भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 1.14

1.14.1

इति श्रीविष्णुपुराणे प्रथमे ऽंशे त्रयोदशोध्यायः (13)
श्रीपराशर उवाच
पृतोः पुत्रो तु धर्मज्ञो जज्ञातेन्तर्धिवादिनौ ।
शिखण्डिनी हविर्धानमन्तर्धानाव्द्यजायत

1.14.2

हविर्धानात् षडाग्नोयी धिषणाजयत्सुताना ।
प्राचीनबर्हिषं शुक्रं गयं कृष्णं वृजाजिनौ

1.14.3

प्रचीनबर्हिर्भगवान्महानासीत्प्रजापतिः ।
हविर्धानान्महाभाग येन संवर्धिताः प्रजाः

1.14.4

प्राचीनाग्राः कुशास्तस्य पृथिव्यां विश्रुता मुने ।
प्राचीनवर्हिरभवत्ख्यातो भुवि महाबलः

1.14.5

समुद्रतनयायां तु कृतदारो महीपतिः ।
महतस्तमसः पारे सवर्णायां महामते

1.14.6

सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः ।
सर्वे प्राचेतसो नाम धनुर्वेदस्य पारगाः

1.14.7

अपृथग्धर्मचरणास्ते तप्यन्त महत्तपः ।
दशवर्षसहस्राणि समुद्रसलिलेशयः

1.14.8

श्रीमैत्रेय उवाच
यदर्थं ते महात्मानस्तपस्तेपुर्महामुने ।
प्राचेतसः समुद्राम्भस्येतदाख्यातुमर्हसि

1.14.9

श्रीपराशर उवाच
पित्रा प्रचेतसः प्रोक्ताः प्रजार्थममितात्मना ।
प्रजापतिनियुक्तेन बहुमानपुरःसरम्

1.14.10

प्राचीनबर्हिरुवाच
ब्रह्मणा देवदेवेन समादिष्टोस्म्यहं सुताः ।
प्रजाः संवर्धनीयास्ते मया चोक्तं तथेति तत्

1.14.11

तन्मम प्रीतये पुत्राः प्रजावृद्धिमतन्द्रिताः ।
कुरुध्वं माननीया वः सम्यगाज्ञा प्रजापतेः

1.14.12

श्रीपराशर उवाच
ततस्ते तत्पितुः श्रुत्वा वचनं नृपनन्दनाः ।
तथेत्युक्त्वा च तं भूयः पप्रच्छुः पितरं मुने

1.14.13

प्रचेतस ऊचुः
येन तात प्रजावृद्धौ समर्था कर्मणा वयम् ।
भवेम तत् समस्तं नः कर्म व्याख्यातुमर्हसि

1.14.14

पितोवाच
आराध्य वरदं विष्णुम् इष्टप्राप्तिम् असंशयम् ।
समेति नान्यथा मर्त्यः किम न्यत्कथयामि वः

1.14.15

तस्मात्प्रजा विवृद्ध्यर्थं सर्वभूतप्रभुं हरिम् ।
आराधयत गोविन्दं यदि सिद्धिमभीप्सथः

1.14.16

धर्ममर्थं च कामं च मोक्षं चान्विच्छतां सदा ।
आराधनीयो भगवाननादिपुरुषोत्तमः

1.14.17

यस्मिन्नाराधिते सर्गं चकारादौ प्रजापतिः ।
तमाराध्याच्युतं वृद्धिः प्रजानां वो भविष्यति

1.14.18

श्रीपराशर उवाच
इत्येवमुक्तास्ते पित्रा पुत्राः प्राचेतसो दश ।
मग्नाः पयोधिसलिले तपस्तेषुः समाहिताः

1.14.19

दशवर्षसहस्राणि न्यस्तचित्ता जगत्पतौ ।
नारायणे मुनिश्रेष्ठ सर्वलोकपरायणे

1.14.20

तत्रैवावस्थिता देवमेकाग्रमनसो हरिम् ।
तुष्टुवुर्यःस्तुतः कामान् स्तोतुरिष्टान्प्रयच्छति

1.14.21

श्रीमैत्रेय उवाच
स्तवं प्रचेतसो विष्णोः समुद्राम्भसि संस्थिताः ।
चक्रुस्तन्मे मुनिश्रेष्ठ सुपुण्यं वक्तुमर्हसि

1.14.22

श्रीपराशर उवाच
शृणु मैत्रेय गोविन्दं यथापूर्वं प्रचेतसः ।
तुष्टुवुस् तन्मयीभूताः समुद्रसलिलेशयाः

1.14.23

प्रचेतस ऊचुः
नताः स्म सर्ववचसां प्रतिष्ठा यत्र शाश्वती ।
तमाद्यन्तमशेषस्य जगतः परमं प्रभुम्

1.14.24

ज्योतिराद्यमनौपम्यमण्वनन्तमपारवत् ।
योनिभूतमशेषस्य स्थावरस्य चरस्य च

1.14.25

यस्याहः प्रथमं रूपमरूपस्य तथा निशा ।
संध्या च परमेशस्य तस्मै कालात्मने नमः

1.14.26

बुज्यते ऽनुदिनं देवैः पितृभिश् च सुधात्मकः ।
बीजभूतं समस्तस्य तस्मै सोमात्मनेन मः

1.14.27

यस्तमास्यत्ति तीव्रात्मा प्रभाभिर् भासयन्नभः ।
घर्मशीताम्भसा योनिस्तस्मै सूर्यत्मने नमः

1.14.28

काठिन्यवान् यो बिभर्ति जगदेतदशेषतः ।
शब्दादिसंश्रयो व्यापी तस्मै भूम्यात्मने नमः

1.14.29

यद्योनिभूतं जगतो वीजं यत्सर्वदेहिनाम् ।
तत्तोयरूपमीशस्य नमामो हरिमेधसः

1.14.30

यो मुखं सर्वदेवानां हव्यभुक्कव्यभुक् तथा ।
पितॄणां च नमस्तस्मै विष्णवे पावकात्मने

1.14.31

पञ्चधावस्थितो देहे यश्चेष्टां कुरुते ऽनिशम् ।
आकाशयोनिर्भगवांस्तस्मै वाय्वात्मने नमः

1.14.32

अवकाशमशेषाणां भूतानां यः प्रयच्छति ।
अनन्तमूर्तिमाञ्धुद्धस्तस्मै व्योमात्मने नमः

1.14.33

समस्तोन्द्रियसर्गस्य यः सदा स्थानमुत्तमम् ।
तस्मै शब्दादिरूपाय नमः कृष्णाय वेधसे

1.14.34

गृह्णाति विषयान्नित्यमिन्द्रियात्माक्षराक्षरः ।
यस्तस्मै ज्ञानमूलाय नतास्म हरिमेधसे

1.14.35

हृहीतानिन्द्रियैर् अर्थानात्मने यः प्रयच्छति ।
अन्तःकरणरूपाय तस्मै विश्वत्मने नमः

1.14.36

यस्मिन्ननन्ते सकलं विश्वं यस्मात्तथोद्गतम् ।
लयस्थानं च यस्तस्मै नमः प्रकृतिधर्मिणे

1.14.37

शुद्धः संल्लक्ष्यते भ्रान्त्या गुणवानिव यो ऽगुणः ।
तमात्मरूपिणं देव नतास्म पुरुषोत्तमम्

1.14.38

अविकारमजं शुद्धं निर्गुणं यन्निरजनम् ।
नताःस्मतत्परं ब्रह्म विष्णोर्यत्परमं पदम्

1.14.39

अदीर्घह्रस्वमस्थूलण्वनमश्यामलोहितम् ।
अस्नेहच्छायमतनुमसक्तमशरीरीणम्

1.14.40

अनाकाशमसंस्पर्शमगन्धमरसं च यत् ।
अचक्षुश्रोत्रमचलमवाक्पाणिममानिसम्

1.14.41

अनामगोमत्रसुखमतेजस्कमहेतुकम् ।
अभयं भ्रान्तिरहितम निद्रमजरामरम्

1.14.42

अरजोशब्दममृतमप्लुतं यदसंवृतम् ।
पूर्वापरेण वै यस्मिस्तद्विष्णोः परमं पदम्

1.14.43

परमेशत्वगुणवत्सर्वभूतम संशयम् ।
नतास्म तत्पदं विष्णोर्जिह्वादृग्गोचरं न यत्

1.14.44

श्रीपराशर उवाच
एवं प्रचेतसो विष्णुं स्तुवन्तस्तत्समाधयः ।
दशवर्षसहस्राणि तपश्चेरुर्महार्णवे

1.14.45

ततः प्रसन्नो भगवांस्तेषामन्तर्जले हरिः ।
ददौ दर्शनमुन्निद्रनीलोत्पलदलच्छविः

1.14.46

पतत्रि राजमारूढमवलोक्य प्रचेतसः ।
प्रणिपेतुः शिरोभिस् तं भक्तिभारावनामितैः

1.14.47

ततस्तानाह भगवान्व्रयतामीप्सतो वरः ।
प्रसाद सुमुखोहं वो वरदः समुपस्थितः

1.14.48

ततस्तमूचुर्वरदं प्रणिपत्य प्रचेतसः ।
यथा पित्रा समादिष्टं प्रजानां वृद्धिकारणम्

1.14.49

स चापि देवस्तं दत्त्वा यथभिलषितं वरम् ।
अन्तर्धानं जगामाशु ते च निश्चक्रमुर्जलात्

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc