Vibhramaviveka · श्लोक 141-160
न ज्ञेयशून्यं विज्ञानं स्वात्महानिप्रसङ्गतः
निरुपाख्याद् आत्मयोगाद् अस्वातन्त्र्याच् च चेतसः ॥
प्रमाणवन्त्य् अदृष्टानि कल्प्यन्ते सुबहून्य् अपि
संस्कारच्छेदहेतूनां तत्त्वं नैकान्ततः स्थितम् ॥
जन्मान्तरानुभूतं च न स्मर्यत इति स्थितम्
तत्कर्मफलसंबन्धं प्रतीति प्रतिजानते ॥
तथा ह्य् अनादौ संसारे कर्मभेदान् स्मरन्न् अपि
अनन्तकृतकर्मत्वात् को विद्यात् कस्य किं फलम् ॥
स्वान्तस्योपप्लवः स्वप्ने स्मृतिबीजस्य बोधकः
तस्य च जग्रतो ऽभावान् नोदेति स्वप्नदर्शनम् ॥
कामाद्युपप्लवे ऽप्य् एवं कार्याधिक्यम् उदाहृतम्
अग्राह्यम् एव गृह्णाति स्वयं कल्पयति ह्य् अयम् ॥
दोषक्षतस्य मनसस् तत् कार्यं .................
तद् अध्यारोपे नो गौणी तथेत्य् अध्यवसायतः ॥
ख्याति सन्निहिते ऽशून्यं सद् भावान्तरघट्टितम्
प्रभासताम् असत्ता तु नो शून्यं तद् अनात्मकम् ॥
........ ........ ॥
एवं निर्वचनीया च नाविद्या परिहास्यते
अविद्यात्वं यतो ऽन्यस्य सान्यरूपं प्रकाशयेत् ॥
........ ........ ॥
........ ........ ॥
........ ........ ॥
बाध्यज्ञानस्य मिथ्यात्वं नान्यथा व्यवतिष्ठते
तेन यावद् बाधनीयं तावन् मिथ्येति युज्यते ॥
भ्रान्तिज्ञेये च बाह्यत्वं बाधकैर् न निरस्यते
न गम्यते ऽन्तर्वर्तित्वं नानिर्वाच्यतया मतिः ॥
किं त्व् अतद्देशकालत्वं गम्यते बाह्यवस्तुनः
तस्मान् न बाह्यवस्तुत्वं मृषा बोधान् न बाधनात् ॥
प्रसक्तप्रतिषेधात्मा बाधो ऽख्यातौ न युज्यते
साधयत्य् अन्यथा ख्यातिं बाध एव च नः स्फुटम् ॥
प्रसञ्जिका हि नाख्यातिर् अस्मत्पक्षे तु युज्यते
न चाग्रहनिषेधो ऽयं सर्वज्ञानप्रसङ्गतः ॥
विवेकधीर् निषेधो ऽयं न प्रतीत्यानुगम्यते
न क्रमे यौगपद्ये वा विवेकमतिर् ईदृशी ॥
अविवेकग्रहे स्याच् चेत् सत्यं न तु विविक्तयोः
अग्रहे प्राप्त्यभावेन प्राप्तेः पूर्वं तु युज्यते ॥
मूल पाठ: Vibhramaviveka · Edition: L. Schmithausen: Maṇḍanamiśra's Vibhramavivekaḥ : mit einer Studie zur Entwicklung der indischen Irrtumslehre. Wien 1965 (Sitzungsberichte der Österreichischen Akademie der Wissenschaften, Phil.-Hist. Klasse, 247,1; Veröffentlichungen der Kommission für Sprachen und Kulturen Süd- und Ostasiens, 2) · Data entry Takahiro Kato · GRETIL (Göttingen) · CC BY-NC-SA 4.0