भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 1.13

1.13.1

इति श्रीविष्णुपुराणे प्रथमे ऽंशे द्वादशो ऽध्यायः (12)
श्रीपराशर उवाच
ध्रुवाच्छिष्टिं च भव्यं च भव्याच्छम्भुर्व्यजायत ।
शिष्टोराधत्त सुच्छाया पञ्चपुत्रानकल्मषान्

1.13.2

रिपुं रिपुञ्जयं विप्रं वृकलं वृकतेजसम् ।
रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम्

1.13.3

अजीजनत्पुष्करिण्यां वारुण्यां चाक्षुषो मनुम् ।
प्रजापतेरात्मजायां वीरणस्य महात्मनः

1.13.4

मनोरजायन्त दश नड्वलायां महौजसः ।
कन्यायां तपतां श्रेष्ठ वैराजस्य प्रजापतेः

1.13.5

कुरुः पुरुः शत द्युम्नस्तपस्वी सत्यवाञ्छुचिः ।
अग्निष्टोमोतिरात्रश् च सुद्युम्नश्चेति ते नव ।
अभिमन्युश् च दशमो नड्वलायां महौजसः

1.13.6

कुरोरजनयत्पुत्रान् षडाग्नोयी महाप्रभान् ।
अङ्गं सुमनसं ख्यातिं क्रतुमङ्गिरसं शिबिम्

1.13.7

अङ्गात्सुनीथापत्यं वै वेनमेकमजायत ।
प्रजार्थमृषयस्तस्य ममन्थुर्दक्षिणं करम्

1.13.8

वेनस्य पाणौ मथिते सम्बभूव महामुने ।
वैन्यो नाम महीपालो यः पृथुः परिकीर्तितः

1.13.9

येन दुग्धा मही पूर्वं प्रजानां हितकारणात्

1.13.10

मैत्रेय उवाच
किमर्थं मथितः पाणिर्वेनस्य परमर्षिभिः ।
यत्र जज्ञे महावीर्यः स पृथृर्मुनिसत्तम

1.13.11

श्रीपराशर उवाच
सुनीथा नाम या कन्या कृत्यो प्रथमतो ऽभवत् ।
अङ्गस्य भार्या सा दत्ता तस्यां वेनो व्यजायत

1.13.12

स मातामहदोषेण तेन मृत्योः सुतात्मजः ।
निसर्गादेष मैत्रेय दुष्ट एव व्यजायत

1.13.13

अभिषिक्तो यदा राज्ये स वेनः परमर्षिभिः ।
घोष यामास स तदा पृथिव्यां पृथिवीपतिः

1.13.14

न यष्टव्यं न दातव्यं न होतव्यं कथञ्चन ।
भोक्ता यज्ञस्य कस्त्वन्यो ऽह्यहं यज्ञपतिः प्रभुः

1.13.15

ततस्तमृषयः पूर्व संपूज्यं पृथिवीपतिम् ।
ऊचुः सामाकलं वाक्यं मैत्रेय समपस्थिताः

1.13.16

ऋषय ऊचुः
भोभो राजन् शृणुष्व त्वं यद्वदाम महीपते ।
राज्यं देहोपकाराय प्रजानां च हितं परम्

1.13.17

दीर्घसत्रेण देवेशं सर्वयज्ञेश्वरं हरिम् ।
पूजयिष्याम भद्रं ते तस्यांशस्ते भविष्यति

1.13.18

यज्ञेन यज्ञपुरुषो विष्णुः संप्रीणिते नृप ।
अस्माभिर् भवतः कामान्सर्वानेव प्रदास्यति

1.13.19

यज्ञैर् यज्ञेश्वरो येषां राष्ट्रे संपूज्यते हरिः ।
तेषां सर्वेप्सितावाप्तिं ददाति नृप भूभृताम्

1.13.20

वेन उवाच
मत्तः को ऽभ्यधिकोन्योस्ति कश्चाराध्यो ममापरः ।
कोयं हरिरिति ख्यातो यो वो यज्ञश्वरो मतः

1.13.21

ब्रह्मा जनार्दनः शम्भुरिन्द्रो वायुर्यमो रविः ।
हुतभुग्वरुणो धाता पूषा भूमिर्निंशाकरः

1.13.22

एते चान्ये च ये देवाः शापानुग्रहकारिणः ।
नृपस्यैते शरीरस्थाः सर्वदेवमयो नृपः

1.13.23

एवं ज्ञास्वा मयाज्ञप्तं यद्यथा क्रियतां तथा ।
न दातव्यं न यष्टव्यं न होतव्यं च भो द्विजाः

1.13.24

भर्तृशुश्रूषणं धर्मो यथा स्त्रीणां परो मतः ।
ममाज्ञापालनं धर्मो भवतां च तथा द्विजाः

1.13.25

ऋषय ऊचुः
देह्यनुज्ञां महाराज मा धर्मो यातु संक्षयम् ।
हविषां परिणामो ऽयं यदेतदखिलं जगत्

1.13.26

श्रीपराशर उवाच
इति विज्ञाप्यमानो ऽपि स वेनः परमर्षिभिः ।
यदा ददाति नानुज्ञं प्रोक्तः प्रोक्तः पुनः पुनः

1.13.27

ततस्ते मुनयः सर्वे कोपामर्षसमन्विताः ।
हन्यतां हन्यतां पाप इत्यूचुस्ते परस्परम्

1.13.28

यो यज्ञपुरुषं विष्णुमनादिनिधनं प्रभुम् ।
विनिन्दत्यधमाचारो न स योग्यो भुवः पतिः

1.13.29

इत्युक्त्वा मन्त्रपूतैस् तैः कुशैर् मुनिगणानृपम् ।
निजघ्नुर्निहतं पुर्वं भगवन्निन्दनादिना

1.13.30

ततश् च मुनयो रेणुं ददृशुः सर्वतो द्विज ।
किमेतदिति चासन्नात्पप्रच्छुस्ते जनास्तदा

1.13.31

आख्यातं च जनैस् तेषां चोरीभूतैर् अराजके ।
राष्ट्रे तु लोकैर् आरब्धं परस्वादानमातुरैः

1.13.32

तेषामुदीर्णवेगानां चोराणां मुनिसत्तमाः ।
सुमहद्दृश्यते रेणुः परवित्तापहारिणाम्

1.13.33

ततः संमन्त्र्य ते सर्वे सुनयस्तस्य भूभृतः ।
ममन्थुरूरुं पुत्रार्थमनपत्यस्य यत्नतः

1.13.34

मथ्यमानात्समुत्तस्थौ तस्योरोः पुरुषः किल ।
दग्धस्थूणाप्रतीकाशः खल्वाटास्योतिह्रस्वकः

1.13.35

किं करोमीति तान्सर्वान्स विप्रानाह चातुरः ।
निषीदेति तमूचुस्ते निषादस्तेन सो ऽभवत्

1.13.36

ततस्तत्संभवा जाता विन्ध्यशैलनिवासिनः ।
निषादा मुनिशार्दूल पापकर्मोपलक्षणाः

1.13.37

तेन द्वारेण तत्पापं निष्क्रान्तं तस्य भूपतेः ।
निषादास्ते ततो जाता वेनकल्मषनाशनाः

1.13.38

तस्यैव दक्षिणं हस्तं ममन्थुस्ते ततो द्विजाः

1.13.39

मथ्यमाने च तत्राभूत्पृथुर्वैन्यः प्रतापवान् ।
दीप्यमानः स्ववपुषा साक्षादग्निरिव ज्वलन्

1.13.40

आद्यमाजगवं नाम खात्पपात ततो धनुः ।
शराश् च दिव्या नभसः कवचं च पपात ह

1.13.41

तस्मिन् जाते तु भूतानि संप्रहृष्टानि सर्वशः

1.13.42

सत्पुत्रेणैव जातेन वेनोपि त्रिदिवं ययो ।
पुन्नाम्नो नरकात् त्रातः सुतेन सुमहात्मना

1.13.43

तं समुद्राश् च नद्यश् च रत्नान्यादाय सर्वशः ।
तोयानि चाभिषेकार्थं सर्वाण्येवोपतस्थिरे

1.13.44

पितामहश् च भगवान्देवैर् आङ्गिरसैः सह ।
स्थावराणि च भूतानि जङ्गमानि च सर्वशः ।
समागम्य तदा वैन्यमभ्यसिञ्चन्नराधिपम्

1.13.45

हस्ते तु दक्षिणे चक्रं दृष्ट्वा तस्य पितामहः ।
विष्णोरंशं षृथुं मत्वा परितोषं परं ययै

1.13.46

विष्णुचक्र करे चिह्नं सर्वेषां चक्रवर्तिनाम् ।
भवत्यव्याहतो यस्य प्रभावस्त्रिदशेरपि

1.13.47

महता राजराज्येन पृथुर्वैन्यः प्रतापवान् ।
सोभिषिक्तो महातेजा विधिवद्धर्मकोविदै

1.13.48

पित्रा पराजितास्तस्य प्रजास्तेनानुरञ्चिताः ।
अनुरागात्ततस्तस्य नाम राजेत्यजायत

1.13.49

आपस्तस्तंभिरे चास्य समुद्रमभियास्यतः ।
पर्वताश् च ददुर्मार्गं ध्वजभङ्गश् च नाभवत्

1.13.50

अकृष्टपच्या पृथिवी सिद्धन्त्यन्नानि चिन्तया ।
सर्वकामदुघा गावः पुटके पुटके मधु

1.13.51

तस्य वै जातमात्रस्य यज्ञे पैतामहे शुभे ।
सूतः सूत्यां समुत्पन्नः सौत्ये ऽहनि महामतिः

1.13.52

तस्मिन्नेव महायज्ञेजज्ञे प्राज्ञे ऽथ मागधः ।
प्रोक्तौ तदा मुनिवरैस् तावुभौ सूतमागधौ

1.13.53

स्तूयतामेष नृपतिः पृथुर्वैन्यः प्रतापवान् ।
कर्मैतदनुरूपं वां पात्रं स्तोत्रस्य चापरम्

1.13.54

ततस्तावूचतुर्विप्रान्सर्वानेव कृताञ्जली ।
अद्य जातस्य नो कर्म ज्ञायतेस्य महीपतेः

1.13.55

गुणा न चास्य ज्ञायन्ते न चास्य प्रथितं यशः ।
स्तोत्रं किमाश्रयं त्वस्य कार्यमस्माभिर् उच्यताम्

1.13.56

कृषय ऊचुः
करिष्यत्येष यत्कर्म चक्रवर्ति महाबलः ।
गुणा भविष्या ये चास्य तैर् अयं स्तूयतां नृपः

1.13.57

श्रीपराशर उवाच
ततः स नृपतिस्तोषं तच्छ्रत्वा परमं ययौ ।
सद्गुणैः श्लाघ्यतामेति तस्माच्छ्लाघ्या गुणा मम

1.13.58

तस्माद्यदद्य स्तोत्रेण गुणनिर्वर्णनं त्विमौ ।
करिष्येते करिष्यामि तदेवाहं समाहितः

1.13.59

यदिमौ वर्जनीयं च किञ्चिदत्र वदिष्यतः ।
तदहं वर्जयिष्यामीत्येवं चक्रे मतिं नृपः

1.13.60

अथ तौ चक्रतुः स्तोत्रं पृथोर्वैन्यस्य धीमतः ।
भविष्यैः कर्मभिः सम्यक्सुस्वरौ सूतमागधौ

1.13.61

सत्यवाग्दानशीलोयं सत्यसन्धो नरेश्वरः ।
ह्रीमान्मैत्रः क्षमाशीलो विक्रान्तो दुष्टशानः

1.13.62

धर्मज्ञश् च कृतज्ञश् च दयावान् प्रियभाषकः ।
मान्यान्मानयिता यज्वा ब्रह्मण्यः साधुसंमतः

1.13.63

समः शत्रौ च मित्रे च व्यवहारस्थितौ नृपः

1.13.64

सूतेनोक्तान् गुणानित्थं स तदा मागधेन च ।
चकार हृदि तादृक् च कर्मणा कृतवानसौ

1.13.65

ततस्तु पृथिवीपालः पालयन्पृथिवीमिमाम् ।
इयाज विविधैर् यज्ञैर् महद्भिर् भूरिदक्षिणैः

1.13.66

तं प्रजाः पृथिवीनाथमुपतस्थुः क्षुधार्दिताः ।
ओषधीषु प्रणष्टासु तस्मिन्काले ह्यराजके ।
तमूचुस्ते नताः पृष्टास्तत्रागमनकारणम्

1.13.67

प्रजा ऊचुः
अराजके नृपश्रष्ठ धरित्र्या सकलौषधीः ।
ग्रस्तास्ततः क्षयं यान्ति प्रजाः सर्वाः प्रजेश्वर

1.13.68

त्वन्नो वृत्तिप्रदो धात्रा प्रजापालो निरूपितः ।
देहि नः क्षुत्परीता नां प्रजानां जीवनौषधीः

1.13.69

श्रीपराशर उवाच
ततस्तु नपतिर्दिव्यमादायजगवं धनुः ।
शरांश् च दिव्यान्कुपितः सोन्वधावद्वसुन्धराम्

1.13.70

ततो ननाश त्वरीता गौर्भूत्वा च वसुन्धरा ।
सा लोकान्ब्रह्मलोकादीन्संत्रासादगमन्मही

1.13.71

यत्र यत्र ययौ देवी सा तदा भूतधारिणी ।
तत्र तत्र तु सा वैन्यं ददृशे ऽभ्युद्यतायुधम्

1.13.72

ततस्तं प्राह वसुधा पृथुं राजपराक्रमम् ।
प्रवेपमाना तद्बाणपरित्राणपरायणा

1.13.73

पृथिव्युवाच
स्त्रीवधे त्वं महापापं किं नरेन्द्र न पश्यसि ।
येन मां हन्तुमत्यर्थं प्रकरोषि नृपोद्यमम्

1.13.74

पृथुरुवाच
एकस्मिन् यत्र निधनं प्रापिते दुष्टकारिणि ।
बहूनां भवति क्षेमं तस्य पुण्यप्रदो वधः

1.13.75

पृथुव्युवाच
प्रजानामुपकाराय यदि मां त्वं हनिष्यसि ।
आधारः कः प्रजानां ते नृपश्रेष्ठ भविष्यति

1.13.76

पृथुरुवाच
त्वां हत्वा वसुधे बाणैर् मच्छासनपराङ्मुखीम् ।
आत्म योगबलेनेमा धारयिष्याम्यहं प्रजाः

1.13.77

श्रीपराशर उवाच
ततः वसुधा तं भूयः तं भूयः प्राह पार्थिवम् ।
प्रवेपिताङ्गी परमं साध्वसं समुपागता

1.13.78

पृथिव्युवाच
उपायतः समारब्धाः सर्वे सिद्ध्यन्त्युपक्रमाः ।
तस्माद्वदाम्युपायं ते तं कुरुष्व यदीच्छसि

1.13.79

समस्ता या मया जीर्णा नरनाथ महौषधीः ।
यदीच्छसि प्रदास्यामि ताः क्षीरपरिणामिनीः

1.13.80

तस्मात्प्रजाहितार्थाय मम धर्मभृतां वर ।
तं तु वत्सं कुरुष्व त्वं क्षरेयं येन वत्सला

1.13.81

समां च कुरु सर्वत्र येन क्षीरं समन्ततः ।
वरौषधीबीजभूतं बीजं सर्वत्र भावये

1.13.82

श्रीपराशर उवाच
तत उत्सारयामास शैलान् शतसहस्रशः ।
धनुष्कोट्या पदा वैन्यस्तेन शौला विवर्धिताः

1.13.83

न हि पूर्वविसर्गे वै विषमे पृथिवीतले ।
प्रवीभागः पुराणां वा ग्रामाणां वा पुराभवात्

1.13.84

न सस्यानि न गोरक्ष्यं न कृषिर्न वणिक्पथः ।
वैन्यात्प्रभृति मैत्रेय सर्वस्यैतस्य सम्भवः

1.13.85

यत्रयत्र समं त्वस्य भूमेरासीद्द्द्वजोत्तम ।
तत्रतत्र प्रजाः सर्वा निवासं समरोचयन्त्

1.13.86

आहारः फलमूलानि प्रजानामभवत्तदा ।
कृच्छ्रेण महता सो ऽपि प्रणष्टास्वैषदीषु वै

1.13.87

स कल्पयित्वा वत्सं तु मनुं स्वायंभुवं प्रभुम् ।
स्वपाणौ पृतिवीनाथो दुदोह पृथिवीं पृथुः ।
सस्याजातानि सर्वाणि प्रजानां हितकाम्यया

1.13.88

तेनान्नेन प्रजास्तात वर्तन्तेद्यापि नित्यशः

1.13.89

प्राणप्रदाता स पृथुर्यस्माद्भुमेरभीत्पिता ।
ततस्तु पृथिवीसंज्ञामवापाखिलाधारिणी

1.13.90

ततश् च देवैर् मुनिभिर् दैत्यै रक्षोभिर् अद्रिभिः ।
गन्धर्वैर् उरगैर् यक्षैः पितृभिस् तरुभिस् तथा

1.13.91

तत्तत्पात्रमुपादाय तत्तद्दुग्धं मुने पयः ।
वत्सदो ग्धृविशेषाश् च तेषां तद्योनयो ऽभवन्

1.13.92

सैषा धत्री विधात्री च धारिणी पोषणी तथा ।
सर्वस्य तु ततः पृथ्वी विष्णुपादतलोद्भावा

1.13.93

एवं प्रभावःस पृथुः पुत्रो वैन्यस्य वीर्यवान् ।
जज्ञे महीपतिः पूर्वो राजाभूज्जनरञ्जनात्

1.13.94

य इदं जन्म वैन्यस्य पृथोः संकीर्तरेन्नरः ।
न तस्य दुष्कृतं किञ्चित्फलदायि प्रजायते

1.13.95

दुःस्वप्नोपशमं नॄणां शृण्वतामेतदुत्तमम् ।
पृथोर्जन्म प्रभावश् च करोति सततं नृणाम्

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc