भाषा

ENहिગુ
ग्रंथ पाठ

Vibhramaviveka · श्लोक 21-40

21

........ ........ ।
प्राक्[ ....... ........ ] ॥

22

मन्दसंस्कारसहकृद् उच्छेदे तेन वा विना
दोषैः क्षतं मनः कार्यि प्रणिधानादिवर्जितम् ॥

23

दोषैर् अविकृतं स्वस्थं प्रणिधानादिसंस्कृतम्
न कार्यवज् जागरायाम् अहो नयविदां परः ॥

24

दोषक्षतिः कार्यशक्ति हानिरूपा च विद्यते
अतिरेकश् च कार्यस्येत्य् अहो न्यायविवेकिता ॥

25

अध्यारोपे भवेद् गौणी वाहीके गोमतिर् यथा
न संविदानुगुण्यं स्यान् न विवेकमतिर् यदि ॥

26

अख्यातिर् अपि संवित्तिं नैवान्वेति यतो मतिः
सामानाधिकरण्येन रूप्यम् एतद् इति स्थिता ॥

27

तस्माद् विभ्रम एवायम् इति युक्तो विनिश्चयः
न संविदनुसारेण निमित्तं तस्य युज्यते ॥

28

अतो ऽनिर्वचनीयत्वं वरं ब्रह्मविदो विदुः
अविद्याया अविद्यात्वम् अन्यथा परिहीयते ॥

29

सत्त्वे न मिथ्या शून्यत्वे दुर्निरूपं प्रकाशनम्
सदसत्भ्याम् अनिर्वाच्यां ताम् अविद्यां प्रचक्षते ॥

30

वस्तुनो ऽन्वेषणा तस्यां बाह्याभ्यन्तरवर्तिनः
न युज्यते यत्र तत्र वेद्यवस्तुनि तत्क्षतेः ॥

31

नामरूपप्रपञ्चो ऽयम् अविद्यैव च वर्ण्यते
अन्यस्य त्व् अन्यथा ख्यातौ न प्रपञ्चव्यपह्नवः ॥

32

अख्यातौ शून्यम् एव स्यात् प्रपञ्चः किंनिबन्धनः
अप्रपञ्चः सप्रपञ्च रूपो भातीति युज्यते ॥

33

अस्फुटाग्रहणे कामम् मा भसि स्फुटम् आत्मना
अविद्यमाने त्व् अध्यस्ये वैश्वरूप्यं वृथाकृतम् ॥

34

चितौ विचित्राकारायां प्रपञ्चात्मतयैव हि
अनिर्मोक्षस् तथा च स्याद् अथवानित्यतापतेत् ॥

35

अनेकाकारविभ्रान्तौ गन्धर्वनगरादिषु
आकारा व्यक्तम् एकस्या धियो ऽसत्याश् चकासति ॥

36

न भूतं चेतसो रूपं नाध्यारोपास्फुटग्रहौ
विभ्रमेषु विवर्तत्वम् अतो ब्रह्मविदां मतम् ॥

37

असतो भासनायोगाद् विरोधात् संविदो ऽपरः
अवोचन् निपुणंमन्यो विभ्रमं सम्यगग्रहम् ॥

38

न किञ्चिद् भासते चेति विरुद्धम् इव दृश्यते
भासने रूपवत्त्वेन नासत् संविद्विरोधतः ॥

39

अन्यस्याप्य् अन्यथा ख्यातिर् अत एव न युज्यते
अन्यत् प्रकाशते चान्यद् ग्राह्यम् इत्य् अतिदुर्घटम् ॥

40

आलम्बनं न हेतुत्व मात्राद् अक्षे ऽपि तद् यतः
आलम्बनं न हेतुत्व मात्रेण व्यवतिष्ठते ॥

मूल पाठ: Vibhramaviveka · Edition: L. Schmithausen: Maṇḍanamiśra's Vibhramavivekaḥ : mit einer Studie zur Entwicklung der indischen Irrtumslehre. Wien 1965 (Sitzungsberichte der Österreichischen Akademie der Wissenschaften, Phil.-Hist. Klasse, 247,1; Veröffentlichungen der Kommission für Sprachen und Kulturen Süd- und Ostasiens, 2) · Data entry Takahiro Kato · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc