Vibhramaviveka · श्लोक 81-100
प्रवृत्तिश् शुक्तिशकले तथा च रजतार्थिनः
आभासते कथञ्चिच् च तन् नात्यन्तं न भासते ॥
तेन नावेआदिका यत् तु तद्रूपाव्यभिचारतः
प्रामाण्यम् आनपेक्ष्यं हि स्याद् अन्यथा त्रपाकरम् ॥
त्रपाकरं कथं तन् नः स्वतःप्रामाण्यवादिनाम्
अप्य् अन्यो ऽव्यभिचारेण धीप्रामाण्यम् उपागमत् ॥
बोधाद् एव प्रमाणत्वम् इति मीमांसकस्थितिम्
विदन्न् अव्यभिचारेण तां व्युदस्यत्य् अपण्डितः ॥
अर्थेनाव्यभिचारश् चेन् नाबुद्धेन प्रमीयते
ज्ञानस्याव्यभिचाराच् च तद्बोध इति दुर्घटम् ॥
उपास्यो ऽव्यतिरेकश् च तज्ज्ञानस्य तथान्यथा
नासिद्धाव्यतिरेकेण स परामृश्यते .......... ॥
अपि चाव्यतिरेको ऽपि ज्ञानरूपेण वेद्यते
ख्यातौ च विपरीतायां तद्विरोधप्रसङ्गतः ॥
तथा सति तद् एवास्तु विषयस्यावबोधकम्
अर्थो नाव्यतिरेकेण तत्सामर्थ्याप्तसंविदा ॥
व्यभिचाराप्रतीत्या चेद् अप्रामाण्यनिराकृतिः
दूषिते व्यभिचारेण न स्याज् ज्ञाने प्रमाणता ॥
नैतद् अव्यभिचारेण प्रामाण्यं यस्य दुष्यति
व्यभिचाराद् असौ लिङ्गं यथा नाक्षं तथापि तत् ॥
संबन्धज्ञानसापेक्षं यद् उपैत्य् उपयोगिताम्
दूषितं व्यभिचारेण तत् स्यात् संशयकारणम् ॥
दुष्यति व्यभिचारेण बोधकं सत्तयैव न
विज्ञानाच् चार्थसंवित्तिस् सत्तयैवेन्द्रियादिवत् ॥
लिङ्गस्याव्यभिचाराद् यत् प्राप्यते रूपतो ऽस्य तत्
सिद्धप्रत्ययसामर्थ्य पूर्वौ नेतो निमित्तताम् ॥
प्रामाण्ये तदभावे चा व्यतिरेकविपर्ययौ
तथा ह्य् अव्यतिरेको ऽपि बोधाद् एवोपवर्णितः ॥
व्यतिरेको बाधबोधाद् इति तच्छ्रुतियुक्तता
असिद्धे ज्ञानसामर्थ्ये सो ऽसिद्धो दूषकः कथम् ॥
सिद्धे ऽपि सिद्धसामर्थ्यम् असामर्थ्यं कथं नयेत्
ननु च व्यभिचारित्वे बाधकज्ञानसंमते ॥
ज्ञानरूपस्य तेनैव विहन्येत प्रमाणता
अर्थो यथा ज्ञानरूपात् तथैवेत्य् अवसीयते ॥
व्यभिचारमतेर् एव न तथैवेति गम्यते
तत् सत्यं बाधकज्ञानं यत्र तत्र विहन्यते ॥
अन्यत्र तु विघातः स्यान् न साक्षान् नापि चार्थतः
अनुमानं भवेत् तच् च तेनापहृतगोचरम् ॥
नोदेति जाग्रतो बुद्धिर् इति भाष्ये निदर्शितम्
व्यभिचारज्ञानमात्रात् प्रामाण्यस्य न नः क्षतिः ॥
मूल पाठ: Vibhramaviveka · Edition: L. Schmithausen: Maṇḍanamiśra's Vibhramavivekaḥ : mit einer Studie zur Entwicklung der indischen Irrtumslehre. Wien 1965 (Sitzungsberichte der Österreichischen Akademie der Wissenschaften, Phil.-Hist. Klasse, 247,1; Veröffentlichungen der Kommission für Sprachen und Kulturen Süd- und Ostasiens, 2) · Data entry Takahiro Kato · GRETIL (Göttingen) · CC BY-NC-SA 4.0