भाषा

ENहिગુ
ग्रंथ पाठ

Vibhramaviveka · श्लोक 101-120

101

व्यभिचारिणि नाश्वासः ........
........ ........ ॥

102

त्रिधापि व्यभिचारेण प्रामाण्यं नोपहन्यते
उक्तं नाव्यतिरेकस्य प्रमाणत्वनिमित्तता ॥

103

येन स्याद् धेत्वभावेन व्यभिचारे विपर्ययः
धूमादीनाम् अपि न तद् वर्ण्यते ऽव्यभिचारतः ॥

104

बोधाद् एव तदुत्पत्ताव् अङ्गभावो ऽस्य सम्मतः
तथा ह्य् अव्यभिचाराणां कुतश्चन निमित्ततः ॥

105

बोधस्यानुदये कश्चित् प्रामाण्यं नानुमन्यते
एकार्थनियतं बोधं जनयद् व्यभिचार्य् अपि ॥

106

प्रमाणम् इष्यते चक्षुर् नीले भावे सिते भवत्
न चापि व्यभिचारस्य साक्षात् प्रामाण्यघातिता ॥

107

क्वचिद् दृष्टा भ्रान्तिबोधे बाधधीर् उपघातिका
प्रमेयत्वोर्ध्वतादीनां बोध एवावधारकः ॥

108

नास्तीति न प्रमाणत्वं हेत्वभावाच् च नास्त्य् असौ
तद्भावाच् च प्रमाणत्वम् अक्षाणां व्यभिचारिणाम् ॥

109

न चावधारिते युक्तो द्वैविध्यात् संशयोद्भवः
न निश्चिते ऽपि हि स्थाणाव् ऊर्ध्वत्वेन विशेरते ॥

110

........ ........
न चावधारणाद् एव तत्त्वतो ऽनवधारणम् ॥

111

एवं यतस् ततो नैवं भवेद् अतिसुभाषितम्
उत्पत्त्यैव च विज्ञानं तथात्वस्यावधारकम् ॥

112

न चेत् तथा नान्यतो ऽपि तस्य प्रामाण्यसम्भवः
प्रमाणत्वाप्रमाणत्वे ऽव्यतिरेकविपर्ययौ ॥

113

अनङ्गे इति मोघैव तयोर् अत्र विचारणा
अतो ऽवधारणाभास व्यभिचारात् परीक्षणम् ॥

114

प्रस्तुत्य ..... ........
हेत्वभावे फलाभाव नियमो स्यात् ततो गते ॥

115

अभावे हेतुदोषाणां तथाख्यातिविनिश्चयः
हेतौ फलं न नियतं परिणामाद्यपेक्षिणि ॥

116

अदुष्टे ऽपि ततो हेतौ न स्फुटग्रहनिश्चयः
प्रत्यक्षो ऽनुभवः साध्यो न हेतोर् व्यभिचारिणः ॥

117

विपर्ययफलाभावो हेत्वभावात् तु युज्यते
निरोधाद् युक्तकार्यस्य विपरीतस्य साधनात् ॥

118

दोषाणां नितरां दोष भावो ऽभिव्यक्तिम् ऋच्छति
कार्यातिरेको जठरे वह्नौ दृष्टश् च भस्मके ॥

119

कामाद्युपप्लुते चित्ते दृष्टिता स्मरणात्मनि
सामानाधिकरण्येना मुख्यरूप्य प्रतीतितः ॥

120

अभिन्नैका च सा संवित् कं पक्षम् अपबधताम्
शून्यं प्रकाशते चेति द्वयं विप्रतिषेधवत् ॥

मूल पाठ: Vibhramaviveka · Edition: L. Schmithausen: Maṇḍanamiśra's Vibhramavivekaḥ : mit einer Studie zur Entwicklung der indischen Irrtumslehre. Wien 1965 (Sitzungsberichte der Österreichischen Akademie der Wissenschaften, Phil.-Hist. Klasse, 247,1; Veröffentlichungen der Kommission für Sprachen und Kulturen Süd- und Ostasiens, 2) · Data entry Takahiro Kato · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc