भाषा

ENहिગુ
ग्रंथ पाठ

Vibhramaviveka · श्लोक 41-60

41

यद्य् आलम्बनरूपाच् च धीर् अन्यद् अवभासते
ततो ऽनालम्बनैव स्यात् तस्य तल्लक्षणच्युतेः ॥

42

तथा च तत्स्वभावाया नार्थतत्त्वविनिश्चयः
सापेक्षाया अपि ग्राह्य हीना सा चेद् अवेदिका ॥

43

........ ........ ॥

44

स्मृतित्वाशङ्कया नात्र वर्तमाने न निश्चयः
विवेकाग्रहणं यस्माद् धेतुभावे न युज्यते ॥

45

हेतूपघाते खलु तत् तदभावे स्फुटग्रहः
यत्नेनानुपलब्धेश् च तदभावे च निश्चयः ॥

46

सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः
स्मरामीति च प्रमोषात् प्रायेणाध्यक्षविभ्रमः ॥

47

एकान्तसत्त्वे का भ्रान्तिर् असत्त्वे किं प्रकाशताम्
द्वयानुगुण्याद् वृद्धानां संमता ख्यातिर् अन्यथा ॥

48

यत्र न प्रथते किञ्चित् तत्र तावन् न विभ्रमः
सुषुप्ताव् इव भूच्छाया तमो भावो यथेक्ष्यते ॥

49

द्वयोर् एकस्य वा ख्यातिर् असम्यग् विभ्रमो मतः
तत्र केयम् असम्यक्ता विज्ञानस्थम् अपाटवम् ॥

50

अथ सर्वप्रकाराणाम् अग्रहः कस्यचिद् ग्रहः
वस्तुनो ऽतत्प्रकारस्य तथा ख्यातिस् तु नेष्यते ॥

51

तत्र दूरस्थिते सूक्ष्मे भवत्य् अपटुदर्शनम्
सामान्यमात्रख्यातिर् वा न भ्रमश् च प्रतीयते ॥

52

न च सर्वात्मनार्थस्य ज्ञानं किञ्चन बोधकं
सर्वविज्ञानमिथ्यात्वम् आपन्नं पुनर् अन्यथा ॥

53

अतो नावर्तमानत्वा ज्ञानात् स्वप्नमतिर् मृषा
वर्तमानत्वबोधात् तु तथैकत्वाधिरोपणात् ॥

54

मिथ्या रजतधीर् नात्र विवेकानवधारणात्
प्रत्यभिज्ञानविभ्रान्तौ न स्मृतित्वं न गम्यते ॥

55

एकस्य च विविक्तत्वाद् इतरस्य विविक्तता
प्रत्यक्षाद् अविवेकाच् च युक्तः प्रत्यक्षविभ्रमः ॥

56

स्यात् स्मृताद् अविवेकाच् च स्मृतिगोचरविभ्रमः
........ ........ ॥

57

........ ........
नियता न प्रवृत्तिः स्यान् नेष्टा चेत् ख्यातिर् अन्यथा ॥

58

न दृश्यादृश्ययोर् भेदः ख्यातिश् चेन् नेप्सितात्मनः
ननु नो विपरीतार्था धीः प्रतीतिविरोधतः ॥

59

अनाश्वासाच् च रजत प्रत्ययो रजते स्मृतिः
नैतन् न हि प्रवर्तेत शुक्तिकाशकले तदा ॥

60

रजते सा प्रवृत्तिश् चेन् न तस्यासंनिधानतः
असंनिधानाबोधाच् चेत् प्रवृत्तिनियमः कुतः ॥

मूल पाठ: Vibhramaviveka · Edition: L. Schmithausen: Maṇḍanamiśra's Vibhramavivekaḥ : mit einer Studie zur Entwicklung der indischen Irrtumslehre. Wien 1965 (Sitzungsberichte der Österreichischen Akademie der Wissenschaften, Phil.-Hist. Klasse, 247,1; Veröffentlichungen der Kommission für Sprachen und Kulturen Süd- und Ostasiens, 2) · Data entry Takahiro Kato · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc