भाषा

ENहिગુ
ग्रंथ पाठ

विग्रहव्यावर्तनी (अन्य संस्करण) · श्लोक 1-20

1

विग्रहव्यावर्तनी (व्व्)
सर्वेषां भावानां सर्वत्र न विद्यते स्वभावश्चेत् ।
त्वद्वचनमस्वभावं न निवर्तयितुं स्वभावमलम्

2

अथ सस्वभावमेतद्वाक्यं श्रुत्वा हता प्रतिज्ञा ते ।
वैषमिकत्वं तस्मिन् विशेषहेतुश्च वक्तव्यः

3

मा शब्दवदित्येतत् स्यात्ते बुद्धिर्न चैतदुपपन्नम् ।
शब्देनात्र सता भविष्यतो वारणं तस्य

4

प्रतिषेधः प्रतिषेद्ध्यो ऽप्येवमिति मतं भवेत् तदसदेव ।
एवं तव प्रतिज्ञा लक्षणतो दुष्यते न मम

5

प्रत्यक्षेण हि तावन् यद्युपलभ्य विनिवर्तयसि भावान् ।
तन्नास्ति प्रत्यक्षं भावा येनोपलभ्यन्ते

6

अनुमानं प्रत्युक्तं प्रत्यक्षेणागमोपमाने च ।
अनुमानागमसाध्या ये ऽर्था दृष्टान्तसाध्याश्च

7

कुशलानां धर्माणां धर्मावस्थाविदश्च मन्यन्ते ।
कुशलं जनस्वभावं शेषेष्वप्येष विनियोगः

8

नैर्याणिकस्वभावो धर्मो नैर्याणिकाश्च ये तेषाम् ।
धर्मावस्थोक्तानामेव च नैर्याणिकादीनाम्

9

यदि च न भवेत् स्वभावो धर्माणां निःस्वभाव इत्येवम् ।
नामापि भवेन्नैवं नामापि निर्वस्तुकं नास्ति

10

अथ विद्यते स्वभावः स च धर्माणां न विद्यते तस्मात् ।
धर्मैर्विना स्वभावः स यस्यास्ति तद् युक्तमुपदेष्टुम्

11

सत एव प्रतिषेधो नास्ति घटो गेह इत्ययं यस्मात् ।
दृष्टः प्रतिषेधो ऽयं सतः स्वभावस्य ते तस्मात्

12

अथ नास्ति स स्वभावः किं नु प्रतिविध्यते त्वयानेन ।
वचनेनर्ते वचनात् प्रतिषेधः सिध्यते ह्यसतः

13

बालानामिव मिथ्या मृगतृष्णायां यथा जलग्राहः ।
एवं मिथ्याग्राहः स्यात्ते प्रतिषिध्यतो ह्यसतः

14

नन्वेवं सत्यस्ति ग्राहो ग्राह्यं च तग्दृहीतं च ।
प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धा चेति षट्कं तत्

15

अथ नैवास्ति ग्राहो न च ग्राह्यं न च ग्रहीतारः ।
प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धारो ऽस्य तु न सन्ति

16

प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धारश्च यद्युत न सन्ति ।
सिद्धा हि सर्वभावा येषामेवं स्वभावश्च

17

हेतोस्ततो न सिद्धिर्नैःस्वाभाव्यात् कुतो हि ते हेतुः ।
निर्हेतुकस्य सिद्धिर्न चोपपन्नास्य ते ऽर्थस्य

18

यदि चाहेतोः सिद्धिः स्वभावविनिवर्तनस्य ते भवति ।
स्वाभाव्यस्यास्तित्वं ममापि निर्हेतुकं सिद्धम्

19

अथ हेतोरस्तित्वं भावनैःस्वाभाव्यमित्यनुपपन्नम् ।
लोके नैःस्वाभाव्यान्न हि कश्चन विद्यते भावः

20

पूर्वं चेत् प्रतिषेधः पश्चात् प्रतिषेध्यमिति च नोपपन्नम् ।
पश्चादनुपपन्नो युगपच्च यतः स्वभावो ऽसन्

मूल पाठ: Vigrahavyāvartanī · Edition: P.L. Vaidya: Madhyamaka shastra. Darbhanga : Mithila Institute, 1960, pp. 277-295. (Buddhist Sanskrit Texts, 10) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc