Vibhramaviveka · श्लोक 121-140
भासने रूपवत्त्वेन शून्यैवोच्येत शून्यता
सर्वरूपविवेको हि शून्यम् इत्य् अभिभाष्यते ॥
परै रूपाभ्युपगमे तत्र शून्यैव शून्यधीः
अभावो भावरूपेण भातीति यदि मन्यते ॥
अन्यथा ख्यातिर् एवेष्टा शून्यं तद् अपि चेन् मतम्
नैतद् विप्रतिषिध्येते शून्यताभावरूपते ॥
अतो ऽतद्देशकालत्व मात्रं तस्येह शून्यता
नन्व् अस्ति यद् यथा वस्तु तथा ख्यातौ न विभ्रमः ॥
न यथास्ति तथा ख्यातौ शून्यख्यातेर् न मुच्यते
केचिद् आहुः प्रकारिभ्यः प्रकारा न चकासति ॥
विविक्तास् ते तथा भान्ति ते च सन्त इति स्थितिः
अन्ये तन्मात्रशून्यत्वं मन्वते नान्यथा भ्रमः ॥
नान्यथा धीर् वस्तुनिष्ठा वस्त्वालम्बाद् विना न सा
स्वयं तु वार्त्तिककृता समाधिर् इह वर्णितः ॥
भावान्तरम् अभावो ऽन्यो न कश्चिद् अनिरूपणात्
सत्यं यथास्ति न तथा भासने विभ्रमो मतः ॥
न येनास्ति प्रकारेण न तु तुच्छः प्रतीयते
तथा कथम् अभाव्यो ऽस्य स हि भाति तथा च सः ॥
भावान्तरम् अभावो हि कयाचित् तु व्यपेक्षया
अन्यथाख्यातिपक्षे च न प्रकारान्तरं न सत् ॥
अन्यस्य च न तस्येति ख्यातिर् युक्ता मृषा च सा
प्रकारान्तरसंसर्गो नन्व् असन्न् एव भासते ॥
संवेद्यं नन्यरुपत्वम् अन्यस्य ..............
भिन्नयोर् अत्र संसर्गो न कश्चिद् अवभासते ॥
अन्यात्मनापरख्यातिः स चाभावे ऽस्य तन् मृषा
अभावग्राहिणी बुद्धिर् भावान्तरम् उपाश्रिता ॥
तदन्यस्मात् पृथक्त्वेन निरुपाख्यो न विद्यते
अतो भावान्तरं मुक्त्वा तत्राभावानिरूपणात् ॥
न बुद्ध्या भावशून्यत्वं मृषा चेति विपश्चितः
न वै शशविषाणे ऽपि ख्यातस्य निरुपाख्यता ॥
शशसंसर्गिरूपं हि विषाणं तत्र गम्यते
अवस्तु तच् च नो येन खुरधर्मिणि वीक्षितम् ॥
असंसृष्टस्य सो ऽभाव इति ख्यातिर् मृषा च सा
अङ्गुल्यग्रे हस्तियूथम् इत्य् एषा प्रतिभा तथा ॥
स्वप्ने ऽप्य् अवर्तमानस्य ग्रहणं वर्तमानवत्
नाविशेषः खपुष्पाच् च स्वकाले तस्य वस्तुता ॥
तत्कालम् एव हि ज्ञेयं ज्ञानम् एव तु संप्रति
वर्तमानत्वम् अप्य् अत्र दृष्टम् अन्यत्र रूप्यते ॥
अन्यस्याप्य् अन्यथा दृष्टिः परस्परविरोधिनाम्
अत्यन्ताननुभूतत्वम् अस्ति तत्कारितं यतः ॥
मूल पाठ: Vibhramaviveka · Edition: L. Schmithausen: Maṇḍanamiśra's Vibhramavivekaḥ : mit einer Studie zur Entwicklung der indischen Irrtumslehre. Wien 1965 (Sitzungsberichte der Österreichischen Akademie der Wissenschaften, Phil.-Hist. Klasse, 247,1; Veröffentlichungen der Kommission für Sprachen und Kulturen Süd- und Ostasiens, 2) · Data entry Takahiro Kato · GRETIL (Göttingen) · CC BY-NC-SA 4.0