भाषा

ENहिગુ
ग्रंथ पाठ

विनयसूत्र · अध्याय 11

11.1

। अप्रतीतत्वे संघावशेषान्तर्धाने [56ब्4] न्तास्थितप्रतिछादचित्तस्याशक्तवत्तायां कृतं ने वा किं* वा कीदृश्यं चेति स्मर्तुम् अनुपसंप कतोत्क्षिप्तयोश् चानुत्थानं प्रतिछादस्य ।

11.2

। भ्रष्टस्यावहारिकसंज्ञतायाम् आपत्तेर् अस्यापराजयात्* ।

11.3

। अप्रज्ञप्ततायां च ।

11.4

। नाज्ञातत्वेन स्रद्धितत्वे वा ।

11.5

। अनभिज्ञतासंज्ञिनो पि ।

11.6

। भूम्यन्तरस्थितायां प्राचो पि ।

11.7

। ज्ञानवत् प्रतिछादे विमतिः संघा[56ब्5]वशेषत्वं ।

11.8

। आवरणस्यापि साभूति या प्रतिछादानुत्थानस्य ।

11.9

। दुष्कृतम् अनादृत्यैः चरणोत्सर्गे ।

11.10

। तनैकायिकाध्याचारे चात्र ।

11.11

। संभवे चाप्रतिकृतौ ।

11.12

। तदवस्थत्वं प्रत्यागतावचरणभूमेः ।

11.13

। शोधिते वस्तुनि साषानुष्ठानम् अनिर्ज्ञाने प्रतिछादकालस्यासंव्य आनन्य् ऊनत्वस्य संश्रयणं ।

11.14

। चरितव्यतायां शुद्धान्तिकत्वोत्तरस्य ।

11.15

। चतु[56ब्6]रो मासां शुद्धान्तिकम् इति ।

11.16

। अपरिमात्वस्याप्रतिछादे ।

11.17

। संचिन्त्य शुक्रे विसृष्ट-समुत्थाम-परिमाणाम् इति ।

11.18

। यावतीष्व् अभिप्रायस् तावत् कीमित्वम् अत्रात्रानुष्ठितेः ।

11.19

। अपरिमान इत्य् अनिर्ज्ञाने स्य संश्रयसंबहुलाः परिमानवत्य इति प्राभूत्ये ।

11.20

। अतिरिक्तेन कालानां ।

11.21

। प्रभृतिमत्वेन नाम्नां ।

11.22

। गुरुत्वतीव्राशयकृतत्वा[57अ1] ॥भ्याम् आदित्वेन ।

11.23

। चरतो परप्राक्सम्पन्नप्रतिचिकीर्षोत्पत्तौ पृ[थ]ग्* दानम् एकं चरणं ।

11.24

। नास्य प्रतिछन्नतायां मानास्ये संभवः ।

11.25

। नानन्त्ये न्से होरात्रस्य प्रतिछादोत्थानम्* ।

11.26

। नाभावे ङ्गस्योद्भावनायात्मचित्ताना[ं] प्रतिछादः ।

11.27

। अभावममत्यपक्रान्तिवशस्य ।

11.28

। तदर्थवशतयापि कृतौ ।

11.29

। विनार्थे[57अ2]न दुष्कृतम् ।

11.30

। प्रात्कान्ह्यात् ।

11.31

। अनुत्सृष्टत्वं प्रतिछादचित्तस्य तत्चित्ततानदोर्षमापत्तेः पराजितस्याप्रकृतौ ।

मूल पाठ: Vinayasūtra · Edition: Preliminary transliteration of the ms. found in Tibet by Rahula Sankrityayana · Data entry Yoshiyasu Yonezawa et al. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc