भाषा

ENहिગુ
ग्रंथ पाठ

विग्रहव्यावर्तनी · श्लोक 21-40

21

इह पूर्वं चेत् प्रतिषेधः पश्चाच् च प्रतिषेध्यं । निःस्वभाव्यं नोपपन्नं । असति हि प्रतिषेध्ये कस्य प्रतिषेधः ॥ अथ पश्चात् प्रतिषेधः पूर्वं प्रतिषेध्यम् इति च नोपपन्नं । सिद्धे हि प्रतिषेध्ये किं प्रतिषेधः करोति । अथ युगपत्प्रतिषेधः प्रतिषेध्ये तथापि न प्रतिषेध्यः प्रतिषेध्यस्यार्थस्य कारणं प्रति न प्रतिषेध्यः । न प्रतिषेधस्य च । यथा युगपदुत्पन्नयोर् गोविषाणयोः नैव दक्षिणं सव्यस्य कारणं सव्यं वा दक्षिणस्य गारणं भवतीति । तत्र यद् उक्तं निःस्वभावाः सर्वभावा इति तन् न ।
अत्रोच्यते । यत् तावद् भवतोक्तं
सर्वेषां भावानां सर्वत्र न विद्यते स्वभावश् चेत् ।
त्वद्वचनम् अस्वभावं न निवर्तयितुं स्वभावम् अलम् इति । [1]
अत्र ब्रूमः ।
हेतुप्रत्ययसामग्रां पृथग्भावे ऽपि मद्वचो न यदि ।
ननु शून्यत्वं सिद्धं भावानाम् अस्वभावत्वात्

22

यदि मद्वचो हेतौ नास्ति महाभूतेषु संप्रयुक्तेषु विप्रयुक्तेषु वा प्रत्ययेषु नास्ति । उरःकण्थोजिह्वादन्ततालुनासिकमूर्धप्रभृतिषु य + + सामग्र्याम् अस्ति हेंप्रत्ययसामग्रीं विनिर्मुक्तं पृथग् वास्ति । तस्मान् निःस्वभावा निःस्वभावत्वाच् छून्यं । एवं । ननु शून्यत्वं सिद्धं निःस्वभावत्वाद् अस्य मदीयवचसः । यथा चैतन् मद्वचं निःस्वभावत्वाच् छून्यं । तथा सर्वभावा निःस्वभावत्वाच् छून्या इति । यद् भवतोक्तं त्वदीयवचसः शून्यत्वात् शून्यता सर्वभावानां नोपपद्यत इति तन् न ॥
किञ्चान्यत् ।
यश् च प्रतीत्य भावानां शून्यतेति तं ब्रू + + ।
यस् तु प्रतीत्यभावो भवति हि तस्यास्वभावत्वं

23

शून्यतार्थञ् च भवान् भावानाम् अनवसम्य शून्यतार्थम् अज्ञात्वा प्रवृत्ति उपालम्भं वक्तुं त्वद्वचनस्य शून्यत्वात् त्वद्वचनस्य निःस्वभावत्वाद् एवं त्वद्वचनेन निःस्वभावेन भावानां स्वभावप्रतिषेधो नोपपद्यत इति । इह हि यः प्रतीत्य भवानां भावः सा शून्यता । कस्मान् निःस्वभावत्वात् । ये हि प्रतीत्यसमुत्पान्ना भावास् ते स सस्वभावा भवन्ति । स्वभावाभावात् । तस्माद् धेतुप्रत्ययापेक्षत्वात् । यदि हि स्वभावतो भावा भवेयुः । प्रत्याख्यायापि हेतुप्रत्ययांश् च भवेयुः । न चेवं भवन्ति । तस्मान् निःस्वभावाः निःस्वभावत्वाच् छून्या इत्य् अभिधीयन्ते । एवं मदीयम् अपि वचनं । प्रतीत्यसमुत्पन्नत्वान् निःस्वभावं निःस्वभावत्वात् शून्यम् इत्य् उपपन्नं ।
यथा च प्रतीत्यसमुत्पन्नत्वात् स्वभावशून्याः । रथपटघटादयः स्वेषु स्वेषु कार्येषु काष्ठाहणमृत्तिकहरणमधूदकपयसां धारणा शीतवातातपपरित्राणप्रभृतिषु वर्तन्ते । एवम् इदं मदीयवचनं प्रत्ययसमुत्पन्नत्वान् निःस्वभावं निःस्वभावत्वप्रसाधनं प्रत्ययभावानां वर्तते । त्र यद् उक्तं । निःस्वभवत्वात् त्वदीयवचनस्य शून्यत्वं शून्यत्वात् तस्य च तेन सर्वभावस्वभावप्रतिषेध उपपन्नम् इति तन् न ॥
किञ्चान्यत् ।
निर्मितको निर्मितकं मायापुरुष स्वमायया सृष्टम् ।
प्रतिषेधयति यद्वत् प्रतिषेधो यं तथैव स्यात्

24

यथा निर्मितकः पुरुषम् अभ्यापतं तु कश्चिद् अर्थेन वर्तमानं प्रतिषेधयेत् । मायाकारेण वा सृष्टो मायापुर्न्षो ऽन्यं मायापुरुष समभ्यव तन् न कस्मिन्श्चिद् अर्थे वर्तमानं प्रतिषेधयेत् । तत्र यो निर्मितकः पुरुषः प्रतिषेध्यते स शून्यः यः प्रतिषेधयति सो ऽपि मायापुरुषः शून्य एवम् एव मद्वचनेन शून्येन सर्वभावानां स्वभावप्रतिषेध उपपन्नः ॥ तत्र यद् भवतोक्तं । शून्यत्वात् त्वद्वचनस्य सर्वभावस्वभावप्रतिषेधो नोपपन्नम् इति न तन् न । षट्कोटिको वाद उक्तः स एवं प्रतिसिद्धः नैव ह्य् एवं सति न सर्वभावान्तर्गतं मद्वचनं नाप्य् अशून्यं नापि सर्वभावाशून्याः ।
यत् पुनर् भवतोक्तम्
अथ सस्वभावम् एतद् वाक्यं पूर्वा हता प्रतिज्ञा ते
वैषमिकत्वं तस्मिन् विशेषहेतुश् च वक्तव्य इत्य् [2]
अत्रापि ब्रूमः ।
न स्वाभाविकम् एतद् वाक्यं तस्मान् न वादहानिर् मे ।
नास्ति च वैषमिकत्वं विशेसहेतुश् च न निगद्यः

25

न तावद् एतन् मम वचनं प्रतीत्यसमुत्पन्नत्वात् स्वभावोपपन्नं यथा पूर्वम् उक्तं । स्वभावानुपपन्नत्वात् शून्यं । यस्माच् च इदम् अपि मद्वचनं शून्यं शेषापि सर्वभावाः शून्यास् तस्मान् नास्ति वैषमिकत्वं । यदि हि वयं ब्रूमः । इदं वचनम् अशून्यं शेषाः सर्वभावाः शून्या इति ततो वैषमिकत्वं । स्यान् न चैतद् एवं तस्मान् न वैषमिकत्वं । यस्माच् च वैषमिकत्वं न संभवति इदं वचनम् अशून्यं शेषाः पुनः सर्वभावाः शून्या इति । तस्माद् अस्माभिर् विशेषहेतुर् अपि न वक्तव्यः अनेन इदं वचनं अशून्यं सर्वभावाः पुनः शून्या इति । तत्र यद् भवतोक्तं वादहानिस् ते वैषमिकत्वं च विशेषहेतुश् च त्वया वक्तव्य इति तन् न ।
यत् पुनर् भवतोक्तं ।
मा शब्दवद् इत्य् एतद् अस्मात् ते बुद्धिर् न चैतद् उपपन्नं ।
शब्देन ह्य् अत्र सता भविष्यतो वारणं तस्येति । [3]
अत्र ब्रूमः ।
मा शब्दवद् इति नायं दृष्टान्तो यस् त्वया ममारह्धः ।
शब्देन हि तच् च शब्दस्य वारणं नैदम् एव चः

26

नाप्य् अयम् अस्माकं दृष्टान्तः । यथा कश्चिन् मा शब्दं कर्षीर् इति ब्रुवं शब्दम् एव करोति शब्दञ् च प्रतिषेधयति । यद्वत् शून्येन वचनेन शून्यतां प्रतिषेधयति । किं कारणं । अत्र हि दृष्टान्ते शब्देन शब्दस्य व्यावर्तनं क्रियते । न चैतद् एवं वयं ब्रूमः । निःस्वभावाः सर्वभावाः निःस्वभावत्वात् तद् अशून्याम् इति ।
किं करणं
नैःस्वभाव्यानां चेन् नैःस्वाभाव्येन वारणं यदि हि ।
नैःस्वभाव्यनिर्वृत्तौ स्वभाव्यं हि प्रसिद्धं स्यात्

27

यथा मा शब्दम् इति शब्देन शब्दस्य व्यावर्तनं क्रियते । एवं यदि नैःस्वभाव्येन वचनेन नैःस्वभाव्यानां व्यावर्तनं क्रियते ततो ऽयं दृष्टान्तोपपन्नः स्यात् । इह तु नैःस्वभाव्येन वचनेन भावानां स्वभावप्रतिषेधः क्रियते । एवं यदि नैःस्वभाव्येन वचनेन निःस्वभावानां नैःस्वभाव्यप्रतिषेधः क्रियते । नैःस्वभव्यप्रतिषेधाद् एव सस्वभावा भवेयुः । सस्वभावत्वाद् अशून्याः स्युः । शून्यताञ् च वयं भावानाम् आचक्ष्महे नाशून्यताम् इत्य् अदृष्टान्त एवायम् इति ।
अथ वा निर्मितकायां यथा स्त्रियां स्त्रियम् इत्य् असत्ग्राहम् ।
निर्मितकः प्रतिहन्यात् कस्यचिद् एवं भवेद् एत्तत

28

अथ वा कस्यचित् पुरुषस्य निर्मितकायां स्त्रियां स्वभावशून्यायां परमार्थतः स्त्रियम् इत्य् असद्ग्राहः । स्याद् एव तस्यां तेनासद्ग्राहेण रागम् उत्पादयेत् । तद् यथा तथागतेन वा तच्छ्रावकेण वा निर्मितको निर्मितः स्यात् । तथागताधिष्ठानेन वा तथागतस्रावकाधिष्ठानेन वा तस्य तम् असद्ग्राहं विनिवर्तयेत् । एवम् एव निर्मितकोपमेन शून्येन वचनेन निर्मितकस्त्रीसदृश्येषु निःस्वभावेषु यो ऽयं स्वब्बावग्राहः स निवर्त्यते स प्रतिषिध्यते । तस्माद् अयम् अत्र दृष्टान्तः शून्यताप्रसाधनं प्रत्युपपद्यमानो नेतरः ।
अथ वा साध्यसमो यं हेतुर् न हि विद्यते ध्वनेः सत्ता ।
संव्यवहारञ् च वयं नानभ्युपगम्य कथयामः

29

मा शब्दवद् इति साध्यसम एवायं हेतुः । कस्मात् सर्वभावानां नैःस्वभाव्येनाविशिष्टत्वात् । न हि तस्य ध्वनेः प्रतीत्यसमुत्पन्नत्वात् । स्वभवं सत्ताः विद्यते । तस्याः स्वभावसत्तायाः अविद्यमानत्वात् ।
यद् उक्तं
शब्देन ह्य् अत्र सत्ता भविष्यतो वारणं तस्येति ।
तत् व्याहन्यते ।
अपि च न वयं व्यवहारसत्यं प्रत्याख्याय व्यवहारसत्यम् अनभ्युपगम्य कथयामः । शून्याः सर्वभावा इति । न हि व्यवहारसत्यम् अनागम्य शक्या धर्मदेशना कर्तुं ।
यथोक्तं
व्यवहारम् अनाश्रित्य परमार्थो न देश्यते ।
परमार्थम् अनागम्य निर्वाणं नाधिगम्यत इति । [= म्म्क् 24.18]
तस्मान् मद्वचनवत् शून्याः सर्वभावाः सर्वभावानाञ् च निःस्वभावत्वम् उभयथोपपद्यमानम् इति ॥
यत् पुनर् भवतोक्तं ।
प्रतिषेधः प्रतिषेध्यो ऽप्य् एवम् इति मतं भवेत् तद् असद् एव ।
एवं तव प्रतिज्ञा लक्षणतो दूष्येत न ममेति । [4]
अत्र ब्रूमः ।
यदि काचन प्रतिज्ञा तत्र स्यान् न मे तत्* एष मे भवेद् दोषः ।
नास्ति च मम प्रतिज्ञा तस्मान् नैवास्ति मे दोषः

30

यदि च काचिन् मम प्रतिज्ञा स्यात् ततो मम प्रतिज्ञालक्षणप्राप्तत्वात् स पूर्वको दोषः । यथा त्वयोक्तं भावाः तथा मम स्यान् न च मम काचिद् अस्ति प्रतिज्ञा । तस्मात् सर्वह्हावेषु शून्येष्व् अत्यन्तोपशान्तेषु प्रकृतिविविक्तेषु कुतः प्रतिज्ञालक्षणप्राप्तिः कुतः प्रतिज्ञालक्षणताप्राप्तिकृतो दोषः । तत्र यत् भवतोक्तं प्रतिज्ञालक्षणप्राप्तत्वात् तवैव दोष इति तन् नास्ति ।
यत् पुनर् भवतोक्तं
प्रत्यक्षेण हि तावद् यद्य् उपलभ्य निवर्तयसि भावान्
तन् नास्ति प्रत्यक्षं भावा येनोपलभ्यंत । [5]
अनुमानं प्रत्युक्तं प्रत्यक्षेणागमोपमाने
चानुमानागमसाध्या ये ऽर्था दृष्टान्तसाध्याश् चेति । [6]
अत्र वयं ब्रूमः ।
यदि किञ्चिद् उपलभेयं प्रवर्तेयं निवर्तयेयं वा ।
प्रत्यक्षादिभिर् अर्थैस् तदभावान् मे ऽनुपालम्भः

31

यद्य् अहं किञ्चिद् अर्थम् उपलभेयं प्रत्यक्षानुमानोप + + + + हेतुभिः प्रमाणैः । चतुर्णां वा प्रमाणानां । अन्यतमान्यतमेन । अत एवं प्रवर्तयेयं वार्थम् एवाहं किञ्चिन् नोपलभते तस्मान् न प्रवर्तयामि न निवर्तयामि । तत्रैवं सति यौ भवतोपालम्भोक्तः । यदि प्रत्यक्षादीनां प्रमाणानाम् अन्यतमेन उपलभ्य भावान् विनिवर्तयसीति । ननु भवतोक्तानि प्रमाणानि न सन्ति तैश् च प्रमाणैर् अपि गम्यार्था इति स मे भवत्य् एवानुपालम्भ इति ।
+ + + + ।
यदि च प्रमाणतस् तेषां तेषां प्रसिद्धिर् अर्थानाम् ।
तेषां पुनः प्रसिद्धिं ब्रूहि कथं तेषां प्रमाणानां

32

प्रसिद्धिर् इति
यदि च प्रमाणतस् तेषां तेषाम् अर्थानां प्रमेयानां सिद्धिं मन्यसे यथा मानैर् मेयानां । तथा तेषाम् इदानीं प्रत्यक्षानुमानोपमानागमानां चतुर्णां प्रमाणानां कुतः प्रसिद्धिः । यदि तावन् निःप्रमाणानां प्रमाणं स्यान् नादेः सिद्धिस् तत्रास्ति नैव मध्यस्य नान्तस्य । यदि पुनः मन्यसे प्रमाणैः प्रसिद्धिः प्रमाणतो ऽर्थानां प्रसिद्धिर् इति । हीयते प्रतिज्ञा ।
तथापि
अन्यैः यदि प्रमाणैः प्रमाणसिधिर् भवत्य् अनवस्था स्यान् ।
नादेः सिद्धिस् तत्रास्ति नैव मध्यस्य नान्तस्य

33

यदि पुनर् मन्यसे । प्रमाणैः प्रमेयाणां प्रसिद्धिस् तेषां प्रमाणानाम् अन्यैः प्रमाणैः प्रसिद्धिर् अनवस्थाप्रसङ्गः । अनवस्थाप्रसङ्गे को दोषः ।
नादेः सिद्धिस् तत्रास्ति नैव मध्यस्य नान्तस्य ।
अस्यानवस्थाप्रसङ्गे आदेः सिद्धिर् नास्ति । किं कारणं तेषम् अपि हि प्रमाणानाम् अन्यैः प्रमाणैः सिद्धिस् तेषाम् अन्यैर् इति नास्त्य् आदिः । आदेर् असद्भावात् कुतो मध्यं कुतो अन्तः । तस्मात् तेषां प्रमाणानाम् अन्यैः प्रमाणैः प्रसिद्धिः नोपपद्यतेति ।
तेषाम् अथ प्रमाणैर् विना प्रसिद्धिः विहीयते वादः ।
वैषमिकत्वं तस्मिन् विशेषहेतुश् च वक्तव्यः

34

अथ मन्यसे तेषां प्रमाणानां विना प्रमाणैः प्रसिद्धिः प्रमेयानां पुनर् अर्थानां प्रमाणैः प्रसिद्धिर् इति । एवं सति यस् ते वादः प्रमाणैः प्रसिद्धिर् अर्थानाम् इति हीयते वैषमिकत्वञ् च भवति । केषाञ्चित् । अर्थानां प्रमाणैः प्रसिद्धिः केषाञ्चिन् नेति विशेषहेतुश् च वक्तव्यः । येन हेतुना केषांचिद् अर्थानां प्रमाणैः प्रसिद्धिः केषाञ्चिन् नेति । सा च नोपदिष्टः तस्माद् इयम् अपि कल्पना नोपपन्नेति ।
अत्राह । प्रमाणान्य् एव मम स्वात्मानं परात्मानञ् च प्रसाधयन्ति । यथोक्तं ।
द्योतयति स्वात्मानं यथा हुतासः तथा परात्मानं ।
स्वपरात्मानाव् एषां प्रसाधयन्ति प्रमाणानि ।
परम् इव स्वात्मानं परात्मानञ् चेति ॥
अत्रोच्यते ।
विषमोपन्यासो ऽयं न ह्य् आत्मानं प्रकाशयत्य् अग्निः ।
न हि तस्यानुपलब्धिः दृष्टा तमसीव कुम्भस्य

35

विषम एवायम् उपन्यासः । अग्निवत् प्रमाणानि स्वात्मानञ् च प्रसाधयन्ति परात्मानञ् च प्रसाधयन्तीति । न ह्य् अग्निर् आत्मानं प्रकाशयति । यदि हि यथा प्राग् एवाग्निना अप्रकाशितस् तमसि कुम्भो नोपलभ्यते । अथोत्तरकालम् उपलभ्यते ऽग्निना प्रकाशितः सन् एवम् एव यद्य् अग्निना न प्रकाशितः प्राग् अग्निः स्याद् उत्तरकालम् अग्नेः प्रकाशनं स्यात् । अतः स्वात्मानं प्रकाशयेन् नैतद् एवं । तस्माद् इयम् अपि कल्पना नोपपद्यन्तेति ।
किञ्चान्यत् ।
यदि च स्वात्मानम् अयं त्वद्वचनेन प्रकाशयत्य् अग्निः ।
परम् इव न त्व् आत्मानं परिधक्ष्यत्य् अपि हुताशः

36

यदि च त्वद्वचनेन यथा परात्मानं प्रकाशयत्य् अग्निः एवम् एव स्वात्मानम् अपि प्रकाशयत्य् अग्निर् इति । ननु यथा परात्मानं दहति । एवम् एव स्वात्मानम् अपि धक्ष्यतीति । न चैतद् एवं । तत्र यद् उक्तं परात्मानम् इव स्वात्मानं प्रकाशयत्य् अग्निर् इति तन् न ॥
किञ्चान्यत् ।
यदि च स्वपरात्मानौ त्वद्वचनेन प्रकाशयत्य् अग्निः ।
प्रछादयिष्यति तमः स्वपरात्मानौ हुताश इव

37

यदि च भवतो भवतो मतेन स्वात्मापरात्मानौ प्रकाशयत्य् अग्निः । नन्व् इदानीं प्रतिपक्षभूततमो ऽपि स्वपरात्मानौ छादयेत् । नैतद् इष्टं । तत्र यद् उक्तं स्वपरात्मानौ प्रकाशयत्य् अग्निर् इति तन् न ॥
किञ्चान्यत् ।
नास्ति तमश् च ज्वलने यत्र च तिष्ठते परात्मनि ज्वलनः ।
कुरुते कथं प्रकाशं स हि प्रकाशो अन्धकारवधः

38

इह चाग्नौ नास्ति तमः । नापि च यत्राग्निस् तत्रास्ति तमः । प्रकाशश् च नाम तमसः प्रतिघातस् तत्र कथम् अस्य तमसः । प्रतिघातम् अग्निः करोति । यस्य प्रतिघातत् स्वपरात्मानौ प्रकाशयतीति ॥
आह । यद् यस्माद् एवं नाग्नौ तमो ऽस्ति । नापि यत्राग्निस् तत्र तमो ऽस्ति । यस्माद् एवं स्वपरात्मानौ न प्रकाशयत्य् अग्निः । तेन ह्य् उत्पद्यमानेनैवाग्निना तमसः प्रतिघतः कुतः तस्मान् नाग्नौ तमो ऽस्ति । नापि यत्राग्निः तत्र तमो ऽस्ति । यस्माद् उत्पद्यमान एवोभयं प्रकाशयत्य् अग्निः स्वात्मानं परात्मानञ् चेति ।
अत्रोच्यते
उत्पद्यमान एव प्रकाशयत्य् अग्निर् इत्य् असद्वादः ।
उत्पद्यमान एव प्राप्नोति तमो न हि हुताशः

39

अयम् अग्निर् उत्पद्यमान एव प्रकाशयति स्वात्मानं परात्मानञ् चेति । नायम् उपपद्यते वादः । कस्मान् न ह्य् उत्पद्यमान एवाग्निः तमः प्राप्नोति । अप्राप्तत्वान् नैवोपहन्ति । तमसश् चानुपघातान् नास्ति प्रकाशः ।
अप्राप्तो ऽपि ज्वलनो यदि वा पुनर् अन्धकारम् उपहन्यात् ।
सर्वेषु लोकधातुषु तमो ऽयम् इह संस्थित उपहन्यात्

40

अथापि मन्यसे अप्राप्तो ऽप्य् अग्निर् अन्धकारम् उपहन्तीति । नन्व् इदानीम् इह संस्थितो अग्निः सर्वलोकधातुस्थम् उपहनिष्यति तमः तुल्यायाम् अप्राप्तो न चैतद् एवं दृष्टं । तस्माद् अप्राप्यैवाग्निर् अन्धकारम् उपहन्तीति यद् इष्टं । तन् न ।
यदि च स्वतः प्रमाणसिद्धिर् अनपेक्ष्य ते प्रमेयाणि ।
भवति प्रमाणसिद्धिः नापरापेक्षा हि सिद्धिर् इति

मूल पाठ: Vigrahavyāvartanī · Edition: Yoshiyasu Yonezawa: "Vigrahavyāvartanī, Sanskrit Transliteration and Tibetan Translation", Journal of Naritasan Institute for Buddhist Studies 31 (2008), pp. 209-333. = Vv · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc