भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 1.12

1.12.1

इति श्रीविष्णुपुराणे प्रथमेंश एकादशो ऽध्यायः (11)
श्रीपराशर उवाच
निशम्यैतदशेषेण मैत्रेय नृपते सुतः ।
निर्जगाम वनात्तस्मात्प्रणिपत्य स तानृषीन्

1.12.2

कृतकृत्यमिवात्मानं मन्यमानस्ततो द्विज ।
मधुसंज्ञं महापुण्यं जगाम यमुनातटम्

1.12.3

पुनश् च मधुसंज्ञेन दैत्येनाधिष्ठितं यतः ।
ततो मधुवनं नाम्ना ख्यातमत्र महीतले

1.12.4

हत्वा च लवणं रक्षो मधुपुत्रं महाबलम् ।
शत्रुघ्नो मधुरां नाम पुरीं यत्र चकार वै

1.12.5

यत्र वै देवदेवस्य सान्निध्यं हरिमेधसः ।
सर्वपापहरे तस्मिंस्तपस्तीर्थे चकार सः

1.12.6

मरीचिमुख्यैर् मुनिभिर् यथोद्दिष्टमभूत्तथा ।
आत्मन्यशेपदेवेशं स्थितं विष्णुममन्यत

1.12.7

अनन्यचेतसस्तस्य ध्यायतो भगवान्हरिः ।
सर्वभूतगतो विप्र सर्वभावगतो ऽभवत्

1.12.8

मनस्यवस्थिते तस्मिन्विष्णौ मैत्रेय योगिनः ।
न शशाक धरा भारमुद्वोढुं भूतधारिणी

1.12.9

वामपादस्थिते तस्मिन्ननामार्धेन मेदिनी ।
द्वितीयं च ननामार्धं क्षितेर्दक्षिणतः स्थिते

1.12.10

पादांसुष्ठेन संपीड्य यथा स वसुधां स्थितः ।
तदा समस्ता वसुधा चचाल सह पर्वतैः

1.12.11

नद्यो नदाः समुद्राश् च संक्षोभं परमं ययुः ।
तत्क्षोभादमराः क्षोभं परं जग्मुर्महामुने

1.12.12

यामा नाम तदा देवा मैत्रेय परमाकुलाः ।
इन्द्रेण सह संमन्त्र्य ध्यानभङ्गं प्रचक्रमुः

1.12.13

कूष्माण्डा विविधै रूपैर् महेन्द्रेण महामुने ।
समाधिभङ्गमत्यन्तमारब्धाः कर्तुमातुराः

1.12.14

सुनीतिर्नाम तन्माता सास्त्रा तत्पुरतः स्थिता ।
पुत्रेति करुणां वाचमाह मायामयी तदा

1.12.15

पुत्रकास्मान्निवर्तस्व शरीरात्ययदारुणात् ।
निर्बन्धतो मया लब्धो बहुभिस् त्वं मनोरथै

1.12.16

दीनामेकां परित्यक्तुमनाथां न त्वमर्हसि ।
सपत्नीवचनाद्वत्स अगतेस्त्वं गतिर्मम

1.12.17

क्व च त्वं पञ्चवर्षीयः क्वचैतद्दारूणं तपः ।
निवर्ततां मनः कष्टान्निर्बन्धात्फलवर्जितात्

1.12.18

कालः क्रीडनकानान्ते तदन्ते ऽध्ययनस्य ते ।
ततः समस्तभोगानां तदन्ते चेष्यते तपः

1.12.19

कालः क्रीडनकानां यस्तव बालस्य पुत्रक ।
तस्मिंस्त्वमिच्छसि तपः किं नाशायात्मनो रतः

1.12.20

मत्प्रीतिः परमो धर्मो वयोवस्थाक्रियाक्रमम् ।
अनुवर्तस्व मा मोहान्निवर्तास्मादधर्मतः

1.12.21

परित्यजति वत्साध्य यध्येतन्न भवांस्तपः ।
त्यक्ष्याम्यहमिह प्राणांस्ततो वै पश्यतस्तव

1.12.22

श्रीपराशर उवाच
तां प्रलापवतीमेवं बाष्पाकुलविलोचनाम् ।
समाहितमना विष्णौ पश्यन्नपि न दृष्टवान्

1.12.23

वत्स वत्स सुघोराणि रक्षांस्येतानि भीषणे ।
वने ऽभ्युद्यतशस्त्राणीः समायान्त्यपगम्यताम्

1.12.24

इत्युक्त्वा प्रययौ साथ रक्षांस्याविर्बभुस्ततः ।
अभ्युद्यतोग्रशस्त्राणि ज्वालामालाकुलैर् मुखैः

1.12.25

ततो नादानतीवोग्रन्राजपुत्रस्य ते पुरः ।
मुमुचुर्दीप्तशस्त्राणि भ्रामयन्तो निशाचराः

1.12.26

शिवाश् च शतशो नेदुः सज्वालाः कवलैर् मुखैः ।
त्रासाय तस्य बालस्य योगयुक्तस्य सर्वदा

1.12.27

हन्यतां दन्यतामेष छिद्यतां छिद्यतामयम् ।
भक्ष्यतां भक्ष्यतां चाय मित्युचुस्ते निशाचराः

1.12.28

ततो नानाविधान्नादान् सिंहोष्ट्रमकराननाः ।
त्रासाय राजपुत्रस्य नेदुस्ते रजनीचराः

1.12.29

रक्षांसि तानि ते नादाः शिवास्तान्यायुधानि च ।
गोविन्दासक्तचित्तस्य ययुर्नन्द्रियगोचरम्

1.12.30

एकाग्रचेताः सततं विष्णुमेवात्मसंश्रयम् ।
दृष्टवान् पृथिवीनाथपुत्रो नान्यं कथञ्चन

1.12.31

ततः सर्वासु मायासु विलीनासु पुनः सुराः ।
संक्षोभं परमं जग्मुस्तत्पराभवशङ्किताः

1.12.32

ते समेत्य जगद्योनिमनादिनिधनं हरिम् ।
शरण्यं शरणं यातास्तपसा तस्य तापिताः

1.12.33

देवा ऊचुः
देवदेव जगन्नाथ परेश पुरुषोत्तम ।
ध्रुवस्य तपसा तप्तास्त्वां वयं शरणं गताः

1.12.34

दिने दिने कलालेशैः शशाङ्क पूर्यते यथा ।
तथायं तपसा देव प्रयात्यृद्धिम् अहर्निंशम्

1.12.35

औतानपादितपसा वयमित्थं जनार्दन ।
भीतास्त्वां शरणं यातास्तपसस्तं निवर्तय

1.12.36

नविद्मः किं स शक्रत्वं सूर्यत्वं किमभीप्सति ।
वित्तपाम्बुपसोमानां साभिलाषः पदेषु किम्

1.12.37

तदस्माकं प्रसीदेश हृदयाच्छल्यमुद्धर ।
उत्तानपादतनयं तपसः सन्निवर्तय

1.12.38

श्रीभगवानुवाच
नेन्द्रत्वं न च सूर्यत्वं नैवाम्बुपधनेशताम् ।
प्रार्थयत्येष यं कामं तं करोम्यखिलं सुरा

1.12.39

यात देवा यथाकाम स्वस्थानं विगतज्वराः ।
निवर्तयाम्यहं बालं तपस्यासक्तमानसम्

1.12.40

श्रीपराशर उवाच
इत्युक्ता देवदेवेन प्रणम्य त्रिदशास्ततः ।
प्रययुः स्वानि धिष्ण्यानि शतक्रतुपुरोगमाः

1.12.41

भगवानपि सर्वात्मा तन्मयत्वेन तोषितः ।
गत्वा ध्रुवमुवाचेदं चतुर्भुजवपुर् हरिः

1.12.42

श्रीभगवानुवाच
औत्तानपादे भद्रं ते तपसा परितोषितः ।
वरदोहमनुप्राप्तो वरं वरय सुव्रत

1.12.43

ब्राह्यार्थनिरपेक्षं ते मयि चित्तं यदा हितम् ।
तुष्टोहं भवतस्तेन तद्वृणीष्व वरं परम्

1.12.44

पराशर उवाच
श्रुत्वेत्थं गदितं तस्य देवदेवस्य बालकः ।
उन्मीलिताक्षो ददृशे ध्यानदृष्टं हरिं पुरः

1.12.45

शङ्खचक्रगदाशार्ङ्गवरासिधरमच्युतम् ।
किरीटिनं समालोक्य जगाम शिरसा महीम्

1.12.46

रोमाञ्चिताङ्गः सहसा साध्वसं परमं गतः ।
स्तवाय देवदेवस्य स चक्रे मानसं ध्रुवः

1.12.47

किं वदामि स्तुतावस्य केनोक्तेनास्य संस्तुतिः ।
इत्याकुल मतिर्देवं तमेव शरणं ययौ

1.12.48

ध्रुव उवाच
भगवन्यदि मे तोषं तपसा परमं गतः ।
स्तोतुं तदहमिच्छामि वरमेनं प्रयच्छ मे

1.12.49

(ब्रह्माद्यौर्यस्य वेदज्ञैर् ज्ञायते यस्य नो गतिः ।
तं त्वां कथमहं देव स्तोतुं शक्रोमि बालकः ।
त्वद्भक्तिप्रवणं ह्येतत्परमेश्वर मे मनः ।
स्तोतुं प्रवृत्तं त्वत्पादौ तत्र प्रज्ञां प्रयच्च मे)
श्रीपराशर उवाच
शङ्खप्रान्तेन गोविन्दस्तं पस्पर्श कृताञ्जलिम् ।
उत्तानपादतनयं द्विजवर्य जगत्पतिः

1.12.50

अथ प्रसन्नवदनः स क्षणान्नृपनन्दनः ।
तुष्टाव प्रणतो भूत्वा भूतधातारमच्युतम्

1.12.51

ध्रुव उवाच
भूमिरापोनलो वायुः खं मनो बुद्धिरेव च ।
भूतादिरादि प्रकृतिर्यस्य रूपं नतोस्मि तम्

1.12.52

शुद्धः सूक्ष्मोखिलव्यापी प्रधानात्परतः पुमान् ।
यस्य रूपं नमस्तस्मै पुरुषाय गुणात्मने

1.12.53

भूतादीनां समस्तानां गन्धादीनां च शाश्वतः ।
बुध्यादीनां प्रधानस्य पुरुषस्य च यः परः

1.12.54

तं ब्रह्मभूतमात्मानमशेषजगतः पतिम् ।
प्रपद्ये शरणं शुद्धं त्वद्रूपं परमेश्वर

1.12.55

बृहत्त्वाद्बृंहणत्वाच्च यद्रूपं ब्रह्मसंज्ञितम् ।
तस्मै नमस्ते सर्वात्मन्योगिचिन्त्याविकारिणे

1.12.56

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सर्वव्यापी भुवः स्पर्शादत्यतिष्ठद्दशाङ्गुलम्

1.12.57

यद्भूतं यच्च वै भव्यं पुरूषोत्तम तद्भवान् ।
त्वत्तौ विराट् स्वराट् सम्राट् त्वत्तश्चप्यधिपूरुषः

1.12.58

अत्यरिच्यत सोधश् च तिर्यगूर्ध्वं च वै भुवः ।
त्वत्तो विश्वमिदं जातं त्वत्तौ भूतं भविष्यति

1.12.59

त्वद्रूपधारिणश्चान्तः सर्वभूतमिदं जगत् ।
त्वत्तो यज्ञः सर्वहुतः पृषदाज्यं पशुर्द्विधा

1.12.60

त्वत्तो ऋचोथ सामानि त्वत्तश्छन्दांसि जज्ञिरे ।
त्वत्तो यजूंष्यजायन्त त्वत्तोश्वाश्चैकतो दतः

1.12.61

गावस्त्वत्तः समुद्भूतास्त्व त्तोजा अवयो मृगाः ।
त्वमन्मुखाद्ब्राह्मणा बाह्वोस् त्वत्तो क्षत्रमजायत

1.12.62

वैश्वास्तवोरुजाः शूद्रास्तव पद्भ्यां समुद्गताः ।
आक्ष्णोः सूर्यो ऽनिलः प्राणाच्चन्द्रमा मनसस्तव

1.12.63

प्राणोन्तः मुषिराज्जातो मुखादग्निरजायत ।
नाभितो गगनं द्यौश् च शिरसः समवर्तत

1.12.64

दिशः श्रोत्रात्क्षितिः पद्भ्यां त्वत्तः सर्वमभूदिदिम्

1.12.65

न्यग्रोधः सुमहानल्पे यथा बीजे व्यवस्थितः ।
संयमे विस्वमखिलं बीजभूते तथात्वायि

1.12.66

बीजादङ्कुरसम्भूते न्यग्रोधस्तु समुत्थितः ।
विस्तारं च यथा याति त्वत्तः सृष्टौ तथा जगत्

1.12.67

यथा हि कदली नान्या त्वक्पत्रादपि दृस्यते ।
एवं विश्वस्य नान्यस्त्वं त्वस्थयीश्वर दृश्येत

1.12.68

ह्लादिनी संधिनी संवित्त्वय्येका सर्वसंस्थितौ ।
ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते

1.12.69

पृथग्भूतैकभूताय भूतभूताय ते नमः ।
प्रभूतभूतभूताय तुभ्यं भूतात्मने नमः

1.12.70

व्यक्तं प्रधानपुरुषौ विराट् सम्राट् स्वराट् तथा ।
विभाव्यतेन्तःकरणे पुरुषेष्वक्षयो भवान्

1.12.71

सर्वस्मिन्सर्वभूतस्त्वं सर्वः सर्वस्वरूपधृक् ।
सर्वं त्वत्तस्ततश् च त्वं नमः सर्वात्मने ऽस्तु ते

1.12.72

सर्वात्मकोसि सर्वेश सर्वभूतस्थितो यतः ।
कथयामि ततः किं ते सर्वं वेत्सि हृति स्थितम्

1.12.73

सर्वात्मन्सर्वभूतेश सर्वसत्त्वसमुद्भव ।
सर्वभूतो भवान्वेत्ति सर्वसत्त्वमनोरथम्

1.12.74

यो मे मनोरथो नाथ सफलः स त्वया कृतः ।
तपश् च तप्तं सफलं यद्दृष्टो ऽसि जगत्पते

1.12.75

श्रीभगवानुवाच
तपसस्तत्फलं यद्दृष्टो ऽहं त्वया ध्रुव ।
मदृर्शनं हि विफलं राजपुत्र न जायते

1.12.76

वरं वरय तस्मात्त्वं यथाभिमतमात्मनः ।
सर्वं संपद्यते पुंसां मयि दृष्टिपथं गते

1.12.77

ध्रुव उवाच
भगवन्भूतभव्येश सर्वस्यास्ते भवान् हृदि ।
किमज्ञातं तव ब्रह्मन्मनसा यन्मयेक्षितम्

1.12.78

तथापि तुभ्यं देवेश कथयिष्यामि यन्मया ।
प्रार्थ्यते दुर्विनीतेन हृदयेनातिदुर्लभम्

1.12.79

किं वा सर्वजगत्स्त्रष्टः प्रसन्ने त्वयि दुर्लभम् ।
त्वत्प्रसादफलं भुङ्क्ते त्रैलोक्यं मघ वानपि

1.12.80

नैतद्राजासनं योग्यमजातस्य ममोदरात् ।
इति गर्वदवोचन्मां सपत्नीमातुरुच्चकैः

1.12.81

आधारभूतं जगतः सर्वेषामुत्तमोत्तमम् ।
प्रार्थयामि प्रभो स्थानं त्वत्प्रसादादतोव्ययम्

1.12.82

श्रीभगवानुवाच
यत्त्वया प्रार्थ्यते स्थानमेतत्प्राप्स्यति वै भवान् ।
त्वयाहं तोषितः पूर्वमन्यजन्मनि वालक

1.12.83

त्वमासीर्ब्रह्मणः पूर्वं मय्येकाग्रमतिः सदा ।
मातापित्रोश् च शुश्रषुर्निजधर्मानुपालकः

1.12.84

कालेन गच्छता मित्रं राजपुत्रस्तवाभवत् ।
योवनेखिलभोगाढ्यो दर्शनीयोज्ज्वलाकृतिः

1.12.85

तत्सङ्गात्तस्य तामृद्धिमवलोक्यादिदुर्लभाम् ।
भवेयं राजपुत्रोहमिति वाञ्छा त्वया कृता

1.12.86

ततो यथाभिलषिता प्राप्ता ते राजपुत्रता ।
उत्तानपादस्य गृहे जातोसि ध्रुव दुर्लभे

1.12.87

अन्येषां दुर्लभं स्थानं कुले स्वायम्भुवस्य यत्

1.12.88

तस्यैतदपरं बाल येनाहं परितोषितः ।
मामाराध्य नरो मुक्तिमवाप्नोत्यविलम्बिताम्

1.12.89

मय्यर्पितमना बाल किमु स्वर्गादिकं पदम्

1.12.90

त्रैलोक्यादधिके स्थाने सर्वताराग्रहाश्रयः ।
भविष्यति न संदेहो मत्प्रसादाद्भावन्ध्रुव

1.12.91

सूर्यात्सोमात्तथा भौमात्सोमपुत्राद्बृहस्पतेः ।
सितार्कतनयादीनां सर्वर्क्षाणां तथा ध्रुवः

1.12.92

सप्तर्षिणामशेषाणां ये च वैमानिकाः सुराः ।
सर्वेषामुपरि स्थानं तव दत्तं मया ध्रुव

1.12.93

केचिच्चतुर्युगं यावत्केचिन्मन्वन्तरं सुराः ।
तिष्ठन्ति भवतो दत्ता मया वै कल्पसंस्थितिः

1.12.94

सुनीतिरपि ते माता त्वदासन्नातिनिर्मला ।
विमाने तारका भूत्वा तावत्कालं निवत्स्यति

1.12.95

ये च त्वां मानवाः प्रातः सायं च सुसमाहि ताः ।
कीर्तयिष्यन्ति तेषां च महत्पुण्यं भविष्यति

1.12.96

श्रीपराशर उवाच
एवं पूर्वं जगन्नाथाद्देवदेवाज्जनार्दनात् ।
वरं प्राप्य ध्रुवः स्थान मध्यास्ते स महामते

1.12.97

स्वयं शुश्रूषणाद्धर्म्यान्मातापित्रोश् च वै तथा ।
द्धादशाक्षरमाहत्म्यात्तपसश् च प्रभावतः

1.12.98

तस्याभिमानमृद्धिं च महिमानं निरिक्ष्य हि ।
देवासुराणामाचार्यः श्लोकमत्रोशना जगौ

1.12.99

अहोस्य तपसो वीर्यमहोस्य तपसः फलम् ।
यदेनं पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः

1.12.100

ध्रुवस्य जननी चेयं सुनीतिर्नाम सूनृता ।
अस्याश् च महिमानं कः शक्तो वर्णयितुं भुवि

1.12.101

त्रैलोक्यश्रयतां प्राप्तं परं स्थानं स्तिरायति ।
स्थानं प्राप्ता परं धृत्वा या कुक्षिविवरे ध्रुवम्

1.12.102

यश्चैतत्कीर्तयेन्नित्यं ध्रुवस्यारोहणं दिवि ।
सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते

1.12.103

स्थानभ्रंशं न चाप्नोति दिवि वा यदि वा भुवि ।
सर्वकल्याणसंयुक्तो दीर्घकालं स जीवति

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc