Vibhramaviveka · श्लोक 1-20
आत्मख्यातिर् असत्ख्यातिर् अख्यातिः ख्यातिर् अन्यथा
परीक्षकाणां विभ्रान्तौ विवादात् सा विविच्यते ॥
असच् चकस्ति न व्योम कुसुम? न .............
अर्थः प्रकाशते ऽतो धीस् तदाकारेति केचन ॥
असंभवि च यावच् च तावत् संपरिहीयताम्
संवेद्याकारसंत्यागो न भ्रान्तित्वे ऽवकल्पते ॥
एकदेशापबाधेन कल्पमाने च बाधके
न सर्वबाधनं युक्तम् इति न्यायविदः स्थिताः ॥
अन्यो बहिर् भासमानो नान्तर् अर्हति धारणम्
असत्तैव वरं तस्य भ्रान्तित्वानुगुणा हि सा ॥
नान्तर्वर्तितया भ्रान्तिर् असत्त्वेन तु सेष्यते
अकल्पयित्वान्तस् तस्माद् असत्तां खल्व् अचीकॢपत् ॥
नान्तर्वर्तिबहिर्भासो भ्रान्तित्वानुपपत्तितः
असत्त्वेनैव तत्कॢप्तौ न प्रमाणवती हि सा ॥
यथावभासमानस्य कल्प्यासत्ता नियोगतः
अन्तर्भावे ऽपि च बहिर् भावे भ्रान्तिर् न युज्यते ॥
अख्यातेर् अविशेषेण स्यात् सुषुप्ते ऽपि विभ्रमः
अख्यातिः खलु तत्रापि न चाख्यातिर् विशिष्यते ॥
उपालम्भस्य न पदम् असतो ऽत्र प्रकाशनम्
अत एव यतो भ्रान्तिः सम्यक्ख्यातौ तथा भवेत् ॥
युज्यते नान्यथाख्यातिर् निरधिष्ठानविभ्रमे
स्वप्ने हि निरधिष्ठानो विभ्रमो वीतसंशयः ॥
तत्राप्य् अवर्तमानं चेद् गृह्यते वर्तमानवत्
अवर्तमानस्यासत्ता खपुष्पान् न विशिष्यते ॥
अत्यन्ताननुभूतानां परस्परपराणुदाम्
दृष्टेश् चावर्तमानस्य न ख्यानं वर्तमानवत् ॥
खपुष्पतुल्ये का ख्यातिर् नीरूपेणैव भासनात्
तद् अपि व्यवहाराङ्गं रूपवत्त्वेन भासनात् ॥
कल्पनायाम् अपि त्व् एवं नासत्ख्यातिविवर्जनम्
प्रकारान्तरसंसर्गो नन्व् असन्न् एव भासते ॥
तस्माद् असत एवेदं रूपवत्त्वेन भासनम्
अवश्यकल्पनीयत्वात् कल्पनायाश् च लाघवात् ॥
प्राक्तत्त्वज्ञानसंस्कारस् तत्प्रबोधस् सकारनः
स्मरामीति प्रमोषस् स हेतुर् इन्द्रिययोगिनः ॥
भ्रान्तौ सहाक्षैर् मनसो दुष्टतान्तर्विवर्तिता
कामप्रकर्षमरण मूर्च्छाशोकामयादिषु ॥
उच्छेदकेषु बहुलं संस्कारस्यानुवर्तनम्
परपक्षेषु कल्प्यानि भूयिष्ठानीति दृश्यते ॥
सर्वसंस्कारविच्छेदि मरणान्तरिते ऽस्मृतेः
जन्मान्तरानुभूतं च न स्मर्यत इति स्थितम् ॥
मूल पाठ: Vibhramaviveka · Edition: L. Schmithausen: Maṇḍanamiśra's Vibhramavivekaḥ : mit einer Studie zur Entwicklung der indischen Irrtumslehre. Wien 1965 (Sitzungsberichte der Österreichischen Akademie der Wissenschaften, Phil.-Hist. Klasse, 247,1; Veröffentlichungen der Kommission für Sprachen und Kulturen Süd- und Ostasiens, 2) · Data entry Takahiro Kato · GRETIL (Göttingen) · CC BY-NC-SA 4.0