भाषा

ENहिગુ
ग्रंथ पाठ

विग्रहव्यावर्तनी (अन्य संस्करण) · श्लोक 62-72

62

सत एव प्रतिषेधो यदि शून्यत्वं नन्वप्रतिषिद्धमिदम् ।
प्रतिषेधयते हि भवान् भावानां निःस्वभावत्वम्

63

प्रतिषेधयसे ऽथ त्वं शून्यत्वं तच्च नास्ति शून्यत्वम् ।
प्रतिषेधः सत इति ते नन्वेवं हीयते वादः

64

प्रतिषेधयामि नाहं किंचित् प्रतिषेध्यमस्ति न च किंचित् ।
तस्मात् प्रतिषेधयसीत्यधिलय एव त्वया क्रियते

65

यच्चाहं ते वचनादसतः प्रतिषेधवचनसिद्धिरिति ।
अत्र ज्ञापयते वागसदिति तन्न प्रतिनिहन्ति

66

मृगतृष्णादृष्टान्ते यः पुनरुक्तं त्वया महांश्चर्यः ।
तत्रापि निर्णयं शृणु यथा स दृष्टान्त उपपन्नः

67

स यदि स्वभावतः स्यात् भावो न स्यात् प्रतीत्यसमुद्भूतः ।
यश्च प्रतीत्य भवति ग्राहो ननु शून्यता सैव

68

यदि च स्वभावतः स्याद् ग्राहः कस्तं निवर्तयेद् ग्राह्यम् ।
शेषेष्वप्येष विधिस्तस्माद् दोषो ऽनुपालम्भः

69

एतेन हेत्वभावः प्रत्युक्तः पूर्वमेव स समत्वात् ।
मृगतृष्णादृष्टान्तव्यावृत्तिविधौ य उक्तः प्राक्

70

यस्त्रैकाल्ये हेतुः प्रत्युक्तः पूर्वमेव स समत्वात् ।
त्रैकाल्यप्रतिहेतुश्च शून्यतावादिनां प्राप्तः

71

प्रभवति च शून्यतेयं यस्य प्रभवन्ति तस्य सर्वार्थाः ।
प्रभवति न तस्य किं न भवति शून्यता यस्येति

72

यः शून्यतां प्रतीत्यसमुत्पादं मध्यमां प्रतिपदमनेकार्थाम् ।
निजगाद प्रणमामि तमप्रतिमसंबुद्धम्

मूल पाठ: Vigrahavyāvartanī · Edition: P.L. Vaidya: Madhyamaka shastra. Darbhanga : Mithila Institute, 1960, pp. 277-295. (Buddhist Sanskrit Texts, 10) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc