विनयसूत्र · अध्याय 9
। विध्युत्क्रमे कर्मणो रूढिः ।
। नाश्राप्यश्रुतो ।
। नारूढि कुर्यात्* ।
। ज्ञप्तिवाचनाप्रातिमोक्षोद्देशप्रवारणास् तत् ।
। नाधर्मेण कुर्युः ।
। न व्यग्राः ।
। न गणस्य ।
। नासंघभूताः ।
। विं*शतिप्रभृतीनाम् आवर्तणे संघत्वं ।
। उपसंपदि दशप्रभृतीनां ।
। विनयधरपञ्चमादीनां प्रत्यन्तेष्व् असंपत्तौ ।
। शिष्टे चतुः[54अ3]प्रभृतीनाम्* हिरुक्त्वं भिक्षुणीनां ।
। कर्मणि प्रवारणं भिक्षुसंघे पि ।
। पोषधसंपन्नसामग्र्याणां तेन ।
। छन्दपोषधहरणेन तत्संपादनम्* ।
। द्वयोर् अत्र व्यापृतिः ।
। प्रतिबलत्वम् अनयोः ।
। अभाव एकस्याग्रहीतुभिक्षुसंघेन नियोगो भिक्षोः ।
। द्वारकोष्ठके तेनावस्थानम्* ।
। पलायमानस्य संज्ञपनम्* ।
। तेनास्येतत् ।
। न पलायनम ।
[54अ4] अज्ञातो नाम गोत्रप्रश्नः ।
। मानास्यवर्तणं द्वयोस् सामे तयोः ।
। उपसंपादनञ् च ।
। द्वादशवर्गो त्रासां ।
। सपूर्वसंवृतिद्वयपर्षदनलपर्षदुपस्थानसंवृतिदाने ऽन्तः संघस्य ।
। कल्पिकम् अशक्तौ कर्मकारिकायानितीरितं तया भिक्षुणा कृतम् वचनम्* ।
। यस्मात् तूष्णीम् इत्य् अतः प्राक्* ।
। नासन्निषादस्थस्य पूरकत्वम्* ।
। न यस्य क्रियतेः [54अ5] तस्माद् असत्वं पूरकत्वस्य छन्दपरिशुद्धिर् विधेः ।
। अर्हत्*त्वम् अनयोः ।
। असम्मतिप्रकारकत्वेन ।
। नानुपसंपत्कध्वस्तानन्तर्यकृत्पापदृष्टिभूम्येन्तरस्थनानासंवासिकानाम्* ।
। सस्खलितस्य च ।
। संवरकरणीयेनापि ।
। भवत्य् अधिष्ठानेन शुद्धत्वम्* ।
। न शक्यतायाम्* ।
। शक्यत्वं तदातने शुद्धप्रायश्चित्तिकप्रतिदेशनीयदुःकृतप्रतिकरणस्य प्रतिग्र[54अ6]हीतृसद्भावे देशनामात्रकत्वात्* ।
। यथा संघम् आपन्ने प्रतिपद्येत् ।
। न्याय्यम् एवं नाशनं चैकस्य ।
। प्रतिकरणञ् चानेकधा ।
। नैषां कर्तृत्वं ।
। उद्देष्ट्टत्वं सावशेषं प्रतिक्रियायां ।
। वर्तमानस्य नातो न्यैभिः सश्रुतं कुर्युः ।
। उत्सृज्य वर्जितम् अनावृत्तं ।
। उत्क्षिप्तञ् च स्वकर्मणि ।
। अन्नः पृच्छार्थं ज्ञप्तिप्रभृतौ चोपद्यमानं ।
। दर्श[54ब्1]नोपविचारस्थाताया सांमुख्यस्य ।
। निवेदनेनानुश्रावणस्य तत्करणीये संपादनं ।
। असंमुखीभूतस्य विहारो उन्मत्तकावन्दनानालपनासंभोगसंवृतयः ।
। नाज्ञपिते तदर्थं वाचना ।
। तत्सीमान्तर्गतस्यार्हस्य पूरणे कायतः छन्दतो वा संनिषादे ननुप्रविष्टत्वं प्रतिक्रोषन्ता च यस्य तत्कर्म ततो न्यस्य प्रतिकूलं चेत् धर्मं वाच्युतस्येर्यापथात्* प्र[54ब्2]कृतिस्थस्य संयतस्य वा चोत्सृज्यानभिज्ञसान्तरात्* व्यग्रत्वं ।
। मृषावादप्रह्वत्वम् असंयतिर् वाचा ।
। पैषुन्ये पारुष्ये संभिन्नप्रलापे च ।
। अप्रकृतिस्थत्वम् अत्र चान्यत्र वा करणीये करणीयकृतौ च ।
। च्युतिरीर्यापथाद् विप्रक्रमणचित्तेन प्रवृत्तस्यास्योत्सृष्टिः ।
। संघे दृष्टिम् आविस्कुर्वीत ।
। नान्यत्र ।
। नानुपसंपत्क ।
। अनर्हे वा पूरणायां ।
। नानव[54ब्3]शेषत्वे ।
। संमन्येरन्* साधुतरवहुतरकारिणं संमतम् अपसार्य ।
। न नियम्य कालं पौनःपुन्ये न्यत्र वा ।
। दध्युर् अन्यत्र यावद् अर्थं परिहारं ।
। शलाकग्रहणेनाभावे संमतस्य भाजनम् ।
। यस्य पूरणे नर्हत्व शलाकाचारणे पि तस्य ।
। संघभेदे स्य रूढिर् अनर्हे न चारणे शलाकाणां ।
॥ नाधिक्ये वाचनानाम् अकृ[54ब्4]तत्वं ।
। अकृतत्वं हापने ।
। क्रियमाणतायां प्रक्रान्तावपूर्णस्य पर्वणो विगुपितत्वम्* ।
। पूर्णस्यानवशिष्टत्वे तत्कर्मसंघपरिमाणानाम् अव्युत्थितानाम्* ।
। नावशिष्टत्वे ।
। पुनश् चेत् तच्चिकीर्षाधिकोपनम् वा च ।
। संघविज्ञपनेन ।
। पुनर् भदन्ताज्ञप्तिं* करिष्याम्य् अनुश्रावणञ् चेति ।
। प्रतिनिःसृष्ट्यर्था ज्ञपननासन तत्स्वभावैषीय[54ब्5]शिक्षासामग्रीतत्पोषधतीर्थ्यपरिवासतदन्यमानास्यमूलापकर्षस्मृत्यमूढविनदानोपसंपादनोपसंपादनसीममोक्षप्रणिधिकर्मावर्हणेषु त्रिर् वाचना स्वार्थानिरिक्तमंत्रोक्तिः ।
। पुद्गले च परा र्थं ।
। निषण्णो स्योत्कुटुकिकया पुरतो निरिक्तेश् च ।
। रोचनं च ।
। इष्टके पार्ष्णिभ्यां विरहो ऽनुशिष्टानुपसंपदि ।
। मसूरिकादौ स्त्रियाः [54ब्6] वृद्धान्ते नन्यतन्त्रतायां संघे स्थितस्य परार्थे सप्रणतम्* ।
। अन्तरमार्गे समनुषिष्टतायां रहसीत्य् एकम्* ।
। द्रव्याधिष्ठानञ् च ।
। तत्त्वम् विकल्पनस्य ।
। गृहीत्व तदेतत्* ।
। पात्रभैषज्यं वामे पाणो प्रतिस्थाप्य प्रतिछाद्य दक्षिणेन पाणिना ।
। अग्रत स्वस्याग्राह्यतायां
। असंसृतौ संघैकद्वयोः पुद्गलस्य [55अ1] ॥ विज्ञप्यत्वं भिक्षोः ।
। रोहन्त्य् असान्निध्ये चीवरस्य मनसा विकल्प उत्सर्गे धिष्ठानञ् च नानुत्सृष्टे पूर्वत्र ।
। वाग्भाषै चैकाधिष्ठानं तदाशयोपसंपत्तिपूर्वकं ।
। कृतैकांशोत्तरासंगत्वं ।
। समागतत्वे भिक्षूणां ।
। सामीच्या तदर्हत्वेः वचनीयताया स्वार्थामन्त्रस्य ।
। अशिष्टौ च रहसि ।
। ससांघाटितायाम् उपसंपत्संनिषादे ।
। आदौ [55अ2] च त्रिःप्रगृहीतां जलित्वं तादर्थ्ये दिवसारोचने च ।
। औपयिकम् इत्य् अन्ते स्वार्थं विज्ञप्तेन वचनं पुद्गलश् चेत् ।
। स्वार्थि तदन्वितरेण ।
। छन्दद्वेषमोहभयगतिविरहितस्य शक्तस्य कृताकृतस्मरणे संमतिर् उत्साह्य ।
। कृताकृतव्रवेदनं स्थिते ।
। वर्धत्ववर्धव्यामानतायां सीम्नि प्रतिपत्तिः ।
। गण्ड्याकोटनपृष्टवाचिकासमनुयोगाभ्यां सन्निषादकेन सन्नि[55अ3]षाद्यानां बोधनम् ।
। तस्य तदर्थम् आसनं प्रज्ञपनम् ।
। संमतस्य तत्कार्यार्थतायाम् एतत्त्वं ।
। सर्वत्र यथा वृद्धिका ।
। रुच्याग्राह्ये ग्रत्वं ।
मूल पाठ: Vinayasūtra · Edition: Preliminary transliteration of the ms. found in Tibet by Rahula Sankrityayana · Data entry Yoshiyasu Yonezawa et al. · GRETIL (Göttingen) · CC BY-NC-SA 4.0