विग्रहव्यावर्तनी · श्लोक 1-20
॥ नमो बुद्धय ।
सर्वेषां भावानां सर्वत्र न विद्यते स्वभावश् चेत् ।
त्वद्वचनम् अस्वभावं न निवर्तयितुम् स्वभावम् अलं
यदि सर्वेषां भावानां हेतौ प्रत्ययेषु च हेतुप्रत्ययसामग्राञ् च पृथक् च यत्र सर्वत्र स्वभावो न विद्यत इति कृत्वा शून्याः सर्वभावा इति । न हि बिजे हेतुभूते ऽङ्कुरो स्ति । न पृथिव्यप्तेजोवाय्वादिनाम् एकेकस्मिन् प्रत्ययसंज्ञिते । न प्रत्ययेषु समग्रेषु न हेतुप्रत्ययेषु समग्रेषु न हेतुप्रत्ययसामग्रां न हेतुप्रत्ययविनिर्मुक्तः पृथग् एव वा । यस्माद् अत्र स्वभावो नास्ति तस्मान् निःस्वभावो ऽङ्कुरः । यस्मान् निःस्वभावः तस्मात् शून्यः । यथा चायम् अङ्कुरो निःस्वभावो निःस्वभावाच् च शून्यः तथा सर्वभावा निःस्वभावत्वाच् छून्य इति ।
अत्र वयं ब्रूमः । यद्य् एवं तवापि वचनं यद्य् एतच् छून्याः सर्वभावा इति तद् अपि शून्यं । किं कारणं तद् अपि हेतौ नास्ति । महाभूतेषु संप्रयुक्तेषु विप्रयुक्तेषु वा प्रत्ययेषु नास्ति । उरःकण्थोष्ठजिह्वादन्तमूलतालुनासिकामूर्धप्रभृतिषु यन् नैवोभयसामग्र्याम् अस्ति । हेतुप्रत्ययसमग्रीविनिर्मुक्तं पृथग् एव वा नास्ति । यस्माद् अत्र सर्वत्र नास्ति । तस्मान् निःस्वभावं । यस्मान् निःस्वभावं । तस्माच् छून्यं । तस्माद् अनेन सर्वभावस्वभावव्यवर्तनम् अशक्यं कर्तुं । किं कारणंन् । न ह्य् असदग्निना दग्धं । नाप्य् असता शास्त्रेण शक्यं छेत्तुं । नासतीभिर् अत्भिः शक्यं क्लेदयितुम् एवम् असत्ता वचनेन शक्यः सर्वभावस्वभावप्रतिषेधः कर्तुं न शक्यः सर्वभावस्वभावो निवर्तयितुं । तत्र यद् उक्तं सर्वभावस्वभावः प्रतिषिधः सर्वत्र भावस्वभावो विनिवर्तत इति । तन् न ॥
अथ सस्वभावम् एतद् वाक्यं पूर्वा हत प्रतिज्ञा ते ।
वैषमिकत्वं तस्मिन् विशेषहेतुश् च वक्तव्यः
अथापि मन्यसे मा भूद् एष दोष इति सस्वभावम् एतद् वाक्यं । सस्वभावत्वाच् चाशून्यं । तस्माद् अनेन सर्वभावस्वभावः प्रतिषिद्धः सर्वभावस्वभावो विनिवर्त इति ॥
अत्र ब्रूमः । या हि ते प्रतिज्ञा शून्याः स्वभावा इति । हता शा ॥ किञ्चान्यत् सर्वभावान्तर्गतञ् च तद्वचनम् । कस्मात् सर्वभावेषु त्वद्वचनम् अशून्यं येनाशून्यत्वात् सर्वभावस्वभावः प्रतिषिद्धः ॥ एवं षट्कोटिको वादः प्रसक्तः । स पुनः कथम् इति ।
हन्त चेत् पुनः शून्याः सर्वह्हावास् तेन त्वद्वचनं शून्यम् सर्वभावान्तर्गतत्वात् त्वद्वचनस्य । तेन शून्येन प्रतिषेधानुपपत्तिः । तत्र यः प्रतिषेधः शून्याः सर्वभाव इति अनुपपन्नः । 1 । उपपन्नश् चेत् पुनः शून्याः सर्वभावा इति प्रतिषेधस् तेन त्वद्वचनशून्यत्वाद् अनेन प्रतिषेधो अनुपपन्नः । 2 । अथ शून्याः सर्वभावास् त्वद्वचनञ् चाशून्यः येन प्रतिषेधस् तेन त्वद्वचनं सर्वत्रासंगृहीतं । ( व्व् 222 ) तत्र दृष्टान्तविरोधः । 3 । सर्वत्र चेत् पुनः गृहीतं त्वद्वचनं सर्वभावाश् च शून्याः । तेन तद् अपि शून्यं शून्यत्वाद् अनेन नास्ति प्रतिषेधः । 4 । अथ शून्यम् अस्ति वानेन प्रतिषेधः शून्यः सर्वभावा इति तेन शून्यापि सर्वभावाः कार्यक्रियासमर्था समर्थभवेयुः । न चैतद् इष्टं । 5 । अथ शून्याः सर्वभावाः न च कार्यं क्रियासमर्थं भवंति मा भूत् दृष्टान्तविरोध इति कृत्वा शून्येन त्वद्वचनेन सर्वभावास्वभावो प्रतिषेधो नोपपन्न इति । 6 ।
किञ्चान्यत् । एवं तदस्तित्वात् वैषमिकत्वप्रसङ्गः । किञ्चित् शून्यं किञ्चिद् अशून्यम् इति । तस्मिंश् च वैसमिकत्वे विशेषहेतुर् वक्तव्यः । येन हि विशेषहेतुना किञ्चित् शून्यं किञ्चिद् अशून्यं स्यात् । स च नोपदिष्टो हेतुः । तत्र यद् उक्तं शून्याः सर्वभावा इति तन् न ॥
किञ्चान्यत्
मा शब्दवद् इत्य् एतत् स्यात् ते बुद्धिर् न चैतद् उपपन्नम् ।
शब्देनात्र सता भविष्यतो वारणं तस्य
स्यात् ते बुद्धिः यथा नाम कश्चित् ब्रूयात् मा शब्दं कार्षीर् मा शब्दं कार्षीर् इति । तेन च शब्देन व्यावर्तनं क्रियते । एवम् एव शून्याः सर्वभावा इति । शून्येन वचनेन सर्वता सर्वभावस्वभावव्यावर्तनं क्रियत इति ।
अत्र वयं ब्रूमः । एतद् अप्य् अनुपपन्नं किं कारणं । सता ह्य् अत्र शब्देन ह्य् अत्र भविष्यतः शब्दस्य प्रतिषेधः क्रियते । न पुनर् इह भवतः सता वचनेन सर्वभावस्वभावप्रतिषेधः क्रियते । तव हि मतेन वचनम् अप्य् असत् । सर्वभावस्वभावो ऽप्य् असत् । तस्माद् अयं मा शब्दवद् इति विषयोपन्यासो ऽसन्न् इति ॥
किञ्च
प्रतिप्रतिषेध्यो ऽप्य् एवम् इति मतं भवेत् तद् असद् एव ।
एवं तव प्रतिज्ञ लक्षणतो दूष्यते न मम
स्यात् ते बुद्धिः प्रतिषेधः प्रतिषेध्यो ऽप्य् अनेनैव कल्पेनानुपपन्नः । तत्र यद् भवान् सर्वभावस्वभावप्रतिषेधशूचनं प्रतिषेधयति । तद् अनुपपन्नम् इति ।
अत्र वयं ब्रूमः । एतद् अशब्देन सद् एव । कस्मात् तव च हि प्रतिज्ञालक्षणप्राप्तम् एतन् न मम भवान् इह ब्रवीति । शून्याः सर्वभावा इति नाहं । तस्मात् त्वत्प्रतिज्ञान् न(?)पयामि । पूर्वकः पक्षो न मम । तत्र यद् उक्तं प्रतिषेधः प्रतिषेध्यो ऽप्य् एवं मतम् इति । उपपन्नंम् इति ॥ तन् न ।
किञ्चान्यत् ।
प्रत्यक्षेण हि तावद् यद्य् उपलभ्य विनिवर्तयसि भावान् ।
तन् नास्ति प्रत्यक्षं भावा येनोपलभ्यन्ते
यदि प्रत्यक्षतः सर्वभावान् उपलभ्य भवान् निवर्तयति शून्याः सर्वभावा इति । तद् अनुपपन्नं । कस्मात् प्रत्यक्षम् अपि हि प्रमाणं स्वभावान्तर्गतत्वात् शून्यं । यो ऽपि सर्वभावान् उपलभते सो ऽपि शून्यस् तस्मात् प्रत्यक्षेण प्रमाणेन नोपलम्भभावो अनुपलब्धस्य च प्रतिषेधानुपपत्तिः शून्यः सर्वभावा इति । तद् अनुपपन्नं
स्यात् ते बुद्धिः । अनुमानेनागमेनोपानेन वा सर्वभावान् उपलभ्य सर्वभावव्यावर्तनं क्रियत इति ॥
अत्र ब्रूमः ।
अनुमानं प्रत्युक्तं प्रत्यक्षेणागमोपमाने च ।
अनुमानागमसाध्या ये ऽर्था दृष्टान्तसाध्याश् च
अनुमानम् अप्य् उपमानागमाश् च प्रत्यक्षेण प्रमाणेन प्रत्युक्ताः । यथा हि प्रत्यक्षं प्रमाणं शून्यं सर्वभावानां शून्यत्वात् । एवम् अनुमानमोपमागमापि शून्याः । सर्वभावानां शून्यत्वात् । ये ऽप्य् अनुमानसाध्यार्था आगमसाध्या उपमानसाध्याश् च । ते ऽपि शून्याः सर्वभावानां शून्यत्वात्* अनुमानोपमानागमैश् च यो ऽपि भावान् उपलभते सो ऽपि शून्यः तस्मात् ब्बावानाम् उपलम्भाभावो ऽनुपलब्धानाञ् च स्वभावप्रतिषेधानुपपत्तिः । तत्र यद् उक्तं शून्याः सर्वभावा इति । तन् न ॥
किञ्चान्यत् ।
कुशलानां धर्माणां धर्मावस्थविदश् च मन्यन्ते ।
कुशलं जनस्वभावं शेषेष्व् अप्य् एष विनियोगः
इह धर्मावस्थाविदो मन्यन्ते कुशलानां धर्माणाम् एकोनविंशं शतं । तद्यथा एकदेशो विज्ञानस्य वेदनायाः । संज्ञायाश् चेतनायाः । स्पर्शस्य मनसिकारस्य छन्दस्याधिमोक्षस्य वीर्यस्य स्मृतेः समाधेः प्रज्ञाया उपेक्षायाः प्रयोगस्य संप्रयोगस्य प्राप्तो ऽध्याशयस्य प्रतिविरतेः व्यवसाया औत्सुक्यस्य । उन्मूर्धे उत्साहस्य अव्यार्त्यस्य वसितायाः प्रतिपत्तेर् अविप्रतीसारस्य धृतेर् अध्यवसायस्य । अनौक्षेकस्य अननुमूढ्यनुत्सारस्य । प्रापणायाः प्रणिधेः मदस्य विषयानां विप्रयोगस्य । अनिर्याणिकताया उत्सादस्य । स्थितेर् अनित्यतायाः समर्थागतस्य जरायाः परिद्रास्यतारतेः । वितर्कानां प्रीतेः प्रमादस्य अप्रस्रब्धेः । व्यवहारतायाः । प्रेक्षुप्रतिकूलस्य प्रदक्षिणग्राहस्य वैशारद्यगौरवस्य चित्रीकारस्य ( व्व् 234 ) भक्तेर् अभक्तेः सुश्रूषायाः सादरस्यानादरस्य प्रस्रब्धेः । हासस्य वाचः विष्पन्दनायाः सिद्धस्याप्रसादस्य अप्रस्रब्धेः व्यवहारतायः । दाक्ष्यस्य सौरत्यस्य विप्रतिसारस्य शोकस्य । उपायासायस् वीतस्य । अप्रदक्षिणग्राहस्य संएपस्य संवराणां परिशुद्धेर् अध्याशयस्य रूपस्येति । श्रद्धा ह्रीर् आर्जवम् अवञ्चनं । उपसम अचामल सप्रसादमार्दवं प्रतिसंख्यानं निर्वेद ऽपरिदाहः । अमद अलोभ अदोष अमोह असर्वत्* अप्रतिनिःसर्गः विभव अपत्रया अपरिशुच्छदनं माननं कारुण्यं मैत्री अदीनतादरितमरि.(द्)ह + + नुपनाहः अली चेतसो पर्यादानं क्षान्तिः । व्यवसदु आसौरक्यम् इति भागान्वयं । पुण्यं । असंज्ञिसमापत्तिः । नैर्याणिकतासर्वज्ञतासंस्कृता धर्माः इत्य् एकोनविंशं शतं कुशलानां कुशलः स्वभावः ॥
तथाकुशलानाम् अकुशलः स्वभावः । निवृत्ताव्याकृतः । प्रकृताव्याकृतानां प्रकृताव्याकृतः । कामोक्तानां कामोक्तः । रूपोक्तानां रूपोक्तः । आरूप्योक्तानाम् आरूप्योक्तः । अनाश्रवाणाम् अनाश्रवः । दुःखोक्तानां दुःखोक्तः । समुदयोक्तानां समुदयोक्तः । निरोधोक्तानां निरोधोक्तः । मार्गोक्तानां मार्गोक्तः । भावनाप्रहातव्यानां भावनाप्रहातव्यः । अप्रहातव्यानाम् अप्रहातव्यः । प्रहातव्यानां प्रहातव्यः । यस्माद् एवम् अनेकप्रकारो धर्मस्वभावो दृष्टः । तस्माद् इह यद् उक्तं । निःस्वभावाः सर्वभावाः निःस्वभावत्वात् शून्य इति तन् न ।
किञ्चान्यत् ।
नैर्याणिकस्वभावो धर्मो नैर्याणिकाश् च ये तेषां ।
धर्मावस्थोक्तानाम् एव च नैर्याणिकादीनां
इह च धर्मो ऽवस्थोक्तानां नैर्याणिकानां धर्माणां निर्याणिकः स्वभावः । अनैर्याणिकानाम् अनैर्याणिकः । बोध्यङ्गिकानां बोध्यङ्गिकः । अबोध्यङ्गिकानाम् अबोध्यङ्गिकः । बोधिपाक्षिकाणां बोधिपाक्षिकः । अबोधिपाक्षिकाणाम् अबोधिपाक्षिकः । एवं शेषाणां तद् यस्माद् एवम् अनेकप्रकारो धर्माणां स्वभावो दृष्टः । यस्माद् यद् उक्तं निःस्वभावाः सर्वभावाः । निःस्वभावत्वात् शून्या इति न ॥
किञ्चान्यत् ।
यदि च न भवेत् स्वभावो धर्माणां निःस्वभाव इत्य् एवं ।
नामापि भवेत् नैवं नामापि निर्वस्तुकन् नास्ति
यदि च धर्माणां स्वभावो भावानां स्वभावानां सद्भावाच् चाशून्यः सर्वभावाः । तत्र यद् उक्तं निःस्वभावाः सर्वभावा निःस्वभावत्वात् शून्या इति तन् न ॥
किञ्चान्यत् ।
अथ विद्यते स्वभावः स च धर्माणां न विद्यते तस्मात् ।
धर्मैर् विना स्वभावः स यस्यास्ति तद् युक्तम् उपदेष्टुम्
अथ मन्यसे मा भूद् अवस्तुकं नामेति कृत्वास्ति स्वभावः । स पुनर् धर्माणां न संभवति । एवं धर्मशून्यता च निःस्वभावत्वाद् धर्माणां सिद्धा भविष्यति । न च निर्वस्तुकन् नामेति ।
अत्र वयं ब्रूमः । एवं कस्येदानीं स स्वभावो धर्मविनिर्मुक्तस्यार्थस्य तद् युक्तम् उपदेष्टुम् अर्थः । स च नोपदिष्टस् तस्माद् या कल्पनास्ति स्वभावो न पुनर् धर्माणाम् इति सा हीना ॥
किञ्चान्यत् ।
सत एव प्रतिषेधो नास्ति घटो गेह इत्य् अयं यस्मात् ।
दृष्टः प्रतिषेधो यं सतः स्वभावस्य ते तस्मात्
इह च सतो ऽर्थस्य प्रतिषेधः क्रियते नामतः । तद्यथा नास्ति घटो गेह इति । सतो घटस्य प्रतिषेधः क्रियते । नासतः । एवम् एव नस्ति स्वभावो धर्माणाम् इति । सतः स्वभावस्य प्रतिषेधः प्राप्नोति नामतः । तत्र यद् उक्तं । निःस्वभावाः सर्वभावाः निःस्वभावत्वात् शून्या इति तन् न ॥ प्रतिषेधसंभवाद् एव हि सर्वभावस्वभावस्वभावो ऽप्रतिषिद्धः ॥
अथ नास्ति स स्वभावः किन् न प्रतिषिध्यते त्वयानेन ।
वचनेन र्ते वचनात् प्रतिषेधः सिध्यते ह्य् असतः
नास्त्य् एव स्वभावा इत्य् अनेन वचनेन निःस्वभावा भावा इति किं भवता प्रतिषिध्यते । असतो हि वचाद् विना सिद्धः प्रतिषेधः । तद्यथाग्नेः शैत्यस्य । अयं स्थैर्यस्य ।
किञ्चान्यत् ।
बालानाम् इव मिथ्या मृगतृष्णायां यथाजलग्राहः ।
एवं मिथ्याः ग्राहः स्यात् ते प्रतिषिध्यते ह्य् असतः
स्यात् ते बुद्धिः यथा बालानां मृगतृष्णायां मिथ्याजलम् इति ग्राहो भवति । ननु निर्जला सा मृगतृष्णेति तत्र पण्डितजातीयेन पुरुषेणोच्यते । तस्य मिथ्याग्राहस्य विनिवर्तनार्थम् एवन् निःस्वभावेषु यः स्वभावो ग्राहः सत्वानां तस्य व्यावर्तनार्थन् निःस्वभावाः सर्वभावा इत्य् उच्यत इति ॥
अत्र ब्रूमः ।
नन्व् एवं सत्य् अस्ति ग्राहो ग्राह्यञ् च तद्ग्रहीता च ।
प्रतिषेधः प्रतिषेध्यं प्रतिषेधा चेति षट्कं तत्
यद्य् एवं नन्व् एवं सत्य् अस्ति तावत् सत्वानां मिथ्याग्राहः । अस्ति ग्राह्यं सन्ति सत्वा ग्रहीतारः । अस्ति प्रतिषेधः तस्यापि मिथ्याग्राहस्यास्ति प्रतिषेध्यं यद् इदं मिथ्याग्राह्यं नाम । सन्ति प्रतिषेधारो युष्मदादयो ऽस्य मिथ्याग्राहस्येति सिद्धं षट्कम् । षट्कस्यास्य प्रसिद्धत्वात् । यद् उक्तं शून्याः सर्वभावा इति तन् न ॥
अथ नैवास्ति ग्राहो न च ग्राह्यं न च ग्रहीतारः ।
प्रतिषेधः प्रतिषेध्यं प्रतिषेधारो ऽप्य् अत न सन्ति
अथ मा भूद् एष दोष इति कृत्वा नैव ग्राहो ऽस्ति नैव ग्राह्यं न च ग्रहीतार इति । एवं सति यो ऽसौ ग्राहस्य प्रतिषेधः निःस्वह्हावाः सर्वभावा इति । सो ऽपि नास्ति प्रतिषेध्यम् अपि नास्ति प्रतिषेधारो ऽपि न सन्ति ।
प्रतिषेधः प्रतिषेध्यं प्रतिषेधाराअश् च यद्य् उत न सन्ति ।
सिद्धा हि सर्वभावा येषाम् एवं स्वभावश् च
यदि च न प्रतिषेधो न प्रतिषेध्यं न प्रतिषेद्धारः सन्त्य् अप्रतिसिद्धाः सर्वभावा अस्ति च सर्वभावानां स्वभावः ॥
किञ्चान्यत् ।
हेतोः स्वतो न सिद्धिः नैःस्वाभाव्यात् कुतो हि ते हेतुः ।
निर्हेतुकस्य सिद्धिर् न चोपपन्नास्य ते ऽर्थस्य
निःस्वभावाः सर्वभावा इत्य् एतस्मिन् अर्थे ते हेतोर् असिद्धिः । किं कारणं निःस्वभावत्वाद् धि सर्वभावानां शून्यत्वान् न ततो हेतुः । असति हेतौ निर्हेतुकस्यार्थस्य शून्याः सर्वभावा इति कुत एव प्रसिद्धिः ॥ तत्र यद् उक्तं शून्याः सर्वभावा इति तन् न ॥
किञ्चान्यत् ।
यदि चाहेतोः सिद्धिः स्वभावविनिवर्तनस्य ते भवति ।
स्वाभाव्यस्यास्तित्वं ममापि निर्हेतुकं सिद्धं
अथ मन्यसे नैर्हेतुकी सिद्धिः निःस्वभावत्वस्य भावानाम् इति । यथा तव स्वभावनिर्वर्तनं निर्हेतुकं सिद्धं । तथा ममापि स्वभावसत्भावो ऽपि निर्हेतुकः सिद्धः ॥
अथ हेतोर् अस्तित्वं भावानैःस्वाभाव्यम् इत्य् अनुपपन्नम् ।
लोको नैःस्वभाव्यान् न हि कश्चन विद्यते भावः
इह यदि हेतोर् अस्तित्वं मन्यसे । निःस्वभावाः सर्वभावा इति तद् अनुपपन्नं ॥ किं करणं । न हि लोके निःस्वभावः कश्चिद् भावो ऽस्ति ॥
किञ्चान्यत् ।
पूर्वं चेत् प्रतिषेधः पश्चात् प्रतिषेध्यम् इति न चोपपन्नम् ।
यश् चानुपपन्नो युगपच् च यतः स्वभावो ऽसन्
मूल पाठ: Vigrahavyāvartanī · Edition: Yoshiyasu Yonezawa: "Vigrahavyāvartanī, Sanskrit Transliteration and Tibetan Translation", Journal of Naritasan Institute for Buddhist Studies 31 (2008), pp. 209-333. = Vv · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0