विग्रहव्यावर्तनी (अन्य संस्करण) · श्लोक 21-41
हेतुप्रत्ययसामग्र्यां पृथग्भावे ऽपि मद्वचो न यदि ।
ननु शून्यत्वं सिद्धं भावानामस्वभावत्वात्
यश्च प्रतीत्य भावो भावानां शून्यतेति सा ह्युक्ता ।
यश्च प्रतीत्य भावो भवति हि तस्यास्वभावत्वम्
निर्मितको निर्मितकं मायापुरुषः स्वमायया सृष्टम् ।
प्रतिसेधयसे यद्वत् प्रतिषेधो ऽयं तथैव स्यात्
न स्वाभाविकमेतद् वाक्यं तस्मान्न वादहानिर्मे ।
नास्ति च वैषमिकत्वं विशेषहेतुश्च न निगद्यः
मा शब्दवदिति नायं दृष्टान्तो यस्त्वया ममारब्धः ।
शब्देन हि तच्च शब्दस्य वारणं नैव मे वचः
नैःस्वाभाव्यानां चेन्नैःस्वाभाव्येन वारणं यदि हि ।
नैःस्वाभाव्यनिवृत्तौ स्वाभाव्यं हि प्रसिद्धं स्यात्
अथवा निर्मितकायां यथा स्त्रियां स्त्रियमित्यसंग्राहम् ।
निर्मितकः प्रतिहन्यात् कस्यचिदेवं भवेदेतत्
अथवा साध्यसमो ऽयं हेतुर्न हि विद्यते ध्वनेः सत्ता ।
संव्यवहारं च वयं नानभ्युपगम्य कथयामः
यदि काचन प्रतिज्ञा तत्र स्यादेष मे भवेद्दोषः ।
नास्ति च मम प्रतिज्ञा तस्मान्नैवास्ति मे दोषः
यदि किंचिदुपलभेयं प्रवर्तयेयं निवर्तयेयं वा ।
प्रत्यक्षादिभिरर्थैस्तदभावान्मे ऽनुपालम्भः
यदि च प्रमाणतस्तेषां तेषां प्रसिद्धिरर्थानाम् ।
तेषां पुनः प्रसिद्धिं ब्रूहि कथं ते प्रमाणानाम्
अन्यैर्यदि प्रमाणैः प्रमाणसिद्धिर्भवत्यनवस्था ।
नादेः सिद्धिस्तत्रास्ति नैव मध्यस्य नान्तस्य
तेषामथ प्रमाणैर्विना प्रसिद्धिर्विहीयते वादः ।
वैषमिकत्वं तस्मिन् विशेषहेतुश्च वक्तव्यः
विषमोपन्यासो ऽयं न ह्यात्मानं प्रकाशयत्यग्निः ।
न हि तस्यानुपलब्धिर्दृष्टा तमसीव कुम्भस्य
यदि स्वात्मानमयं त्वद्वचनेन प्रकाशयत्यग्निः ।
परमिव न त्वात्मानं परिधक्ष्यत्यपि हुताशः
यदि च स्वपरात्मानौ त्वद्वचनेन प्रकाशयत्यग्निः ।
प्रच्छादयिष्यति तमः स्वपरात्मानौ हुताश इव
नास्ति तमश्च ज्वलने यत्र च तिष्ठति सदात्मनि ज्वलनः ।
कुरुते कथं प्रकाशं स हि प्रकाशो ऽन्धकारवधः
उत्पद्यमान एव प्रकाशयत्यग्निरित्यसद्वादः ।
उत्पद्यमान एव प्राप्नोति तमो न हि हुताशः
अप्राप्तो ऽपि ज्वलनो यदि वा पुनरन्धकारमुपहन्यात् ।
सर्वेषु लोकधातुषु तमो ऽयमिहसंस्थित उपहन्यात्
यदि च स्वतःप्रमाणसिद्धिरनपेक्ष्य ते प्रमेयाणि ।
भवति प्रमाणसिद्धिर्न परापेक्षा हि सिद्धिरिति
मूल पाठ: Vigrahavyāvartanī · Edition: P.L. Vaidya: Madhyamaka shastra. Darbhanga : Mithila Institute, 1960, pp. 277-295. (Buddhist Sanskrit Texts, 10) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0