Vibhramaviveka · श्लोक 61-80
प्रवर्तते यत् तत्रैव तत् तत्संनिधिकारितम्
अन्यत्र भेदग्रहणाद् विवेकाग्रहणात् तथा ॥
प्रवृत्तिभेदः सादृश्याद् विवेकाग्रहणं यदि
अदृष्टेषु प्रवर्तेत लोष्टादिष्व् अविवेकतः ॥
न तत्र यदि तद्बुद्धिः शुक्तिकाशकले ऽपि न
अथास्ति विपरीतार्था ख्यातिर् निह्नूयते कथम् ॥
अदृष्टत्वाद् अप्रवृत्तिः शुक्तिकाशकले समा
दृष्टं तद् येन रूपेण तत् प्रवृत्तेर् अकारणम् ॥
दृष्टस्मृताविवेकाच् चेद् इदम् अत्र परीक्ष्यताम्
तत्त्वबोधाद् अपातत्व बोधाद् रजतवेदनात् ॥
दृष्टे प्रवृत्तिः पूर्वस्मिन् विपरीतार्थता मतेः
न दृष्टादृष्टयोर् भेदः परस्मिन् नोपयोगिनी ॥
खयोगदर्शने ते हि समारोपोपयोगिनी
नादृष्टे ऽसंप्रयुक्ते वा चाक्षुषः स्याद् विपर्ययः ॥
स्मृतिप्रमाणफलयोर् नानात्वं यदि चेष्यते
विवेचितस् तयोस् स्वार्थो ऽविवेकः किंनिबन्धनः ॥
अन्यस्मात् सा स्वविषयं विविनक्ति स्मृतिर् न चेत्
सामान्यदृष्टौ चान्यस्य स्मृतौ स्याद् वा सदा भ्रमः ॥
स्मरामीति विवेकान् न यदि नैतत् प्रकल्पते
फलाभेदे फलोन्नेय ज्ञानभेदमतिः कुतः ॥
स्मरामीति च विज्ञानं स्मृतेर् अन्यद् उदाहृतम्
न च मानफलाद् भिन्ना तत् सिद्ध्यति फलाद् ऋते ॥
मनोदोषाद् यदि स्वार्थो न स्मृत्या प्रविविच्यते
तिमिरादौ कथं स्वस्थे स्वान्ते केशादिविभ्रमः ॥
न तत्रापि मनो दुष्टम् अर्थान्तरविवेचनात्
ज्ञानाद् एव हि दृष्टत्व कल्पनायाश् च गौरवात् ॥
बुध्यमानो विवेकं च पश्यामीन्द्रियदोषतः
चित्रादिरूपान् दीपादीन् इति लोकः प्रभाषते ॥
इन्द्रियाणां दोषभेदान् नियतभ्रान्तिदर्शनम्
न स्याद् यस्याग्रहे दोष व्यापार इति निश्चयः ॥
न च सर्वा नियोगेन भ्रान्तिः सादृश्यबन्धना
श्वेते पीतभ्रमो दृष्टो मधुरे तिक्तविभ्रमः ॥
अव्यापृतौ च तत्प्राप्तेर् नातःपित्तप्रवेदनम्
अत्यासन्नस्य संवित्तिर् दुर्लभा चाञ्जनादिवत् ॥
न चाक्षवृत्तितज्जन्म ज्ञानभेदाविवेकजाः
द्विचन्द्रादिभ्रमास् ते हि न प्रत्यक्षे न च स्मृते ॥
अन्यथालम्बनत्वे च न निरालम्बना मतिः
अन्येनापि हि रूपेण चक्षुर् नालम्बते ऽक्षधीः ॥
आलम्बनार्थस् तद्युक्त व्यवहारस्य योग्यता
अन्यस्यापि हि नैवान्यस् स इत्य् एव हि दर्शितम् ॥
मूल पाठ: Vibhramaviveka · Edition: L. Schmithausen: Maṇḍanamiśra's Vibhramavivekaḥ : mit einer Studie zur Entwicklung der indischen Irrtumslehre. Wien 1965 (Sitzungsberichte der Österreichischen Akademie der Wissenschaften, Phil.-Hist. Klasse, 247,1; Veröffentlichungen der Kommission für Sprachen und Kulturen Süd- und Ostasiens, 2) · Data entry Takahiro Kato · GRETIL (Göttingen) · CC BY-NC-SA 4.0