विष्णु पुराण · अध्याय 1.15
इति श्रीविष्णुपुराणे प्रथमे ऽंशे प्रचेतास्तवो नाम चतुर्दशो ऽध्यायः (14)
श्रीपराशर उवाच
तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः ।
अरक्ष्यमाणामावव्रुर्बभूवाथ प्रजाक्षयः
नाशकन्मरुतो वातुं वृतं खमभवद्द्रुमैः ।
दशवर्षसहस्राणि न शकुश्चेष्टितुं प्रजाः
तान्दृष्ट्वा जलनिष्क्रान्ताः सर्वे क्रुद्धाः प्रचेतसः ।
मुखेभ्यो वायुमग्निं च ते ऽसृजन् जातमन्यवः
उन्मूलानथ तान्वृक्षान्कृत्वा वायुरशोषयत् ।
तानग्निरदहद् घोरस् तत्राभूद् द्रुमसंक्षयः
द्रुमक्षयम् अथो दृष्ट्वा किञ्चिच्छिष्टेषु शाखिषु ।
उपगम्याब्रवीदेतान्राजा सोमः प्रजापतीन्
कोपं यच्छत राजानः शृणुध्वञ्च वचो मम ।
सन्धानं वः करिष्यामि सह क्षितिरुहैर् अहम्
रत्नभूता च कन्येयं वार्क्षेयी वरवर्णिनी ।
भविष्यज्जानता पूर्वं मया गोभिर् विवर्धिता
मारिषा नाम नाम्नैषा वृक्षाणामिति निर्मिता ।
भार्या वो ऽस्तु महाभागा ध्रुवं वंशविवर्धिनी
युष्माकं तेज सोर्धेन मम चार्धेन तेजसः ।
अस्यामुत्पत्स्यते विद्वान्दक्षोनाम प्रजापतिः
मम चांशेन संयुक्तो युष्मत्तेजोमयेन वै ।
तेजसाग्निसमो भूयः प्रजाः संवर्धयिष्यति
कण्डुर्नाम मुनिः पूर्वमासीद्वेदविदां वरः ।
मुरम्ये गोमतीतीरे म तेपे परमं तपः
तत्क्षोभाय सुरेन्द्रेण प्रम्लोचाख्या वराप्सराः ।
प्रयुक्ता क्षोभयामास तमृषिं सा शुचिस्मिता
क्षोभितः स तया सार्धं वर्षाणामधिकं शतम् ।
अतिष्ठन्मन्दरद्रोण्यां विषयासक्तमानसः
तं सा प्राह महाभाग गन्तुमिच्छाम्यहं दिवम् ।
प्रसादसुमुखो ब्रह्मन्ननुज्ञां दातुमर्हसि
तयैवमुक्तः स मुनिस्तस्यामासक्तमानसः ।
दिनानि कतिचिद्भद्रे स्थीयतामित्यभाषत
एवमुक्ता ततस्तेन साग्रं वर्षशतं पुनः ।
बुभुजे विषयांस्तन्वी तेन साकं महात्मना
अनुज्ञां देहि भगवन् व्रजामि त्रिदशालयम् ।
उक्तस्तथेति स पुनः स्थीयतामित्यभाषत
पुनर्गते वर्षशते साधिक सा शुभानना ।
यामीत्याह दिवं ब्रह्मन्प्रणयस्मितशोभनम्
उक्तस्तयैवं स मुनिरुपगुह्यायते क्षणाम् ।
इहास्यतां क्षणं सुभु चिरकालं गमिष्यसि
सा क्रीडमाना सुश्रोणी सह तेनर्षिणा पुनः ।
शतद्वयं किञ्चिदूनं वर्षणामन्वतिष्ठत
गमनाय महाभाग देवराजनिवेशनम् ।
प्रोक्तः प्रोक्तस्तया तन्व्या स्थीयतामित्यभाषत
तस्य शापभयाद्भीता दाक्षिण्येन च दक्षिणा ।
प्रोक्ता प्रणयभङ्गर्तिवेदिनी न जहौ मुनिम्
तया च रमतस्तस्य परमर्षेरहर्निशम् ।
नवंनवमभूत्प्रम मन्मथाविष्टचेतसः
एकदा तु त्वरायुक्तो निश्चक्रामोटजान्मुनिः ।
निष्क्रामन्तं च कुत्रेति गम्यते प्राह सा शुभा
इत्युक्तः स तया प्राह परिवृत्तमहः शुभे ।
सन्ध्योपास्तिं करिष्यामि क्रियालोपोन्यथा भवेत्
ततः प्रहस्य सुददी तं सा प्राह महामुनिम् ।
किमद्य सर्वधर्मज्ञ परिवृत्तमहस्तव
बहूनां विप्र वर्षाणां परिवृत्तम हस्तव ।
गतमेतन्न कुरुते विस्मयं कस्य कथ्यताम्
मुनिरुवाच
प्रातस्त्वमागता भद्रे नदीतीरमिदं शुभम् ।
मया दृष्टासि तन्वङ्गि प्रविष्टासि ममाश्रमम्
इयं च वर्तते सन्ध्या परिणाममहर्गतम् ।
उपहासः किमर्थोयं सद्भावः कथ्यतां मम
प्रम्लोचोवाच
प्रत्यूषस्यागता ब्रह्मन् सत्यमेतन्न तन्मृषा ।
नन्वस्य तस्य कालस्य गतान्यब्दशतानि ते
सोम उवाच
ततः स साध्वसो विप्रस्तां पप्रच्छायतेक्षणाम् ।
कथ्यतां भीरु कः कालस् त्वया मे रमतः सह
प्रम्लोचोवाच
सप्तोत्तराम्यतीतानि नववर्षशतानि ते ।
मासाश् च षट्तथैवान्यत्समतीतं दिनत्रयम्
ऋषिरुवाच
सत्यं भीरु वदस्य् एतत् परिहासो ऽथवा शुभे ।
दिनमेकमहं मन्येत्वया सार्धमिहासितम्
प्रम्लोचोवाच
वदिष्याम्यनृतं ब्रह्मन्कथमत्र तवान्तिके ।
विशेषेणाद्य भवता पृष्टा मार्गानुवर्तिना
सोम उवाच
निशम्य तद्वचः सत्यं स मुनिर्नृपनन्दनाः ।
धिक्धिक् मामित्यतीवेत्थं निनिन्दात्मानमात्मना
मुनिरुवाच
तपांसि मम नष्टनि हतं ब्रह्मविदां धनम् ।
हतो विवेकः केनापि योषिन्मोहाय निर्मिताः
ऊर्मिषट्कातिगं ब्रह्म ज्ञेयमात्मजयेन मे ।
मतिरेषा हृता येन धिक् तं कामं महाग्रहम्
व्रतानि वेदवेद्याप्तिकाराणान्यखिलानि च ।
नरकग्राममर्गेण सङ्गेनापहृतानि मे
विनिन्द्येत्थं स धर्मज्ञः स्वयमात्मानमात्मना ।
तामप्सरसमासीनामिदं वचनमब्रवीत्
गच्छ पापे यथाकामं यत्कार्यं तत्कृतं त्वया ।
देवराजस्य मत्क्षोभं कुर्वन्त्या भावचेष्टितैः
न त्वां करोण्यहं भस्म क्रोधतीव्रेण वह्निना ।
सतां सप्तपदं मैत्रुमुषि तोहं त्वया सह
अथ वा तव को दोषः किं वा कुप्याम्यहं तव ।
ममैव दोषो नितरां येनाहमजितेन्द्रियः
यया शक्रप्रियार्थिन्या कृतो मे तपसो व्ययः ।
त्वया धिक्तां महामोहमञ्जृषां सुजुगुप्सिताम्
सोम उवाच
यावदित्थं स विप्रर्षिस् तां ब्रवीति समुध्यमाम् ।
तावद्गलत्स्वेदजला साबभूवातिवेपथुः
प्रवेपमानां सततं खिन्नगात्रलतां सतीम् ।
गच्छ गच्छेति सक्रोधमुवाच मुनिसत्तमः
सा तु निर्भर्त्सिता तेन विनाष्क्रम्य तदाश्रमात् ।
आकाशगामिनी स्वेदं ममार्ज तरुपल्लवैः
निर्मार्जमाना गात्राणि गलत्स्वेदजलानि वै ।
वृक्षाद्धृक्षं ययौ बला तदग्ररुणपल्लवैः
ऋषिणा यस्तदा गर्भस्तस्या देहे समाहितः ।
निर्जगाम स रोमाञ्चस्वेदरूपी तदङ्गतः
तं वृक्षा जगृहुर्गर्भमेकं चक्रे तु मारुतः ।
मया चाप्यायितो गोभिः स तदा ववधे शनैः
वृक्षाग्रगर्भसम्भूता मारिषाख्या वरानना ।
तां प्रदास्यन्ति वो वृक्षाः कोप एष प्रशाम्यताम्
कण्डोरपत्यमेवं सा वृक्षेभ्यश् च समुद्गता ।
ममापत्यं तथा वायोः प्रम्लोचातनया च सा
स चापि भगवान् कण्डुः क्षीणे तपसि सत्तमः ।
पुरुषोत्तमाख्यं मैत्रेय विष्णोरायतनं ययौ
तत्रैकाग्रमतिर्भूत्वा चकाराराधनं हरेः ।
ब्रह्मपारमयं कुर्वञ्जपमेकाग्रमानसः ।
ऊर्ध्वबाहुर्महायोगी स्थित्वासौ भूपनन्दनाः
प्रचेतस ऊचुः
ब्रह्मपारं मुने श्रोतुमिच्छामः परमं स्तवम् ।
जपता कण्डुना देवो येनाराध्यत केशवः
सोम उवाच
पारं परं विष्णुरपारपारः परः परेभ्यः पामारथरूपी ।
सब्रह्पारः परपारभूतः परः पराणामपि पारपारः
स कारणं कारणतस्ततोपि तस्यापि हेतुः ।
कार्येषु चैवं सह कर्मकर्तृरूपैर् अशेषैर् अवतीह सर्वम्
ब्रह्म प्रभुर्ब्रह्म स सर्वभूतो ब्रह्म प्रजानां पतिरच्युतो ऽसौ ।
ब्रह्माव्ययं नित्यमजं स विष्णुरपक्षयाद्यैर् अखिलैर् असङ्गि
ब्रह्माक्षरमजं नित्यं यथासौ पुरुषोत्तमः ।
तथा रागादयो दोषः प्रयान्तु प्रशमं मम
सोम उवाच
एतद्ब्रह्म पराख्यं वै संस्तवं परमं जपन् ।
अवाप परमांसिद्धिं स तमाराध्य केशवम्
इमं स्तवं यः पठति शृणुयाद्वापिनित्यशः ।
स कामदेषैर् अशिलैर् मुक्तः प्राप्रोति वाञ्छितम्
1 ॥
इयं च मारीषा पूर्वमासीद्य तां ब्रवीमि वः ।
कार्यगौरवमेतस्याः कथने फलदायि वः
अपुत्रा प्रागियं विष्णुं मृते भर्तरि सत्तमाः ।
भीपपत्नी महाभागा तोषयामास भक्तितः
आराधितस्तया विष्णुः प्राह प्रत्यक्षतां गतः ।
वरं वृणीष्वेति शुभे सा च प्राहात्मवाञ्छितम्
भगवन्बालवैधव्याद्वृथाजन्माहमीदृशी ।
मन्दभाग्या समुद्भुता विफला च जगत्पते
भवन्तु पतयः श्लाघ्या मम जन्मनि जन्मनि ।
त्वत्प्रसादात्तथा पुत्रः प्रजापतिसमोस्तु मे
कुलं शीलं वयः सत्यं दाक्षिण्यं क्षिप्रकारिता ।
अविसंवादिता सत्त्वं वृद्धसेवा कृतज्ञता
रूपसम्पत्समायुक्ता सर्वस्य प्रियदर्शना ।
अयोनिजा च जायेयं त्वन्प्रसादादाधेक्षज
सोम उवाच
तयैवमुक्तो देवेशो हृषीकेश उवाच ताम् ।
प्रणामनम्रामुत्थाप्य वरदः परमेश्वरः
देव उवाच
भविष्यन्ति महावीर्या एकस्मिन्नेव जन्मनि ।
प्रख्यातोदारकर्णाणो भवत्याः पतयो दश
पुत्रञ्च सुमहावीर्यं महाबलपराक्रमम् ।
प्रजापतिगुणैर् युक्तं त्वमवाप्स्यसि शोभने
वंशानां तस्य कर्तृत्वं जगत्यस्मिन्भविष्यति ।
त्रैलोक्यमखिला सूतिस्तस्य चापूरयिष्यति
त्वं चाप्ययोनिजा साध्वी रूपौदार्यगुणान्विता ।
मनः प्रीतिकरी नॄणां मत्प्रसादाद्भविष्यसि
इत्युक्त्वान्तर्दधे देवस्तां विशालविलोचनाम् ।
सा चेयं मारिषा जाता युष्मत्पत्नी नृपात्मजाः
श्रीपराशर उवाच
ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः ।
संहृत्य कोपं वृक्षेभ्यः पत्नीधर्मोण मारीषाम्
दशभ्यस्तु प्रचेतोभ्यो मारीषायां प्रजापतिः ।
जज्ञे दक्षो महाभागो यः पूर्वं ब्रह्मणो ऽभवत्
स तु दक्षो महाभागःसृष्ट्यर्थं सुमहामते ।
पुत्रानुत्पादयामास प्रजासृष्ट्यर्थमात्मनः
अवरांश् च वरांश्चैव द्विपदोथ चतुष्पदान् ।
आदेशं ब्रह्मणः कुर्वन् सृष्ट्यर्थं समुपस्थितः
स सृष्ट्वा मनसा दक्षः पश्चादसृजत स्त्रियः ।
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे
तासु देवास् तथा दैत्या नागा गावस् तथा खगाः ।
गन्धर्वाप्सरसश्चैव दानवाद्याश् च जज्ञिरे
ततः प्रभृति मैत्रेय प्रजा मैथुनसम्भवाः ।
संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषामभवन् प्रजाः ।
तपोविशेषैः सिद्धानां तदात्यन्ततपस्विनाम्
श्रीमैत्रेय उवाच
अङ्गुष्ठाद्दक्षिणाद्दक्षः पूर्वं जातो मया श्रुतः ।
कथं प्राचेतसो भूयः समुत्पन्नो महामुने
एष मे संशयो ब्रह्मन्सुमहान्हृदि वर्तते ।
यद्दैहित्रश् च सोमस्य पुनः श्वशुरतां गतः
श्रीराशर उवाच
उत्पत्तिश् च निरोधश् च नित्यो भूतेषु सर्वाद ।
ऋषयोत्र न सुह्यन्ति ये चान्ये दिव्यचक्षुषः
युगेयुगे भवन्त्येते दक्षाद्या मुनिसत्तम ।
पुनश्चैवं निरुद्ध्यन्ते विद्वांस्तत्र न मुह्यति
कानिष्ठ्यं ज्यैष्ठ्यमप्येषां पूर्वं नाभूद्द्द्विजोत्तम ।
तप एव गरीयोभूत्प्रभा वश्चैव कारणम्
मैत्रेय उवाच
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
उत्पत्तिं विस्तरेणेह मम ब्रह्मन्प्रकीर्तय
श्रीपराशर उवाच
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा ।
यथा ससर्ज भूतानि तथा शृणु महामुने
मानसान्येव भूतानि पूर्वं दक्षो ऽसृजत्तदा ।
देवानृषीन्सगन्धर्वानसुरान्पन्नगांस् तथा
यदास्य सृजमानस्य न व्यवर्धन्त ताः प्रजाः ।
ततः संचिन्त्य स पुनः सृष्टिहेतोः प्रजापतिः
मैथुनेनैव धर्मेण सिसृक्षुर्विविधाः प्रजाः ।
असक्नीमावहत्कन्यां वीरणस्य प्रजापतेः ।
सुतां सुतपसा युक्तां महतीं लोकधारिणीम्
अथ पुत्रसहस्राणै वैरुण्यां पञ्च वीर्यवान् ।
असिक्न्यां जनयामास सर्गहेतोः प्रजापतिः
तान्दृष्ट्वा नारदो विप्र संविवर्धयिषून्प्रजाः ।
संगम्य प्रियसंवादो देवर्षिरिदमब्रवीत्
हे हर्यश्वा महावीर्याः प्रजा यूयं करिष्यथ ।
ईदृशो दृश्यते यत्नो भवतां श्रूयतामीदम्
बालिश बत यूयं वै नास्या जानीत वै भुवः ।
अन्तरूर्ध्वमधश्चैव कथं सृक्ष्यथ वै प्रजाः
ऊर्ध्वं तिर्यगधश्चैव यदाप्रतिहता गतिः ।
तदा कस्माद्भुवो नान्तं सर्वे द्रक्ष्यथ बालिशाः
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशम् ।
अद्यापि नो निवर्तन्ते समुद्रेभ्य इवापगाः
हर्य श्वेष्वथ नष्टोषु दक्षः प्राचेतसः पुनः ।
वैरुण्यामथ पुत्राणां सहस्रमसृजत्प्रभुः
विवर्धयिषवस्ते तु शबलाश्वाः प्रजाः पुनः ।
पूर्वोक्तं वचनं ब्रह्मन्नारदेनैव नोदिताः
अन्योन्यमूचुस्ते सर्वे सम्यग् आह महामुनिः ।
भ्रतॄणां पदवी चैव गन्तव्या नात्र संशयः
ज्ञात्वा प्रमाणं पृथ्व्याश् च प्रजाःसृज्यामहे ततः
तेपि तेनैव मार्गेण प्रयाताः सर्वतोमुखम् ।
अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ।
ततः प्रभृति वै भ्राता भ्रातुरन्वेषणे द्विज ।
प्रयातो नश्यति तथा तन्न कार्यं विजानता
तां श्चापि नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः ।
क्रोधं चक्रे महाभागो नारदं स शशाप च
सर्गकामस्ततो विद्वान्स मैत्रेय प्रजापतिः ।
षष्टिं तक्षो ऽसृजत्कन्या वैरुण्यामिति नः श्रुतम्
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
सप्तविंशति सोमाय चतस्त्रो ऽरिष्टनेमिने
द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा ।
द्वेकृशाश्वाय विदुषे तासां नामानि मे शृणु
अरुन्धती वसुर्जामिर्लङ्घा भानुमरुत्वती ।
संकल्पा च मुहूर्ता च साध्या विश्वा च तादृशी ।
धर्मपत्न्यो दशत्वेतास्तास्वपत्यानि मे शृणु ।
विश्वेदेवास्तु विश्वायाः साध्या साध्यानजायत ।
मरुत्वत्यां सरुत्वन्तो वसोश् च वसवः स्मृता
भानोस्तु भानवः पुत्रा मुहूर्तायां मुहूर्तजाः
लङ्घायाश्चैव घोषोथ नागवीथी तु जामिता
पृथिवीविषयं सर्वमरुन्धत्याम जायत ।
संकल्पायास्तु सर्वात्मा जज्ञे संकल्प एव हि
ये त्वनेकवसुप्राणदेवा ज्योतिः पुरोगमाः ।
वसवोष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम्
आपो ध्रुवश् च सोमश् च धर्मश्चैवानिलो ऽनलः ।
प्रत्यूषश् च प्रभासश् च वसवो नामभिः स्मृताः
आपस्य पुत्रो वैतण्डः श्रमः शान्तो ऽध्वनिस् तथा ।
ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः
सोमस्य भगवान्वर्चो वर्चस्वी येन जायते
धर्मस्य पुत्रो द्रविणो हुतहव्यवहस् तथा ।
मनोहरायां शिशिरः प्राणोथ रवणस् तथा
अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः ।
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु
अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत ।
तस्य शाखो विशाखश् च नैगमेयश् च पृष्ठजाः
अपत्यं कृत्तिकानां तु कार्त्तिकेय इति स्मृतः
प्रत्यूषस्य विदुः पुत्रं ऋषि नाम्नाथ देवलम् ।
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी ।
योगसिद्धा जगत्कृत्स्नमसक्ता विचरत्युत ।
प्रभासस्य तु सा भार्या वसूनामष्टमस्य तु
विश्वकर्मा महाभागस्तस्यां जज्ञे प्रजापतिः ।
कर्ता शिल्पसहस्राणां त्रिदशानां च वार्धकिः
भूषणानां च सर्वेषां कर्ताशिल्पवतां वरः ।
यः सर्वैषां विमानानि देवतानां चकार ह ।
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः
अजैकपाद् अहिर्बुध्न्यस् त्वष्टा रुद्रश् च वीर्यवान् ।
त्वष्टुश्चाप्यात्मजः पुत्रो विश्वरूपो महातपाः
हरश् च बहुरूपश् च त्र्यम्बकश्चापराजितः ।
वृषाकपिश् च शम्भुश् च कपर्दीरैवतः स्मृतः
मृगव्याधश् च शर्वश् च कपाली च महामुने ।
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः
शतं त्वेकं समाख्यातं रुद्राणाममितौजसाम् ।
काश्यपस्य तु भार्या यास्तासां नामानि मे शृणु ।
अदितिर्दितिर्दनुश्चैवारिष्टा च सुरसा खसा
सुरभिर् विनता चैव ताम्रा क्रोधवशा इरा ।
कद्रुर्मुनिश् च धर्मज्ञ तदपत्यानि मे शृणु
पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन्सुरोत्तमाः ।
तुषिता नाम ते ऽन्योन्यमूचुर्वैवस्वतेन्तरे
उपस्थिते ऽतियशसश्चाक्षुषस्यान्तरे मनोः ।
समवायीकृताः सर्वे समागम्य परस्परम्
आगच्छत द्रुतं देवा अदितिं संप्रविश्य वै ।
मन्वन्तरे प्रसूयामस्तन्नः श्रेयो भवेदिति
एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः ।
मारीचात्कश्यपाज्जाता अदित्या दक्षकन्यया
तत्र विष्णुश् च शक्रश् च जज्ञाते पुनर् एव हि ।
अर्यमा चैव धाता च त्वष्टा पूषा तथैव च
विवस्वान्सविता चैव मित्रो वरुण एव च ।
अंशुर्भगश्चातितेजा आदित्या द्वादश स्मृताः
चाक्षुषस्यान्तरे पूर्वमासन्ये तुषिताः सुराः ।
वैवस्वते ऽन्तरे ते वै आदित्या द्वादश स्मृताः
सप्तविंशति याः प्रोक्ताः सोमपत्न्योथ सुव्रताः ।
सर्वा नक्षत्रयोगिन्यस्तन्नाम्नश्चैव ताः स्मृताः ।
तासामपत्यान्यभवन्दीप्तान्यमिततेजसाम्
अरिष्टनेमिपत्नीनामपत्यानीह षोडश
बहुपुत्रस्य विदुषश्चतस्त्रोविद्युतः स्मृताः
प्रत्यङ्गिरसजाः श्रेष्ठा ऋचो ब्रह्मर्षिसत्कृताः
कृशाश्वस्य तु देवर्षेर्देवप्रहरणाः स्मृताः
एते युगसहस्रान्ते जायन्ते पुनरेव हि ।
सर्वे देवगणास्तात त्रयस्त्रिंशत्तु छन्दजाः ।
तेषामपीह सततं निरोधोत्पत्तिरुच्यते
यथा सूर्यस्य मैत्रेय उदयास्तमनाविह ।
एवं देवनिकायास्ते सम्भवन्ति युगेयुगे
दित्या पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् ।
हिरण्यकशिपुश्चैव हिरण्याक्षश् च दुर्जयः
सिंहिका चाभवत्कन्या विप्रचित्तेः परिग्रहः
हिरण्यकशिपोः पुत्राश्चात्वारः प्रथितौजसः ।
अनुह्लादश् च ह्लादश् च प्रह्लादश्चैव बुद्धिमान् ।
संह्लादश् च महावीर्या दैत्यवंशविवर्धनाः
तेषां मध्ये महाभाग सर्वत्र समदृग्वाशी ।
प्रह्लादः परमां भक्तिं च उवाच जनार्दने
दैत्येन्द्रदीपितो वह्निः सर्वाङ्गोपचितो द्विज ।
न ददाह च यं विप्र वासुदेव हृदि स्थिते
महार्णवान्तः सलिले स्थितस्य चलतो मही ।
चचाल चलता यस्य पाशबद्धस्य धीमतः
न भिन्नं विविधैः शस्त्रैर् यस्य दैत्येन्द्रपातितैः ।
शरीरमद्रिकठिनं सर्वत्राच्युतचेतसः
विषानलोज्ज्वलमुखा यस्य दैत्यप्रचोदिताः ।
नान्ताय सर्पपतयो बभूवुरुरुतेजसः
शैलैर् आक्रान्तदेहोपि यः स्मरन्पुरुषोत्तमम् ।
तत्याज नात्मनः प्राणान् विष्णुस्मरणदंशितः
पतन्तमुच्चादवनिर्यमुपेत्य महामतिम् ।
दधार दैत्यपतिना क्षिप्तं स्वर्गनिवासिना
यस्य सशोषको वायुर्देहे दैत्येन्द्रयोजितः ।
अवाप संक्षयं सद्यश्चित्तस्थे मधुसूदने
विषाणभङ्गमुन्मत्ता मदहानिं च दिग्गजाः ।
यस्य वक्षःस्थले प्राप्ता दैत्येन्द्रपरिणामिताः
यस्य चोत्पादिता कृत्या दैत्यराजपुरोहितैः ।
बभूव नान्ताय पुरा गोविन्दासक्तचेतसः
शम्बरस्य च मायानां सहस्रमतिमायिनः ।
यस्मिन्प्रयुक्तं चक्रेण कृष्णस्य वितथिकृतम्
दैत्येन्द्रसूदोपहृतं यस्य हालाहलं विषम् ।
जरयामास मतिमानविकारममत्सरी
समचेता जगत्यस्मिन्यः सर्वेष्वेव जन्तुषु ।
यथात्मनि तथान्येषां परं मैत्रगुणान्वितः
धर्मात्मा सत्यशौर्यादिगुणानामाकरः परः ।
उपमानमशेषाणां साधूनां यः सदाभवत्
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0