वेणीसंहार · भाग 4160
&सुन्दरकः&:
{प्क्त्_119}तदो अ देव उहअबलप्पौत्तसाहुकारामरिसिदेण सरवरिसप्पज्जलिदेण गण्डीविणा तुरएसु सारहिं पि रहवरे धणुं पि जीआइं पि णलिन्दलञ्छणे सिदादबत्ते बि अ वाबारिदो समं सिलीमुहासारो ।
स्क्त्छ्_119: ततश्च देव उभयबलप्रवृत्तसाधुकारामर्षितेन शरवर्षप्रज्वलितेन गाण्डीविना तुरगेषु सारथावपि रथवरे धनुष्यपि जीवायामपि नरेन्द्रलाञ्छने सितातपत्रे ऽपि च व्यापारितः समं शिलीमुखासारः ।
&दुर्योधनः&:
*सभयम्**
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_120}तदो देव विरहो लूणगुणकोदण्डो परिब्भमणव्वाबारमेत्तप्पडिसिद्धसरसंपादो मण्डलेहिं विअरिदुं पौत्तो कुमालो ।
स्क्त्छ्_120: ततो देव विरथो लूनगुणकोदण्डः परिभ्रमणव्यापारमात्रप्रतिषिद्धशरसंपातो मण्डलैर्विचरितुं प्रवृत्तः कमारः ।
&दुर्योधनः&:
*साशङ्कम्**
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_121}तदो देव सुदरहविद्धंसणामरिसुद्दीबिदेण सामिणा अङ्गराएण अगणिअभीमसेणाभिजोएण परिमुक्को धणंजअस्स उबरि सिलीमुहासारो । कुमालो बि परिजणोबणीदं अण्णं रहं आरुहिअ पुणो बि पौत्तो धणंजएण सह आओधेदुं ।
स्क्त्छ्_121: ततो देव सुतरथविध्वंसनामर्षोद्दीपितेन स्वामिनाङ्गराजेनागणितभीमसेनाभियोगेन परिमुक्तो धनंजयस्योपरि शिलीमुखासारः । कुमारो ऽपि परिजनोपनीतमन्यं रथमारुह्य पुनरपि प्रवृत्तो धनंजयेन सहायोद्धुम् ।
&उभौ&:
साधु वृषसेन साधु । ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_122}तदो देव भणिदं अ कुमालेण रे रे तादाहिक्खेबमुहल मज्झमपण्डव मह सरा तुह सरीरं उज्झिअ अण्णस्सिं ण णिबडन्ति । त्ति भणिअ सरसहस्सेहिं पण्डवसरीरं पच्छादिअ सिंहणादेण गज्जिदुं पौत्तो ।
स्क्त्छ्_122: ततो देव भणितं च कुमारेण रे रे ताताधिक्षेपमुखर मध्यमपाण्डव मम शरास्तव शरीरमुज्झित्वान्यस्मिन्न निपतन्ति । इति भणित्वा शरसहस्रैः पाण्डवशरीरं प्रच्छाद्य सिंहनादेन गर्जितुं प्रवृत्तः ।
&दुर्योधनः&:
*सविस्मयम्**
अहो बालस्य पराक्रमो मुग्धस्वभावो ऽपि । ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_123}तदो अ देव तं सरसंपादं समवधूणिअ णिसिदसराभिघादजादमण्णुणा किरीटिणा गहिदा रहुच्छङ्गादो कणन्तकणअकिङ्किणीजालझंकारविराइणी मेहोबरोहविमुक्कणहत्थलणिम्मला णिसिदसामलसिणिद्धमुही विविहरअणप्पहाभासुरभीसणरमणीअदंसणा सत्ती सोबहासं विमुक्का अ कुमालाहिमुही ।
स्क्त्छ्_123: ततश्च देव तं शरसंपातं समवधूय निशितशराभिघातजातमन्युना किरीटिना गृहीता रथोत्सङ्गात्क्वणत्कनककिङ्किणीजालझंकारविराविणी मेघोपरोधविमुक्तनभस्तलनिर्मला निशितश्यामलस्निग्धमुखी विविधरत्नप्रभाभासुरभीषणरमणीयदर्शना शक्तिः सोपहासं विमुक्ता च कुमाराभिमुखी ।
&दुर्योधनः&:
*सविषादम्**
अहह । ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_124}तदो अ देव पज्जलन्तिं सत्तिं पेक्खिअ विअलिअं अङ्गराअस्स हत्थादो ससरं धणुं हिअआदो वीरसुलहो उच्छाहो णअणादो बाप्फसलिलं वअणादो रसिदं । हसिदं अ धणंजएण सिंहणादं विणादिदं विओदलेण दुक्कलं दुक्कलं त्ति आक्कन्दिदं कुरुबलेण ।
स्क्त्छ्_124: ततश्च देव प्रज्वलन्तीं शक्तिं प्रेक्ष्य विगलितमङ्गराजस्य हस्तात्सशरं धनुर्हृदयाद्वीरसुलभ उत्साहो नयनाद्बाष्पसलिलं वदनाद्रसितम् । हसितं च धनंजयेन सिंहनादं विनादितं वृकोदरेण दुष्करं दुष्करमित्याक्रन्दितं कुरुबलेन ।
&दुर्योधनः&:
*सविषादम्**
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_125}तदो देव कुमालविससेणेण आकण्णाकिट्ठणिसिदखुरप्पेहिं चिरं णिज्झाइअ अद्धपहे एव्व भाईरही विअ भअवदा विसमलोअणेण तिधा किदा सत्ती ।
स्क्त्छ्_125: ततो देव कुमारवृषसेनेनाकर्णाकृष्टनिशितक्षुरप्रैश्चिरं निध्यायार्धपथ एव भागीरथीव भगवता विषमलोचनेन त्रिधा कृता शक्तिः ।
&दुर्योधनः&:
साधु वृषसेन साधु । ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_126}तदो अ देव एदस्सिं अन्तरे किदकलकलमुहरेण वीरलोअसाहुवादेण अन्तरिदो समरतूररवो । सिद्धचालणगणविमुक्ककुसुमप्पकरेण पच्छादिदं समलङ्गणं ।
स्क्त्छ्_126: ततश्च देव एतस्मिन्नन्तरे कृतकलकलमुखरेण वीरलोकसाधुवादेनान्तरितः समरतूर्यरवः । सिद्धचारणगणविमुक्तकुसुमप्रकरेण प्रच्छादितं समराङ्गणम् ।
&दुर्योधनः&:
अहो बालस्य पराक्रमः । ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_127}तदो अ देव भणिअं सामिणा अङ्गराएण । भो विओदल असमत्तो तुह मह बि समलव्वाबारो । ता अणुमण्ण मं मुहुत्तअं । पेक्खाम दाव वच्छस्स तुह भादुणो अ धणुव्वेदसिक्खाणिउणत्तणं । तुह बि एदं पेक्खणीअं त्ति ।
स्क्त्छ्_127: ततश्च देव भणितं स्वामिनाङ्गराजेन । भो वृकोदर असमाप्तस्तव ममापि समरव्यापारः । तदनुमन्यस्व मां मुहूर्तम् । प्रेक्षावहे तावद्वत्सस्य तव भ्रातुश्च धनुर्वेदशिक्षानिपुणत्वम् । तवाप्येतत्प्रेक्षणीयमिति ।
&दुर्योधनः&:
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_128}तदो देव विरदा रणव्वाबारणिब्बन्धादो मुहुत्तअं पसमिदवेरा दुवे बि पेक्खआ जादा भीमसेणङ्गराआ ।
स्क्त्छ्_128: ततो देव विरतौ रणव्यापारनिर्बन्धान्मुहूर्तं प्रशमितवैरौ द्वावपि प्रेक्षकौ जातौ भीमसेनाङ्गराजौ ।
&दुर्योधनः&:
*साभिप्रायम्**
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_129}तदो अ देव एदस्सिं अन्तरे सत्तिखण्डणामरिसिदेण गण्डीविणा भणिअं । अरे रे दुज्जोहणप्पमुहा* ।इत्यर्धोक्ते लज्जां नाटयति**
स्क्त्छ्_129: ततश्च देव एतस्मिन्नन्तरे शक्तिखण्डनामर्षितेन गाण्डीविना भणितम् । अरे रे दुर्योधनप्रमुखाः ।
&दुर्योधनः&:
सुन्दरक कथ्यताम् । परवचनमेतत् ।
&सुन्दरकः&:
{प्क्त्_130}सुणादु देवो । अरे दुज्जोहणप्पमुहा कुरुबलसेणापहुणआ अरे अविणअणोकण्णधार कण्ण तुम्हेहिं मह परोक्खं बहुहिं महोरहेहिं परिवारिअ एआई मह पुत्तओ अहिमण्णू वाबादिदो । अहं उण तुम्हाणं पेक्खन्ताणं एव्व एदं कुमालविससेणं सुमरिदव्वसेसं करोमि । त्ति भणिअ सगव्वं आप्फालिदं णेण वज्जणिग्घादणिग्घोसभीसणजीआरवं गण्डीवं । सामिणा बि सज्जीकिदं कालपुट्ठं ।
स्क्त्छ्_130: शृणोतु देवः । अरे दुर्योधनप्रमुखाः कुरुबलसेनाप्रभवः अरे अविनयनौकर्णधार कर्ण युष्माभिर्मम परोक्षं बहुभिर्महारथैः परिवृत्यैकाकी मम पुत्रको ऽभिमन्युर्व्यापादितः । अहं पुनर्युष्माकं प्रेक्षमाणानामेवैतं कुमारवृषसेनं स्मर्तव्यशेषं करोमि । इति भणित्वा सगर्वमास्फालितमनेन वज्रनिर्घातनिर्घोषभीषणजीवारवं गाण्डीवम् । स्वामिनापि सज्जीकृतं कालपृष्ठम् ।
&दुर्योधनः&:
*सावहित्थम्**
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_131}तदो अ देव पडिसिद्धभीमसेणसमलकम्मालम्भेण गण्डीविणा विरैदा अङ्गराअविससेणरहकूलंकसाओ दुवे बाणणईओ । तेहिं बि दुवेहिं अण्णोण्णसिणेहदंसिदसिक्खाविसेसेहिं अहिजुत्तो सो दुराआरो मज्झमपण्डओ ।
स्क्त्छ्_131: ततश्च देव प्रतिषिद्धभीमसेनसमरकर्मारम्भेण गाण्डीविना विरचिते अङ्गराजवृषसेनरथकूलंकषे द्वे बाणनद्यौ । ताभ्यामपि द्वाभ्यामन्यो ऽन्यस्नेहदर्शितशिक्षाविशेषाभ्यामभियुक्तः स दुराचारो मध्यमपाण्डवः ।
&दुर्योधनः&:
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_132}तदो अ देव गण्डीविणा ताररसिदजीआणिग्घोसमेत्तविण्णादबाणवरिसेण तह आअरिदं पत्तिहिं जह ण णहत्थलं ण सामी ण रहो ण धरणी ण कुमालो ण केदुवंसो ण बलाइं ण सारही ण तुलंगमा ण दिसाओ ण वीरलोओ अ लक्खीअदि ।
स्क्त्छ्_132: ततश्च देव गाण्डीविना ताररसितजीवानिर्घोषमात्रविज्ञातबाणवर्षेण तथाचरितं पत्रिभिर्यथा न नभस्तलं न स्वामी न रथो न धरणी न कुमारो न केतुवंशो न बलानि न सारथिर्न तुरंगमा न दिशो न वीरलोकश्च लक्ष्यते ।
&दुर्योधनः&:
*सविस्मयम्**
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_133}तदो अ देव अदिक्कन्ते सरवरिसे खणमेत्तं एव्व सहरिससिंहणादे पण्डवसेण्णे सविसादमुक्कक्कन्दे कोरवबले समुत्थिदो महन्तो कलअलो हा हदो कुमालविससेणो त्ति ।
स्क्त्छ्_133: ततश्च देव अतिक्रान्ते शरवर्षे क्षणमात्रमेव सहर्षसिंहनादे पाण्डवसैन्ये सविषादमुक्ताक्रन्दे कौरवबले समुत्थितो महान्कलकलो हा हतः कुमारवृषसेन इति ।
&दुर्योधनः&:
*सबाष्परोधम्**
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_134}तदो देव पेक्खामि कुमालं हदसारहितुलंगं लूणादबत्तचाबचामरकेदुवंसं सग्गब्भट्ठं विअ सुलकुमालं एक्केण एव्व हिअअमम्मभेदिणा सिलीमुहेण भिण्णदेहं रहमज्झे पल्लत्थं ।
स्क्त्छ्_134: ततो देव प्रेक्षे कुमारं हतसारथितुरंगं लूनातपत्रचापचामरकेतुवंशं स्वर्गभ्रष्टमिव सुरकुमारमेकेनैव हृदयमर्मभेदिना शिलीमुखेन भिन्नदेहं रथमध्ये पर्यस्तम् ।
&दुर्योधनः&:
*सास्रम्**
अहह कुमार वृषसेन । अलमतः परं श्रुत्वा । हा वत्स हा मदङ्कदुर्ललित हा मदाज्ञाकर हा गदायुधप्रियशिष्य हा शौर्यसागर हा राधेयकुलप्ररोह हा प्रियदर्शन हा दुःशासननिर्विशेष हा सर्वगुरुवत्सल प्रयच्छ मे प्रतिवचनम् ।
वेर्से_4.10
पर्याप्तनेत्रमचिरोदितचन्द्रकान्त- $ मुद्भिद्यमाननवयौवनरम्यशोभम् &
प्राणापहारपरिवर्तितदृष्टि दृष्टं ē̃ कर्णेन तत्कथमिवाननपङ्कजं ते ॥ 4.10 ॥
&सूतः&:
आयुष्मन्नलमत्यन्तदुःखावेगेन ।
&दुर्योधनः&:
सूत पुण्यवन्तो हि दुःखभाजो भवन्ति । अस्माकं पुनः
वेर्से_4.11
प्रत्यक्षं हतबन्धूनामेतत्परिभवाग्निना ।
हृदयं दह्यते ऽत्यर्थं कुतो दुःखं कुतो व्यथा ॥ 4.11 ॥
*इति मोहमुपगतः**
&सूतः&:
समाश्वसितु समाश्वसितु महाराजः* ।इति पटान्तेन वीजयति**
&दुर्योधनः&:
*लब्धसंज्ञः**
भद्र सुन्दरक ततो वयस्येन किं प्रतिपन्नमङ्गराजेन ।
&सुन्दरकः&:
{प्क्त्_135}तदो अ देव तहाविधस्स पुत्तस्स दंसणेण संगलिदं अस्सुजलं उज्झिअ अणबेक्खिदपरप्पहरणाभिओएण सामिणा अङ्गराएण अभिजुत्तो धणंजओ । तं अ सुदवहामरिसुद्दीबिदपरक्कमं विमुक्कजीविदासं तह परक्कमन्तं पेक्खिअ भीमणौलसहदेवपञ्चालप्पमुहेहिं अन्तरिदो धणंजअस्स रहवरो ।
स्क्त्छ्_135: ततश्च देव तथाविधस्य पुत्रस्य दर्शनेन संगलितमश्रुजलमुज्झित्वानवेक्षितपरप्रहरणाभियोगेन स्वामिनाङ्गराजेनाभियुक्तो धनंजयः । तं च सुतवधामर्षोद्दीपितपराक्रमं विमुक्तजीविताशं तथा पराक्रमन्तं प्रेक्ष्य भीमनकुलसहदेवपाञ्चालप्रमुखैरन्तरितो धनंजयस्य रथवरः ।
&दुर्योधनः&:
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_136}तदो देव सल्लेन भणिदं । अङ्गराअ क्खलिदतुलंगमो मथिदचक्कणेमिकूबरो दे रहो । ता ण जुत्तं भीमज्जुणेहिं सह आजुज्जिदुं । त्ति भणिअ णिवत्तिदो रहो ओदारिदो सामी सन्दणादो बहुप्पआरं अ समस्सासिदो ।
स्क्त्छ्_136: ततो देव शल्येन भणितम् । अङ्गराज स्खलिततुरंगमो मथितचक्रनेमिकूबरस्ते रथः । तन्न युक्तं भीमार्जुनाभ्यां सहायोद्धुम् । इति भणित्वा निर्वर्तितो रथो ऽवतारितः स्वामी स्यन्दनाद्बहुप्रकारं च समाश्वासितः ।
&दुर्योधनः&:
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_137}तदो अ सामिणा सुइरं विलबिअ परिअणोबणीदं अण्णं रहं पेक्खिअ दीहं णिस्ससिअ मै दिट्ठी विणिक्खित्ता । सुन्दरअ एहि त्ति भणिदं अ । तदो अहं उबगदो सामिसमीबं । तदो अबणीअ सीसट्ठाणादो पट्टिअं सरीरसंगलिदेहिं सोणिअबिन्दूहिं लित्तमुहं बाणं कदुअ अवलिहिअ पेसिदो देवस्स संदेसो* ।इति पट्टकामर्पयति**
स्क्त्छ्_137: ततश्च स्वामिना सुचिरं विलप्य परिजनोपनीतमन्यं रथं प्रेक्ष्य दीर्घं निःश्वस्य मयि दृष्टिर्विनिक्षिप्ता । सुन्दरक एहीति भणितं च । ततो ऽहमुपगतः स्वामिसमीपम् । ततो ऽपनीय शीर्षस्थानात्पट्टिकां शरीरसंगलितैः शोणितबिन्दुभिर्लिप्तमुखं बाणं कृत्वाभिलिख्य प्रेषितो देवस्य संदेशः ।
&दुर्योधनः&:
*गृहीत्वा वाचयति**
स्वस्ति । महाराजदुर्योधनं समराङ्गणात्कर्ण एतदन्तं कण्ठे गाढमालिङ्ग्य विज्ञापयति ।
वेर्से_4.12
अस्त्रग्रामविधौ कृती न समरेष्वस्यास्ति तुल्यः पुमा- $ न्भ्रातृभ्यो ऽपि ममाधिको ऽयममुना जेयाः पृथासूनवः &
त्वत्संभावित इत्यहं न च हतो दुःशासनारिर्मया ē̃ त्वं दुःखप्रतिकारमेहि भुजयोर्वीर्येण बाष्पेण वा ॥ 4.12 ॥
वयस्य कर्ण किमिदं भ्रातृशतवधदुःखितं मामपरेण वाक्शल्येन घट्टयसि । भद्र सुन्दरक अथेदानीं किमारम्भो ऽङ्गराजः ।
&सुन्दरकः&:
{प्क्त्_138}देव अबणीदसरीरावरणो अत्तवहकिदणिच्चओ पुणो बि पत्थेण सह समलं मग्गेदि ।
स्क्त्छ्_138: देव अपनीतशरीरावरण आत्मवधकृतनिश्चयः पुनरपि पार्थेन सह समरं मार्गयते ।
&दुर्योधनः&:
*आवेगादासनादुत्तिष्ठन्**
सूत रथमुपनय । सुन्दरक त्वमपि मद्वचनात्त्वरिततरं गत्वा वयस्यमङ्गराजं प्रतिबोधय । अलमतिसाहसेन । अभिन्न एवायमावयोः संकल्पः । न खलु भवानेको जीवितपरित्यागाकाङ्क्षी । किं तु
वेर्से_4.13
हत्वा पार्थान्सलिलमशिवं बन्धुवर्गाय दत्त्वा $ मुक्त्वा बाष्पं सह कतिपयैर्मन्त्रिभिश्चारिभिश्च &
कृत्वान्यो ऽन्यं सुचिरमपुनर्भावि गाढोपगूढं ē̃ संत्यक्ष्यावो हततनुमिमां दुःखितौ निर्वृतौ च ॥ 4.13 ॥
अथ च शोकं प्रति मया न किंचित्संदेष्टव्यम् ।
वेर्से_4.14
वृषसेनो न ते पुत्रो न मे दुःशासनो ऽनुजः ।
त्वां बोधयामि किमहं त्वं मां संस्थापयिष्यसि ॥ 4.14 ॥
&सुन्दरकः&:
{प्क्त्_139}जं देवो आणबेदि* ।इति निष्क्रान्तः**
स्क्त्छ्_139: यद्देव आज्ञापयति ।
&दुर्योधनः&:
तूर्णमेव रथमुपस्थापय ।
&सूतः&:
*कर्णं दत्त्वा**
देव ह्रेषासंवलितो नेमिध्वनिः श्रूयते । तथा तर्कयामि नूनं परिजनोपनीतो रथः ।
&दुर्योधनः&:
सूत गच्छ त्वं सज्जीकुरु ।
&सूतः&:
यदाज्ञापयति देवः* ।इति निष्क्रम्य पुनः प्रविशति**
&दुर्योधनः&:
*विलोक्य**
किमिति नारूढो ऽसि ।
&सूतः&:
एष खलु तातो ऽम्बा च संजयाधिष्ठितं रथमारुह्य देवस्य समीपमुपगतौ ।
&दुर्योधनः&:
किं नाम तातो ऽम्बा च संप्राप्तौ । कष्टमतिबीभत्समाचरितं दैवेन । सूत गच्छ त्वं स्यन्दनं तूर्णमुपहर । अहमपि तातदर्शनं परिहरन्नेकान्ते तिष्ठामि ।
&सूतः&:
देव त्वदेकशेषबान्धवावेतौ कथमिव न समाश्वासयसि ।
&दुर्योधनः&:
सूत कथमिव समाश्वासयामि विमुखभागधेयः । पश्य ।
वेर्से_4.15
अद्यैवावां रणमुपगतौ तातमम्बां च दृष्ट्वा $ घ्रातस्ताभ्यां शिरसि विनतो ऽहं च दुःशासनश्च &
तस्मिन्बाले प्रसभमरिणा प्रापिते तामवस्थां ē̃ पार्श्वं पित्रोरपगतघृणः किं नु वक्ष्यामि गत्वा ॥ 4.15 ॥
तथाप्यवश्यं वन्दनीयौ गुरू ।
*इति निष्क्रान्तौ**
इति चतुर्थो ऽङ्कः ।
अच्त्_5
पञ्चमो ऽङ्कः ।
*ततः प्रविशति रथयानेन गान्धारी संजयो धृतराष्ट्रश्च**
&धृतराष्ट्रः&:
वत्स संजय कथय कथय कस्मिन्नुद्देशे कुरुकुलकाननैकप्रवालो वत्सो मे दुर्योधनस्तिष्ठति । कच्चिज्जीवति वा न वा ।
&गान्धारी&:
{प्क्त्_140}जाद जै सच्चं जीवदि मे वच्छो ता कधेहि कस्सिं देसे वट्टदि ।
स्क्त्छ्_140: जात यदि सत्यं जीवति मे वत्सस्तत्कथय कस्मिन्देशे वर्तते ।
&संजयः&:
नन्वेष महाराज एक एव न्यग्रोधच्छायायामुपविष्टस्तिष्ठति ।
&गान्धारी&:
{प्क्त्_141}*सकरुणम्**
जाद एआई त्ति भणासि । किं णु क्खु संपदं भादुसदं से पासे भविस्सदि ।
स्क्त्छ्_141: जात एकाकीति भणसि । किं नु खलु सांप्रतं भ्रातृशतमस्य पार्श्वे भविष्यति ।
&संजयः&:
तात अम्ब अवतरतं स्वैरं रथात् ।
*उभाववतरणं नाटयतः**
*ततः प्रविशति सव्रीडमुपविष्टो दुर्योधनः**
&संजयः&:
*उपसृत्य**
विजयतां महाराजः । नन्वेष तातो ऽम्बया सह प्राप्तः । किं न पश्यति महाराजः ।
*दुर्योधनो वैलक्ष्यं नाटयति**
&धृतराष्ट्रः&:
वेर्से_5.1
शल्यानि व्यपनीय कङ्कवदनैरुन्मोचिते कङ्कटे $ बद्धेषु व्रणपट्टकेषु शनकैः कर्णे कृतापाश्रयः &
दूरान्निर्जितसान्त्वितान्नरपतीनालोकयंल्लीलया ē̃ सह्या पुत्रक वेदनेति न मया पापेन पृष्टो भवान् ॥ 5.1 ॥
*धृतराष्ट्रो गान्धारी च स्पर्शेनोपेत्यालिङ्गतः**
&गान्धारी&:
{प्क्त्_142}वच्छ अदिगाढप्पहारवेअणापज्जाउलस्स अम्हेसु संणिहिदेसु बि ण पसरदि दे वाणी ।
स्क्त्छ्_142: वत्स अतिगाढप्रहारवेदनापर्याकुलस्यास्मासु संनिहितेष्वपि न प्रसरति ते वाणी ।
&धृतराष्ट्रः&:
वत्स दुर्योधन किमकृतपूर्वः संप्रति मय्यप्ययमव्याहारः ।
&गान्धारी&:
{प्क्त्_143}वच्छ जै तुमं बि अम्हे णालबसि ता किं संपदं वच्छो दुस्सासणो आलबदु दुम्मरिसणो वा अध अण्णो वा* ।इति रोदिति**
स्क्त्छ्_143: वत्स यदि त्वमप्यस्मान्नालपसि तत्किं सांप्रतं वत्सो दुःशासन आलपतु दुर्मर्षणो वाथान्यो वा ।
&दुर्योधनः&:
वेर्से_5.2
पापो ऽहमप्रतिकृतानुजनाशदर्शी $ तातस्य बाष्पपयसां तव चाम्ब हेतुः &
दुर्जातमत्र विमले भरतान्ववाये ē̃ किं मां सुतक्षयकरं सुत इत्यवैषि ॥ 5.2 ॥
&गान्धारी&:
{प्क्त्_144}जाद अलं परिदेविदेण । तुमं बि दाव एक्को इमस्स अन्धजुअलस्स मग्गोबदेसओ । ता चिरं जीव । किं मे रज्जेण जएण वा ।
स्क्त्छ्_144: जात अलं परिदेवितेन । त्वमपि तावदेको ऽस्यान्धयुगलस्य मार्गोपदेशकः । तच्चिरं जीव । किं मे राज्येन जयेन वा ।
&दुर्योधनः&:
वेर्से_5.3
मातः किमप्यसदृशं कृपणं वचस्ते $ सुक्षत्रिया क्व भवती क्व च दीनतैषा &
निर्वत्सले सुतशतस्य विपत्तिमेतां ē̃ त्वं नानुचिन्तयसि रक्षसि मामयोग्यम् ॥ 5.3 ॥
नूनं विचेष्टितमिदं सुतशोकस्य ।
&संजयः&:
महाराज किं वायं लोकवादो वितथो न घटस्य कूपपाते रज्जुरपि तत्र प्रक्षेप्तव्येति ।
&दुर्योधनः&:
अपुष्कलमिदम् । उपक्रियमाणाभावे किमुपकरणेन* ।इति रोदिति**
&धृतराष्ट्रः&:
*दुर्योधनं परिष्वज्य**
वत्स समाश्वसिहि समाश्वासय चास्मानिमामतिदीनां मातरं च ।
&दुर्योधनः&:
तात दुर्लभः समाश्वास इदानीं युष्माकम् । किं तु
वेर्से_5.4
कुन्त्या सह युवामद्य मया निहतपुत्रया ।
विराजमानौ शोके ऽपि तनयाननुशोचतम् ॥ 5.4 ॥
&गान्धारी&:
{प्क्त्_145}जाद एदं एव्व संपदं पभूदं जं तुमं बि दाव एक्को जीवसि । ता जाद अकालो दे समरस्स । पसीद । एसो दे सीसञ्जली । णिवत्तीअदु समरव्वाबारादो । अपच्छिमं करेहि मे वअणं ।
स्क्त्छ्_145: जात एतदेव सांप्रतं प्रभूतं यत्त्वमपि तावदेको जीवसि । तज्जात अकालस्ते समरस्य । प्रसीद । एष ते शीर्षाञ्जलिः । निवर्त्यतां समरव्यापारात् । अपश्चिमं कुरु मे वचनम् ।
&धृतराष्ट्रः&:
वत्स शृणु वचनं तवाम्बाया मम च निहताशेषबन्धुवर्गस्य । पश्य ।
वेर्से_5.5
दायादा न ययोर्बलेन गणितास्तौ द्रोणभीष्मौ हतौ $ कर्णस्यात्मजमग्रतः शमयतो भीतं जगत्फाल्गुनात् &
वत्सानां निधनेन मे त्वयि रिपुः शेषप्रतिज्ञो ऽधुना ē̃ मानं वैरिषु मुञ्च तात पितरावन्धाविमौ पालय ॥ 5.5 ॥
&दुर्योधनः&:
समरात्प्रतिनिवृत्य किं मया कर्तव्यम् ।
&गान्धारी&:
{प्क्त्_146}जाद जं पिदा दे विउरो वा भणादि ।
स्क्त्छ्_146: जात यत्पिता ते विदुरो वा भणति ।
&संजयः&:
देव एवमिदम् ।
&दुर्योधनः&:
संजय अद्याप्युपदेष्टव्यमस्ति ।
&संजयः&:
देव यावत्प्राणिति तावदुपदेष्टव्यभूमिर्विजिगीषुः प्रज्ञावताम् ।
&दुर्योधनः&:
*सक्रोधम्**
शृणुमस्तावद्भवत एव प्रज्ञावतः संप्रत्यस्मदनुरूपमुपदेशम् ।
&धृतराष्ट्रः&:
वत्स युक्तवादिनि संजये किमत्र क्रोधेन । यदि प्रकृतिमापद्यसे तदहमेव भवन्तं ब्रवीमि । श्रूयताम् ।
&दुर्योधनः&:
कथयतु तातः ।
&धृतराष्ट्रः&:
वत्स किं विस्तरेण । संधत्तां भवानिदानीमपि युधिष्ठिरमीप्सितपणबन्धेन ।
&दुर्योधनः&:
तात तनयस्नेहवैक्लव्यादम्बा बालिशत्वात्संजयश्च काममेवं ब्रवीतु । युष्माकमप्येवं व्यामोहः । अथ वा प्रभवति पुत्रनाशजन्मा हृदयज्वरः । अन्यच्च तात अस्खलितभ्रातृशतो ऽहं यदा तदावधीरितवासुदेवसामोपन्यासः । संप्रति हि दृष्टपितामहाचार्यानुजराजचक्रविपत्तिः स्वशरीरमात्रस्नेहादुदात्तपुरुषव्रीडावहमसुखावसानं च कथमिव करिष्यति दुर्योधनः सह पाण्डवैः संधिम् । अन्यच्च नयवेदिन्संजय
वेर्से_5.6
हीयमानाः किल रिपोर्नृपाः संदधते परान् ।
दुःशासने हते ऽहीनाः सानुजाः पाण्डवाः कथम् ॥ 5.6 ॥
&धृतराष्ट्रः&:
वत्स एवं गते ऽपि मत्प्रार्थनया न किंचिन्न करोति युधिष्ठिरः । अन्यच्च सर्वदैवाप्रकृष्टमात्मानं मन्यते युधिष्ठिरः ।
&दुर्योधनः&:
कथमिव ।
&धृतराष्ट्रः&:
वत्स श्रूयतां प्रतिज्ञा युधिष्ठिरस्य । नाहमेकस्यापि भ्रातुर्विपत्तौ प्राणान्धारयामीति । बहुच्छलत्वात्संग्रामस्यानुजनाशमाशङ्कमानो यदैव भवते रोचते तदैवासौ सज्जः संधातुम् ।
&संजयः&:
एवमिदम् ।
&गान्धारी&:
{प्क्त्_147}जाद उपपत्तिजुत्तं पडिबज्जस्स पिदुणो वअणं ।
स्क्त्छ्_147: जात उपपत्तियुक्तं प्रतिपद्यस्व पितुर्वचनम् ।
&दुर्योधनः&:
तात अम्ब संजय
वेर्से_5.7
एकेनापि विनानुजेन मरणं पार्थः प्रतिज्ञातवा- $ न्भ्रात्ःणां निहते शते ऽभिलषते दुर्योधनो जीवितुम् &
तं दुःशासनशोणिताशनमरिं भिन्नं गदाकोटिभि- ē̃ र्भीमं दिक्षु न विक्षिपामि कृपणः संधिं विदध्यामहम् ॥ 5.7 ॥
&गान्धारी&:
{प्क्त्_148}हा जाद दुस्सासण हा मदङ्कदुल्ललित हा जुअराअ अस्सुदपुव्वा क्खु कस्स बि लोए ईदिसी विपत्ती । हा वीरसदप्पसविणि हदगन्धारि दुक्खसदं पसूदासि ण उण सुदसदं ।
स्क्त्छ्_148: हा जात दुःशासन हा मदङ्कदुर्ललित हा युवराज अश्रुतपूर्वा खलु कस्यापि लोक ईदृशी विपत्तिः । हा वीरशतप्रसविनि हतगान्धारि दुःखशतं प्रसूतासि न पुनः सुतशतम् ।
*सर्वे रुदन्ति**
&संजयः&:
*बाष्पमुत्सृज्य**
तात अम्ब प्रतिबोधयितुं महाराजमिमां भूमिं युवामागतौ । तदात्मापि तावत्संस्तभ्यताम् ।
&धृतराष्ट्रः&:
वत्स दुर्योधन एवं विमुखेषु भागधेयेषु त्वयि चामुञ्चति सहजं मानमरिषु त्वदेकशेषजीवितालम्बनेयं तपस्विनी गान्धारी कमवलम्बतां शरणमहं च ।
&दुर्योधनः&:
श्रूयतां यत्प्रतिपत्तुमिदानीं प्राप्तकालम् ।
वेर्से_5.8
कलितभुवना भुक्तैश्वर्यास्तिरस्कृतविद्विषः $ प्रणतशिरसां राज्ञां चूडासहस्रकृतार्चनाः &
अभिमुखमरीन्घ्नन्तः संख्ये हताः शतात्मजा ē̃ वहतु सगरेणोढां तातो धुरं सहितो ऽम्बया ॥ 5.8 ॥
विपर्यये त्वस्याधिपतेरुल्लङ्घितः क्षात्रधर्मः स्यात् ।
*नेपथ्ये महान्कलकलः**
&गान्धारी&:
{प्क्त्_149}*आकर्ण्य सभयम्**
जाद कहिं एदं हाहाकारमिस्सं तूररसिदं सुणीअदि ।
स्क्त्छ्_149: जात कुत्रैतद्धाहाकारमिश्रं तूर्यरसितं श्रूयते ।
&संजयः&:
अम्ब भूमिरियमेवंविधानां भीरुजनत्रासनानां महानिनादानाम् ।
&धृतराष्ट्रः&:
वत्स संजय ज्ञायतामतिभैरवः खलु विस्तारी हाहारवः । कारणेनास्य महता भवितव्यम् ।
&दुर्योधनः&:
तात प्रसीद । पराङ्मुखं खलु दैवमस्माकम् । यावदपरमपि किंचिदत्याहितं न श्रावयति तावदेवाज्ञापय मां संग्रामावतरणाय ।
&गान्धारी&:
{प्क्त्_150}जाद मुहुत्तअं दाव मं मन्दभाइणिं समस्सासेहि ।
स्क्त्छ्_150: जात मुहूर्तं तावन्मां मन्दभाग्यां समाश्वासय ।
&धृतराष्ट्रः&:
वत्स यद्यपि भवान्समराय कृतनिश्चयस्तथापि रहः परप्रतीघातोपायश्चिन्त्यताम् ।
&दुर्योधनः&:
वेर्से_5.9
प्रत्यक्षं हतबान्धवा मम परे हन्तुं न योग्या रहः $ किं वा तेन कृतेन तैरिव कृतं यन्न प्रकाशं रणे &
&गान्धारी&:
{प्क्त्_151}जाद एआई तुमं । को दे सहाअत्तणं करिस्सदि ।
स्क्त्छ्_151: जात एकाकी त्वम् । कस्ते साहाय्यं करिष्यति ।
&दुर्योधनः&:
वेर्से_5.9
एको ऽहं भवतीसुतक्षयकरो मातः कियन्तो ऽरयः ē̃ साम्यं केवलमेतु दैवमधुना निष्पाण्डवा मेदिनी ॥ 5.9 ॥
*नेपथ्ये । कलकलानन्तरम्**
भो भो योधाः निवेदयन्तु भवन्तः कौरवेश्वराय । इदं महत्कदनं प्रवृत्तम् । अलमप्रियश्रवणपराङ्मुखतया । यतः कालानुरूपं प्रतिविधातव्यमिदानीम् । तथा हि
वेर्से_5.10
त्यक्तप्राजनरश्मिरङ्किततनुः पार्थाङ्कितैर्मार्गणै- $ र्वाहैः स्यन्दनवर्त्मनां परिचयादाकृष्यमाणः शनैः &
वार्तामङ्गपतेर्विलोचनजलैरावेदयन्पृच्छतां ē̃ शून्येनैव रथेन याति शिबिरं शल्यः कुरूञ्शल्ययन् ॥ 5.10 ॥
&दुर्योधनः&:
*श्रुत्वा साशङ्कम्**
आः केनेदमविस्पष्टमशनिपातदारुणमुद्घोषितम् । कः को ऽत्र भोः ।
*प्रविश्य संभ्रान्तः**
&सूतः&:
हा हताः स्मः* ।इत्यात्मानं पातयति**
&दुर्योधनः&:
अयि कथय कथय ।
&सूतः&:
आयुष्मन्किमन्यत् ।
वेर्से_5.11
शल्येन यथा शल्येन मूर्च्छितः प्रविशता जनौघो ऽयम् ।
शून्यं कर्णस्य रथं मनोरथमिवाधिरूढेन ॥ 5.11 ॥
&दुर्योधनः&:
हा वयस्य कर्ण* ।इति मोहमुपगतः**
&गान्धारी&:
{प्क्त्_152}जाद समस्सस समस्सस ।
स्क्त्छ्_152: जात समाश्वसिहि समाश्वसिहि ।
&संजयः&:
समाश्वसितु समाश्वसितु देवः ।
&धृतराष्ट्रः&:
भोः कष्टं कष्टम् ।
वेर्से_5.12
भीष्मे द्रोणे च निहते य आसीदवलम्बनम् ।
वत्स्सय मे सुहृच्छूरो राधेयः सो ऽप्ययं हतः ॥ 5.12 ॥
वत्स समाश्वसिहि समाश्वसिहि । ननु भो हतविधे
वेर्से_5.13
अन्धो ऽनुभूतशतपुत्रविपत्तिदुःखः $ शोच्यां दशामुपगतः सह भार्ययाहम् &
अस्मिन्नशेषितसुहृद्गुरुबन्धुवर्गे ē̃ दुर्योधने ऽपि हि कृतो भवता निराशः ॥ 5.13 ॥
वत्स दुर्योधन समाश्वसिहि समाश्वसिहि । समाश्वासय तपस्विनीं मातरं च ।
&दुर्योधनः&:
*लब्धसंज्ञः**
वेर्से_5.14
अयि कर्ण कर्णसुखदां प्रयच्छ मे $ गिरमुद्गिरन्निव मुदं मयि स्थिराम् &
सततावियुक्तमकृताप्रियं प्रियं ē̃ वृषसेनवत्सल विहाय यासि माम् ॥ 5.14 ॥
*पुनर्मोहमुपगतः**
*सर्वे समाश्वासयन्ति**
&दुर्योधनः&:
वेर्से_5.15
मम प्राणाधिके तस्मिन्नङ्गानामधिपे हते ।
उच्छ्वसन्नपि लज्जे ऽहमाश्वासे तात का कथा ॥ 5.15 ॥
अपि च
वेर्से_5.16
शोचामि शोच्यमपि शत्रुहतं न वत्सं $ दुःशासनं तमधुना न च बन्धुवर्गम् &
येनातिदुःश्रवमसाधु कृतं तु कर्णे ē̃ कर्तास्मि तस्य निधनं समरे कुलस्य ॥ 5.16 ॥
&गान्धारी&:
{प्क्त्_153}जाद सिढिलेहि दाव खणमेत्तं बप्फमोक्खं ।
स्क्त्छ्_153: जात शिथिलय तावत्क्षणमात्रं बाष्पमोक्षम् ।
&धृतराष्ट्रः&:
वत्स क्षणमात्रं परिमार्जयाश्रूणि ।
&दुर्योधनः&:
वेर्से_5.17
मामुद्दिश्य त्यजन्प्राणान्केनचिन्न निवारितः ।
तत्कृते त्यजतो बाष्पं किं मे दीनस्य वार्यते ॥ 5.17 ॥
सूत केनैतदसंभावनीयमस्मत्कुलान्तकरं कर्म कृतं स्यात् ।
&सूतः&:
आयुष्मन्नेवं किल जनः कथयति ।
वेर्से_5.18
भूमौ निमग्नचक्रश्चक्रायुधसारथेः शरैस्तस्य ।
निहतः किलेन्द्रसूनोरस्मत्सेनाकृतान्तस्य ॥ 5.18 ॥
&दुर्योधनः&:
वेर्से_5.19
कर्णाननेन्दुस्मरणात्क्षुभितः शोकसागरः ।
वाडवेनेव शिखिना पीयते क्रोधजेन मे ॥ 5.19 ॥
तात अम्ब प्रसीदतम् ।
वेर्से_5.20
ज्वलनः शोकजन्मा मामयं दहति दुःसहः ।
समानायां विपत्तौ मे वरं संशयितो रणः ॥ 5.20 ॥
&धृतराष्ट्रः&:
*दुर्योधनं परिष्वज्य रुदन्**
वेर्से_5.21
भवति तनय सत्यं संशयः साहसेषु $ द्रवति हृदयमेतद्भीममुत्प्रेक्ष्य भीमम् &
अनिकृतिनिपुणं ते चेष्टितं मानशौण्ड ē̃ च्छलबहुलमरीणां संगरं हा हतो ऽस्मि ॥ 5.21 ॥
&गान्धारी&:
{प्क्त्_154}जाद तेण एव्व सुदसदकदन्तेण विओदलेण समं समलं मग्गेसि ।
स्क्त्छ्_154: जात तेनैव सुतशतकृतान्तेन वृकोदरेण समं समरं मार्गयसे ।
&दुर्योधनः&:
तिष्ठतु तावद्वृकोदरः ।
वेर्से_5.22
पापेन येन हृदयस्थमनोरथो मे $ सर्वाङ्गचन्दनरसो नयनामलेन्दुः &
पुत्रस्तवाम्ब तव तात नयैकशिष्यो ē̃ कर्णो हतः सपदि तत्र शराः पतन्तु ॥ 5.22 ॥
सूत अलमिदानीं कालातिपातेन । सज्जं मे रथमुपाहर । भयं चेत्पाण्डवेभ्यस्तिष्ठ । गदामात्रसहाय एव समरभुवमवतरामि ।
&सूतः&:
अलमन्यथा संभावितेन । अयमहमागत एव* ।इति निष्क्रान्तः**
&धृतराष्ट्रः&:
वत्स दुर्योधन यदि स्थिर एवास्मान्दग्धुमयं ते व्यवसायस्तत्संनिहितेषु वीरेषु सेनापतिः कश्चिदभिषिच्यताम् ।
&दुर्योधनः&:
नन्वभिषिक्त एव ।
&गान्धारी&:
{प्क्त्_155}जाद कदरो उण सो जहिं एदं हदासं ओलम्बिस्सं ।
स्क्त्छ्_155: जात कतरः पुनः स यत्रेमां हताशामवलम्बिष्ये ।
&धृतराष्ट्रः&:
किं वा शल्य उत वाश्वत्थामा ।
&संजयः&:
हा कष्टम् ।
वेर्से_5.23
गते भीष्मे हते द्रोणे कर्णे च विनिपातिते ।
आशा बलवती राजञ्शल्यो जेष्यति पाण्डवान् ॥ 5.23 ॥
&दुर्योधनः&:
किं वा शल्येनोत वाश्वत्थाम्ना ।
वेर्से_5.24
कर्णालिङ्गनदायी वा पार्थप्राणहरो ऽपि वा ।
अनिवारितसंपातैरयमात्माश्रुवारिभिः ॥ 5.24 ॥
*नेपथ्ये कलकलं कृत्वा**
भो भोः कौरवबलप्रधानयोधा अलमस्मानवलोक्य भयादितस्ततो गमनेन । कथयन्तु भवन्तः कस्मिन्नुद्देशे सुयोधनस्तिष्ठति ।
*सर्वे ससंभ्रममाकर्णयन्ति**
*प्रविश्य संभ्रान्तः**
&सूतः&:
आयुष्मन्
वेर्से_5.25
प्राप्तावेकरथारूढौ पृच्छन्तौ त्वामितस्ततः ।
&सर्वे&:
कश्च कश्च ।
&सूतः&:
वेर्से_5.25
स कर्णारिः स च क्रूरो वृककर्मा वृकोदरः ॥ 5.25 ॥
&गान्धारी&:
{प्क्त्_156}*सभयम्**
जाद किं एत्थ पडिपज्जिदव्वं ।
स्क्त्छ्_156: जात किमत्र प्रतिपत्तव्यम् ।
&दुर्योधनः&:
ननु संनिहितैवेयं गदा ।
&गान्धारी&:
{प्क्त्_157}हा हदम्हि मन्दभाइणी ।
स्क्त्छ्_157: हा हतास्मि मन्दभागिनी ।
&दुर्योधनः&:
अम्ब अलमिदानीं कार्पण्येन । संजय रथमारोप्य पितरौ शिबिरं प्रतिष्ठस्व । प्राप्तो ऽस्मच्छोकापनोदप्रणयी जनः ।
&धृतराष्ट्रः&:
वत्स क्षणमेकं प्रतीक्षस्व यावदनयोर्भावमुपलभे ।
&दुर्योधनः&:
तात किमनेनोपलब्धेन ।
*तथा प्रविशतो रथारूढौ भीमार्जुनौ**
&भीमः&:
भो भोः सुयोधनानुजीविनः किमिति संभ्रमादयथायथं चरन्ति भवन्तः । अलमावयोः शङ्कया ।
वेर्से_5.26
कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सो ऽतिमानी $ कृष्णाकेशोत्तरीयव्यपनयनमरुत्पाण्डवा यस्य दासाः &
राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं ē̃ क्वास्ते दुर्योधनो ऽसौ कथयत न रुषा द्रष्टुमागतौ स्वः ॥ 5.26 ॥
&धृतराष्ट्रः&:
संजय दारुणः खलूपक्षेपः पापस्य ।
&संजयः&:
तात कर्मणा कृतनिःशेषविप्रियाः संप्रति वाचा व्यवस्यन्ति ।
&दुर्योधनः&:
सूत कथय गत्वोभयोरयं तिष्ठतीति ।
&सूतः&:
यदाज्ञापयति देवः* ।तावुपसृत्य**
भो वृकोदरार्जुनौ एष महाराजस्तातेनाम्बया च सह न्यग्रोधच्छायायामुपविष्टस्तिष्ठति ।
&अर्जुनः&:
आर्य प्रसीद । न युक्तं पुत्रशोकपीडितौ पितरौ पुनरस्मद्दर्शनेनोद्वेजयितुम् । तद्गच्छावः ।
&भीमः&:
मूढ अनुल्लङ्घनीयः सदाचारः । न युक्तमनभिवाद्य गुरून्गन्तुम्* ।उपसृत्य**
संजय पित्रोर्नमस्कृतिं श्रावय । अथ वा तिष्ठ । स्वयं विश्राव्य नामकर्मणी वन्दनीया गुरवः* ।इति रथादवतरतः**
&अर्जुनः&:
*उपगम्य**
तात अम्ब
वेर्से_5.27
सकलरिपुजयाशा यत्र बद्धा सुतैस्ते $ तृणमिव परिभूतो यस्य गर्वेण लोकः &
रणशिरसि निहन्ता तस्य राधासुतस्य ē̃ प्रणमति पितरौ वां मध्यमः पाण्डवो ऽयम् ॥ 5.27 ॥
&भीमः&:
वेर्से_5.28
चूर्णिताशेषकौरव्यः क्षीबो दुःशासनासृजा ।
भङ्क्ता सुयोधनस्योर्वोर्भीमो ऽयं शिरसाञ्चति ॥ 5.28 ॥
&धृतराष्ट्रः&:
दुरात्मन्वृकोदर न खल्विदं भवतैव केवलं सपत्नानामपकृतम् । यावत्क्षत्रं तावत्समरविजयिनो जिता हताश्च वीराः । तत्किमेवं विकत्थनाभिरस्मानुद्वेजयसि ।
&भीमः&:
तात अलं मन्युना ।
वेर्से_5.29
कृष्टा केशेषु कृष्णा तव सदसि पुरः पाण्डवानां नृपैर्यैः $ सर्वे ते क्रोधवह्नौ कृतशलभकुलावज्ञया येन दग्धाः &
एतस्माच्छ्रावये ऽहं न खलु भुजबलश्लाघया नापि दर्पा- ē̃ त्पुत्रैः पौत्रैश्च कर्मण्यतिगुरुणि कृते तात साक्षी त्वमेव ॥ 5.29 ॥
&दुर्योधनः&:
अरे रे मरुत्तनय किमेवं वृद्धस्य राज्ञः पुरतो निन्दितव्यमात्मकर्म श्लाघसे । अपि च
वेर्से_5.30
कृष्टा केशेषु भार्या तव तव च पशोस्तस्य राज्ञः तयोर्वा $ प्रत्यक्षं भूपतीनां मम भुवनपतेराज्ञया द्यूतदासी &
अस्मिन्वैरानुबन्धे वद किमपकृतं तैर्हता ये नरेन्द्रा ē̃ बाह्वोर्वीर्यातिरेकद्रविणगुरुमदं मामजित्वैव दर्पः ॥ 5.30 ॥
आः दुरात्मन् । एष न भवसि* ।इति सक्रोधमुत्थाय हन्तुमिच्छति**
*धृतराष्ट्रो धृत्वोपवेशयति । भीमः क्रोधं नाटयति**
&अर्जुनः&:
आर्य प्रसीद । किमत्र क्रोधेन ।
वेर्से_5.31
अप्रियाणि करोत्येष वाचा शक्तो न कर्मणा ।
हतभ्रातृशतो दुःखी प्रलापैरस्य का व्यथा ॥ 5.31 ॥
&भीमः&:
अरे रे भरतकुलकलङ्क
वेर्से_5.32
अत्रैव किं न विशसेयमहं भवन्तं $ दुःशासनानुगमनाय कटुप्रलापिन् &
विघ्नं गुरू न कुरुतो यदि मद्गदाग्र- ē̃ निर्भिद्यमानरणितास्थनि ते शरीरे ॥ 5.32 ॥
अन्यच्च मूढ
वेर्से_5.33
शोकैः स्त्रीवन्नयनसलिलं यत्परित्याजितो ऽसि $ भ्रातुर्वक्षःस्थलविघटने यच्च साक्षीकृतो ऽसि &
आसीदेतत्तव कुनृपतेः कारणं जीवितस्य ē̃ क्रुद्धे युष्मत्कुलकमलिनीकुञ्जरे भीमसेने ॥ 5.33 ॥
&दुर्योधनः&:
दुरात्मन्भरतकुलापसद द्यूतदास पाण्डवपशो नाहं भवानिव विकत्थनाप्रगल्भः । किं तु
वेर्से_5.34
द्रक्ष्यन्ति न चिरात्सुप्तं बान्धवास्त्वां रणाङ्गणे ।
मद्गदाभिन्नवक्षो ऽस्थिवेणिकाभीमभूषणम् ॥ 5.34 ॥
&भीमः&:
*विहस्य**
यद्येवं नाश्रद्धेयो भवान् । तथापि प्रत्यासन्नमेव कथयामि ।
वेर्से_5.35
पीनाभ्यां मद्भुजाभ्यां भ्रमितगुरुगदाघातसंचूर्णितोरोः $ क्रूरस्याधाय पादं तव शिरसि नृणां पश्यतां श्वः प्रभाते &
त्वन्मुख्यभ्रातृचक्रोद्दलनगलदसृक्चन्दनेनानखाग्रं ē̃ स्त्यानेनार्द्रेण चाक्तः स्वयमनुभविता भूषणं भीममस्मि ॥ 5.35 ॥
*नेपथ्ये**
भो भो भीमसेनार्जुनौ एष खलु निहताशेषारातिचक्र आक्रान्तपरशुरामाभिरामयशाः प्रतापतापितदिङ्मण्डलस्थापितस्वजनः श्रीमानजातशत्रुर्देवो युधिष्ठिरः समाज्ञापयति ।
&उभौ&:
किमाज्ञापयत्यार्यः ।
*पुनर्नेपथ्ये**
वेर्से_5.36
कुर्वन्त्वाप्ता हतानां रणशिरसि जना वह्निसाद्देहभारा- $ नश्रून्मिश्रं कथंचिद्ददतु जलममी बान्धवा बान्धवेभ्यः &
मार्गन्तां ज्ञातिदेहान्हतनरगहने खण्डितान्गृध्रकङ्कै- ē̃ रस्तं भास्वान्प्रयातः सह रिपुभिरयं संह्रियन्तां बलानि ॥ 5.36 ॥
&उभौ&:
यदाज्ञापयत्यार्यः* ।इति निष्क्रान्तौ**
*नेपथ्ये**
अरे रे गाण्डीवाकर्षणबाहुशालिन्नर्जुनार्जुन क्वेदानीं गम्यते ।
वेर्से_5.37
कर्णक्रोधेन युष्मद्विजयि धनुरिदं त्यक्तमेतान्यहानि $ प्रौढं विक्रान्तमासीद्वन इव भवतां शूरशून्ये रणे ऽस्मिन् &
स्पर्शं स्मृत्वोत्तमाङ्गे पितुरनवजितन्यस्तहेतेरुपेतः ē̃ कल्पाग्निः पाण्डवानां द्रुपदसुतचमूघस्मरो द्रौणिरस्मि ॥ 5.37 ॥
&धृतराष्ट्रः&:
*आकर्ण्य सहर्षम्**
वत्स दुर्योधन द्रोणवधपरिभवोद्दीपितक्रोधपावकः पितुरपि समधिकबलः शिक्षावानमरोपमश्चायमश्वत्थामा प्राप्तः । तत्प्रत्युपगमनेन तावदयं संभाव्यतां वीरः ।
&गान्धारी&:
{प्क्त्_158}जाद पच्चुग्गच्छ एदं महाभाअं ।
स्क्त्छ्_158: जात प्रत्युद्गच्छैनं महाभागम् ।
&दुर्योधनः&:
तात अम्ब किमनेनाङ्गराजवधाशंसिना वृथायौवनशस्त्रबलभरेण ।
&धृतराष्ट्रः&:
वत्स न खल्वस्मिन्काले पराक्रमवतामेवंविधानां वाङ्मात्रेणापि विरागमुत्पादयितुमर्हसि ।
*प्रविश्य**
&अश्वत्थामा&:
विजयतां कौरवाधिपतिः ।
&दुर्योधनः&:
*उत्थाय**
गुरुपुत्र इत आस्यताम्* ।इत्युपवेशयति**
&अश्वत्थामा&:
राजन्दुर्योधन
वेर्से_5.38
कर्णेन कर्णसुभगं बहु यत्तदुक्त्वा $ यत्संगरेषु विहितं विदितं त्वया तत् &
द्रौणिस्त्वधिज्यधनुरापतितो ऽभ्यमित्र- ē̃ मेषो ऽधुना त्यज नृप प्रतिकारचिन्ताम् ॥ 5.38 ॥
&दुर्योधनः&:
*साभ्यसूयम्**
आचार्यपुत्र
वेर्से_5.39
अवसाने ऽङ्गराजस्य योद्धव्यं भवता किल ।
ममाप्यन्तं प्रतीक्षस्व कः कर्णः कः सुयोधनः ॥ 5.39 ॥
&अश्वत्थामा&:
*स्वगतम्**
कथमद्यापि स एव कर्णपक्षपातो ऽस्मासु च परिभवः* ।प्रकाशम्**
राजन्कौरवेश्वर एवं भवतु* ।इति निष्क्रान्तः**
&धृतराष्ट्रः&:
वत्स क एष ते व्यामोहो यदस्मिन्नपि काले एवंविधस्य महाभागस्याश्वत्थाम्नो वाक्पारुष्येणापरागमुत्पादयसि ।
&दुर्योधनः&:
किमस्याप्रियमनृतं च मयोक्तम् । किं वा नेदं क्रोधस्थानम् । पश्य ।
वेर्से_5.40
अकलितमहिमानं क्षत्रियैरात्तचापैः $ समरशिरसि युष्मद्भाग्यदोषाद्विपन्नम् &
परिवदति समक्षं मित्रमङ्गाधिराजं ē̃ मम खलु कथयास्मिन्को विशेषो ऽर्जुने वा ॥ 5.40 ॥
&धृतराष्ट्रः&:
वत्स तवापि को ऽत्र दोषः । अवसानमिदानीं भरतकुलस्य । संजय किमिदानीं करोमि मन्दभाग्यः* ।विचिन्त्य**
भवत्वेवं तावत् । संजय मद्वचनाद्ब्रूहि भारद्वाजमश्वत्थामानम् ।
वेर्से_5.41
स्मरति न भवान्पीतं स्तन्यं विभज्य सहामुना $ मम च मृदितं क्षौमं बाल्ये त्वदङ्गविवर्तनैः &
अनुजनिधनस्फीताच्छोकादतिप्रणयाच्च य- ē̃ द्वचनविकृतिष्वस्य क्रोधो मुधा क्रियते त्वया ॥ 5.41 ॥
&संजयः&:
यदाज्ञापयति तातः* ।इत्युत्तिष्ठति**
&धृतराष्ट्रः&:
अपि चेदमन्यत्त्वया वक्तव्यम् ।
वेर्से_5.42
यन्मोचितस्तव पिता वितथेन शस्त्रं $ यत्तादृशः परिभवः स तथाविधो ऽभूत् &
एतद्विचिन्त्य बलमात्मनि पौरुषं च ē̃ दुर्योधनोक्तमपहाय विधास्यसीति ॥ 5.42 ॥
&संजयः&:
यदाज्ञापयति तातः* ।इति निष्क्रान्तः**
&दुर्योधनः&:
सूत सांग्रामिकं मे रथमुपकल्पय ।
&सूतः&:
यदाज्ञापयत्यायुष्मान्* ।इति निष्क्रान्तः**
&धृतराष्ट्रः&:
गान्धारि इतो वयं मद्राधिपतेः शल्यस्य शिबिरमेव गच्छावः । वत्स त्वमप्येवं कुरु ।
*इति परिक्रम्य निष्क्रान्ताः सर्वे**
इति पञ्चमो ऽङ्कः ।
अच्त्_6
षष्ठो ऽङ्कः ।
*ततः प्रविशत्यासनस्थो युधिष्ठिरो द्रौपदी चेटी पुरुषश्च**
&युधिष्ठिरः&:
*विचिन्त्य निःश्वस्य च**
वेर्से_6.1
तीर्णे भीष्ममहोदधौ कथमपि द्रोणानले निर्वृते $ कर्णाशीविषभोगिनि प्रशमिते शल्ये च याते दिवम् &
भीमेन प्रियसाहसेन रभसात्स्वल्पावशेषे जये ē̃ सर्वे जीवितसंशयं वयममी वाचा समारोपिताः ॥ 6.1 ॥
&द्रौपदी&:
{प्क्त्_159}*सबाष्पम्**
महाराअ पञ्चालिए त्ति किं ण भणिदं ।
स्क्त्छ्_159: महाराज पाञ्चाल्येति किं न भणितम् ।
&यधिष्ठिरः&:
कृष्णे ननु मया* ।पुरुषमवलोक्य**
बुधक ।
&पुरुषः&:
देव आज्ञापय ।
&यधिष्ठिरः&:
उच्यतां सहदेवः । क्रुद्धस्य वृकोदरस्यापर्युषितदारुणां प्रतिज्ञामुपलभ्य प्रनष्टस्य मानिनः कौरवराजस्य पदवीमन्वेष्टुमतिनिपुणमतयस्तेषु तेषु स्थानेषु परमार्थाभिज्ञाश्चराः सुसचिवाश्च भक्तिमन्तः पटुपटहरवव्यक्तघोषणाः सुयोधनसंचारवेदिनः प्रतिश्रुतधनपूजाप्रत्युपक्रियाश्चरन्तु समन्तात्समन्तपञ्चकम् । अपि च
वेर्से_6.2
पङ्के वा सैकते वा सुनिभृतपदवीवेदिनो यान्तु दाशाः $ कुञ्जेषु क्षुण्णवीरुन्निचयपरिचया बल्लवाः संचरन्तु &
व्याधा व्याघ्राटवीषु स्वपरपदविदो ये च रन्ध्रेष्वभिज्ञा ē̃ ये सिद्धव्यञ्जना वा प्रतिमुनिनिलयं ते च चाराश्चरन्तु ॥ 6.2 ॥
&पुरुषः&:
यदाज्ञापयति देवः ।
&युधिष्ठिरः&:
तिष्ठ । एवं च वक्तव्यः सहदेवः ।
वेर्से_6.3
ज्ञेया रहः शङ्कितमालपन्तः $ सुप्ता रुगार्ता मदिराविधेयाः &
त्रासो मृगाणां वयसां विरावो ē̃ नृपाङ्कपादप्रतिमाश्च यत्र ॥ 6.3 ॥
&पुरुषः&:
यदाज्ञापयति देवः* ।इति निष्क्रम्य पुनः प्रविश्य सहर्षम्**
देव पाञ्चालकः प्राप्तः ।
&यधिष्ठिरः&:
त्वरितं प्रवेशय ।
&पुरुषः&:
*निष्क्रम्य पाञ्चालकेन सह प्रविश्य**
एष देवः । उपसर्पतु पाञ्चालकः ।
&पाञ्चालकः&:
जयतु जयतु देवः । प्रियमावेदयामि महाराजाय देव्यै च ।
&युधिष्ठिरः&:
भद्र पाञ्चालक कच्चिदासादिता तस्य दुरात्मनः कौरवाधमस्य पदवी ।
&पाञ्चालकः&:
देव न केवलं पदवी । स एव दुरात्मा देवीकेशाम्बराकर्षणमहापातकप्रधानहेतुरुपलब्धः ।
&युधिष्ठिरः&:
साधु । भद्र प्रियमावेदितम् । अथ दर्शनगोचरं गतः ।
&पाञ्चालकः&:
देव समरगोचरं पृच्छ ।
&द्रौपदी&:
{प्क्त्_160}*सभयम्**
कहं समरगोअरो वट्टै मे णाहो ।
स्क्त्छ्_160: कथं समरगोचरो वर्तते मे नाथः ।
&युधिष्ठिरः&:
*साशङ्कम्**
सत्यं समरगोचरो मे वत्सः ।
&पाञ्चालकः&:
सत्यम् । किमन्यथा वक्ष्यते महाराजाय ।
&युधिष्ठिरः&:
वेर्से_6.4
त्रस्तं विनापि वषयादुरुविक्रमस्य $ चेतो विवेकपरिमन्थरतां प्रयाति &
जानामि चोद्यतगदस्य वृकोदरस्य ē̃ सारं रणेषु भुजयोः परिशङ्कितश्च ॥ 6.4 ॥
*द्रौपदीमवलोक्य**
अयि सुक्षत्रिये
वेर्से_6.5
गुरूणां बन्धूनां क्षितिपतिसहस्रस्य च पुरः $ पुराभूदस्माकं नृपसदसि यो ऽयं परिभवः &
प्रिये प्रायस्तस्य द्वितयमपि पारं गमयति ē̃ क्षयः प्राणानां नः कुरुपतिपशोर्वाद्य निधनम् ॥ 6.5 ॥
अथ वा कृतं संदेहेन ।
वेर्से_6.6
नूनं तेनाद्य वीरेण प्रतिज्ञाभङ्गभीरुणा ।
बध्यते केशपाशस्ते स चास्याकर्षणक्षमः ॥ 6.6 ॥
पाञ्चालक कथय कथय कथमुपलब्धः स दुरात्मा कस्मिन्नुद्देशे किं वाधुना प्रवृत्तमिति ।
&द्रौपदी&:
{प्क्त्_161}भद्द कहेहि कहेहि ।
स्क्त्छ्_161: भद्र कथय कथय ।
&पाञ्चालकः&:
शृणोतु देवो देवी च । अस्तीह देवेन हते मद्राधिपतौ शल्ये गान्धारराजकुलशलभे सहदेवशस्त्रानलं प्रविष्टे सेनापतिनिधननिराक्रन्दविरलयोधोज्झितासु समरभूमिषु रिपुबलपराजयोद्धतवल्गितविचित्रपराक्रमासादितविमुखारातिचक्रासु धृष्टद्युम्नाधिष्ठितासु च युष्मत्सेनासु प्रनष्टेषु कृपकृतवर्माश्वत्थामसु तथा दारुणामपर्युषितां प्रतिज्ञामुपलभ्य कुमारवृकोदरस्य न ज्ञायते क्वापि प्रलीनः स दुरात्मा कौरवाधमः ।
&युधिष्ठिरः&:
ततस्ततः ।
&द्रौपदी&:
{प्क्त्_162}अयि परदो कहेहि ।
स्क्त्छ्_162: अयि परतः कथय ।
&पाञ्चालकः&:
अवधत्तां देवो देवी च । ततश्च भगवता वासुदेवेनाधिष्ठितमेकरथमारूढौ कुमारभीमार्जुनौ समन्तात्समन्तपञ्चकं पर्यटितुमारब्धौ तमनासादितवन्तौ च । अनन्तरं दैवमनुशोचति मादृशे भृत्यवर्गे दीर्घमुष्णं च निश्वसति कुमारे बीभत्सौ जलधरसमयनिशासंचारिततडित्प्रकरपिङ्गलैः कटाक्षैरादीपयति गदां वृकोदरे यत्किंचनकारितामधिक्षिपति विधेर्भगवति नारायणे कश्चित्संविदितः कुमारस्य मारुतेरुज्झितमांसभारः प्रत्यग्रविशसितमृगलोहितचरणनिवसनस्त्वरमाणो ऽन्तिकमुपेत्य पुरुषः परुषश्वासग्रस्तार्धश्रुतवर्णानुमेयपदया वाचा कथितवान् । कुमार अस्मिन्महतो ऽस्य सरसस्तीरे द्वे पदपद्धती समवतीर्णप्रतिबिम्बे । तयोरेका स्थलमुत्तीर्णा न द्वितीया । परत्र कुमारः प्रमाणमिति । ततः ससंभ्रमं प्रस्थिताः सर्वे वयं तमेव पुरस्कृत्य । गत्वा च सरस्तीरं परिज्ञायमानसुयोधनपदलाञ्छनां पदवीमासाद्य भगवता वासुदेवेनोक्तम् । भो वीर वृकोदर जानाति किल सुयोधनः सलिलस्तम्भनीं विद्याम् । तन्नूनं तेन त्वद्भयात्सरसीमेनामधिशयितेन भवितव्यम् । एतच्च वचनमुपश्रुत्य रामानुजस्य सकलदिङ्निकुञ्जपूरितातिरिक्तमुद्भ्रान्तसलिलचरशकुन्तकुलं त्रासोद्धतनक्रग्राहमालोड्य सरःसलिलं भैरवं च गर्जित्वा कुमारवृकोदरेणाभिहितम् । अरे रे वृथाप्रख्यापितालीकपौरुषाभिमानिन्पाञ्चालराजतनयाकेशाम्बराकर्षणमहापातकिन्धार्तराष्ट्रापसद
वेर्से_6.7
जन्मेन्दोरमले कुले व्यपदिशस्यद्यापि धत्से गदां $ मां दुःशासनकोष्णशोणितमधुक्षीबं रिपुं मन्यसे &
दर्पान्धो मधुकैटभद्विषि हरावप्युद्धतं चेष्टसे ē̃ त्रासान्मे नृपशो विहाय समरं पङ्के ऽधुना लीयसे ॥ 6.7 ॥
अपि च भो मानन्ध
वेर्से_6.8
पाञ्चाल्या मन्युवह्निः स्फुटमुपशमितप्राय एव प्रसह्य $ व्यासक्तैः केशपाशैर्हतपतिषु मया कौरवान्तःपुरेषु &
भ्रातुर्दुःशासनस्य स्रवदसृगुरसः पीयमानं निरीक्ष्य ē̃ क्रोधात्किं भीमसेने विहितमसमये यत्त्वयास्तो ऽभिमानः ॥ 6.8 ॥
&द्रौपदी&:
{प्क्त्_163}णाह अबणीदो मे मण्णू जै पुणो बि सुलहं दंसणं भविस्सदि ।
स्क्त्छ्_163: नाथ अपनीतो मे मन्युर्यदि पुनरपि सुलभं दर्शनं भविष्यति ।
&युधिष्ठिरः&:
कृष्णे नामङ्गलानि व्याहर्तुमर्हस्यस्मिन्काले । भद्र ततस्ततः ।
&पाञ्चालकः&:
ततश्चैवं भाषमाणेन वृकोदरेणावतीर्य क्रोधोद्धतभ्रमितभीषणगदापाणिना सहसैवोल्लङ्घिततीरमुत्सन्ननलिनीवनमपविद्धमूर्च्छितग्राहमुद्भ्रान्तमत्स्यशकुन्तमतिभैरवारवभ्रमितवारिसंचयमायतमपि तत्सरः समन्तादालोडितम् ।
&युधिष्ठिरः&:
भद्र तथापि किं नोत्थितः ।
&पाञ्चालकः&:
देव कथं नोत्थितः ।
वेर्से_6.9
त्यक्त्वोत्थितः सरभसं सरसः स मूल- $ मुद्भूतकोपदहनोग्रविषस्फुलिङ्गः &
आयस्तभीमभुजमन्दरवेल्लनाभिः ē̃ क्षीरोदधेः सुमथितादिव कालकूटः ॥ 6.9 ॥
&युधिष्ठिरः&:
साधु सुक्षत्रिय साधु ।
&द्रौपदी&:
{प्क्त्_164}पडिबण्णो समरो ण वा ।
स्क्त्छ्_164: प्रतिपन्नः समरो न वा ।
&पाञ्चालकः&:
उत्थाय च तस्मात्सलिलाशयात्करयुगलोत्तम्भिततोरणीकृतभीमगदः कथयति स्म । अरे रे मारुते किं भयेन प्रलीनं दुर्योधनं मन्यते भवान् । मूढ अनिहतपाण्डुपुत्रः प्रकाशं लज्जमानो विश्रमितुमध्यवसितवानस्मि पातालम् । एवं चोक्ते वासुदेवकिरीटिभ्यां द्वावप्यन्तःसलिलं निषिद्धसमरसमारम्भौ स्थलमुत्तारितौ भीमसुयोधनौ । आसीनश्च कौरवराजः क्षितितले गदां निक्षिप्य विशीर्णरथसहस्रं निहतकुरुशतगजवाजिनरसहस्रकलेवरसंमर्दसंपतद्गृध्रकङ्कजम्बूकमुत्सन्नसुयोधमस्मद्वीरमुक्तसिंहनादमपमित्रबान्धवमकौरवं रणस्थानमवलोक्यायतमुष्णं च निःश्वसितवान् । ततश्च वृकोदरेणाभिहितम् । अयि भोः कौरवराज कृतं बन्धुनाशदर्शनमन्युना । मैवं विषादं कृथाः पर्याप्ताः पाण्डवाः समरायाहमसहाय इति ।
वेर्से_6.10
पञ्चानां मन्यसे ऽस्माकं यं सुयोधं सुयोधन ।
दंशितस्यात्तशस्त्रस्य तेन ते ऽस्तु रणोत्सवः ॥ 6.10 ॥
इत्थं च श्रुत्वानसूयान्वितां दृष्टिं कुमारयोर्निक्षिप्योक्तवान्धार्तराष्ट्रः ।
वेर्से_6.11
कर्णदुःशासनवधात्तुल्यावेव युवां मम ।
अप्रियो ऽपि प्रियो योद्धुं त्वमेव प्रियसाहसः ॥ 6.11 ॥
इत्युत्थाय परस्परक्रोधाधिक्षेपपरुषवाक्कलहप्रस्तावितघोरसंग्रामौ विचित्रविभ्रमभ्रमितगदापरिभासुरभुजदण्डौ मण्डलैर्विचरितुमारब्धौ भीमदुर्योधनौ । अहं च देवेन चक्रपाणिना देवसकाशमनुप्रेषितः । आह च देवो देवकीनन्दनः । अपर्युषितप्रतिज्ञे च मारुतौ प्रनष्टे कौरवराजे महानासीन्नो विषादः । संप्रति पुनर्भीमसेनेनासादिते सुयोधने निष्कण्टकीभूतं भुवनतलं परिकलयतु भवान् । अभ्युदयोचिताश्चानवरतं प्रवर्त्यन्तां मङ्गलसमारम्भाः । कृतं संदेहेन ।
वेर्से_6.12
पूर्यन्तां सलिलेन रत्नकलशा राज्याभिषेकाय ते $ कृष्णात्यन्तचिरोज्झिते च कबरीबन्धे करोतु क्षणम् &
रामे शातकुठारभासुरकरे क्षत्रद्रुमोच्छेदिनि ē̃ क्रोधान्धे च वृकोदरे परिपतत्याजौ कुतः संशयः ॥ 6.12 ॥
&द्रौपदी&:
{प्क्त्_165}*सबाष्पम्**
जं देवो तिहुअणणाहो भणादि तं कहं अण्णहा भविस्सदि ।
स्क्त्छ्_165: यद्देवस्त्रिभुवननाथो भणति तत्कथमन्यथा भविष्यति ।
&पाञ्चालकः&:
न केवलमियमाशीः । असुरनिषूदनस्यादेशो ऽपि ।
&युधिष्ठिरः&:
को हि नाम भगवता संदिष्टं विकल्पयति । कः को ऽत्र भोः ।
*प्रविश्य**
&कञ्चुकी&:
आज्ञापयतु देवः ।
&युधिष्ठिरः&:
देवस्य देवकीनन्दनस्य बहुमानाद्वत्सस्य मे विजयमङ्गलाय प्रवर्त्यन्तां तदुचिताः समारम्भाः ।
&कञ्चुकी&:
यदाज्ञापयति देवः* ।सोत्साहं परिक्रम्य**
भो भोः संविधात्ःणां पुरःसरा यथाप्रधानमन्तर्वेश्मिका दौवारिकाश्च एष खलु भुजबलपरिक्षेपोत्तीर्णकौरवपरिभवसागरस्य निर्व्यूढदुर्वहप्रतिज्ञाभारस्य सुयोधनानुजशतोन्मूलनप्रभञ्जनस्य दुःशासनोरःस्थलविदलननारसिंहस्य दुर्योधनोरुस्तम्भभङ्गविनिश्चितविजयस्य बलिनः प्राभञ्जनेर्वृकोदरस्य स्नेहपक्षपातिना मनसा मङ्गलानि कर्तुमाज्ञापयति देवो युधिष्ठिरः* ।आकाशे**
किं ब्रूथ । सर्वतो ऽधिकतरमपि प्रवृत्तं किं नालोकयसीति । साधु पुत्रकाः साधु । अनुक्तहितकारिता हि प्रकाशयति मनोगतां स्वामिभक्तिम् ।
&युधिष्ठिरः&:
आर्य जयंधर ।
&कञ्चुकी&:
आज्ञापयतु देवः ।
&युधिष्ठिरः&:
गच्छ प्रियख्यापकं पाञ्चालकं पारितोषिकेण परितोषय ।
&कञ्चुकी&:
यदाज्ञापयति देवः* ।इति पाञ्चालकेन सह निष्क्रान्तः**
&द्रौपदी&:
{प्क्त्_166}महाराअ किंणिमित्तं उण णाहभीमसेणेण सो दुराआरो भणिदो । पञ्चाणं बि अम्हाणं मज्झे जेण दे रोअदि तेण सह दे संगामो होदु त्ति । जै मद्दीसुदाणं एकदरेण सह संगामो तेण पत्थिदो भवे तदो अच्चाहिदं भवे ।
स्क्त्छ्_166: महाराज किंनिमित्तं पुनर्नाथभीमसेनेन स दुराचारो भणितः । पञ्चानामप्यस्माकं मध्ये येन ते रोचते तेन सह ते संग्रामो भवत्विति । यदि माद्रीसुतयोरेकतरेण सह संग्रामस्तेन प्रार्थितो भवेत्ततो ऽत्याहितं भवेत् ।
&युधिष्ठिरः&:
कृष्णे एवं मन्यते जरासंधघाती । हतसकलसुहृद्बन्धुवीरानुजराजन्यासु कृपकृतवर्माश्वत्थामशेषास्वेकादशस्वक्षौहिणीष्वबान्धवः शरीरमात्रविभवः कदाचिदुत्सृष्टनिजाभिमानो धार्तराष्ट्रः परित्यजेदायुधं तपोवनं वा व्रजेत्संधिं वा पितृमुखेन याचेत । एवं सति सुदूरमतिक्रान्तः प्रतिज्ञाभारो भवेत्सकलरिपुजयस्येति । समरं प्रतिपत्तुं पञ्चानामपि पाण्डवानामेकस्यापि नैव क्षमः सुयोधनः । शङ्के चाहं गदायुद्धं वृकोदरस्यैवानेन । अयि सुक्षत्रिये पश्य ।
वेर्से_6.13
क्रोधोद्गूर्णगदस्य नास्ति सदृशः सत्यं रणे मारुतेः $ कौरव्ये कृतहस्तता पुनरियं देवे यथा सीरिणि &
स्वस्त्यस्तूद्धतधार्तराष्ट्रनलिनीनागाय वत्साय मे ē̃ शङ्के तस्य सुयोधनेन समरं नैवेतरेषामहम् ॥ 6.13 ॥
*नेपथ्ये**
तृषितो ऽस्मि भोस्तृषितो ऽस्मि । संभावयतु कश्चित्सलिलच्छायासंप्रदानेन माम् ।
&युधिष्ठिरः&:
*आकर्ण्य**
कः को ऽत्र भोः ।
*प्रविश्य**
&कञ्चुकी&:
आज्ञापयतु देवः ।
&युधिष्ठिरः&:
ज्ञायतां किमेतत् ।
&कञ्चुकी&:
यदाज्ञापयति देवः* ।इति निष्क्रम्य पुनः प्रविश्य**
देव क्षुन्मानतिथिरुपस्थितः ।
&युधिष्ठिरः&:
शीघ्रं प्रवेशय ।
&कञ्चुकी&:
यदाज्ञापयति देवः* ।इति निष्क्रान्तः**
*ततः प्रविशति मुनिवेषधारी चार्वाको नाम राक्षसः**
&राक्षसः&:
*आत्मगतम्**
एषो ऽस्मि चार्वाको नाम राक्षसः । सुयोधनस्य मित्रं पाण्डवान्वञ्चयितुं भ्रमामि* ।प्रकाशम्**
तृषितो ऽस्मि । संभावयतु मां कश्चिज्जलच्छायाप्रदानेन* ।इति राज्ञः समीपमुपसर्पति**
*सर्व उत्तिष्ठन्ति**
&युधिष्ठिरः&:
मुने अभिवादये ।
&राक्षसः&:
अकालो ऽयं समुदाचारस्य । जलप्रदानेन संभावयतु माम् ।
&युधिष्ठिरः&:
मुने इदमासनम् । उपविश्यताम् ।
&राक्षसः&:
*उपविश्य**
ननु भवतापि क्रियतामासनपरिग्रहः ।
&युधिष्ठिरः&:
*उपविश्य**
कः को ऽत्र भोः । सलिलमुपनय ।
*प्रविश्य गृहीतभृङ्गारः**
&कञ्चुकी&:
*उपसृत्य**
महाराज शिशिरसुरभिसलिलसंपूर्णो ऽयं भृङ्गारः पानभाजनं चेदम् ।
&युधिष्ठिरः&:
मुने निर्वर्त्यतामुदन्याप्रतिकारः ।
&राक्षसः&:
*पादौ प्रक्षल्योपस्पृशन्विचिन्त्य**
भोः क्षत्रियस्त्वमिति मन्ये ।
&युधिष्ठिरः&:
सम्यग्वेदी भवान् । क्षत्रिय एवास्मि ।
&राक्षसः&:
सुलभश्च स्वजनविनाशः संग्रामेषु प्रतिदिनमतो नादेयं भवद्भ्यो जलादिकम् । भवतु । छाययैवानया सरस्वतीशिशिरतरंगस्पृशा मरुता चानेन विगतक्लमो भविष्यामि ।
&द्रौपदी&:
मूल पाठ: Veṇīsaṃhāra · Edition: Venisamhara: Die Ehrenrettung der Königin, Ein Drama in 6 Akten von Bhatta Narayana. Julius Grill (Ed.). Leipzig : Fues's Verlag (R. Reisland) 1871. and Venisamhara of Bhatta Narayana. Edited with the commentary of Jagaddhara by M. R. Kale. Delhi : Motilal Banarsidass 1989. · Data entry Yves Codet · GRETIL (Göttingen) · CC BY-NC-SA 4.0