विष्णु पुराण · अध्याय 1.17
इति श्रीविष्णुपुराणे प्रथमे ऽंशे षोडशो ऽध्यायः (16)
श्रीपराशर उवाच
मैत्रेय क्षूयतां सम्यक् चरितं तस्य धीमतः ।
प्रह्लादस्य सदोदारचरितस्य महात्मनः
दितेः पुत्रो महावीर्यो हिरण्यकशिपुः पुरा ।
त्रैलोक्यं वशमानिन्ये ब्रह्मणो वरदर्पितः
इन्द्रत्वमकरोद्दैत्यः स चासीत्सविता स्वयम् ।
वायुरग्निरपां नाथः सोमश्चाभून्महासुरः
धनानामधिपः सो ऽभूत् स एवासीत्स्वयं यमः ।
यज्ञभागानशेषांस्तु स स्वयं बुभुजे ऽसुरः
देवाः स्वर्गं परित्यज्य तर्त्रासान् मुनिसत्तम ।
विचेरुरवनौ सर्वे बिभ्राणा मानुषीं तनुम्
जित्वा त्रिभुवनं सर्वं त्रैलोक्यैश्वर्यदर्पितः ।
उपगीयमानो गन्धर्वैर् बुभुजे विषयान्प्रियान्
पानासक्तं महात्मानं हिरण्यकशिपुं तदा ।
उपासांचक्रिरे सर्वे सिद्धगन्धर्वपन्नगाः
अवादयन् जगुश्चान्ये जयशब्दं तथापरे ।
दैत्यराजस्य पुरतश्चक्रुः सिद्धा मुदान्विताः
तत्र प्रनृत्तप्सरसि स्फाटिकाभ्रमये ऽसुरः ।
पपौ पानं मुदा युक्तः प्रासादे सुमनोहरे
तस्य पुत्रो महाभागः प्रह्लादो नाम नामतः ।
पपाठ बालपाठ्यानि गुरुगेहङ्गतोर्ऽभकः
एकदा तु स धर्मात्मा जगाम गुरुणा सह ।
पानासक्तस्य पुरतः पुतुर्दैत्यपतेस्तदा
पादप्रणामावनतं तमुत्थाप्य पिता सुतम् ।
हिरण्यकशिपुः प्राह प्रह्लादममितौजसम्
हिरण्यकशिपुर् उवाच
पठ्यतां भवता वत्स सारभूतं सुभाषितम् ।
कालेनैतावता यत्ते सदोद्योक्तेन शिक्षितम्
प्रह्लाद उवाच
श्रूयतां तात वक्ष्यामि सारभूतं तवाज्ञया ।
समाहितमना भूत्वा यन्मे चेतस्यवस्थितम्
अनादिमध्यान्तमजमवृद्धिक्षयमच्युतम् ।
प्रणतोस्म्यन्तमन्तानं सर्वकारणकारणम्
श्रीपराशर उवाच
एतन्निशम्य दैत्येन्द्रः सकोपो रक्तलोचनः ।
विलोक्य तद्गुरुं प्राह स्फुरिताधरपल्लवः
हिरण्यकशिपुरुवाच
ब्रह्मबन्धो किमेतत्ते विपक्षस्तुतिसंहितम् ।
असारं ग्राहितो बालो मामवज्ञाय दुर्मते
गुरुरुवाच
दैत्येश्वर न कोपस्य वशमागन्तुमर्हसि ।
ममोपदेशजनितंनायं वदति ते सुतः
हिरण्यकशिपुरुवाच
अनुशिष्टोसि केनेदृग्वत्स ब्रह्लाद कथ्यताम् ।
मयोपदिष्टं नेत्येष प्रब्रवीति गुरुस्तव
प्रह्लाद उवाच
शास्ता विष्णुरशेषस्य जगतो यो हृदि स्थितः ।
तमृते परमात्मानं तात कः केन शास्यते
हिरण्यकशिपुर् उवाच
कोयं विष्णुः सुदुर्बुद्धे यं ब्रवीषि पुनः पुनः ।
जगतामीश्वरस्येह पुरतः प्रसभ मम
प्रह्लाद उवाच
न शब्दगोचरे यस्य योगिध्येयं परं पदम् ।
यतो यश् च स्वयं विश्वं स विष्णुः परमेश्वरः
हिरण्यकशिपुर् उवाच
परमेश्वरसंज्ञोज्ञ किमन्यो मय्यवस्थिते ।
तथापि मर्तुकामस्त्वं प्रब्रवीषि पुनः पुनः
प्रह्लाद उवाच
न केवलं तात मम प्रजानां स ब्रह्मभूतो भवतश् च विष्णुः ।
धाता विधाता परमेश्वरश् च प्रकीद कोपं कुरुषे किमर्थम्
हिरण्यकशिपुर् उवाच
प्रविष्टः को ऽस्य हृदये दुर्बुद्धेरतिपापकृत् ।
येनेदृशान्यसाधूनि वदत्याविष्टमानसः
प्रह्लाद उवाच
न केवलं मद्धृदयं स विष्णुराक्रम्य ललोकानखिलानवस्थितः ।
स मां त्वदान्दीश् च पितःसमस्तान्समस्तचेष्टासु युनक्ति सर्वगः
हिरण्यकिशिपुर् उवाच
निष्कास्यतामयं पापः शास्यतां च गुरोर्गृहे ।
योजितो दुर्मतिः केन विपक्षविषयस्तुतौ
श्रीपारशर उवाच
इत्युक्तो ऽसौ तदा दैत्यैर् नीतो गुरुगृहं पुनः ।
जग्राह विद्यमनिशं गुरुशुश्रूषणोद्यतः
कालोतीतेति महति प्रह्लादमसुरेश्वरः ।
समाहूयाब्रवीद्राथा काचित्पुत्रक गीयताम्
प्रह्लाद उवाच
यतः प्रधानपुरुषौ यतश्चैतच्चराचरम् ।
कारणं सकलस्यास्य स नो विष्णुः प्रसीदतु
हिरण्यकशिपुर् उवाच
दुरात्मा वध्यतामेष नानेनार्थोस्ति जीवता ।
स्वपक्षहानिकर्तृत्वाद्यः कुलाङ्गारतां गतः
श्रीपराशर उवाच
इत्याज्ञप्तास्ततस्तेन प्रगृहीतमहायुधाः ।
उद्यतास्तस्य नाशाय दैत्याः शतसहस्रशः
प्रह्लाद उवाच
विष्णुः शस्त्रेषु युष्मासु मयि चासौ व्यवस्थितः ।
दैतेयास्तेन सत्येन माक्रमन्त्वायुधानि मे
श्रीपराशर उवाच
ततस्तैः शतशो दैत्यैः शस्त्रोघैर् आहतोपि सन् ।
नावाच वेदनामल्पामभूच्चैव पुनर्नवः
हिरण्यकशिपुर् उवाच
दुर्बुद्धे विनिवर्तस्व वैरिपक्षस्तवाहतः ।
अभयं ते प्रयच्छामि मातिमूढमतिर्भव
प्रह्लाद उवाच
भयं भयानामपहारिण स्थिते मनस्यनन्ते मम कुत्र तिष्ठति ।
यस्मिन्स्मृते जन्मजरान्तकादिभयानि सर्वाम्यपयान्ति तात
हिरण्यकशिपुर् उवाच
भोभोः सर्पाः दुराचारमेनमत्यन्तदुर्मतिम् ।
विषज्वालाकुलैर् वक्रैः सद्यो नयतः संक्षयम्
श्रीपराशर उवाच
इत्युक्तास्ते ततः सर्पाः कुहकास्तक्षकादयः ।
अदशन्त समस्तेषु गात्रेष्वतिविषोल्बणाः
स त्वासक्तमतिः कृष्णे दश्यमानो महोरगैः ।
न विवेदात्मनो गात्रं तत्स्मृत्याह्लादसुस्थितः
सर्पा ऊचुः
दंष्ट्रा विशीर्णा मण्यः स्फुटन्ति फणेषु तापो हृदयेषु कंपः ।
नास्य त्वचः स्वल्पमपीह भिन्नं प्रसाधि दैत्येश्वर कार्यमन्यत
हिरण्यकशिपुर् उपाच
हे दिग्गाजाः संकटदन्तमिश्र घ्नतैनमस्मद्रिपुपक्षभिन्नम् ।
तज्जा विनाशाय भवन्ति तस्य यथारणेः प्रज्वलितो हुताशः
श्रीपराशर उवाच
ततः स दिग्गजैर् बालो भूभृच्छिखरसन्निभैः ।
पातितो धरणीपृष्ठे विषाणैर् वावपीडितः
स्मरतस्तस्य गोविन्दमिभदन्ताः सहस्रशः ।
शीर्णा वक्षस्थलं प्राप्य स प्राह पितरं ततः
दन्ता गजानां कुलिशाग्रनिष्ठुराझ शीर्णा यदेतेन बलं ममैतत् ।
महाविपत्तापविनाशनो ऽयं जनार्दनानुस्मरणानुभावः
हिरण्यकशिपुर् उवाच
ज्वाल्यतामसुरा बह्निरपसर्पत दिग्गजाः ।
वायो समेधयाग्निं त्वं दह्यतामेष पापकृत्
श्रीपराशर उवाच
महाकाष्ठचयस्थं तमसुरेन्द्रसुतं ततः ।
प्रज्वाल्य दानवा वह्निं ददहुः स्वामिनोदिताः
प्रह्लाद उवाच
तातैष वह्निः पवनेरितोपि न मां दहत्यत्र समन्ततोहम् ।
पश्यामि पद्मास्तरणास्तृतानि शीतानि सर्वाणि दिशां मुखानि
श्रीपराशर उवाच
अथ दैत्येश्वरं प्रोचुर्भार्गवस्यात्मजा द्वाजाः ।
पुरोहिता महात्मानः साम्ना संस्तूय वाग्मिनः
पुरोहिता ऊचुः
राजन्नियम्यतां कोपो बालेपि तनये निजे ।
कोपो देवनिकायेषु तेषु ते शपलो यतः
(ततः पुरोहितैर् उक्तो हिरण्यकशिपुः स्वकैः)
तथातथैनं बालं ते शासितारो वयं नृपः ।
यथा विपभनाशाय विनीतस्ते भविष्यति
बालत्वं सर्वदोषाणां दैत्यराजास्पदं यतः ।
ततोत्र कोपमत्यर्थं योक्तुमर्हसि नार्भके
न त्यक्ष्यति हरेः पक्षमस्माकं वचनाद्यदि ।
ततः कृत्यां वधायास्य करिष्यामो ऽनिवर्तिनीम्
श्रीपराशर उवाच
एवमभ्यर्थितस्तैस् तु दैत्यराजः पुरोहितैः ।
दैत्यैर् निष्कासयामास पुत्रं पावकसंचयात्
ततो गुरुगृहे वालः स वसन्बालदानवान् ।
अध्यापयामास मुहुरुपदेशान्तरे गुरोः
प्रह्लाद उवाच
श्रूयतां परमार्थो मे दैतेया दितिजात्मजाः ।
न चान्यथैतन्मन्तव्यं नात्र लोभादिकारणम्
जन्म बाल्यं ततः सर्वो जन्तुः प्राप्नोति यौवनम् ।
अव्याहतैव भवति ततोनुदिवसं जराः
ततश् च सृत्युमभ्येति जन्तुर्दैत्येश्वरात्मजाः ।
प्रत्यक्षं दृस्यते चैतदस्माकं भवतां तथा
मृतस्य च पुनर्जन्म भवत्येतच्च नान्यथा ।
आगमो ऽयं तथा यच्च नोपादानं विनोद्भवः
गर्भवासादि यावत्तु पुनर्जन्मोपपादनम् ।
सह स्तावस्थकं तावद्दुःखमेवावगम्यताम्
क्षुत्तृष्णोपशमं तद्वच् छीताद्युपशमं मुखम् ।
मन्यते बालबुद्धित्वाद्दुःखमेव हि तत्पुनः
अत्यन्तस्तिमिताङ्गानां व्यायामेन सुखैषिणाम् ।
भ्रान्तिज्ञानावृताक्षाणां दुःखमेव सुखायते
क्व शरीरमशेषाणां श्लेष्मादीनां महाचयः ।
क्व कान्तिशोभासौन्दर्यरमणीयादयो गुणाः
मांसासृक्पूयविण्मूत्रस्नायुमज्जास्थिसंहतौ ।
देहे चेत्प्रीतिमान् मूढो भविता नरकेप्यसौ
अग्नोः शीतेन तोयस्य तृषा भक्तस्य च क्षुधा ।
क्रियते सुखकर्तृत्वं तद्विलोमस्य चेतरैः
करोति हे दैत्यसुता यावन्मात्रं परिग्रहम् ।
तावन्मात्रं स एवास्य दुःखं चेतसि यच्छति
यावतः कुरुते जन्तुः सम्बन्धान्मनसः प्रियान् ।
तावन्तोस्य निखन्यन्ते हृदये शोकशङ्कवः
यद्यद्गृहे तन्मनसि यत्र तत्रावतिष्ठतः ।
नाशदाहोपकरणं तस्य तत्रैव तिष्ठति
जन्मन्यत्र महद्दुःखं म्रियमाणस्य चापि तत् ।
यातनासु यमस्योग्रं गर्भसंक्रमणेषु च
गर्भेषु सुखलोशोपि भवद्भिर् अनुमीयते ।
यदि तत्कथ्यतामेवं सर्वं दुःखमयं जगत्
तदेवमतिदुखानामास्पदेत्र भवार्मवे ।
भवतां कथ्यते सत्यं विष्णुरेकः परायणः
मा जानीत वयं बाला देही देहेषु शाश्वतः ।
जरायौवनजन्माद्य धर्मा देहस्य नात्मनः
बालोहं तावदिच्छातो यतिष्ये श्रेयसे युवा ।
युवाहं वार्धके प्राप्ते करिष्याम्यत्मनो हितम्
वृद्धो ऽहं मम कार्याणि समस्तानि न गोचरे ।
किं करिष्यामि मन्दात्मा समर्थेन न यत्कृतम्
एवं दुराशया क्षिप्तमानसः पुरुषः सदा ।
श्रेयसो ऽभिमुखं याति न कादाचित्पिपासितः
बाल्ये क्रिडनकासक्ता योवने विषयोन्मुखाः ।
अज्ञा नयन्त्यशक्त्या च वार्धकं समुपस्थितम्
तस्माद्बाल्ये विवेकात्मा यतेत श्रेयसे सदा ।
बाल्ययौवनवृद्वाद्यैर् देहभावैर् असंयुतः
तदेतद्वो मयाख्यातं यदि जानीत नानृतम् ।
तदस्मत्प्रीतये विष्णुः स्मर्यतां बन्धमुक्तिदः
प्रयासः स्मरणे कोस्य स्मृतो यच्छति शोभनम् ।
पापक्षयश् च भवति स्मरतां तमहर्निशम्
सर्वभूतस्थिते तस्मिन्मतिर्मैत्री दिवानिशम् ।
भवतां जायतामेवं सर्वक्लेशान्प्रहास्यथ
तापत्रयेणाभिहतं यदेतदखिलं जगत् ।
तदा शोच्येषु भूतेषु द्वेषं प्राज्ञः करोति कः
अथ भद्राणि भूतानि हीनशक्तिरहं परम् ।
मुदं तदापि कुर्वित हानिर्द्वेषफलं यतः
बद्धवैराणि भूतानि द्वेषं कुर्वन्ति चेत्ततः ।
सुशोच्यान्यतिमोहेन व्याप्तानीति मनीषिणाम्
एते भिन्नदृसां दैत्या विकल्पाः कथिता मया ।
कृत्वाभ्युपगमं तत्र संभेपः श्रूयतां मम
विस्तारः सर्वभूतस्य विष्णोः सर्वमिदं जगत् ।
द्रष्टव्यमात्मवत्तस्मादभेदेन विचक्षणैः
समुत्सृज्यासुरं भावं तस्माद्ययं यथा वयम् ।
तथा यत्नं करिष्यामो यथा प्राप्स्याम निर्वृतिम्
या नाग्निना न चार्केण नेन्दुना न च वायुना ।
पजन्यवरुणाभ्यां वा न सिद्धेर्न च साक्षसैः
न यक्षैर् न च दैत्येन्द्रैर् नोरगैर् न च किन्नरैः ।
न मनुष्यैर् न पशुभिर् दोषैर् नैवात्मसम्भवैः
ज्वाराक्षिरोगातीसारप्लीहगुल्मादिकैस् तथा ।
द्वेषोर्ष्यामत्सराद्यौर्वा रागलोभादिभिः क्षयम्
न चान्यैर् नीयते कैश्चिन्नित्या यात्यन्तनिर्मला ।
तामाप्नोत्यमलेन्यस्य केशवे हृदयं नरः
असारसंसारविवर्तनेषु मा यात तोषं प्रसभं ब्रवीमि ।
सर्वत्र दैत्याःसमतामुपैत समत्वमाराधनमच्युतस्य
तस्मिन्प्रसन्ने किमिहास्त्यलभ्यं धर्मार्थकामैर् अलमल्पकास्ते ।
समाश्रिताद्ब्रह्यतरोरनन्तान्निः संशयं प्राप्स्तथ वै महत्फलम्
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0