विष्णु पुराण · अध्याय 1.16
इतिश्रीविष्णुपुराणे प्रथमे ऽंशे पञ्चदशो ऽध्यायः (15)
श्रीमैत्रेय उवाच
कथितो भवता वंशो मानवानां महात्मनाम् ।
कारणं चास्य जगतो विष्णुरेव सनातनः
यत्त्वेतद्भगवानाह प्रह्लादं दैत्यसत्तमम् ।
ददाह नाग्निर्नास्त्रैश् च क्षुण्णस्तत्याज जीवितम्
जगाम वसुधा क्षोभं यत्राब्धिसलिले स्थिते ।
पाशौर्बद्धे विचलति विक्षिप्ताङ्गैः समाहता
शैलैर् आक्रान्तदेहोपि न ममार च यः पुरा ।
त्वाय चातीव माहात्म्यं कथितं यस्य धीमतः
तस्य प्रभावमतुलं विष्णोर्भक्तिमतो मुने ।
श्रोतुमिच्छामि यस्यैतच्चरितं दीप्ततेजसः
किंनिमित्तमसौ शस्त्रैर् विक्षिप्तो दितिजेमुन ।
किमर्थं चाब्धिसलिले विक्षिप्तो धर्मतत्परः
आक्रान्तः पर्वतैः कस्माद्दष्टश्चैव महोरगैः ।
क्षिप्तः किमद्रिशिखराक्तिं वा पावकसञ्चये
दिग्दन्तिनां दन्तभूमिं स च कस्मान्निरूपितः ।
सशोषकोनिलश्चास्य प्रयुक्तः किं महासुरैः
कृत्यां च दैत्यगुरवो युयुजुस् तत्र किं मुने ।
शम्बरश्चापि मायानां सहस्रं किं प्रयुक्तावान्
हालाहलं विषमहो दैत्यसूदैर् महात्मनः ।
कस्माद्दत्तं विनाशाय यज्जीर्णं तेन धीमता
एतत्सर्वं महाभाग प्रह्लादस्य महात्मनः ।
चरितं श्रोतुमिच्छामि महामाहात्म्यसूचकम्
न हि कौतूहलं तत्र यद्दैत्यौर्निहतो हि सः ।
अनन्यमनसो विष्णो कः समर्थो निपातने
तस्मिन्धर्मपरेनित्यं केशवाराधनोद्यते ।
स्ववंशप्रभवैर् दैत्यैः कृतो द्वेषोतिदुप्करः
धर्मात्मनि महाभागो विष्णुभक्ते विमत्सरे ।
दैतयैः प्रहृतं कस्मात्तन्ममाख्यातुमर्हसि
प्रहरन्ति महात्मानो विपक्षा अपि नेद्दशे ।
गुणैः समन्विते साधौ किं पुनर्यः स्वपक्षजः
तदेतत्कथ्यतां सर्वं विस्तरान्मुनिपुङ्गव ।
दैत्येश्वरस्य चारितं श्रोतुमिच्छाम्यशेषतः
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0