भाषा

ENहिગુ
ग्रंथ पाठ

विग्रहव्यावर्तनी (अन्य संस्करण) · श्लोक 42-61

42

अनपेक्ष्य हि प्रमेयानर्थान् यदि ते प्रमाणसिद्धिः ।
भवति न भवति कस्यचिदेवमिमानि प्रमाणानि

43

अथ मतमपेक्ष्य सिद्धिस्तेषामित्यत्र को दोषः ।
सिद्धस्य साधनं स्यान्नासिद्धो ऽपेक्षते ह्यन्यत्

44

सिध्यन्ति हि प्रमेयाण्यपेक्ष्य यदि सर्वथा प्रमाणानि ।
भवति प्रमेयसिद्धिरनपेक्ष्यैव प्रमाणानि

45

यदि च प्रमेयसिद्धिरनपेक्ष्यैव भवति प्रमाणानि ।
किं ते प्रमाणसिद्ध्या तानि यदर्थं प्रसिद्धं तत्

46

अथ तु प्रमाणसिद्धिर्भवत्यपेक्ष्यैव ते प्रमेयाणि ।
व्यत्यय एवं सति ते ध्रुवं प्रमाणप्रमेयाणाम्

47

अथ तै प्रमाणसिद्ध्या प्रमेयसिद्धिः प्रमेयसिद्ध्या चा
भवति प्रमाणसिद्धिर्नास्त्युभयस्यापि ते सिद्धिः

48

सिध्यन्ति हि प्रमाणैर्यदि प्रमेयाणि तानि तैरेव ।
साध्यानि च प्रमेयैस्तानि कथं साधयिष्यन्ति

49

सिध्यन्ति च प्रमेयैर्यदि प्रमाणानि तानि तैरेव ।
साध्यानि च प्रमेयैस्तानि कथं साधयिष्यन्ति

50

पित्रा यद्युत्पाद्यः पुत्रो यदि तेन चैव पुत्रेण ।
उत्पाद्यः स यदि पिता वद तत्रोत्पादयति कः कम्

51

कश्च पिता कः पुत्रस्तत्र त्वं ब्रूहि तावुभावपि च ।
पितापुत्रलक्षणधरौ यतो नः पुत्रसंदेहः

52

नैव स्वतःप्रसिद्धिर्न परस्परतः प्रमाणैर्वा ।
भवति न च प्रमेयैर्न चाप्यकस्मात् प्रमाणानाम्

53

कुशलानां धर्माणां धर्मावस्थाविधो ब्रूवते यत् ।
कुशलस्वभावमेवं प्रविभागेनाभिधेयः स्यात्

54

यदि च प्रतीत्य कुशलः स्वभाव उत्पद्यते स कुशलानाम् ।
धर्माणां परभावः स्वभाव एवं कथं भवति

55

अथ न प्रतीत्य किंचित् स्वभाव उत्पद्यते स कुशलानाम् ।
धर्माणामेवं स्याद वासो न ब्रह्मचर्यस्य

56

नाधर्मो धर्मो वा संव्यवहाराश्च लौकिका न स्युः ।
नित्याश्च सर्वभावाः स्युर्नित्यत्वादहेतुमतः

57

एष चाकुशलेःवव्याकृतेःउ नैर्याणादिःउ च दोःअः ।
तस्मात् सर्वं संस्कृतमसंस्कृतं ते भवत्येवम्

58

यः सद्भूतं नाम ब्रूयात् स स्वभाव इत्येवम् ।
भवता प्रतिवक्तव्यो नाम ब्रूमश्च न व्यं सत्

59

नामासदिति च यदिदं तत्किं नु सतो भवत्युतासतः ।
यदि हि सतो यद्यसतो द्विधापि ते हीयते वादः

60

सर्वेषां भावानां शून्यत्वं चोपपादितं पूर्वम् ।
स उपालम्भस्तस्माद् भवत्ययं च प्रतिज्ञायाः

61

अथ विद्यते स्वभावः स च धर्माणां न विद्यत इति ।
इदमाशङ्कितं यदुक्तं भवत्यनाशङ्कितं तच्च

मूल पाठ: Vigrahavyāvartanī · Edition: P.L. Vaidya: Madhyamaka shastra. Darbhanga : Mithila Institute, 1960, pp. 277-295. (Buddhist Sanskrit Texts, 10) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc