भाषा

ENहिગુ
ग्रंथ पाठ

विग्रहव्यावर्तनी · श्लोक 61-70

61

न हि वयं धर्माणां स्वभावं प्रतिषेधयामः । धर्मविनिर्मुक्तस्य वा कस्यचिद् अर्थस्य स्वभावम् अभ्युपगच्छामः । नन्व् एवं सति य उपालम्भो भवति । यदि धर्मा निःस्वभावाः कस्य खल्व् इदानीम् अन्यस्यार्थस्य धर्मविनिर्मुक्तस्य स्वभावो भवति । स युक्तम् एवोपदेष्टम् इति । दूरापकृष्टम् एवैतत् भवति ।
यत् पुनर् भवतोक्तं ।
सत एव प्रतिषेधो नास्ति घटो गेह इत्य् अयं यस्मात् ।
दृष्टः प्रतिषेधो ऽयं मतः स्वभावस्य ते तस्मात् । [11] इत्य्
अत्र ब्रूमः ।
सत एव प्रतिषेधो यदि शून्यत्वं नन्व् अप्रतिसिद्धम् इदम् ।
प्रतिषेधयते हि ह्हवान् भावानां निःस्वभावत्वं

62

यदि स्वत एव प्रतिषेधो भवति । नामतो भावानां निःस्वभावत्वं प्रतिषेधयति । ननु प्रतिसिधं सर्वभावानां निःस्वभावत्वं त्वद्वचनेन । प्रतिषेधयसि त्वं सद्भावात् । निःस्वभावत्वस्य च सर्वभावानां प्रतिसिधत्वात् । प्रतिसिद्धा शून्यतेति
प्रतिषेधयसे अथ त्वं शून्यत्वं तच् च नास्ति शून्यत्वम् ।
प्रतिषेधः सत इति ते नन्व् एष विहीयते वादः

63

अथ शून्यत्वं प्रतिषेधयसि त्वं । सर्वभावानां निःस्वभावत्वं शून्यत्वं नास्ति तच् च शून्यत्वम् । या तर्हि ते प्रतिज्ञा सतः प्रतिषेधो भवति नासत इति सा हीना ॥
किञ्चान्यत् ।
प्रतिषेधयामि नाहं किञ्चित् प्रतिषेध्यम् अस्ति न च किञ्चित् ।
तस्मात् प्रतिषेधयसीत्य् अधिलय एव त्वया क्रियते

64

एवम् अपि तु कृत्वा यद्य् अहं किञ्चित् प्रतिषेधयामि ततो युक्तम् एव वक्तुं स्यात् । न चैवहं किञ्चित् प्रतिषेधयामि तस्मान् न किञ्चित् प्रति षेधव्यम् अस्ति । तस्मात् शून्येषु सर्वभावेष्व् अविद्यमाने प्रतिषेध्ये प्रतिषेधयसीत्य् एष त्वयात्र सद्भूतो ऽधिलयः क्रियत इति ॥
यत् पुनर् भवतोक्तं ।
अथ नास्ति स स्वभावः किन् नु प्रतिषिध्यते त्वयानेन
वचनेन र्ते वचनात् प्रतिषेधः सिध्यते ह्य् असतः ॥ [12]
अत्र ब्रूमः ।
यच् चाहं ते वचनाद् असतः प्रतिषेधवचनसिद्धिर् इति ।
अत्र ज्ञापयते वाग् असद् इति तन् न प्रतिनिहन्ति

65

य च भवान् ब्रवीति । सते ऽपि वचनाद् असतः प्रतिषेधः प्रतिसिद्धः तत्र किन् निःस्वभावाः सर्वभावाः इति । एतद् वचनं करोतीति ॥ अत्र ब्रूमः निःस्वभावा इति एतत् खलु वचनं न निःस्वभावान् सर्वभावान् करोति । किन्त्व् असत स्वभाव भावानाम् असत स्वभावानाम् इति ज्ञापयति । तत्र कश्चित् ब्रूयाद् अविद्यमाहगृहे देवदत्तस् तम् अस्ति गृहे देवदत्त इति । तत्रैनं कश्चित् प्रतिब्रूयान् नास्तीति । न तद्. + + + + + देवदत्तस्यासंभवां करोति । किन्तु ज्ञापयति केवलम् असद्भावं गृहे देवदत्तस्येति ॥ तद्वा नास्ति स्वभावो भावानाम् इत्य् एतद्वचनं न स्वभावानां निःस्वभावत्वं करोति । भावेषु स्वभावस्याभावं ज्ञापयति ॥ तत्र यद् भवतोक्तं किम् असति स्वभावे नास्ति स्वभाव इत्य् एतद्वचनं करोति । ऋते ऽपि वचनात् प्रसिद्धिः स्वभावस्याभाव इति । तत् ते न युक्तं
यद् उक्तं
बालानाम् इव मृगतृष्णायां स यथाजलग्राहः ।
एवं मिथ्याग्राहः स्यात् ते प्रसिध्यते ह्य् असतः । [13]
यत् पुनर् भवतो मृगातृष्णायाम् इत्य् अत्र ब्रूमः ।
मृगतृष्णादृष्टान्ते यः पुनर् उक्तं त्वया महांश् चर्चः ।
तत्रापि निर्णयं शृणु यथा स दृष्टान्त उपपन्नः

66

य एव त्वया मृगतृष्णादृष्टान्ते महांश् चर्च उक्तः । तत्रापि तया निर्णयः स श्रूयतां उपपन्न एव दृष्टान्तो भवति ।
स यदि स्वभावतः स्याद् भावो न स्यात् प्रतीत्य समुद्भूतः ।
यश् च प्रतीत्य ह्हवति ग्राहो ननु शून्यता सैव

67

यदि च मृगतृष्णायां स यथाजलग्राहः स्वभावतः स्यात् । न स्यात् प्रतीत्यसमुत्पन्नो । यतो मृगतृष्णाञ् च प्रतीत्य विपरीतञ् च दर्शनं प्रतीत्य योनिशोमनस्कारञ् च प्रतीत्य प्रादुर्भूतो अतः प्रतीत्यसमुत्पन्नः यतश् च प्रतीत्यसमुत्पन्नो ऽतः स्वभावतः शून्य एव । यथा पूर्वम् उक्तं तथा
किञ्चान्यत् ।
यदि च स्वभावतः स्याद् ग्राहः कस् तं विनिवर्तयेद् ग्राहम् ।
शेषेष्व् अप्य् एष विधिः तस्माद् एषो ऽनुपालम्भः

68

यदि च मृगतृष्णायां जलग्राहः स्वभावतः स्यात् । क एव तं विनिवर्तयेता । न हि स्वभावः शक्यो निवर्तयितुं । तथाग्नेर् उष्णत्वम् अपां द्रवत्वम् आकाशस्य निरववरणत्वं । दृष्टं चास्य विनिवर्तनं । तस्माच् छून्यस्वभावः ग्राहः । यदा चैतद् एवं शेषेष्व् अपि धर्मेष्व् एष क्रमः प्रत्यवगन्तव्यः ग्राह्यप्रवृत्तिषु पञ्चसु । तत्र यद् भवतो + + + + पाद् अशून्याः सर्वभावा इति तन् न ॥
यत् पुनर् भवतोक्तं ।
हेतोश् च ते न सिद्धिर् नैःस्वब्बाव्यात् कुतो हि ते हेतुः
निर्हेतुकस्य सिद्धिर् न चोपपन्नास्य ते ऽर्थस्य [ल्7] इति ॥
अत्र ब्रूमः ।
एतेन हेत्वभावः प्रत्युक्तः पूर्वम् एव स समत्वात् ।
मृगतृष्णादृष्टान्तव्यावृत्तिविधौ य उक्तः प्राग्

69

एतेनैव चेदानीं चर्चेन पूर्वोक्तेन हेत्वभावो ऽपि प्रत्यवगन्तव्यः । य एव हि चर्चः पूर्वस्मिन् हेताव् उक्तः षट्कप्रतिषे + + + + + + हापि चर्चयितव्यः ।
यत् पुनर् भवतोक्तं ।
पूर्वं चेत् प्रतिषेधः पश्चात् प्रतिषेध्यम् इल्य् अनुपपन्नं ।
पश्चाच् चानुपपन्नो युगपच् च यतः स्वभावो ऽसन ॥ [20]
अत्र ब्रूमः ।
यत् त्रैकाल्ये हेतुः प्रत्युक्तं पूर्वम् एव स समत्वात् ।
त्रैकाल्यप्रतिहेतुश् च शून्यभावादिना प्राप्तः

70

स एष हेतुः त्रैकाल्ये प्रतिषेधवाची स तूक्तोत्तरः प्रत्यवमन्तः । कस्मात् साध्यसमत्वात् । यथा हि प्रतिषेधस् त्रैकाल्ये नोपपद्य्.ए + + + + + + प्रतिषेधप्रतिषेधे ऽपि । तस्मात् प्रतिषेधप्रतिषेध्ये ऽसति भवान् मन्यते प्रतिषेधः प्रतिसिद्ध इति तन् न । यतश् चैष त्रिकालप्रतिषेधवाची हेतुर् एष एव शून्यतावादिनां प्राप्तः सर्वभावस्वभावप्रतिषेधकत्वान् न भवतः ।
अथ वा कथम् एतद् उक्तोत्तरं ।
प्रतिषेधयामि नाहं किञ्चित् प्रतिषेध्यम् अस्ति न च किञ्चित्
तस्मात् प्रतिषेधयसीत्य् अधिलय एष त्वया क्रियत [63] इति ॥
अथ मन्यसे त्रिष्व् अपि कालेषु + + + + + + + दृष्टः पूर्वकालीनो ऽपि हेतुः उत्तरकालीनो ऽपि । युगपत्कालीनो ऽपि हेतुः । कथं पूर्वकलीनः । यथा पिता पुत्रस्य त्वद्वचनेन पश्चात्कालीनः । यथा शिष्याचार्यस्य युगपत्कालीनः यथा प्रदीपः प्रकाशस्येति ॥ अत्र ब्रूमः । न चैतद् एव युक्ता ह्य् एतस्मिं त्रये पूर्वदोषः ॥ अपि च पुनः यद्य् एवं कमः । प्रतिषेधसद्भावस् त्वयाभ्युपगम्यते । प्रतिज्ञाहानिश् च ते भवति । ए + + + + + + + स्वभा + + + .एधो ऽपि सि + + भवतीति ।
प्रभवति च शून्यतेयं यस्य प्रभवन्ति तस्य सर्वार्थाः ।
प्रभवति न तस्य किन्न प्रभवति शून्यता यस्येति

मूल पाठ: Vigrahavyāvartanī · Edition: Yoshiyasu Yonezawa: "Vigrahavyāvartanī, Sanskrit Transliteration and Tibetan Translation", Journal of Naritasan Institute for Buddhist Studies 31 (2008), pp. 209-333. = Vv · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc