विष्णु पुराण · अध्याय 1.11
इति श्रीविष्णुपुराणे प्रथमे ऽंशे दशमो ऽध्यायः (10)
श्रीपराशर उवाच
प्रियव्रतोत्तानपादौ मनोः स्वायंभुवस्य तु ।
द्वौ पुत्रौ तु महावीर्यौ धर्मज्ञौ कथितौ तव
तयोरुत्तानपादस्य सुरुच्यामुत्तमः सुतः ।
अभीष्टायामभूद्ब्रह्यन्पितुरत्यन्तवल्लभः
सुनीतिर्नाम या राज्ञस्तस्यासीन् महिषी द्विज ।
स नाति प्रीतिमांस्तस्यामभूद्यस्या ध्रुवः सुतः
राजासनस्थितस्याङ्कं पितुर्भ्रतरमाश्रितम् ।
दृष्ट्वोत्तमं ध्रुव श्चक्रे तमारोढुं मनोरथम्
प्रत्यक्षं भूपतिस्तस्याः सुरुच्या नाभ्यनन्दत ।
प्रणयेनागतं पुत्रमुत्संगारोहणोत्सुकम्
सपत्नी तनयं दृष्ट्वा तमङ्कारोहणोत्सुकम् ।
स्वपुत्रं च तथारूढं सुरुचिर्वाक्यमब्रवीत्
क्रियते किं वृथा वत्स महानेष मनोरथः ।
अन्यस्त्रीगर्भजातेन ह्य् असंभूय ममोदरे
उत्तमोत्तममप्राप्यमविवेको हि वाञ्छसि ।
सत्यं सुतस्त्वमप्य् अस्य किं तु न त्वं मया धृतः
एतद्राजासनं सर्व भूभृत्संश्रयकेतनम् ।
योग्यं ममैव पुत्रस्य किमात्मा क्लिश्यतेत्वया
उच्चैर्मनोरथस्तेयं मत्पुत्रस्येव किं वृथा ।
सुनीत्यामात्मनो जन्म किं त्वया नावगम्यते
श्रीपराशर वाच
उत्सृज्य पितरं बालस्तच् छ्रुत्वा मातृभाषितम् ।
जगाम कुपितो मातुर्निजाया द्विजमन्दिरम्
तं दृष्ट्वा कुपितं पुत्रमीषत्प्रस्फुरिताधरम् ।
सुनीतिरङ्कमारोप्य मैत्रेयेदमभाषत
वत्स कः कोपहेतुस्ते कश् च त्वां नाभि नन्दति ।
कोवजानाति पितरं वत्स यस्तेपराध्यति
श्रीपराशर वाच
इत्युक्तः सकलं मात्रे कथयामास तद्यथा ।
सुरुचिः प्राह भूपालप्रत्यक्षमतगर्विता
विनिश्वस्येति कथिते तस्मिन्पुत्रेण दुर्मनाः ।
श्वसक्षामेक्षणा दीना सुनीतिर्वाक्यमब्रवीत्
सुनीतिरुवाच
सुरुचिः सत्यमाहेदं मन्दभाग्योसिःपुत्रक ।
न हि पुण्यवतां वत्स सपत्नैर् एव मुच्यते
नोद्वेगस्तात कर्तव्यः कृतं यद्भवता पुरा ।
तत्कोपहर्तु शक्नोति दातुं कश्चाकृतं त्वया
तत्त्वया नात्र कर्तव्यं दुःखं तद्वाक्यसम्भवम्
राजासनं राजच्छत्रं वराश्चावरवारणाः ।
यस्य पुण्यानि तस्यैते मत्वैतच्छांम्य पुत्रक
अन्यजन्मकृतैः पुण्यैः सुरुच्या सुरुचिर्नृपः ।
भार्येति प्रोच्यते चान्यां मद्विधा पुण्यवर्जिता
पुण्योपचयसंपन्नस्तस्याः पुत्रस्तथोत्तमः ।
मम पुत्रस् तथा जातः स्वल्पपुण्यो ध्रुवो भवान्
तथापि दुःखं न भवान् कर्तुमर्हसि पुत्रक ।
यस्य यावत्स तेनैव स्वेन तुष्यति मानवः
यदि ते दुःखमत्यर्थं सुरुच्या वचसाभवत् ।
तत्पुण्योपचये यत्नं कुरु सर्वफलप्रदे
सुशीलो भव धर्मात्मा मैत्रः प्राणिहिते रतः ।
निम्नं यथापः प्रवणाः पात्रमायान्ति सम्पदः
ध्रुव उवाच
अम्ब यत्त्वमिदं प्रात्थ प्रशमाय वचो मम ।
नैतद्दुर्वाचसा भिन्ने हृदये मम तिष्ठति
सो ऽहं तथा यतिष्यामि यथा सर्वोत्तमोत्तमम् ।
स्थानं प्राप्स्याम्यशोषाणां जगतामभि पूजितम्
सुरुचिर्दयिता राज्ञस्तस्या जातोस्मि नोदरात् ।
प्रभावं पश्य मेंब त्वं वृद्धस्यापि तवोदरे
उत्तमः स मम भ्राता यो गर्भेण धृतस्तया ।
स राजासनमाप्नोतु पित्रा दत्तं तथास्तु तत्
नान्यदत्तमभीप्स्यामि स्तानमम्ब स्वकर्मणा ।
इच्छामि तदहं स्थानं यत्र प्राप पिता मम
श्रीपराशर उवाच
निर्जगाम गृहान्मातुरित्युक्त्वा मातरं ध्रुवः ।
पुराच्च निर्गम्य ततस्तद्बाह्योपवनं ययो
स ददर्श मुनींस् तत्र सप्तपूर्वागतान्ध्रुवः ।
कुष्माजिनोत्तरीयेषु विष्टरेषु समास्थितान्
स राजपुत्रस्तान्सर्वान्प्रणिपत्याभ्य भाषत ।
प्रश्रयावनतः सम्यगभिवादनपूर्वकम्
ध्रुव उवाच
उत्तानपादतनयं मां निबोधत सत्तमाः ।
जातं सुनीत्यां निर्वेदाद्युष्माकं प्राप्तमन्तिकम्
ऋषय ऊचुः
चतुःपञ्चा ब्दसंभूतो बालस्त्वं तृपनन्दन ।
निर्वेदकारणं किञ्चित्तव नाद्यापि वर्तते
न चिन्त्यं भवतः किञ्चिद्ध्रयते भूपतिः पिता ।
न चैवैष्ट वियोगादि तव पश्याम बालक
शरीरे न च ते व्याधिरस्माभिर् उपलक्ष्यते ।
निर्वेदः किन्निमित्तस्ते कथ्यतां यदि विद्यते
श्रीपराशर उवाच
ततः स कथयामास सुरुच्या यदुदाहृतम् ।
तन्निशम्य ततः प्रोचुर्मुनयस्ते परस्परम्
अहो क्षात्रं परं तेजो बालस्यापि यदक्षमा ।
सपत्न्या मातुरुक्तं यद्धृदयान्नापसर्पति
भोभोः क्षत्रियदायादः निर्वेदाद्यत्त्वायाधुना ।
कर्तुं व्यवसितं तन्नः कथ्यतां यदि रोचते
यच्च कार्यं तवास्माभिः साहाय्यममितद्युते ।
तदुच्यतां विवक्षुस्त्वमस्माभिर् उपलक्ष्यसे
ध्रुव उवाच
नाह मर्थमभीप्सामि न राज्यं द्विजसत्तमाः ।
तत्स्थानमेकमिच्छामि भुक्तं नान्येन यत्पुरा
एतन्मे क्रियतां सम्यक्कथ्यतां प्राप्यते यथा ।
स्थानमग्र्यं समस्तेभ्यः स्थानेभ्यो मुनिसत्तमाः
मरीचिरुवाच
अनाराधितगोविन्दैर् नरैः स्थानं नृपात्मज ।
न हि संप्राप्यते श्रेष्ठं तस्मादाराधयाच्युतम्
अत्रिरुवाच
परः पराणां पुरुषो यस्य तुष्टो जनार्दनः ।
संप्राप्नोत्यक्षयं स्थानमेतत्सत्यं मयोदितम्
अङ्गिरा उवाच
यस्यान्तः सर्वमेवेदमच्युतस्याव्ययात्मनः ।
तमाराधय गोविन्दं स्थानमग्र्यं यदीच्छसि
पुलस्त्य उवाच
परं ब्रह्म परं धाम यो ऽसौ ब्रह्म तथा परम् ।
तमाराध्य हरिं याति मुक्तिमप्यति दुर्लभाम्
पुलह उवाच
ऐन्द्रमिन्द्रः परं स्थानं यमाराध्य जगत्पतिम् ।
प्राप यज्ञपतिं विष्णुं तमाराधय सुव्रत
क्रतुरुवाच
यो यज्ञपुरुषो यज्ञो योगेशः परमः पुमान् ।
तस्मिंस्तुष्टे यदप्राप्यं किन्तदस्ति जनार्दने
वसिष्ठ उवाच
प्राप्नोष्याराधिते विष्णौ मनसा यद्यदिच्छति ।
त्रेलोक्यान्तर्गतं स्थानं किमु वत्सोत्तमोत्तमम्
ध्रुव उवाच
आराध्यः कथितो देवो भवद्भिः प्रणतस्य मे ।
मया तत्परीतोषाय यज्जप्तव्यं तदुच्यताम्
यथा चाराधनं तस्य मया कार्यं महात्मनः ।
प्रसादसुमुखास्तन्मे कथयन्तु महर्षयः
ऋषय ऊचुः
राजपुत्र यथा विष्णोराराधनपरैर् नरैः ।
कार्यमाराधनं तन्नो यथावच्छ्रोतुमर्हसि
बाह्यार्थादखिलाच्चित्तं त्याजयेत्प्रथमं नरः ।
तस्मिन्नेव जगद्धाम्नि ततः कुर्वित निश्चलम्
एवमेकाग्रचित्तेन तन्मयेन धृतात्मना ।
जप्तव्यं यन्नि बोधैतत्तन्रः पार्थिवनन्दन
हिरण्यगर्भपुरुषप्रधानव्यक्तरूपिणे ।
ओं नमो वासुदेवाय शुद्धज्ञानस्वरूपिमे
एतज्जजाप भगवान् जप्यं स्वायंभुवो मनुः ।
पितामहस्तव पुरा तस्य तुष्टो जनार्दनः
ददो यथाभिलषितां सिद्धिं त्रैलोक्यदुर्लभाम् ।
तथा त्वमपि गोविन्दं तोषयैतत्सदा जपन्
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0