधु वासाधु विवेको ऽस्माकम् अल्पकः

1.18.27

बहुनात्र किमुक्तेन स एव जगतः पतिः ।
स कर्ता च विकर्ता च संहर्ता च हृदि स्थितः

1.18.28

स भोक्ता भोज्यमप्येवं स एव जगदीश्वरः ।
भवद्भिर् एतत्क्षन्तव्यं बाल्यादुक्तं तु यन्मया

1.18.29

पुरोहिता ऊचुः
दह्यमानस्त्वमस्माभिर् अग्निना बाल रक्षितः ।
भूयो न वक्ष्यसीत्येवं नैव ज्ञातोस्यबुद्धिमान्

1.18.30

यदास्मद्वचनान्मोहग्राहं न त्यक्षते भवान् ।
ततः कृत्यां विनाशाय तव सृक्ष्याम दुर्मते

1.18.31

प्रह्लाद उवाच
कः केन हन्यते जन्तुर् जन्तुः कः केन रक्ष्यते ।
हन्ति रक्षति चैवात्मा ह्यसत्साधु समाचरन्

1.18.32

कर्मणा जायते सर्वं कर्मैव गतिसाधनम् ।
तस्मात्सर्वप्रयत्नेन साधु कर्म समाचरेत्

1.18.33

श्रीपराशर उवाच
इत्युक्तास्तेन ते क्रुद्धा दैत्यराजपुरोहिताः ।
कृत्यामुत्पादयामासुर्ज्वालामालोज्ज्वलाकृतिम्

1.18.34

अतिभीमा समागम्य पादन्यासक्षतक्षितिः ।
शुलेन साधु संक्रुद्धा तं जघानाशु वक्षसि

1.18.35

तत्तस्य हृदयं प्राप्य शूलं बालस्य दीप्तिमत् ।
जगाम खण्डितं भूमौ तत्रापि शतधा गतम्

1.18.36

यत्रानपायी भगवान् हृद्यास्ते हरिरिश्वरः ।
भङ्गो भवति वज्रस्य तत्र शूलस्य का कथा

1.18.37

आपापे तत्र पापैश् च पातिता दैत्यायाजकैः ।
तानेव सा जघानाशु कृत्या नाशं जगाम च

1.18.38

कृत्यया दह्यमानांस्तन्विलोक्य स महामतिः ।
त्राहि कृष्णेत्यनन्तेति वदन्नभ्यवपद्यत

1.18.39

प्रह्लाद उवाच
सर्वव्यापिन् जगद्रूप जगत्स्त्रष्टर्जनार्दन ।
पाहि विप्रानिमानस्माद्दुः सहान्मन्त्रपावकात्

1.18.40

यथा सर्वेषु भूतेषु सर्वव्यापी जगद्गुरुः ।
विष्णुरेव तथा सर्वे जीवन्त्वेते पुरोहिताः

1.18.41

यथा सर्वगतं विष्णुं मन्यमानोनपायिनम् ।
चिन्तयाम्यरिपक्षेपि जीवन्त्वेते पुरोहिताः

1.18.42

ये हन्तुमागता दत्तं योर्विषं यैर् हुताशनः ।
यैर् दिग्गजैर् अहं क्षुण्णो दष्टः सर्पैश् च यैर् अपि

1.18.43

तेष्वहं मित्रभावेन समः पापोस्मि न क्वचित् ।
यथा तेनाद्य सत्येन जीवन्त्वसुरयाजकाः

1.18.44

श्रीपराशर उवाच
इत्युक्तास्तेन ते सर्वे संस्पृष्टाश् च निरामयाः ।
समुत्तस्थुर्द्विजा भूयस्तमूचुः प्रश्रयान्वितम्

1.18.45

पुरोहिता ऊचुः
दीर्घायुरप्रतिहतो बलवीर्यसमन्वितः ।
पुत्रपौत्रधनश्वैर् यैर् युक्तो वत्स भवोत्तमः

1.18.46

श्रीपराशर उवाच
इत्युक्त्वा तं ततो गत्वा यथावृत्तं पुरोहिताः ।
दैत्यराजाय सकलमाचचख्युर्महामुने

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc