Vibhramaviveka · श्लोक 161-164
........ ........
द्वयोर् अभावात् स्वप्ने च विवेको गम्यते कयोः ॥
स्मृतत्वेनाविविक्ते चेत् तथा बाधा विहन्यते
स्यात् सर्वैवंविधा बाधा पश्चात् धर्मिणि धर्मधीः ॥
तद् युक्तं बाधकज्ञानाद् वाचोयुक्तिर् इयं भवेत्
अर्थे ऽन्यथापि सत्य् एष धियाकारः प्रतीयते ॥
आत्मख्यातौ सर्वम् एवान्तर् आहुः शून्यख्यातौ शून्यम् एवेति केचित्
अख्यातौ नो तत्त्वमिथ्याविभागस् तस्माद् एषां विभ्रमाणां विवेकः ॥
मूल पाठ: Vibhramaviveka · Edition: L. Schmithausen: Maṇḍanamiśra's Vibhramavivekaḥ : mit einer Studie zur Entwicklung der indischen Irrtumslehre. Wien 1965 (Sitzungsberichte der Österreichischen Akademie der Wissenschaften, Phil.-Hist. Klasse, 247,1; Veröffentlichungen der Kommission für Sprachen und Kulturen Süd- und Ostasiens, 2) · Data entry Takahiro Kato · GRETIL (Göttingen) · CC BY-NC-SA 4.0