भाषा

ENहिગુ
ग्रंथ पाठ

विग्रहव्यावर्तनी · श्लोक 41-60

41

यदि चाग्निवत् स्वतः प्रमाणसिद्धिर् इति मन्यसे । अनपेक्षापि प्रमेयाणि प्रमाणानां सिद्धिः भविष्यतीति किं कारणं । न हि स्वतः परम् अपेक्षते । अथापेक्ष्यते न स्वतः प्रसिद्धिः ।
अत्राह । यदि नापेक्ष्यन्ते प्रमेयान् अर्थान् अप्रमाणानि को दोषो भविष्यतीति । अत्रोच्यते ।
अनापेक्सा हि प्रमेयान् अर्थान् यदि ते प्रमाणसंसिद्धिः ।
भवति न भवन्ति कस्यचिद् एवम् इमानि प्रमाणानि

42

यदि प्रमेयान् अर्थान् अनपेक्ष्य सिद्धिर् भवति प्रमाणानाम् इति । तानीमानि प्रमाणानि न कस्यचित् प्रमाणानि भवन्ति । एवं दोषः ॥ अथ कस्यचित् भवन्ति प्रामाणानि । नैवेदानीम् अनपेक्ष्य प्रमेयान् अर्थान् प्रमाणानि भवन्ति ॥
अथ मतम् अपेक्ष सिद्धिस् तेषाम् इति अत्र भवति को दोषः ।
सिद्धस्य न साधनं स्यान् नासिद्धो पेक्षते ह्य् अन्यत्

43

अथापि मतम् अपेक्ष्य प्रमेयान् अर्थान् प्रमाणानां सिद्धिर् भवतीति । एवं ते सति सिद्धस्य प्रमाणचतुष्टयस्य साधनं भवतीति । किं कारणं । न ह्य् असिद्धस्यार्थस्यापेक्षणं भवति । न ह्य् असिद्धो देवदत्तः कञ्चिद् अर्थम् अपेक्षते न च सिद्धस्य साधनम् इष्टं कृतस्य कारणम् अनुपपत्तेर् इति ॥
किञ्चान्यत् ।
सिध्यन्ति हि प्रमेयाण्य् अपेक्ष्य यदि सर्वथा प्रमाणानि ।
भवन्ति प्रमेयसिद्धिर् अनपेक्ष्यैव प्रमाणानि

44

यदि प्रमेयाण्य् अपेक्ष्य प्रमाणानि सिध्यन्ति । नेदानीं प्रमाणान्य् अपेक्ष्य प्रमेयाणि सिध्यन्ति । किं कारणं न हि साध्यं साधनं साधनं साधयति । साधनानि च । किल प्रमेयाणां प्रमाणानि ॥
किञ्चान्यत् ।
यदि च प्रमेयसिद्धिर् अनपेक्षैव भवति प्रमाणानि ।
किन् ते प्रमाणसिद्ध्या तानि यद् अर्थं प्रसिद्धं तत

45

यदि च मन्यसे ऽनपेक्ष्यैव प्रमाणानि प्रमेयानां प्रसिद्धिर् भवति । किम् इदानीं ते प्रमाणसिद्ध्या पर्यन्विष्टया किं कारणं । यद् अर्थं हि तानि प्रमाणानि पर्यन्विष्येरन् । ते प्रमेयार्था विना प्रमाणैः सिद्धाः तत्र किं प्रमाणैः कृत्यं ।
अथ तु प्रमाणसिद्धिर् भवत्य् अपेक्ष्यैव ते प्रमेयाणि ।
व्यत्यय एवं सति ते ध्रुवं प्रमाणप्रमेयाणां

46

अथापि मन्यसे ऽपेक्ष्यैव प्रमेयान् अर्थान प्रमाणनि भवन्ति । एवं ते सति मा भूत् पूर्वोक्तदोष इति कृत्वा । एवं ते सति व्यत्ययः + + + + + याणां भवति । प्रमाणानि ते प्रमेयाणि भवन्ति । प्रमेयैः साधितत्वत् । प्रमाणानि च प्रमेयाणि भवन्ति । प्रमाणानां साधकत्वात् ।
अथ ते प्रमाणसिद्ध्या प्रमेयसिद्धिः प्रमेयसिद्ध्या च ।
भवति प्रमाणसिद्धिः नास्त्य् उभयस्यापि ते सिद्धिः

47

अथ मन्यसे प्रमाणसिद्ध्या प्रमेयसिद्धिर् भवति प्रमाणापेक्षत्वात् । प्रमेयसिद्ध्या च प्रमाणसिद्धिर् भवति प्रमेयापेक्षत्वाद् इति ॥ एवं सत्य् उभयस्यापि सिद्धिर् न .य्. + + + + णं
सिध्यन्ति हि प्रमाणैर् यदि प्रमेयाणि तानि तैर् एवा ।
साध्यानि च प्रमेयैस् तानि कथं साधयिष्यन्ति

48

यदि हि प्रमाणैः प्रमयाणि सिध्यन्ति तानि प्रमाणानि तैर् एव प्रमेयैः साधयितव्यानि । नन्व् असिद्धेषु प्रमेयेषु कारणस्यासिद्धत्वाद् असिद्धानि कथं साधयिस्यन्ति प्रमेयाणीति ।
सिध्यन्ति च प्रमेयैः यदि प्रमाणानि तानि तैर् एव ।
साध्यानि च प्रमेयैस् तानि कथं साधयिष्यन्ति

49

यदि प्रमेयैः प्रमाणानि सिध्यन्ति तानि च प्रमेयाणि तैर् एव प्रमाणैः साधयितव्यानीति । नन्व् असिद्धेषु प्रमाणेषु कारणस्यासिद्धत्वाद् असिद्धानि कथं साधयिष्यन्ति प्रमाणानि ।
पित्र यद्य् उत्पाद्यः पुत्रो यदि तेन चैव पुत्रेण ।
उत्पाद्यः स यदि पिता वद तत्रोत्पादयति कः कं

50

तद्यथापि नाम कश्चित् ब्रूयात् । पित्रा पुत्र उत्पादनीयः स च पिता पुत्रेणोत्पादनीय इति । तत्रेदानीं ब्रूहि केन क उत्पादयितव्यः । तथैव खलु भवान् ब्रवीति । प्रमाणैः प्रमेयानि साधयितव्यानि तान्य् एव च पुनः प्रमाणानि तैः प्रमेयैः तत्रेदानीं तु कतमैः कतमानि साधयितव्यानि ।
कश् च पिता कः पुत्रः तत्र त्वं ब्रूहि कथं ताव् उभाव् अपि च ।
पित्रेपुत्रलक्षणधरौ यतो नस् तत्र संदेहः

51

तयोश् च पूर्वोपदिष्टयोः पितापुत्रयोः वद कतरः पुत्रः कतरः पिता उभाव् अपि ताव् उत्पादकत्वात् पितृलक्षणधरौ । उत्पाद्यत्वाच् च पुत्रलक्षणधराव् अत्र नः सन्देहो भवति । कतरस् तत्र पिता कतरस् तत्र पुत्र इति । एवम् एव यान्य् एतानि भवति । प्रमाणप्रमेयणि । तत्र कतराणि प्रमाणानि कतराणि प्रमेयाणि । उभयान्य् अपि ह्य् एतानि प्रमाणानि तानि प्रमेयाणि साध्यत्वात् प्रमेयाणीति । अत्र नः सन्देहो भवति । कतराण्य् अत्र प्रमाणानि कतराणि प्रमेयाणीति ।
नैव स्वतः प्रसिद्धिर् न परस्परतः प्रमाणैर् वा ।
भवति न च प्रमेयैः न चाप्य् अकस्मात् प्रमाणानां

52

न स्वतः प्रसिद्धिः प्रत्यक्षस्य तेनैव प्रत्यक्षेणानुमानस्य तेनैवानुमाने । उपमानस्य तेनैवोपमानेन । आगमस्य तेनैवागमेन ॥ नापि परस्यात् प्रत्यक्षस्यानुमानोपमानागमैर् अनुमानस्य प्रत्यक्षोपमानागमैर् उपमानस्य प्रत्यक्षानुमानागमैः । आगमस्य प्रत्यक्षानुमानोपमानैः । नापि प्रत्यक्षानुमानोपमानागमाद् अन्यैः प्रत्यक्षानुमानोपमानागमैर् यथास्वं नापि प्रमेयैः समस्तव्यस्तैः स्वविषयपरविषतागृहीतैः नाप्य् अकस्मान् नास्ति समुच्चयेन । एतेषां कारणानां पूर्वोद्दिष्टानां विंशस् त्रिंशच् चत्वारिशत् षट्विंशतिर् वा तत्र यद् उक्तं । प्रमाणाधिगम्यत्वात् प्रमेयाणां भावानां सन्ति तु प्रमेया भावास् तानि च प्रमाणानि यैस् तु प्रमाणैः प्रमेया भावाः सन्तश् च भावाः समाधिगता इति तन् न ॥
यत् पुनर् भवतोक्तम् ।
कुशलानां धर्माणां धर्मावस्थाविदश् च मन्यन्ते ।
कुशलं जनस्वभावं मन्यन्ते शेषेष्व् अप्य् एष विनियोगः । [7]
अत्र ब्रूमः ।
कुशलानां धर्माणां धर्मावस्थविदो ब्रूवते यत् ।
कुशलस्वभावम् एवं प्रविभागेनाभिधेयः स्यात्

53

कुशलानां धर्माणां धर्मावस्थविदः कुशलं जनस्वभावं मन्यन्ते । स च भवता प्रविभागेनोपदेष्टव्यः । स्याद् अयं स कुशलः स्वभावः इमे ते कुशला धर्मा इति । इदं तत्कुशलविज्ञानम् अयं कुशलविज्ञानस्वभाव एवं सर्वेषां न चैतद् एवं दृष्टं । तस्माद् यद् उक्तम् उपदिष्टः स्वभावो धर्माणाम् इति तन् न ॥
किञ्चान्यत् ।
यदि च प्रतीत्य कुशलः स्वभाव उत्पद्यते स कुशलानाम् ।
धर्माणां परभावः स्वभाव एव कथं भवति

54

यदि च कुशलानां धर्माणां स्वभावो हेतुप्रत्ययसामग्रीं प्रतीत्योत्पद्यते । परभावाद् उत्पन्नः कुशलानां धर्माणां कथं स्वभावो भवति । एवम् एवाकुशलप्रभृतीनां । तत्र यद् उक्तं । कुशलाव्याकृतानां ना .य्. + + + धर्माणां कुशलः स्वभावोपदिष्टः । एवम् अकुशलानाम् अकुशलादिर् इति । तन् न ॥
किञ्चान्यत् ।
अथ न प्रतीत्य किञ्चित् स्वभाव उत्पद्यते स कुशलानाम् ।
धर्माणाम् एवं स्याद् वासो न ब्रह्मचर्यस्य

55

अथ मन्यसे । न किञ्चित् प्रतीत्य कुशलानां धर्माणां कुशलस्वभाव उत्पद्यते । एवम् अकुशलानां धर्माणाम् अकुशलः अव्याकृतानाम् अव्याकृत इति । एवं सत्य् अब्रह्मचर्यवासो भवति किं कारणं । प्रतीत्यसमुत्पादस्य हि एवं सति प्रत्याख्यानं भवति । प्रतीत्यसमुत्पादस्य प्रत्याख्यानात् प्रतीत्यसमुत्पाददर्शणं प्रत्याख्यानं भवति । न ह्य् अविद्यमानस्य प्रतीत्यसमुत्पादस्य दर्शनम् उत्पद्यमानं भवति । असति प्रतीत्यसमुत्पाददर्शने धर्मदर्शनं न भवति । उक्तं हि । भगवता यो हि भिक्षवः प्रतीत्यसमुत्पादं पश्यति स धर्मं पश्यति । धर्मदर्शनाभावाद् ब्रह्मचर्यवासाभावः ॥
अथवा प्रतीत्यसमुत्पादप्रत्याख्यानात् । दुःखसमुदायप्रत्याख्यानं भवति । प्रतीत्यसमुत्पादो हि दुःखस्य समुदयः । दुःखसमुदयस्य प्रत्याख्यानाद् दुःखप्रत्याख्यानं भवति । असति हि समुदये तत् कुतो दुःखं समुदेष्यति । दुःखसमुदयप्रत्याख्यानाच् च दुःखनिरोधस्य प्रत्याख्यानं । असति हि दुःखसमुदये कस्य प्रहाणान् निरोधो भविष्यति । असति हि दुःखनिरोधे कस्य प्राप्तये मार्गो भविष्यति । दुःखनिरोधगामी । एवं चतुर्णाम् आर्यसत्यानाम् अभावाच् छ्रामण्यफलाभावः । सत्यदर्शनादिश्रमण्यफलानि समाधिगम्यन्ते । श्रामण्यफलानाम् अभावाद् अब्रह्मचर्यवास इति ॥
किञ्चान्यत् ।
नाधर्मो धर्मो वा सत्यव्यवहाराश् च लोकिका नि स्युः ।
नित्याश् च सर्वभावाः स्युः नित्यत्वाद् अहेतुमतः

56

एवं सति प्रतीत्यसमुत्पादं प्रत्याचक्षणस्य भवतः को दोष प्रसज्यते । धर्मो न भवति अधर्मो न भवति । संव्यवहाराश् च लौकिका न सम्भवन्ति । किं कारणं प्रतीत्यसमुत्पन्नं ह्य् एतत् सर्वम् असति प्रतीत्यसमुत्पादे कुतो भविष्यति । अपि च सस्वभावो ऽप्रतीत्यसमुत्पन्नो निर्हेतुको नित्यः स्यात् । किं कारणं निर्हेतुका हि भावा नित्यास् तत्र स एव चाब्रह्मचर्यवासः प्रसज्येत् स्वसिद्धान्तविरोधश् च । किं कारणम् अनित्या हि भगवता सर्वे संस्कारा निर्देष्टास् ते स्वभावनित्यत्वान् नित्या हि भवन्ति ।
एष चाकुशलेष्व् अव्याकृतेषु नैर्याणादिषु च दोषस् ।
तस्मात् सर्वं संस्कृतम् असंस्कृतं ते भवत्य् एवं

57

यश् चैष कुशलेषु निर्देष्टः कल्पः स एवाकुशलेषु स एवाव्याकृतेषु स एवानैर्याणिकप्रभृतिषु दोषस् तस्मात् सर्वम् इदं संस्कृतम् असंस्कृतं संपद्यते ॥ किंकारणं हेतो ह्य् असत्य् उत्पादस्थितिभङ्गा न भवन्ति । उत्पादस्थितिभङ्गेष्व् असत्सु संस्कृतलक्षणाभावात् । सर्वं संस्कृतम् असंस्कृतं संपद्यते । तत्र यद् उक्तं कुशलादीनां भावानां स्वभावसद्भावाद् अशून्याः सर्वभावा इति तन् न ॥
यत् पुनर् भवतोक्तं ।
यदि च न भवेत् स्वभावो भावानां न स्वभाव इत्य् एवं
नामापि भवेद् एवं नाम हि निर्वस्तुकं नास्ति । [9]
यः सद्भूतं नाम ब्रूयात् सस्वभाव इत्य् एवम् ।
भवता प्रतिवक्तव्यो नाम ब्रूमश् च न वयं सत

58

यो नाम सद्भूतं ब्रूयात् सस्वभाव इति स भवता प्रतिवक्तव्यः स्यात् । यस्य सद्भूतं नाम स्वभावस्य । तस्मात् तेनापि स्वभावेन सद्भूतेन भवितव्यं । न ह्य् असद्भूतस्य स्वभावस्य सद्भूतं नाम भवतीति । न पुनर् वयं नाम सद्भूतं ब्रूमस् तद् अपि हि स्वभावस्याभावान् नाम निःस्वभावत्वात् शून्यं शून्यत्वाद् असद्भूतम् । तत्र यद् भवतोक्तं नामसद्भावात् सद्भूतः स्वह्हावा इति । तन् न ॥
किञ्चान्यत् ।
नामासद् इति च यद् इदं तत् किं नु सतो भवत्य् उतासतः ।
यदि हि सतो यद्य् असतो द्विधापि ते हीयते वादः

59

यच् चैतन् नामासद् इति तत् किं सतः असतः । यदि हि सतस् तन् नाम यद्य् असत उभयथापि प्रतिज्ञा हीयते । तत्र यदि तावत् सत । असद् इति प्रतिज्ञा हीयते । न हीदनीं तद् असद् इदानीं सत्* अथासत । असद् इति नाम या प्रतिज्ञा असद्भूतस्य नाम न भवति अस्तित्वस्वभाव इति नाम तस्मात् सद्भूतः स्वभाव इति । सा हीना ॥
किञ्चान्यत् ।
सर्वेषां भावानां शून्यत्वञ् चोपपादितं पूर्वम् ।
स उपालम्भः तस्माद् भवत्य् अयञ् चाप्रतिज्ञायाः

60

इह चास्माभिः पूर्वम् एव सर्वेषां भावानं विस्तरतः शून्यत्वम् उपपादितम् । तत्र प्राग् नामनो ऽपि शून्यत्वम् उक्तं संभवा अशून्यत्वं परिगृह्य प्रवृत्तो वक्तुं । यदि भावानां स्वाभावो न स्याद् अस्वभाव इति नामापीदन् न स्याद् इति । तस्माद् अप्रतिज्ञोपालम्भो यं भवतः संपद्यते । न हि वयं नाम सद्भूतम् इति ब्रूमः ॥
यत् पुनर् भवतोक्तं ।
अथ विद्यते स्वभावस् स च धर्माणां न विद्यते स तस्मात्
धर्मैर् विना स्वभावः स यस्य तद् युक्तम् उपदेष्टुं । [10]
अथ विद्यते स्वभावः स च धर्माणां न विद्यतत् इति इदम् ।
आशङ्कितं यद् उक्तं भवत्य् अनाशङ्कितं तच् च

मूल पाठ: Vigrahavyāvartanī · Edition: Yoshiyasu Yonezawa: "Vigrahavyāvartanī, Sanskrit Transliteration and Tibetan Translation", Journal of Naritasan Institute for Buddhist Studies 31 (2008), pp. 209-333. = Vv · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc