भाषा

ENहिગુ
ग्रंथ पाठ

विनयसूत्र · अध्याय 10

10.1

। नाप्रतिकृताज्ञपनजष्कर्म प्रत्यनुभवेत् ।

10.2

। उत्सृज्य पोषधं प्रवारणाञ् च ।

10.3

। न सीमान्तरस्थस्य कस्मिंश् चिद् अङ्गत्वम् ।

10.4

। ध्वंसस् तद्गतौ साह्य गतस्य ।

10.5

। उभयस्थत्वम् एकस्मिन्न् ए[55अ4]कत्र पादे परस्मिन् परत्र ।

10.6

। सर्वस्मिन्न् अवष्टम्भिनि स्थितस्यावष्टब्धे ।

10.7

। रूढिर् एवम् अनेकत्रोपगतेः ।

10.8

। अर्हत्वम् अनेकशयनासनग्राहे ।

10.9

। यथेष्टम् अस्य वस्तव्यता ।

10.10

। न व्यग्रकारित्वं जिनस्य ।

10.11

। न पूरकत्वम् ।

10.12

। नाकर्मणा तत्करणीयस्योत्थानम् ।

10.13

। कृतत्वं यद्भूयस् कृतत्वे वाक्यस्यानुत्तरस्य ।

10.14

। नाकीर्त्तित्वे निमित्तानां बन्धे ।

10.15

। पारिवासिके [55अ5] नान्तस्योपस्थानसंवृतेः ।

10.16

। उन्मत्तकेन चोद्देशस्य ।

10.17

। ज्ञप्तिवद् भेदानुष्ठानम् ।

10.18

। अनङ्गम् अत्र भिन्नव्यंजनत्वम् ।

10.19

। न हास्यभावेन कस्यचित् स्थूलम् अरूढिबुद्ध्या भेदोत्क्षेपयोः ।

10.20

। दुष्कृतम् असंघभूतत्वे ।

10.21

। नान्येषां नानासंवासिकेभ्यो बर्हाणां पूरणे गणेन ज्ञप्तिवाचनयोः ।

10.22

। नासंपन्नत्वे ऽर्ह[ः] स्वसंघेन प्रत्यनुभवस्य ।

10.23

। संपन्नत्वं [55अ6] ज्ञप्तिश्रुताव् अस्य नाविधिर् भव्यरूपे प्रतिनिधिना दूतेन प्रव्राजनम् ।

10.24

। उत्तरञ् चोपसंपादनात् ।

10.25

। नाप्रतीष्टो दत्तत्वम् ।

10.26

। ध्वंसो ऽत्र याचनस्य ।

10.27

। विधित्वं मेवकज्ञपनपूर्वकत्वे ऽस्य ।

10.28

। उत्क्षेपे ऽप्य् एतत् ।

10.29

। अवधानं परेणासमन्वाहाराद् युक्तो तन्त्रः ।

10.30

। नार्थच्छेदाना, क्रमव्यत्याद् अरूढिः ।

10.31

। अकरणीयत्वं भ्रेषस्य ।

10.32

। न व्यञ्जनान्तर[55ब्1]संश्रयात् ।

10.33

। न भिक्षुभिक्षुणीत्वयोर् अन्यकर्मवस्तुप्रतिज्ञपिते चोदकेन कल्पयति सांमुख्यं प्रणिधिकरणम् ।

10.34

। प्रतीतिमात्रेण सन्निपातादाने ।

10.35

। अनङ्गम् अदर्शने व्याघातित्वात् सत्त्वस्य प्रतिज्ञानम् ।

10.36

। अवकाशां करणे चायोगात् ।

10.37

। संपत्यास्वयम् अनुत्थाने चोदकस्योत्थापनम् ।

10.38

। [आ]क्रोषरोषकपरिभाषकतामलाभावा[55ब्2]साभ्यां संघस्य चेतकत्वम् ।

10.39

। राजकुलयुक्तकुलज्ञातिपुद्गलप्रतिसरणताम् अप्रतिसर्तृतां संघस्याबिभ्रतः ।

10.40

। अकुर्वाणस्यास्यागारिकतीर्थिकध्वजधारणतीर्थ्यसेवानाचारचरणान्यशिक्षणञ् च भिक्षुशिक्षायाम् उत्कचप्रकचस्य संघे रोम पातयतो निःसरणं प्रवर्त्तयतः समीचीम् उपदर्शयतो विरमतो निमित्ताद् अवसारणं याचिते ।

10.41

। [55ब्3] कर्मदानबर्हणोपसंपादनप्रतिप्रस्रम्भन्नोन्मज्जनञ् च ।

10.42

। कलहकारकतम् जयेयुः कर्मणा ।

10.43

। निगर्हणम् अभीक्ष्णसंघावशेषापत्तिकस्याप्रतिकृत्य ।

10.44

। कुलदूषकस्य प्रवासनम् ।

10.45

। अदानाकरणयोश् च तदर्थं संनिपातावकाशयोः ।

10.46

। उद्भावने च तददृष्टेः ।

10.47

। प्रतिसंहरणमवम् पण्डितागारिकस्य ।

10.48

। तत्क्षम[55ब्4]णकम् अत्र कर्मणः स्थाने ऽवसारणं प्रति प्रतीतायाम्[आ]पत्तावप्रतिकृतायाम् अप्रतिकार्यायां संवरेणादृष्टिम् उद्भावयन्तम् अनिच्छन्तं प्रतिकृतिम् अनुष्ठातुम् अनुत्सृजन्तं च पापिकां दृष्टिम् उत्क्षिपेयुः ।

10.49

। इहैवैनाम् आपत्तिं प्रतिकुर्वीथा अयम् एव त्व् आसंघः प्रस्रम्भयिष्यति इत्य् एवं ब्रूय्युः ।

10.50

। नापत्तिं प्रतिच्छादयेत् ।

10.51

। नाम्ना ऽन्ततः [55ब्5] प्रवेद्यत्वम् ।

10.52

। यथाकथंचित् दुष्कृतस्य ।

10.53

। प्रकृतिस्थे ।

10.54

। अनन्यदृष्टौ सोपसंपदि ।

10.55

। तुल्यव्यंजने ।

10.56

। अतैवैतत् सोत्तरम् ।

10.57

। कृतत्वम् अस्यैदंधर्मके ।

10.58

। सीमान्तरस्थे च ।

10.59

। संघे सर्वत्राज्ञापनजानाम् ।

10.60

। सन्निहिते तत्रास्रमे प्रतिदेशनीयस्य गर्ह्यम् आयुष्मन्तः स्थानम् आपन्नो सात्म्यं प्रतिदेशनीयन्त धर्मं प्रतिदे[श]यामि इति ।

10.61

। नैतन् मन्त्रवत् ।

10.62

। [55ब्6] संवरकृतेर् अतो व्युत्थानं मानसीतः ।

10.63

। अन्य तस्मै तदो देशनात् ।

10.64

। एकत्र ।

10.65

। अनन्यदृष्टो तत्र ।

10.66

। असमावन्ये निकायतः ।

10.67

। अभावे आपत्तितः ।

10.68

। निःसर्गवीचनपूर्वकानैःकातः ।

10.69

। संघे स्थूलात् सर्वत्र ।

10.70

। पंचकादौ सशेषागताद् गुरुणः ।

10.71

। अशेषागताद् अनवच्छिन्ने भूयसि ।

10.72

। लिङ्घोरस्माच् चतुष्कादौ ।

10.73

। कृत[56अ1] । ।वदन्ते ऽत्रोद्युक्तस्यासंपन्नप्रयत्वे कर्म ।

10.74

। दुष्कारवत्त्वमूढकृतस्य प्रत्यापत्तौ संज्ञायमानस्य तेन ।

10.75

। नामगोत्रोपसंहितम् आपत्तित्वात् कीर्त्तनम् ।

10.76

। इयत्कालप्रतिच्छन्नतया वा संघावशेषायाम् ।

10.77

। आवर्हणम् अतो व्युत्थानकृत ।

10.78

। चरितमानास्यस्य ।

10.79

। षड् अहम् आदाय संघात् ।

10.80

। अर्द्धमासं भिक्षुण्याः ।

10.81

। गुरुधर्मा[56अ2]तिक्रमे ऽप्य् अस्य चरितत्वम् ।

10.82

। असति प्रतिच्छाददोषे तद् रूढिः ।

10.83

। परिवाएन तदपहतिः ।

10.84

। तावन्तं कालम् आद्[आ]य संघात् ।

10.85

। क्रियमान्तायाम् अनयोस् तत्संघावशेषापदने ध्वंसः कृतादानयोः ।

10.86

। तस्मान् मूलोपक्रमत्वं दानम् ।

10.87

। निर्वाह्य तत्प्रस्तुतम् ।

10.88

। तस्माद् अरूढस्यास्य पृथक् तदानीम् उत्थाप्यता प्रथमं च ।

10.89

। प्रतिकार्यं तदान्तरम् ।

10.90

। तस्मात् तादर्थस्या[56अ3]पि संश्रयत्वम् ।

10.91

। अवरोध्यता चातिरिक्तस्य तत्प्रतिच्छादकालस्य ।

10.92

। कर्मणा न्योद्दानम् ।

10.93

। आवर्हणाञ् च ।

10.94

। तर्जनं चात्र ज्ञप्तिप्रथमवाचनान्तराले ।

10.95

। निपतितस्य तृणप्रस्तारकेण ।

10.96

। समुद्रेजनञ् च ।

10.97

। कृततोत्कीर्त्तनान्तरम् ।

10.98

। निष्काशनं दुःशीलस्य ।

10.99

। संघस्यात्र प्रगमः ।

10.100

। नासावेनदव्युपेक्षेत ।

10.101

। [56अ4] अवसार्यत्वं नाशितस्य ।

10.102

। नासां मन्ये प्रणिधातॄणाम् अवसारणस्य प्रणिहितौ रूढिः ।

10.103

। अवस्तव्यता दूषितस्थाने प्रवासितस्य ।

10.104

। सर्वत्रोत्क्षिप्तके संबास्यत्वासंभोग्यत्वे ।

10.105

। संज्ञयात्र व्यवस्थानम् ।

10.106

। अधर्मपक्षस्यैतिभिन्नतायाम् इतरेण ।

10.107

। नान्यस्य ।

10.108

। नान्यत्रैत प्रणिहिते ।

10.109

। अपाश्रयेणास्य वस्तव्यता सप्रेमकस्य ।

10.110

। विकृतेः क्रियमाणप्रणिधिना ध्वस्ते[56अ5]न च निष्कास्य मानेन भजने भाण्डस्य छोरणम् ।

10.111

। वलानिष्काशः ।

10.112

। अवलम्बनस्य छोदनम् ।

10.113

। अपतनधर्मणा तत्रोत्पाटनम् ।

10.114

। संघेन तस्य प्रतिसंस्करणम् ।

10.115

। संप्रदास्य ।

10.116

। असंपत्तौ वैहारात् ।

10.117

। न कलहकारकं निष्कास्यमानन् वारयेत् ।

10.118

। अनिवृत्तौ कलेर् उपशान्त्यै प्रयत्नाद् उत्क्षेपः ।

10.119

। विनिश्चयगते व्युपशमनेन ।

10.120

। निःश्रिते निःश्रयः प्रय[56अ6]तेत् ।

10.121

। निमित्तस्यापि कलेरुपसंहारिणोत्क्षेप्यता ।

10.122

। संसृष्टविहारिणम् अपि भिक्षुणीभिर् उत्क्षिपेयुः ।

10.123

। अवन्दनार्हसंवृतिम् अत्रोत्क्षिप्तस्य भिक्षुण्याष् कुर्युः ।

10.124

। उद्भवो ऽन्यस्य प्रणिधिः निमित्ते तदर्थाभिसन्धिनान्य् अप्रकृतौ ।

10.125

। अरूढिर् अन्यथात्वं परत्र ।

10.126

। अनुत्थानम् उत्क्षेपे ।

10.127

। स्थूलं ज्ञातमहापुण्यसूत्रविनयमातृकाधरबहुश्रुतपक्षम् अनिवाराणां [56ब्1] निर्दोषनागारिकभिक्ष्वादिपञ्चकावस्पण्डने ऽपि प्रतिसंहरणम् ।

10.128

। नाक्रोश्येनावस्पण्डनम् ।

10.129

। अनाशंक्यं स्वसाधारण्यम् ।

10.130

। अनुपसंपत्कस्यैषां प्रव्रजिते कर्तव्यता ।

10.131

। न गृहिणि ।

10.132

। पात्रसस्वाख्यातारं प्रति भिक्षोर् अभूतेन पाराजैकेन ।

10.133

। क्रोशकं परिभाषकं च निकुब्जयेरन् ।

10.134

। व्यवस्थाकरणतः ।

10.135

। प्रज्ञप्त्या ।

10.136

। न निकुब्जितया तस्य [56ब्2] गृहान् गच्छेत् ।

10.137

। नासनं परिभुञ्जीत ।

10.138

। न प्रज्ञप्तान् देयधर्मं ।

10.139

। न पिण्डपातं प्रतिगृह्णीतात् ।

10.140

। न धर्मं देशयेत् ।

10.141

। यत् कर्म करणं तद्गतानां निकुब्जितत्वम् ।

10.142

। अनुत्तानम् अस्यास्वपक्षकुलं प्रत्योत्क्षिप्तकात् ।

10.143

। तेतनमस्य केनचित् ।

10.144

। क्षमिततत्य् उन्मज्जनं ज्ञपनेन ।

10.145

। भवत्य् उत्थानम् अनुत्पन्नप्रतिच्छादचित्तस्यान्तिमातः ।

10.146

। शिक्षाचरणेन ।

10.147

। [56ब्3] तल्लभायाः संघतः ।

10.148

। कर्मणा दानम् ।

10.149

। यावज् जीव[म्] ।

10.150

। शुद्धिर् एकस्य पुरतो देशनेन संघावशेषतो ह्रीमतः ।

10.151

। सूत्रधरस्य विनयस्य मातृकायाः ।

10.152

। ज्ञातस्य च ।

10.153

। अशयतापत्तिव्युत्थानेन दण्डकर्मतः ।

10.154

। निकायतो नामात्रापत्तेर् नाम ।

10.155

। समुत्थानं गोत्रम् ।

मूल पाठ: Vinayasūtra · Edition: Preliminary transliteration of the ms. found in Tibet by Rahula Sankrityayana · Data entry Yoshiyasu Yonezawa et al. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc