वेणीसंहार · भाग 2140
स्क्त्छ्_71: अद्य खलु पुत्रवधामर्षोद्दीपितेन गाण्डीविनानस्तमिते दिवसनाथे तस्य वधः प्रतिज्ञातः ।
&राजा&:
*सस्मितम्**
इदं तदश्रुकारणमम्बाया दुःशलायाश्च । पुत्रशोकादुन्मत्तस्य किरीटिनः प्रलापैरेवमवस्था । अहो मुग्धत्वमबलानाम् । अम्ब कृतं विषादेन । वत्से दुःशले अलमश्रुपातेन । कुतश्चायं तस्य धनंजयस्य प्रभावो दुर्योधनबाहुपरिघरक्षितस्य महारथजयद्रथस्य विपत्तिमुत्पादयितुम् ।
&माता&:
{प्क्त्_72}जाद पुत्तबन्धुवहामरिसुद्दीबिदकोबाणला अणवेक्खिदसरीरा वीरा परिक्कमन्ति ।
स्क्त्छ्_72: जात पुत्रबन्धुवधामर्षोद्दीपितकोपानला अनपेक्षितशरीरा वीराः परिक्रामन्ति ।
&राजा&:
*सोपहासम्**
एवमेतत् । सर्वजनप्रसिद्धैवामर्षिता पाण्डवानाम् । पश्य ।
वेर्से_2.24
हस्ताकृष्टविलोलकेशवसना दुःशासनेनाज्ञया $ पाञ्चाली मम राजचक्रपुरतो गौर्गौरिति व्याहृता &
तस्मिन्नेव स किं नु गाण्डिवधरो नासीत्पृथानन्दनो ē̃ यूनः क्षत्रियवंशजस्य कृतिनः क्रोधास्पदं किं न तत् ॥ 2.24 ॥
&माता&:
{प्क्त्_73}असमत्तपडिण्णाभरस्स अत्तवहो से पडिण्णादो ।
स्क्त्छ्_73: असमाप्तप्रतिज्ञाभरस्यात्मवधो ऽस्य प्रतिज्ञातः ।
&राजा&:
यद्येवमलमानन्दस्थाने ऽपि ते विषादेन । ननु वक्तव्यमुत्सन्नः सानुजो युधिष्ठिर इति । अन्यच्च मातः का शक्तिरस्ति धनंजयस्यान्यस्य वा कुरुशतपरिवारवर्धितमहिम्नः कृपकर्णद्रोणाश्वत्थामादिमहारथद्विगुणीकृतनिरावरणविक्रमस्य नामापि ग्रहीतुं ते तनयस्य । अयि सुतपराक्रमानभिज्ञे
वेर्से_2.25
धर्मात्मजं प्रति यमौ च कथैव नास्ति $ मध्ये वृकोदरकिरीटभृतोर्बलेन &
एको ऽपि विस्फुरितमण्डलचापचक्रं ē̃ कः सिन्धुराजमभिषेणयितुं समर्थः ॥ 2.25 ॥
&भानुमती&:
{प्क्त्_74}अज्जौत्त जै बि एव्वं तह बि गुरुकिदपडिण्णाभरो धणंजओ णिदाणं क्खु संकाए ।
स्क्त्छ्_74: आर्यपुत्र यद्यप्येवं तथापि गुरुकृतप्रतिज्ञाभरो धनंजयः निदानं खलु शङ्कायाः ।
&माता&:
{प्क्त्_75}जादे साहु कालोइदं तुए मन्तिदं ।
स्क्त्छ्_75: जाते साधु कालोचितं त्वया मन्त्रितम् ।
&राजा&:
आः ममापि नाम दुर्योधनस्य शङ्कास्थानं पाण्डवाः । पश्य ।
वेर्से_2.26
कोदण्डज्याकिणाङ्कैरगणितरिपुभिः कङ्कटोन्मुक्तदेहैः $ श्लिष्टान्यो ऽन्यातपत्रैः सितकमलवनभ्रान्तिमुत्पादयद्भिः &
रेणुग्रस्तार्कभासां प्रचलदसिलतादन्तुराणां बलाना- ē̃ माक्रान्ता भ्रातृभिर्मे दिशि दिशि समरे कोटयः संपतन्ति ॥ 2.26 ॥
अपि च भानुमति विज्ञातपाण्डवप्रभावे किं त्वमप्येवमाशङ्कसे । पश्य ।
वेर्से_2.27
दुःशासनस्य हृदयक्षतजाम्बुपाने $ दुर्योधनस्य च यथा गदयोरुभङ्गे &
तेजस्विनां समरमूर्धनि पाण्डवानां ē̃ ज्ञेया जयद्रथवधे ऽपि तथा प्रतिज्ञा ॥ 2.27 ॥
कः को ऽत्र भोः । जैत्रं मे रथमुपकल्पय तावत् । यावदहमपि तस्य प्रगल्भपाण्डवस्य जयद्रथपरिरक्षणेनैव मिथ्याप्रतिज्ञावैलक्ष्यसंपादितमशस्त्रपूतं मरणमुपदिशामि ।
*प्रविश्य**
&कञ्चुकी&:
देव
वेर्से_2.28
उद्घातक्वणितविलोलहेमघण्टः $ प्रालम्बद्विगुणितचामरप्रहासः &
सज्जो ऽयं नियमितवल्गिताकुलाश्वः ē̃ शत्रूणां क्षपितमनोरथो रथस्ते ॥ 2.28 ॥
&राजा&:
देवि प्रविश त्वमभ्यन्तरमेव* ।यावदहमपि तस्य प्रगल्भपाण्डवस्य इत्यादि पठन्परिक्रामति**
*इति निस्क्रान्ताः सर्वे**
इति द्वितीयो ऽङ्कः ।
अच्त्_3
तृतीयो ऽङ्कः ।
*ततः प्रविशति विकृतवेषा राक्षसी**
&राक्षसी&:
*विकृतं विहस्य सपरितोषम्**
वेर्से_3.1
हदमाणुशमंशभालए कुम्भशहश्शवशाहिं शंचिदे ।
अणिशं अ पिबामि शोणिअं वलिशशदं शमले हुवीअदु ॥ 3.1 ॥
{प्क्त्_77}*नृत्यन्ती सपरितोषम्**
जै शिन्धुलाअवहदिअहे विअ दिअहे दिअहे शमलकम्म पडिबज्जै अज्जुणे तदो पज्जत्तभलिदकोट्ठागाले मंशशोणिएहिं मे गेहे हुवीअदि* ।परिक्रम्य दिशो ऽवलोक्य**
अह कहिं णु खु लुहिलप्पिए हुवीअदि । ता जाव इमश्शिं शमले पिअभत्तालं लुहिलप्पिअं अण्णेशामि* ।परिक्रम्य**
होदु शद्दाबैश्शं दाव । अले लुहिलप्पिआ लुहिलप्पिआ इदो एहि इदो एहि ।
स्क्त्छ्_76: हतमानुषमांसभारके कुम्भसहस्रवसाभिः संचिते । अनिशं च पिबामि शोणितं वर्षशतं समरो भवतु ॥ 1 ॥
स्क्त्छ्_77: यदि सिन्धुराजवधदिवस इव दिवसे दिवसे समरकर्म प्रतिपद्यते ऽर्जुनस्तदा पर्याप्तभृतकोष्ठागारं मांसशोणितैर्मे गृहं भविष्यति । अथ क्व नु खलु रुधिरप्रियो भविष्यति । तद्यावदेतस्मिन्समरे प्रियभर्तारं रुधिरप्रियमन्वेष्यामि । भवतु शब्दायिष्ये तावत् । अरे रुधिरप्रिय रुधिरप्रिय इत एहीत एहि ।
*ततः प्रविशति तथाविधो राक्षसः**
&राक्षसः&:
*श्रमं नाटयन्**
वेर्से_3.2
पच्चग्गहदाणं मंशए जै उण्हे लुहिले अ लम्भै ।
ता एशे मह पलिश्शमे खणमेत्तं एव्व लहु णश्शै ॥ 3.2 ॥
स्क्त्छ्_78: प्रत्यग्रहतानां मांसं यद्युष्णं रुधिरं च लभ्येत । तदेष मम परिश्रमः क्षणमात्रमेव लघु नश्येत् ॥ 2 ॥
*राक्षसी पुनर्व्याहरति**
&राक्षसः&:
{प्क्त्_79}*आकर्ण्य**
अले के एशे मं सद्दाबेदि* ।विलोक्य**
कहं पिआ मे वशागन्धा* ।उपसृत्य**
वशागन्धे कीश मं शद्दाबेशि ।
वेर्से_3.3
लुहिलाशवपाणमत्तिए लणहिण्डणखलन्तगत्तिए ।
शद्दाअशि कीश मं पिए पुलिशशहश्शं हदं शुणीअदि ॥ 3.3 ॥
स्क्त्छ्_79: अरे कैषा मां शब्दायते । कथं प्रिया मे वसागन्धा । वसागन्धे कस्मान्मां शब्दायसे ।
स्क्त्छ्_80: रुधिरासवपानमत्तिके रणहिण्डनस्खलद्गात्रिके । शब्दायसे कस्मान्मां प्रिये पुरुषसहस्रं हतं श्रूयते ॥ 3 ॥
&राक्षसी&:
{प्क्त्_81}अले लुहिलप्पिआ एदं क्खु मए तुह कालणादो पच्चग्गहदश्श कश्श बि लाएशिणो पहूदवशाशिणेहचिक्कणं कोण्हं णवलुहिलं अग्गमंशं अ आणीदं । ता पिबाहि णं ।
स्क्त्छ्_81: अरे रुधिरप्रिय इदं खलु मया तव कारणात्प्रत्यग्रहतस्य कस्यापि राजर्षेः प्रभूतवसास्नेहचिक्कणं कोष्णं नवरुधिरमग्रमांसं चानीतम् । तत्पिबैतत् ।
&राक्षसः&:
{प्क्त्_82}*सपरितोषम्**
शाहु वशागन्धे शाहु । शोहणं तुए किदं । बलिअम्हि पिबाशिदे । ता उबणेहि ।
स्क्त्छ्_82: साधु वसागन्धे साधु । शोभनं त्वया कृतम् । बलवदस्मि पिपासितः । तदुपनय ।
&राक्षसी&:
{प्क्त्_83}अले लुहिलप्पिआ एदिशे हदणलगअतुलंगमशोणिअवशाशमुद्ददुश्शंचले शमलाङ्गणे पडिब्भमन्ते तुमं पिबाशिए शि त्ति अच्चलिअं अच्चलिअं ।
स्क्त्छ्_83: अरे रुधिरप्रिय ईदृशे हतनरगजतुरंगमशोणितवसासमुद्रदुःसंचरे समराङ्गणे परिभ्रमंस्त्वं पिपासितो ऽसीत्याश्चर्यमाश्चर्यम् ।
&राक्षसः&:
{प्क्त्_84}ऐ शुत्थिदे णं पुत्तशोअशंतत्तहिअअं शामिणिं हिडिम्बादेइं पेक्खिदुं गदम्हि ।
स्क्त्छ्_84: अयि सुस्थिते ननु पुत्रशोकसंतप्तहृदयां स्वामिनीं हिडिम्बादेवीं प्रेक्षितुं गतो ऽस्मि ।
&राक्षसी&:
{प्क्त्_85}लुहिलप्पिआ अज्ज बि शामिणीए हिडिम्बादेईए घडुक्कअशोए ण उबशम्मदि ।
स्क्त्छ्_85: रधिरप्रिय अद्यापि स्वामिन्या हिडिम्बादेव्या घटोत्कचशोको नोपशाम्यति ।
&राक्षसः&:
{प्क्त्_86}वशागन्धे कुदो शे उबशमे । केवलं अहिमण्णुवहशोअशमाणदुक्खाए शुभद्दादेवीए जण्णशेणीए अ कधं कधं वि शमाशाशीअदि ।
स्क्त्छ्_86: वसागन्धे कुतो ऽस्या उपशमः । केवलमभिमन्युवधशोकसमानदुःखया सुभद्रादेव्या याज्ञसेन्या च कथं कथमपि समाश्वास्यते ।
&राक्षसी&:
{प्क्त्_87}लुहिलप्पिआ गेण्ह एदं हत्थिशिलकबालशंचिअं अग्गमंशोबदंशं । पिबाहि णवशोणिआसवं ।
स्क्त्छ्_87: रुधिरप्रिय गृहाणैतद्धस्तिशिरःकपालसंचितमग्रमांसोपदंशम् । पिब नवशोणितासवम् ।
&राक्षसः&:
{प्क्त्_88}*तथा कृत्वा**
वशागन्धे अह किअप्पहूदं तुए शंचिअं लुहिलं अग्गमंशं अ ।
स्क्त्छ्_88: वसागन्धे अथ कियत्प्रभूतं त्वया संचितं रुधिरमग्रमांसं च ।
&राक्षसी&:
{प्क्त्_89}अले लुहिलप्पिआ पुव्वशंचिअं जाणाशि जेव्व तुमं । णवशंचिअं शिणु दाव । भअदत्तशोणिअकुम्भे शिन्धुलाअवशाकुम्भे दुवे दुबदमच्छाहिबभूलिश्शवशोमदत्तबल्हीअप्पमुहाणं णलिन्दाणं अण्णाणं बि पाकिदपुलिशाणं लुहिलवशामंशश्श घडा अबिणद्धमुहा शहश्शशंक्खा शन्ति मे गेहे ।
स्क्त्छ्_89: अरे रुधिरप्रिय पूर्वसंचितं जानास्येव त्वम् । नवसंचितं शृणु तावत् । भगदत्तशोणितकुम्भः सिन्धुराजवसाकुम्भौ द्वौ द्रुपदमत्स्याधिपभूरिश्रवःसोमदत्तबाल्हीकप्रमुखाणां नरेन्द्राणामन्येषामपि प्राकृतपुरुषाणां रुधिरवसामांसस्य घटा अपिनद्धमुखाः सहस्रसंख्याः सन्ति मे गेहे ।
&राक्षसः&:
{प्क्त्_90}*सपरितोषमालिङ्ग्य**
शाहु शुग्घलिणीए शाहु । इमिणा दे शुग्घलिणित्तेण अज्ज उण शामिणीए हिडिम्बादेवीए शंविहाणेण अ पणट्ठं मे जम्मदालिद्दं ।
स्क्त्छ्_90: साधु सुगृहिणि साधु । अनेन ते सुगृहिणीत्वेनाद्य पुनः स्वामिन्या हिडिम्बादेव्याः संविधानेन च प्रनष्टं मे जन्मदारिद्र्यम् ।
&राक्षसी&:
{प्क्त्_91}लुहिलप्पिआ केदिशे शामिणीए शंविहाणे किदे ।
स्क्त्छ्_91: रुधिरप्रिय कीदृशं स्वामिन्या संविधानं कृतम् ।
&राक्षसः&:
{प्क्त्_92}वशागन्धे अज्ज क्खु अहं शामिणीए हिडिम्बादेवीए शवहुमाणं शद्दाबिअ आणत्ते जह लुहिलप्पिआ अज्ज पहुदि तुए अज्जौत्तश्श भीमशेणश्श पिट्ठदोणुपिट्ठं शमले आहिण्डिदव्वं त्ति । ता तश्श अणुमग्गगामिणो हदमाणुशशोणिअणईदंशणप्पणट्ठबुभुक्खापिबाशश्श इह एव्व मे शग्गलोओ हुवीअदि । तुमं बि विश्शद्धा भविअ लुहिलवशाहिं कुम्भशहश्शं शंचेहि ।
स्क्त्छ्_92: वसागन्धे अद्य खल्वहं स्वामिन्या हिडिम्बादेव्या सबहुमानं शब्दाय्याज्ञप्तो यथा रुधिरप्रिय अद्य प्रभृति त्वयार्यपुत्रस्य भीमसेनस्य पृष्ठतो ऽनुपृष्ठं समर आहिण्डितव्यमिति । तत्तस्यानुमार्गगामिनो हतमानुषशोणितनदीदर्शनप्रनष्टबुभुक्षापिपासस्येहैव मे स्वर्गलोको भविष्यति । त्वमपि विस्रब्धा भूत्वा रुधिरवसाभिः कुम्भसहस्रं संचिनु ।
&राक्षसी&:
{प्क्त्_93}लुहिलप्पिआ किंणिमित्तं कुमालभीमशेणश्श पिट्ठदोणुपिट्ठं आहिण्डीअदि ।
स्क्त्छ्_93: रुधिरप्रिय किंनिमित्तं कुमारभीमसेनस्य पृष्ठतो ऽनुपृष्ठमाहिण्ड्यते ।
&राक्षसः&:
{प्क्त्_94}वशागन्धे तेण हि शामिणा विओदलेण दुश्शाशणश्श लुहिलं पादुं पडिण्णादं । तं च अम्हेहिं लक्खशेहिं अणुप्पविशिअ पादव्वं त्ति ।
स्क्त्छ्_94: वसागन्धे तेन हि स्वामिना वृकोदरेण दुःशासनस्य रुधिरं पातुं प्रतिज्ञातम् । तच्चास्माभी राक्षसैरनुप्रविश्य पातव्यमिति ।
&राक्षसी&:
{प्क्त्_95}*सहर्षम्**
शाहु शामिणि शाहु । शुशंविहाणे मे भत्ता तुए कदे ।
स्क्त्छ्_95: साधु स्वामिनि साधु । सुसंविधानो मे भर्ता त्वया कृतः ।
*नेपथ्ये महान्कलकलः । उभावाकर्णयतः**
&राक्षसी&:
{प्क्त्_96}*आकर्ण्य ससंभ्रमम्**
अले लुहिलप्पिआ किं णु क्खु एशे महन्ते कलअले शुणीअदि ।
स्क्त्छ्_96: अरे रुधिरप्रिय किं नु खल्वेष महान्कलकलः श्रूयते ।
&राक्षसः&:
{प्क्त्_97}*दृष्ट्वा**
वशागन्धे एशे क्खु धिट्ठज्जुण्णेण दोणे केशेशु आकिट्ठिअ अशिबत्तेण वाबादीअदि ।
स्क्त्छ्_97: वसागन्धे एष खलु धृष्टद्युम्नेन द्रोणः केशेष्वाकृष्यासिपत्रेण व्यापाद्यते ।
&राक्षसी&:
{प्क्त्_98}*सहर्षम्**
लुहिलप्पिआ एहि । गच्छिअ दोणश्श लुहिलं पिवम्ह ।
स्क्त्छ्_98: रुधिरप्रिय एहि । गत्वा द्रोणस्य रुधिरं पिबावः ।
&राक्षसः&:
{प्क्त्_99}*सभयम्**
वशागन्धे बम्हणशोणिअं क्खु एदं गलअं दहन्ते दहन्ते पविशदि । ता किं एदिणा ।
स्क्त्छ्_99: वसागन्धे ब्राह्मणशोणितं खल्वेतद्गलं दहद्दहत्प्रविशति । तत्किमेतेन ।
*नेपथ्ये पुनः कलकलः**
&राक्षसी&:
{प्क्त्_100}लुहिलप्पिआ पुणो बि एशे महन्ते कलअले शुणीअदि ।
स्क्त्छ्_100: रुधिरप्रिय पुनरप्येष महान्कलकलः श्रूयते ।
&राक्षसः&:
{प्क्त्_101}वशागन्धे एशे क्खु अश्शत्थामे आकिट्ठिदाशिबत्ते इदो एव्व आअच्छदि । कदा बि दुबदसुदलोशेण अम्हे बि वाबादैश्शदि । ता एहि । अतिक्कमम्ह ।
स्क्त्छ्_101: वसागन्धे एष खल्वश्वत्थामाकृष्टासिपत्र इत एवागच्छति । कदाचिद्द्रुपदसुतरोषेणावामपि व्यापादयिष्यति । तदेहि । अतिक्रमावः ।
*इति निष्क्रान्तौ**
प्रवेशकः ।
*ततः प्रविशत्युत्खातखड्गः कलकलमाकर्णयन्नश्वत्थामा**
&अश्वत्थामा&:
वेर्से_3.4
महाप्रलयमारुतक्षुभितपुष्करावर्तक- $ प्रचण्डघनगर्जितप्रतिरवानुकारी मुहुः &
रवः श्रवणभैरवः स्थगितरोदसीकन्दरः ē̃ कुतो ऽद्य समरोदधेरयमभूतपूर्वः पुरः ॥ 3.4 ॥
*विचिन्त्य**
ध्रुवं गाण्डीविना सात्यकिना वृकोदरेण वा यौवनदर्पादतिक्रान्तमर्यादेन परिकोपितस्तातः समुल्लङ्घ्य शिष्यप्रियतामात्मप्रभावसदृशमाचेष्टते । तथा हि
वेर्से_3.5
यद्दुर्योधनपक्षपातसदृशं युक्तं यदस्त्रग्रहे $ रामाल्लब्धसमस्तहेतिगुरुणो वीर्यस्य यत्सांप्रतम् &
लोके सर्वधनुष्मतामधिपतेर्यच्चानुरूपं रुषः ē̃ प्रारब्धं रिपुघस्मरेण नियतं तत्कर्म तातेन मे ॥ 3.5 ॥
*पृष्ठतो विलोक्य**
तदलमिदानीं मम रथप्रतीक्षयानया । सशस्त्र एवास्मि सजलजलधरप्रभाभासुरेण सुप्रग्रहविमलकलधौतत्सरुणामुना खड्गेन । यावत्समरभुवमवतरामि* ।परिक्रम्य । वामाक्षिस्पन्दनं सूचयित्वा**
आः कथं ममापि नामाश्वत्थाम्नः समरमहोत्सवप्रमोदनिर्भरस्य तातविक्रमदर्शनलालसस्यानिमित्तानि समरगमनविघ्नमुत्पादयन्ति । भवतु गच्छामि* ।सावष्टम्भं परिक्रम्याग्रतो विलोक्य**
कथमवधीरितक्षात्रधर्माणामुज्झितसत्पुरुषोचितलज्जावगुण्ठनानां विस्मृतस्वामिसत्कारलघुचेतसां द्विरदतुरंगमचरणचारिणामगणितकुलयशःसदृशपराक्रमव्रतानां रणभूमेः समन्तादपक्रामतामयं महान्नादो बलानाम्* ।निरूप्य**
हा धिक्कष्टम् । कथमेते महारथाः कर्णादयो ऽपि समरात्पराङ्मुखा भवन्ति । कथं नु ताताधिष्ठितानामपि बलानामियमवस्था भवेत् । भवतु संस्तम्भयामि । भो भोः कौरवसेनासमुद्रवेलापरिपालनमहामहीधरा नरपतयः कृतं कृतममुना समरपरित्यागसाहसेन ।
वेर्से_3.6
यदि समरमपास्य नास्ति मृत्यो- $ र्भयमिति युक्तमितो ऽन्यतः प्रयातुम् &
अथ मरणमवश्यमेव जन्तोः ē̃ किमिति मुधा मलिनं यशः कुरुध्वे ॥ 3.6 ॥
अपि च
वेर्से_3.7
अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौर्वायमाणे $ सेनानाथे स्थिते ऽस्मिन्मम पितरि गुरौ सर्वधन्वीश्वराणाम् &
कर्णालं संभ्रमेण व्रज कृप समरं मुञ्च हार्दिक्य शङ्कां ē̃ ताते चापद्वितीये वहति रणधुरां को भयस्यावकाशः ॥ 3.7 ॥
*नेपथ्ये**
कुतो ऽद्यापि ते तातः ।
&अश्वत्थामा&:
*श्रुत्वा**
किं ब्रूथ । कुतो ऽद्यापि ते तात इति* ।सरोषम्**
आः क्षुद्राः समरभीरवः कथमेवं प्रलपतां वः सहस्रधा न दीर्णमनया जिह्वया ।
वेर्से_3.8
दग्धुं विश्वं दहनकिरणैर्नोदिता द्वादशार्का $ वाता वाता दिशि दिशि न वा सप्तधा सप्त भिन्नाः &
छन्नं मेघैर्न गगनतलं पुष्करावर्तकाद्यैः ē̃ पापं पापाः कथयत कथं शौर्यराशेः पितुर्मे ॥ 3.8 ॥
*प्रविश्य संभ्रान्तः सप्रहारः**
&सूतः&:
परित्रायतां परित्रायतां कुमारः* ।इति पादयोः पतति**
&अश्वत्थामा&:
*विलोक्य**
अये कथं तातस्य सारथिरश्वसेनः । आर्य ननु त्रैलोक्यत्राणक्षमस्य सारथिरसि । किं मत्तः परित्राणमिच्छसि ।
&सूतः&:
*उत्थाय सकरुणम्**
कुतो ऽद्यापि ते तातः ।
&अश्वत्थामा&:
*सावेगम्**
किं तात एव नास्ति ।
&सूतः&:
अथ किम् ।
&अश्वत्थामा&:
हा तात* ।इति मोहमुपगतः**
&सूतः&:
कमार समाश्वसिहि समाश्वसिहि ।
&अश्वत्थामा&:
*लब्धसंज्ञः सास्रम्**
हा तात हा सुतवत्सल हा लोकत्रयैकधनुर्धर हा जामदगाçèन्यास्त्रसर्वस्वप्रतिग्रहप्रणयिन् क्वासि । प्रयच्छ मे प्रतिवचनम् ।
&सूतः&:
कमार अलमत्यन्तशोकावेगेन । वीरपुरुषोचितां विपत्तिमुपगते पितरि त्वमपि तदनुरूपेणैव वीर्येण शोकसागरमुत्तीर्य सुखी भव ।
&अश्वत्थामा&:
*अश्रूणि विमुच्य**
आर्य कथय कथय कथं तादृग्भुजवीर्यसागरस्तातो ऽपि नामास्तमुपगतः ।
वेर्से_3.9
किं भीमाद्गुरुदक्षिणां गुरुगदाद्भीमप्रियः प्राप्तवान्
&सूतः&:
शान्तं पापम् । शान्तं पापम् ।
&अश्वत्थामा&:
वेर्से_3.9
अन्तेवासिदयालुरुज्झितनयेनासादितो जिष्णुना ।
&सूतः&:
कथमेवं भविष्यति ।
&अश्वत्थामा&:
वेर्से_3.9
गोविन्देन सुदर्शनस्य नियतं धारापथं प्रापितः
&सूतः&:
एतदपि नास्ति ।
&अश्वत्थामा&:
वेर्से_3.9
शङ्के नापदमन्यतः खलु गुरोरेभ्यश्चतुर्थादहम् ॥ 3.9 ॥
&सूतः&:
कुमार
वेर्से_3.10
एते ऽपि तस्य कुपितस्य महास्त्रपाणेः $ किं धूर्जटेरिव तुलामुपयान्ति संख्ये &
शोकोपरुद्धहृदयेन यदा तु शस्त्रं ē̃ त्यक्तं तदास्य विहितं रिपुणातिघोरम् ॥ 3.10 ॥
&अश्वत्थामा&:
किं पुनः कारणं शोकस्यास्त्रपरित्यागस्य वा ।
&सूतः&:
ननु कुमार एव कारणम् ।
&अश्वत्थामा&:
कथमहमेव नाम ।
&सूतः&:
श्रूयताम्* ।अश्रूणि विमुच्य**
वेर्से_3.11
अश्वत्थामा हत इति पृथासूनुना स्पष्टमुक्त्वा $ स्वैरं शेषे गज इति किल व्याहृतं सत्यवाचा &
तच्छ्रुत्वासौ दयिततनयः प्रत्ययात्तस्य राज्ञः ē̃ शस्त्राण्याजौ नयनसलिलं चापि तुल्यं मुमोच ॥ 3.11 ॥
&अश्वत्थामा&:
हा तात हा सुतवत्सल हा वृथामदर्थपरित्यक्तजीवित हा शौर्यराशे हा शिष्यप्रिय हा युधिष्ठिरपक्षपातिन्* ।इति रोदिति**
&सूतः&:
कुमार अलमत्यन्तपरिदेवनकार्पण्येन ।
&अश्वत्थामा&:
वेर्से_3.12
श्रुत्वा वधं मम मृषा सुतवत्सलेन $ तात त्वया सह शरैरसवो विमुक्ताः &
जीवाम्यहं पुनरयं भवता वियुक्तः ē̃ क्रूरे ऽपि तन्मयि मुधा तव पक्षपातः ॥ 3.12 ॥
*इति मोहमुपगतः**
&सूतः&:
समाश्वसितु समाश्वसितु कमारः ।
*ततः प्रविशति कृपः**
&कृपः&:
*सोद्वेगं निःश्वस्य**
वेर्से_3.13
धिक्सानुजं कुरुपतिं धिगजातशत्रुं $ दिग्भूपतीन्विफलशस्त्रभृतो धिगस्मान् &
केशग्रहः खलु तदा द्रुपदात्मजाया ē̃ द्रोणस्य चाद्य लिखितैरिव वीक्षितो यैः ॥ 3.13 ॥
तत्कथं नु खलु वत्सं द्रक्ष्याम्यश्वत्थामानम् । अथ वा हिमवत्सारगुरुचेतसि ज्ञातलोकस्थितौ तस्मिन्न खलु शोकावेगमहमाशङ्के । किं तु पितुः परिभवसदृशमुपश्रुत्य न जाने किं व्यवस्यतीति । अथ वा
वेर्से_3.14
एकस्य तावत्पाको ऽयं दारुणो भुवि वर्तते ।
केशग्रहे द्वितीये ऽस्मिन्नूनं निःशेषिताः प्रजाः ॥ 3.14 ॥
*विलोक्य**
तदयं वत्सस्तिष्ठति । यावदुपसर्पामि* ।उपसृत्य ससंभ्रमम्**
वत्स समाश्वसिहि समाश्वसिहि ।
&अश्वत्थामा&:
*संज्ञां लब्ध्वा सास्रम्**
हा तात हा सकलभुवनैकगुरो* ।आकाशे**
युधिष्ठिर युधिष्ठिर
वेर्से_3.15
आ जन्मनो न वितथं भवता किलोक्तं $ न द्वेक्षि यज्जनमतस्त्वमजातशत्रुः &
ताते गुरौ द्विजवरे मम भाग्यदोषा- ē̃ त्सर्वं तदेकपद एव कथं निरस्तम् ॥ 3.15 ॥
&सूतः&:
कुमार एष ते मातुलः शारद्वतः पार्श्वे तिष्ठति ।
&अश्वत्थामा&:
*पार्श्वे विलोक्य सबाष्पम्**
मातुल मातुल
वेर्से_3.16
गतो येनाद्य त्वं सह रणभुवं सैन्यपतिना $ य एकः शूराणां गुरुकण्डूनिकषणः &
परीहासाश्चित्राः सततमभवन्येन भवतः ē̃ स्वसुः श्लाघ्यो भर्ता क्व नु खलु स ते मातुल गतः ॥ 3.16 ॥
&कृपः&:
परिगतपरिगन्तव्य एव भवान् । तदलमत्यन्तशोकावेगेन ।
&अश्वत्थामा&:
मातुल परित्यक्तमेव मया परिदेवनम् । एषो ऽहं सुतवत्सलं तातमेवानुगच्छामि ।
&कृपः&:
वत्स अनुपपन्नं भवद्विधानामिदम् ।
&सूतः&:
कुमार अलमतिसाहसेन ।
&अश्वत्थामा&:
आर्य शारद्वत
वेर्से_3.17
मद्वियोगभयात्तातः परलोकमितो गतः ।
करोमि विरहं तस्य वत्सलस्य कथं पितुः ॥ 3.17 ॥
&कृपः&:
वत्स यावदयं संसारस्तावत्प्रसिद्धैवेयं लोकयात्रा यत्पुत्रैः पितरो लोकद्वये ऽप्यनुवर्तनीया इति । पश्य ।
वेर्से_3.18
निवापाञ्जलिदानेन केतनैः श्राद्धकर्मभिः ।
तस्योपकारे शक्तस्त्वं किं जीवन्किमुतान्यथा ॥ 3.18 ॥
&सूतः&:
आयुष्मन् यथैव मातुलस्ते शारद्वतः कथयति तत्तथा ।
&अश्वत्थामा&:
आर्य सत्यमेवेआञ्ल्̃म् । किं त्वतिदुर्वहत्वाच्छोकभारस्य न शक्नोमि तातविरहितः क्षणमपि प्राणान्धारयितुम् । तद्गच्छामि तमेवोद्देशं यत्र तथाविधमपि पितरं द्रक्ष्यामि* ।उत्तिष्ठन्खड्गमालोक्य विचिन्त्य**
कृतमद्यापि शस्त्रग्रहणविडम्बनया । भगवञ्शस्त्र
वेर्से_3.19
गृहीतं येनासीः परिभवभयान्नोचितमपि $ प्रभावाद्यस्याभून्न खलु तव कश्चिन्न विषयः &
परित्यक्तं तेन त्वमसि सुतशोकान्न तु भया- ē̃ द्विमोक्ष्ये शस्त्र त्वामहमपि यतः स्वस्ति भवते ॥ 3.19 ॥
*इत्युत्सृजति**
*नेपथ्ये**
भो भो राजानः कथमिह भवन्तः सर्वे गुरोर्भारद्वाजस्य परिभवममुना नृशंसेन प्रयुक्तमुपेक्षन्ते ।
&अश्वत्थामा&:
*आकर्ण्य शनैः शस्त्रं स्पृशन्**
किं गुरोर्भारद्वाजस्य परिभवः ।
*पुनर्नेपथ्ये**
वेर्से_3.20
आचार्यस्य त्रिभुवनगुरोर्न्यस्तशस्त्रस्य शोका- $ द्द्रोणस्याजौ नयनसलिलक्षालितार्द्राननस्य &
मौलौ पाणिं पलितधवले न्यस्य कृत्वा नृशंसं ē̃ धृष्टद्युम्नः स्वशिबिरमयं याति सर्वे सहध्वम् ॥ 3.20 ॥
&अश्वत्थामा&:
*सक्रोधं सकम्पं च कृपसूतौ दृष्ट्वा**
किं नामेदम् ।
वेर्से_3.21
प्रत्यक्षमात्तधनुषां मनुजेश्वराणां $ प्रायोपवेशसदृशं व्रतमास्थितस्य &
तातस्य मे पलितमौलिनिरस्तकाशे ē̃ व्यापारितं शिरसि शस्त्रमशस्त्रपाणेः ॥ 3.21 ॥
&कृपः&:
वत्स एवं किल जनः कथयति ।
&अश्वत्थामा&:
किं तातस्य दुरात्मना परिमृष्टमभूच्छिरः ।
&सूतः&:
*सभयम्**
कुमार आसीदयं तस्य तेजोराशेर्देवस्य नवः परिभवावतारः ।
&अश्वत्थामा&:
हा तात हा पुत्रप्रिय मम मन्दभागधेयस्य कृते शस्त्रपरित्यागात्तथाविधेन क्षुद्रेणात्मा परिभावितः । अथ वा
वेर्से_3.22
परित्यक्ते देहे रणशिरसि शोकान्धमनसा $ शिरः श्वा काको वा द्रुपदतनयो वा परिमृशेत् &
स्फुरद्दिव्यास्त्रौघद्रविणमदमत्तस्य च रिपो- ē̃ र्ममैवायं पादः शिरसि निहितस्तस्य न करः ॥ 3.22 ॥
आः दुरात्मन्पाञ्चालापसद
वेर्से_3.23
तातं शस्त्रग्रहणविमुखं निश्चयेनोपलभ्य $ त्यक्त्वा शङ्कां खलु विदधतः पाणिमस्योत्तमाङ्गे &
अश्वत्थामा करधृतधनुः पाण्डुपाञ्चालसेना- ē̃ तूलोत्क्षेपप्रलयपवनः किं न यातः स्मृतिं ते ॥ 3.23 ॥
युधिष्ठिर युधिष्ठिर अजातशत्रो अमिथ्यावादिन्धर्मपुत्र सानुजस्य ते किमनेनापकृतम् । अथ वा किमनेनालीकप्रकृतिजिह्मचेतसा । अर्जुन सात्यके बाहुशालिन्वृकोदर माधव युक्तं नाम भवतां सुरासुरमनुजलोकैकधनुर्धरस्य द्विजन्मनः परिणतवयसः सर्वाचार्यस्य विशेषतो मम पितुरमुना द्रुपदकुलकलङ्केन मनुजपशुना स्पृश्यमानमुत्तमाङ्गमुपेक्षितम् । अथ वा सर्व एवैते पातकिनः । किमेतैः
वेर्से_3.24
कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं $ मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः &
नरकरिपुणा सार्धं तेषां सभीमकिरीटिना- ē̃ मयमहमसृङ्मेदोमांसैः करोमि दिशां बलिम् ॥ 3.24 ॥
&कृपः&:
वत्स किं न संभाव्यते भारद्वाजतुल्ये बाहुशालिनि दिव्यास्त्रग्रामकोविदे भवति ।
&अश्वत्थामा&:
भो भोः पाण्डवमत्स्यसोमकमागधाद्याः क्षत्रियापसादाः
वेर्से_3.25
पितुर्मूर्ध्नि स्पृष्टे ज्वलदनलभास्वत्परशुना $ कृतं यद्रामेण श्रुतिमुपगतं तन्न भवताम् &
किमद्याश्वत्थामा तदरिरुधिरासारविघसं ē̃ न कर्म क्रोधान्धः प्रभवति विधातुं रणमुखे ॥ 3.25 ॥
सूत गच्छ त्वं सर्वोपकरणैः सांग्रामिकैः सर्वायुधैरुपेतं महाहवलक्षणं नामास्मत्स्यन्दनमुपनय ।
&सूतः&:
यदाज्ञापयति कुमारः* ।इति निष्क्रान्तः**
&कृपः&:
वत्स अवश्यप्रतिकर्तव्ये ऽस्मिन्दारुणे परिभवाग्नौ सर्वेषामस्माकं को ऽन्यस्त्वामन्तरेण शक्तः प्रतिकर्तुम् । किं तु
&अश्वत्थामा&:
किमतः परम् ।
&कृपः&:
सैनापत्ये ऽभिषिक्तं भवन्तमिच्छामि समरभुवनमवतारयितुम् ।
&अश्वत्थामा&:
मातुल परतन्त्रमिदमकिंचित्करं च ।
&कृपः&:
वत्स न खलु परतन्त्रं नाकिंचित्करं च । पश्य ।
वेर्से_3.26
भवेदभीष्ममद्रोणं धार्तराष्ट्रबलं कथम् ।
यदि तत्तुल्यकर्मात्र भवान्धुरि न युज्यते ॥ 3.26 ॥
कृतपरिकरस्य भवादृशस्य त्रैलोक्यमपि न क्षमं परिपन्थीभवितुं किं पुनर्युधिष्ठिरबलम् । तदेवं मन्ये परिकल्पिताभिषेकोपकरणः कौरवराजो न चिरात्त्वामेवाभ्यपेक्षमाणस्तिष्ठतीति ।
&अश्वत्थामा&:
यद्येवं त्वरते मे परिभवानलदह्यमानमिदं चेतस्तत्प्रतीकारजलावगाहनाय । तदहं गत्वा तातवधविषण्णमानसं कुरुपतिं सैनापत्यस्वयंग्रहणप्रणयसमाश्वासनया मन्दसंतापं करोमि ।
&कृपः&:
वत्स एवमिदम् । अतस्तमेवोद्देशं गच्छावः ।
*इति परिक्रामतः**
*ततः प्रविशतः कर्णदुर्योधनौ**
&दुर्योधनः&:
अङ्गराज
वेर्से_3.27
तेजस्वी रिपुहतबन्धुदुःखपारं $ बाहुभ्यां व्रजति धृतायुधप्लवाभ्याम् &
आचार्यः सुतनिधनं निशम्य संख्ये ē̃ किं शस्त्रग्रहसमये विशस्त्र आसीत् ॥ 3.27 ॥
अथ वा सूक्तमिदमभियुक्तैः प्रकृतिर्दुस्त्यजेति । यतः शोकान्धमनसा तेन विमुच्य क्षात्रधर्मकार्कश्यं द्विजातिधर्मसुलभो मार्दवपरिग्रहः कृतः ।
&कर्णः&:
राजन्कौरवेश्वर न खल्विदमेवम् ।
&दुर्योधनः&:
कथं तर्हि ।
&कर्णः&:
एवं किलास्याभिप्रायो यथाश्वत्थामा मया पृथिवीराज्ये ऽभिषेक्तव्य इति । तस्याभावाद्वृद्धस्य मे ब्राह्मणस्य वृथा शस्त्रग्रहणमिति तथा कृतवान् ।
&दुर्योधनः&:
*सशिरःकम्पम्**
एवमिदम् ।
&कर्णः&:
एतदर्थं च कौरवपाण्डवपक्षपातप्रवृत्तमहासंग्रामस्य राजकस्य परस्परक्षयमपेक्षमाणेन तेन प्रधानपुरुषवधोपेक्षा कृता ।
&दुर्योधनः&:
उपपन्नमिदम् ।
&कर्णः&:
अन्यच्च राजन् द्रुपदेनाप्यस्य बाल्यात्प्रभृत्यभिप्रायवेदिना न स्वराष्ट्रे वासो दत्तः ।
&दुर्योधनः&:
साधु अङ्गराज साधु । निपुणमभिहितम् ।
&कर्णः&:
न चायं ममैकस्याभिप्रायः । अन्ये ऽभियुक्ता अपि नैवेदमन्यथा मन्यन्ते ।
&दुर्योधनः&:
एवमेतत् । कः संदेहः ।
वेर्से_3.28
दत्त्वाभयं सो ऽतिरथो बध्यमानं किरीटिना ।
सिन्धुराजमुपेक्षेत नैवं चेत्कथमन्यथा ॥ 3.28 ॥
&कृपः&:
*विलोक्य**
वत्स एष दुर्योधनः सूतपुत्रेण सहास्यां न्यग्रोधच्छायायामुपविष्टस्तिष्ठति । तदुपसर्पावः ।
*तथा कृत्वा**
&उभौ&:
विजयतां कौरवेश्वरः ।
&दुर्योधनः&:
*दृष्ट्वा**
अये कथं कृपो ऽश्वत्थामा च* ।आसनादवतीर्य कृपं प्रति**
गुरो अभिवादये* ।अश्वत्थामानमुद्दिश्य**
आचार्यपुत्र
वेर्से_3.29
एह्यस्मदर्थहततात परिष्वजस्व $ क्लान्तैरिदं मम निरन्तरमङ्गमङ्गैः &
स्पर्शस्तवैष भुजयोः सदृशः पितुस्ते ē̃ शोके ऽपि यो विकृतिमेति तनूरुहेषु ॥ 3.29 ॥
*आलिङ्ग्य पार्श्व उपवेशयति । अश्वत्थामा बाष्पमुत्सृजति**
&कर्णः&:
द्रौणायन अलमत्यर्थमात्मानं शोकानले प्रक्षिप्य ।
&दुर्योधनः&:
आचार्यपुत्र को विशेष आवयोरस्मिन्व्यसनमहार्णवे । पश्य ।
वेर्से_3.30
तातस्तव प्रणयवान्स पितुः सखा मे $ शस्त्रे यथा तव गुरुः स तथा ममापि &
किं तस्य देहनिधने कथयामि दुःखं ē̃ जानीहि तद्गुरुशुचा मनसा त्वमेव ॥ 3.30 ॥
&कृपः&:
वत्स यथाह कुरुपतिस्तथैवैतत् ।
&अश्वत्थामा&:
राजन्नेवं पक्षपातिनि त्वयि युक्तमेव शोकभारं लघूकर्तुम् । किं तु
वेर्से_3.31
मयि जीवति मत्तातः केशग्रहणमवाप्तवान् ।
कथमन्ये करिष्यन्ति पुत्रेभ्यः पुत्रिणः स्पृहाम् ॥ 3.31 ॥
&कर्णः&:
द्रौणायन किमत्र क्रियते यदा तेनैव सर्वपरिभवत्राणहेतुना शस्त्रमुत्सृजता तादृशीमवस्थामात्मा नीतः ।
&अश्वत्थामा&:
अङ्गराज किमाह भवान्किमत्र क्रियत इति । श्रूयतां यत्क्रियते ।
वेर्से_3.32
यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां $ यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा &
यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः ē̃ क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्यान्तको ऽहम् ॥ 3.32 ॥
अपि च भो जामदग्न्यशिष्य कर्ण
वेर्से_3.33
देशः सो ऽयमरातिशोणितजलैर्यस्मिन्ह्रदाः पूरिताः $ क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः &
तान्येवाहितशस्त्रघस्मरगुरूण्यस्त्राणि भास्वन्ति मे ē̃ यद्रामेण कृतं तदेव कुरुते द्रौणायनः क्रोधनः ॥ 3.33 ॥
&दुर्योधनः&:
आचार्यपुत्र तस्य तथाविधस्यानन्यसाधारणस्य ते वीरभावस्य किमन्यत्सदृशम् ।
&कृपः&:
राजन्सुमहान्खलु द्रोणपुत्रेण वोढुमध्यवसितः समरभारः । तदहमेवं मन्ये । भवता कृतपरिकरो ऽयमुच्छेत्तुं लोकत्रयमपि समर्थः किं पुनर्युधिष्ठिरबलम् । अतो ऽभिषिच्यतां सैनापत्ये ।
&दुर्योधनः&:
सुष्ठु युज्यमानमभिहितं युष्माभिः । किं तु प्राक्प्रतिपन्नो ऽयमर्थो ऽङ्गराजस्य ।
&कृपः&:
राजन्नसदृशपरिभवशोकसागरे निमज्जन्तमेनमङ्गराजस्यार्थे नैवोपेक्षितुं युक्तम् । अस्यापि तदेवारिकुलमनुशासनीयम् । अतः किमस्य पीडा न भविष्यति ।
&अश्वत्थामा&:
राजन्कौरवेश्वर किमद्यापि युक्तायुक्तविचारणया ।
वेर्से_3.34
प्रयत्नपरिबोधितः स्तुतिभिरद्य शेषे निशा- $ मकेशवमपाण्डवं भुवनमद्य निःसोमकम् &
इयं परिसमाप्यते रणकथाद्य दोःशालिना ē̃ व्यपैतु नृपकाननातिगुरुरद्य भारो भुवः ॥ 3.34 ॥
&कर्णः&:
*विहस्य**
वक्तुं सुकरमिदं दुष्करमध्यवसातुम् । बहवः कौरवबले ऽस्य कर्मणः शक्ताः ।
&अश्वत्थामा&:
अङ्गराज एवमिदम् । बहवः कौरवबले ऽत्र शक्ताः । किं तु दुःखोपहतः शोकावेशवशाद्ब्रवीमि न पुनर्वीरजनाधिक्षेपेण ।
&कर्णः&:
मूढ दुःखितस्याश्रुपातः कुपितस्य चायुधद्वितीयस्य संग्रामावतरणमुचितं नैवंविधाः प्रलापाः ।
&अश्वत्थामा&:
*सक्रोधम्**
अरे रे राधागर्भभारभूत सूतापसद ममापि नामाश्वत्थाम्नो दुःखितस्याश्रुभिः प्रतिक्रियामुपदिशि न शस्त्रेण । पश्य ।
वेर्से_3.35
निर्वीर्यं गुरुशापभाषितवशात्किं मे तवेवायुधं $ संप्रत्येव भयाद्विहाय समरं प्राप्तो ऽस्मि किं त्वं यथा &
जातो ऽहं स्तुतिवंशकीर्तनविदां किं सारथीनां कुले ē̃ क्षुद्रारातिकृताप्रियं प्रतिकरोम्यस्रेण नास्त्रेण यत् ॥ 3.35 ॥
&कर्णः&:
*सक्रोधम्**
अरे रे वाचाट वृथाशस्त्रग्रहणदुर्विदग्ध बटो
वेर्से_3.36
निर्वीर्यं वा सवीर्यं वा मया नोत्सृष्टमायुधम् ।
यथा पाञ्चालभीतेन पित्रा ते बाहुशालिना ॥ 3.36 ॥
अपि च
वेर्से_3.37
सूतो वा सूतपुत्रो वा यो वा को वा भवाम्यहम् ।
दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम् ॥ 3.37 ॥
&अश्वत्थामा&:
*सक्रोधम्**
अरे रे रथकारकुलकलङ्क राधागर्भभारभूत अरे आयुधानभिज्ञ तातमप्यधिक्षिपसि । अथ वा
वेर्से_3.38
स भीरुः शूरो वा प्रथितभुजसारस्त्रिभुवने $ कृतं यत्तेनाजौ प्रतिदिनमियं वेत्ति वसुधा &
परित्यक्तं शस्त्रं कथमिति स सत्यव्रतधरः ē̃ पृथासूनुः साक्षी त्वमसि रणभीरो क्व नु तदा ॥ 3.38 ॥
&कर्णः&:
*विहस्य**
एवं भीरुरहम् । पुनर्विक्रमैकरसं तव पितरमनुस्मृत्य महान्मे संशयो जातः । अपि च रे मूढ
वेर्से_3.39
यदि शस्त्रमुज्झितमशस्त्रपाणयो $ न निवारयन्ति किमरीनुदायुधान् &
यदनेन मौलिदलने ऽप्युदासितं ē̃ सुचिरं स्त्रियेव नृपचक्रसंनिधौ ॥ 3.39 ॥
&अश्वत्थामा&:
*सक्रोधं सकम्पं च**
दुरात्मन्राजवल्लभ प्रगल्भ सूतापसद असंबद्धप्रलापिन्
वेर्से_3.40
कथमपि न निषिद्धो दुःखिना भीरुणा वा $ द्रुपदतनयपाणिस्तेन पित्रा ममाद्य &
तव भुजबलदर्पाध्मायमानस्य वामः ē̃ शिरसि चरण एष न्यस्यते वारयैनम् ॥ 3.40 ॥
*इति तथा कर्तुमुत्तिष्ठति**
&कृपदुर्योधनौ&:
गुरुपुत्र मर्षय* ।इति निवारयतः**
*अश्वत्थामा चरणप्रहारं नाटयति**
&कर्णः&:
*सक्रोधमुत्थाय खड्गमाकृष्य**
अरे दुरात्मन्वाचाल ब्रह्मबन्धो आत्मश्लाघ
वेर्से_3.41
जात्या काममवध्यो ऽसि चरणं त्विममुद्धृतम् ।
अनेन लूनं खड्गेन पतितं वेत्स्यसि क्षितौ ॥ 3.41 ॥
&अश्वत्थामा&:
अरे मूढ किं नाम जात्या काममवध्यो ऽहम् । इयं सा जातिस्त्यक्ता* ।इति यज्ञोपवीतं छिनत्ति । पुनश्च सक्रोधम्**
वेर्से_3.42
अद्य मिथ्याप्रतिज्ञो ऽसौ किरीटी क्रियते मया ।
शस्त्रं गृहाण वा त्यक्त्वा मौलौ वा रचयाञ्जलिम् ॥ 3.42 ॥
*उभावपि खड्गमाकृष्यान्यो ऽन्यं प्रहर्तुमुद्यतौ । कृपदुर्योधनौ वारयतः**
&दुर्योधनः&:
सखे आचार्यपुत्र शस्त्रग्रहणेनालम् ।
&कृपः&:
वत्स सूतपुत्र शस्त्रग्रहणेनालम् ।
&अश्वत्थामा&:
मातुल मातुल किं निवारयसि । अयमपि तातनिन्दाप्रगल्भः सूतापसदो धृष्टद्युम्नपक्षपात्येव ।
&कर्णः&:
राजन्न खल्वहं निवारयितव्यः ।
वेर्से_3.43
उपेक्षितानां मन्दानां धीरसत्त्वैरवज्ञया ।
अत्रासितानां क्रोधान्धैर्भवत्येषा विकत्थना ॥ 3.43 ॥
&अश्वत्थामा&:
राजन्मुञ्च मुञ्चैनम् । आसादयतु मद्भुजान्तरनिष्पेषसुलभमसूनामवसादनम् । अन्यच्च राजन् । स्नेहेन कार्येण वा यत्त्वमेनं ताताधिक्षेपकारिणं दुरात्मानं मत्तः परिरक्षितुमिच्छसि तदुभयमपि वृथैव । पश्य ।
वेर्से_3.44
पापप्रियस्तव कथं गुणिनः सहायः $ सूतान्वयः शशधरान्वयसंभवस्य &
हन्ता किरीटिनमहं नृप मुञ्च कुर्यां ē̃ क्रोधादकर्णमपृथात्मजमद्य लोकम् ॥ 3.44 ॥
*इति प्रहर्तुमिच्छति**
&कर्णः&:
*खड्गमुद्यम्य**
अरे वाचाट ब्राह्मणाधम अयं न भवसि । राजन्मुञ्च मुञ्च । न खल्वहं वारयितव्यः* ।हन्तुमिच्छति**
*दुर्योधनकृपौ निवारयतः**
&दुर्योधनः&:
कर्ण गुरुपुत्र को ऽयमद्य युवयोर्व्यामोहः ।
&कृपः&:
वत्स अन्यदेव प्रस्तुतमन्यत्रावेग इति को ऽयं व्यामोहः । स्वबलव्यसनं चेदमस्मिन्काले राजकुलस्यास्य युष्मत्त एव भवतीति वामः पन्थाः ।
&अश्वत्थामा&:
मातुल न लभ्यते ऽस्य कटुप्रलापिनो रथकारकुलकलङ्कस्य दर्पः शातयितुम् ।
&कृपः&:
वत्स अकालः खलु स्वबलप्रधानविरोधस्य ।
&अश्वत्थामा&:
मातुल यद्येवम्
वेर्से_3.45
अयं पापो यावन्न निधनमुपेयादरिशरैः $ परित्यक्तं तावत्प्रियमपि मयास्त्रं रणमुखे &
बलानां नाथे ऽस्मिन्परिकुपितभीमार्जुनभये ē̃ समुत्पन्ने राजा प्रियसखबलं वेत्तु समरे ॥ 3.45 ॥
*इति खड्गमुत्सृजति**
&कर्णः&:
*विहस्य**
कुलक्रमागतमेवैतद्भवादृशां यदस्त्रपरित्यागो नाम ।
&अश्वत्थामा&:
ननु रे अपरित्यक्तमपि भवादृशैरायुधं चिरपरित्यक्तमेव निष्फलत्वात् ।
&कर्णः&:
अरे मुढ
वेर्से_3.46
धृतायुधो यावदहं तावदन्यैः किमायुधैः ।
यद्वा न सिद्धमस्त्रेण मम तत्केन सेत्स्यति ॥ 3.46 ॥
*नेपथ्ये**
आः दुरात्मन्द्रौपदीकेशाम्बराकर्षणमहापातकिन्धार्तराष्ट्रापसद चिरस्य खलु कालस्य मत्संमुखमागतो ऽसि । क्षुद्रपशो क्वेदानीं गम्यते । अपि च भो भो राधेयदुर्योधनसौबलप्रभृतयः पाण्डवविद्वेषणश्चापपाणयो मानधनाः शृण्वन्तु भवन्तः ।
वेर्से_3.47
स्पृष्टा येन शिरोरुहे नृपशुना पाञ्चालराजात्मजा $ येनास्याः परिधानमप्यपहृतं राज्ञां गुरूणां पुरः &
यस्योरःस्थलशोणितासवमहं पातुं प्रतिज्ञातवा- ē̃ न्सो ऽयं मद्भुजपञ्जरे निपतितः संरक्ष्यतां कौरवः ॥ 3.47 ॥
*सर्व आकर्णयन्ति**
&अश्वत्थामा&:
*सोत्प्रासम्**
अङ्गराज सेनापते जामदग्न्यशिष्य द्रोणोपहासिन्भुजबलपरिरक्षितसकललोक* ।धृतायुध इति पठित्वा**
इदं तदासन्नतरमेव संवृत्तम् । रक्षैनं सांप्रतं भीमाद्दुःशासनम् ।
&कर्णः&:
आः का शक्तिर्वृकोदरस्य मयि जीवति दुःशासनस्य छायामप्याक्रमितुम् । युवराज न भेतव्यं न भेतव्यम् । अयमहमागतो ऽस्मि* ।इति निष्क्रान्तः**
&अश्वत्थामा&:
राजन्कौरवनाथ अभीष्मद्रोणं संप्रति कौरवबलमालोडयन्तौ भीमार्जुनौ राधेयेनैवंविधेनान्येन वा न शक्येते निवारयितुम् । अतः स्वयमेव भ्रातुः प्रतीकारपरो भव ।
&दुर्योधनः&:
आः शक्तिरस्ति दुरात्मनः पवनतनयस्यान्यस्य वा मयि जीवति शस्त्रपाणौ वत्सस्य छायामप्याक्रमितुम् । वत्स न भेतव्यं न भेतव्यम् । कः को ऽत्र भोः । रथमुपनय* ।इति निष्क्रान्तः**
*नेपथ्ये कलकलः**
&अश्वत्थामा&:
*अग्रतो विलोक्य**
मातुल हा धिक्कष्टम् । एष खलु भ्रातुः प्रतिज्ञाभङ्गभीरुः किरीटी समं दुर्योधनराधेयौ शरवर्षैर्दुर्वारैरभिद्रवति । सर्वथा पीतं दुःशासनशोणितं भीमेन । न खलु विषहे दुर्योधनानुजस्यैनां विपत्तिमवलोकयितुम् । अनृतमनुमतं नाम । मातुल शस्त्रं शस्त्रम् ।
वेर्से_3.48
सत्यादप्यनृतं श्रेयो धिक्स्वर्गं नरको ऽस्तु मे ।
भीमाद्दुःशासनं त्रातुं त्यक्तमत्यक्तमायुधम् ॥ 3.48 ॥
*इति खड्गं ग्रहीतुमिच्छति**
*नेपथ्ये**
महात्मन्भारद्वाजसूनो न खलु सत्यवचनमनुल्लङ्घितपूर्वमुल्लङ्घयितुमर्हसि ।
&कृपः&:
वत्स अशरीरिणी भारती भवन्तमनृतादभिरक्षति ।
&अश्वत्थामा&:
कथमियममानुषी वाग्नानुमनुते संग्रामावतरणं मम । भोः कष्टम् । आः पक्षपातिनो देवा अपि पाण्डवानाम् । सर्वथा पीतं दुःशासनशोणितं भीमेन । भोः कष्टं कष्टम् ।
वेर्से_3.49
दुःशासनस्य रुधिरे पीयमाने ऽप्युदासितम् ।
दुर्योधनस्य कर्तास्मि किमन्यत्प्रियमाहवे ॥ 3.49 ॥
मातुल राधेयक्रोधवशादनार्यमस्माभिराचरितम् । अतस्त्वमपि तावदस्य राज्ञः पार्श्ववर्ती भव ।
&कृपः&:
गच्छाम्यहमत्र प्रतिविधातुम् । भवानपि शिबिरसंनिवेशमेव प्रतिष्ठताम् ।
*परिक्रम्य निष्क्रान्तौ**
इति तृतीयो ऽङ्कः ।
अच्त्_4
चतुर्थो ऽङ्कः ।
*ततः प्रविशति प्रहारमूर्च्छितं रथस्थं दुर्योधनमपहरन्सूतः । सूतः ससंभ्रमं परिक्रामति**
*नेपथ्ये**
भो भो बाहुबलावलेपप्रवर्तितमहासमरदोहदाः कौरवपक्षपातपणीकृतप्राणद्रविणसंचया नरपतयः संस्तभ्यन्तां संस्तभ्यन्तां निहतदुःशासनपीतावशेषशोणितस्नपितबीभत्सवेषवृकोदरदर्शनभयपरिस्खलत्प्रहरणानि रणात्द्रवन्ति बलानि ।
&सूतः&:
*विलोक्य**
कथमेष धवलचपलचामरचुम्बितकनककमण्डलुना शिखरावबद्धवैजयन्तीसूचितेन हतगजवाजिनरकलेवरसहस्रसंमर्दविषमोद्घातकृतकलकलकिङ्किणीजालमालिना रथेन शरवर्षस्तम्भितपरबलपराक्रमप्रसरः प्रद्रुतमात्मबलमाश्वासयन्कृपः किरीटिनाभियुक्तमङ्गराजमनुसरति । हन्त जातमस्मद्बलानामवलम्बनम् ।
*नेपथ्ये कलकलानन्तरम्**
भो भोः अस्मद्दर्शनभयस्खलितकार्मुककृपाणतोमरशक्तयः कौरवचमूभटाः पाण्डवपक्षपातिनश्च योधाः न भेतव्यं न भेतव्यम् । अयमहं निहतदुःशासनपीवरोरःस्थलक्षतजासवपानमदोद्धतो रभसगामी स्तोकावशिष्टप्रतिज्ञामहोत्सवः कौरवराजस्य द्यूतनिर्जितो दासः पार्थमध्यमो भीमसेनः सर्वान्भवतः साक्षीकरोमि । श्रूयताम् ।
वेर्से_4.1
राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः $ प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च &
पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः ē̃ कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग्वक्षसः ॥ 4.1 ॥
&सूतः&:
*श्रुत्वा सभयम्**
अये आसन्न एव दुरात्मा कौरवराजपुत्रमहावनोत्पातमारुतो मारुतिः । अनुपलब्धसंज्ञश्च तावदत्र महाराजः । भवतु । सुदूरमपहरामि स्यन्दनम् । कदाचिद्दुःशासन इवास्मिन्नप्ययमनार्यो ऽनार्यमाचरिष्यति* ।त्वरिततरं परिक्रम्यावलोक्य च**
अये अयमसौ सरसीसरोजविलोलनसुरभिशीतलमातरिश्वसंवाहितसान्द्रकिसलयो न्यग्रोधपादपः । उचिता विश्रामभूरियं समरव्यापारखिन्नस्य वीरजनस्य । अत्र स्थितश्चायाचिततालवृन्तेन हरिचन्दनच्छटाशीतलेनाप्रयत्नसुरभिणा दशापरिणामयोग्येन सरसीसमीरणेनामुना गतक्लमो भविष्यति महाराजः । लूनकेतुश्चायं रथो ऽनिवारित एव प्रवेक्ष्यति च्छायाम्* ।इति प्रवेशं रूपयित्वा**
कः को ऽत्र भोः* ।समन्तादवलोक्य**
कथं न कश्चिदत्र परिजनः । नूनं तथाविधस्य वृकोदरस्य दर्शनादेवंविधस्य च स्वामिनस्त्रासेन शिबिरसंनिवेशमेव प्रविष्टः । कष्टं भोः कष्टम् ।
वेर्से_4.2
दत्त्वा द्रोणेन पार्थादभयमपि न संरक्षितः सिन्धुराजः $ क्रूरं दुःशासने ऽस्मिन्हरिण इव कृतं भीमसेनेन कर्म &
दुःसाध्यामप्यरीणां लघुमिव समरे पूरयित्वा प्रतिज्ञां ē̃ नाहं मन्ये सकामं कुरुकुलविमुखं दैवमेतावतापि ॥ 4.2 ॥
*राजानमवलोक्य**
कथमद्यापि न चेतनां लभते महाराजः । भोः कष्टम्* ।निःश्वस्य**
वेर्से_4.3
मदकलितकरेणुभज्यमाने $ विपिन इव प्रकटैकशालशेषे &
हतसकलकुमारके कुले ऽस्मिं- ē̃ स्त्वमपि विधेरवलोकितः कटाक्षैः ॥ 4.3 ॥
ननु भो हतविधे भरतकुलविमुख
वेर्से_4.4
अक्षतस्य गदापाणेरनारूढस्य संशयम् ।
एषापि भीमसेनस्य प्रतिज्ञा पूर्यते त्वया ॥ 4.4 ॥
&दुर्योधनः&:
*शनैरुपलब्धसंज्ञः**
आः शक्तिरस्ति दुरात्मनो वृकोदरहतकस्य मयि जीवति दुर्योधने प्रतिज्ञां पूरयितुम् । वत्स दुःशासन न भेतव्यं न भेतव्यम् । अयमहमागतो ऽस्मि । ननु सूत प्रापय रथं तमेवोद्देशं यत्र वत्सो मे दुःशासनः ।
&सूतः&:
आयुष्मन्नक्षमाः संप्रति वाहास्ते रथमुद्वोढुम्* ।अपवार्य**
मनोरथं च ।
&दुर्योधनः&:
*रथादवतीर्य सगर्वं साकूतं च**
कृतं स्यन्दनगमनकालातिपातेन ।
&सूतः&:
*सवैलक्ष्यं सकरुणं च**
मर्षयतु मर्षयत्वायुष्मान् ।
&दुर्योधनः&:
धिक्सूत किं रथेन । केवलमरातिविमर्दसंघट्टसंचारी दुर्योधनः खल्वहम् । तद्गदामात्रसहायः समरभुवमवतरामि ।
&सूतः&:
आयुष्मन्नेवमेतत् । कः संदेहः ।
&दुर्योधनः&:
यद्येवं किमेवं भाषसे । पश्य ।
वेर्से_4.5
बालस्य मे प्रकृतिदुर्ललितस्य पापः $ पापं व्यवस्यति समक्षमुदायुधो ऽसौ &
अस्मिन्निवारयसि किं व्यवसायिनं मां ē̃ क्रोधो न नाम करुणा न च ते ऽस्ति लज्जा ॥ 4.5 ॥
&सूतः&:
*सकरुणं पादयोर्निपत्य**
एतद्विज्ञापयामि । आयुष्मन्संपूर्णप्रतिज्ञेन निवृत्तेन भवितव्यमिदानीं दुरात्मना वृकोदरहतकेन । अत एवं ब्रवीमि ।
&दुर्योधनः&:
*सहसा भूमौ पतन्**
हा वत्स दुःशासन हा मदाज्ञाविरोधितपाण्डव हा विक्रमैकरस हा मदङ्कदुर्ललित हा अरातिकुलगजघटामृगेन्द्र हा युवराज क्वासि । प्रयच्छ मे प्रतिवचनम्* ।इति निःश्वस्य मोहमुपगतः**
&सूतः&:
राजन्समाश्वसिहि समाश्वसिहि ।
&दुर्योधनः&:
*संज्ञां लब्ध्वा । निःश्वस्य**
वेर्से_4.6
मुक्तो यथेष्टमुपभोगसुखेषु नैव $ त्वं लालितो ऽपि हि मया न वृथाग्रजेन &
अस्यास्तु वत्स तव हेतुरहं विपत्ते- ē̃ र्यत्कारितो ऽस्यविनयं न च रक्षितो ऽसि ॥ 4.6 ॥
*इति पतति**
&सूतः&:
आयुष्मन्समाश्वसिहि समाश्वसिहि ।
&दुर्योधनः&:
धिक्सूत किमनुष्ठितं भवता ।
वेर्से_4.7
रक्षणीयेन सततं बालेनाज्ञानुवर्तिना ।
दुःशासनेन भ्रात्राहमुपहारेण रक्षितः ॥ 4.7 ॥
&सूतः&:
महाराज मर्मभेदिभिरिषुतोमरशक्तिप्रासवर्षैर्महारथानामपहृतचेतनत्वान्निश्चेष्टः कृतो महाराज इत्यपहृतो मया रथः ।
&दुर्योधनः&:
सूत विरूपं कृतवानसि ।
वेर्से_4.8
तस्यैव पाण्डवपशोरनुजद्विषो मे $ क्षोदैर्गदाशनिकृतैर्न विबोधितो ऽस्मि &
तामेव नाधिशयितो रुधिरार्द्रशय्यां ē̃ दौःशासनीं यदहमाशु वृकोदरो वा ॥ 4.8 ॥
*निश्वस्य नभो विलोक्य**
ननु भो हतविधे कृपाविरहित भरतकुलविमुख
वेर्से_4.9
अपि नाम भवेन्मृत्युर्न च हन्ता वृकोदरः ।
&सूतः&:
शान्तं पापं शान्तं पापम् । महाराज किमिदम् ।
&दुर्योधनः&:
वेर्से_4.9
घातिताशेषबन्धोर्मे किं राज्येन जयेन वा ॥ 4.9 ॥
*ततः प्रविशति शरप्रहारव्रणबद्धपट्टिकालंकृतकायः सुन्दरकः**
&सुन्दरकः&:
{प्क्त्_102}अज्जा अबि णाम इमस्सिं उद्देसे सारहिदुदीओ दिट्ठो तुम्हेहिं महाराअदुज्जोहणो ण वेत्ति *निरूप्य**
कहं ण को बि मन्तेदि । होदु । एदाणं बद्धपरिअराणं पुरिसाणं समूहो दीसै । एत्थ गदुअ पुच्छिस्सं* ।परिक्रम्य विलोक्य च**
कहं एदे क्खु सस्सामिणो गाढप्पहारहदस्स घणसंणाहजालदुब्भेज्जमुहेहिं कङ्कवदणेहिं हिअआदो सल्लाइं उद्धरन्ति । ता ण क्खु एदे जाणन्ति । होदु । अण्णदो विचिणैस्सं* ।अग्रतो ऽवलोक्य किंचित्परिक्रम्य**
इमे क्खु अबरे पहूददरा संगदा वीरमणुस्सा दीसन्ति । ता एत्थ गदुअ पुच्छिस्सं* ।उपगम्य**
हंहो जाणह तुम्हे कस्सिं उद्देसे कुरुणाहो वट्टै त्ति* ।दृष्ट्वा**
कहं एदे बि मं पेक्खिअ अहिअदरं रोअन्ति । ता ण हु एदे बि जाणन्ति । हा अदिकरुणं क्खु एत्थ वट्टै । एसा वीरमादा समलविणिहदं पुत्तअं सुणिअ रत्तंसुअणिवसणाए समग्गभूसणाए वहूए सह अणुमरदि* ।सश्लाघम्**
साहु वीरमादे साहु । अण्णस्सिं बि जम्मन्तरे अणिहदपुत्तआ हुविस्ससि । होदु । अण्णदो विचिणैस्सं* ।अन्यतो विलोक्य**
अअं अबरो बहुप्पहारणिहदकाओ अकिदव्वणप्पडीआरो एव्व जोहसमूहो इमं सुण्णासणं तुलंगमं उबालहिअ रोइदि । णूणं एदाणं एत्थ एव्व सामी वाबादिदो । ता ण हु एदे बि जाणन्ति । होदु । अण्णदो गदुअ पुच्छिस्सं* ।सर्वतो विलोक्य**
कहं सव्वो एव्व अवत्थाणुरूबं विसणं अणुहवन्तो भाअधेअविमुहदाए पज्जाउलो जणो । ता कं एत्थ पुच्छिस्सं । कं वा उबालहिस्सं । होदु । सअं एव्व एत्थ विचिणैस्सं* ।परिक्रम्य**
होदु । देव्वं दाणीं उबालहिस्सं । हंहो देव्व एआदसाणं अक्खोहिणीणं णाहो जेट्ठो भादुसदस्स भत्ता गङ्गेअद्दोणङ्गराअसल्लकिबकिदवम्मस्सत्थामप्पमुहस्स राअचक्कस्स सअलपहुवीमण्डलेक्कणाहो महाराअदुज्जोहणो बि अण्णेसीअदि । अण्णेसीअन्तो बि ण जाणीअदि कस्सिं उद्देसे वट्टै त्ति* ।विचिन्त्य निःश्वस्य च**
अह वा किं एत्थ देव्वं उबालहामि । तस्स क्खु एदं णिब्भच्छिअविउरवअणवीअस्स अवहीरिदपिदामहहिदोबदेसङ्कुरस्स सौणिप्पोच्छाहणादिविरूढमूलस्स जदुगेहजूदविससाहिणो संभूदचिरआलसंबद्धवेरालवालस्स पञ्चालीकेसग्गहणकुसुमस्स फलं परिणमदि* ।अन्यतो विलोक्य**
जहा एत्थ एसो विविहरअणप्पहासंवलिदसूरकिरणप्पसूदसक्कचाबसहस्ससंपूरिददसदिसामुहो लूणकेदुवंसो रहो दीसै ता अहं तक्केमि अवस्सं एदिणा महाराअदुज्जोहणस्स विस्सामुद्देसेण होदव्वं । जाव णिरूबेमि* ।उपगम्य दृष्ट्वा निश्वस्य च**
कधं एआदसाणं अक्खोहिणीणं णाअको भविअ महाराओ दुज्जोहणो पाइदपुरिसो विअ असलाहणीए भूमिए उपविट्ठो चिट्ठदि । अथ वा तस्स क्खु एदं पञ्चालीकेसग्गहकुसुमस्स फलं परिणमदि ।
स्क्त्छ्_102: आर्याः अपि नामास्मिन्देशे सारथिद्वितीयो दृष्टो युष्माभिर्महाराजदुर्योधनो न वेति । कथं न को ऽपि मन्त्रयते । भवतु । एतेषां बद्धपरिकराणां पुरुषाणां समूहो दृश्यते । अत्र गत्वा प्रक्ष्यामि । कथमेते खलु स्वस्वामिनो गाढप्रहारहतस्य घनसंनाहजालदुर्भेद्यमुखैः कङ्कवदनैर्हृदयाच्छल्यान्युद्धरन्ति । तन्न खल्वेते जानन्ति । भवतु । अन्यतो विचेष्यामि । इमे खल्वपरे प्रभूततराः संगता वीरमनुष्या दृश्यन्ते । तदत्र गत्वा प्रक्ष्यामि । हंहो जानीथ यूयं कस्मिन्नुद्देशे कुरुनाथो वर्तत इति । कथमेते ऽपि मां प्रेक्ष्याधिकतरं रुदन्ति । तन्न खल्वेते ऽपि जानन्ति । हा अतिकरुणं खल्वत्र वर्तते । एषा वीरमाता समरविनिहतं पुत्रकं श्रुत्वा रक्तांशुकनिवसनया समग्रभुषणया वध्वा सहानुम्रियते । साधु वीरमातः साधु । अन्यस्मिन्नपि जन्मान्तरे ऽनिहतपुत्रका भविष्यसि । भवतु । अन्यतो विचेष्यामि । अयमपरो बहुप्रहारनिहतकायो ऽकृतव्रणबन्ध एव योधसमूह इमं शून्यासनं तुरंगममुपालभ्य रोदिति । नूनमेतेषामत्रैव स्वामी व्यापादितः । तन्न खल्वेते ऽपि जानन्ति । भवतु । अन्यतो गत्वा प्रक्ष्यामि । कथं सर्व एवावस्थानुरूपं व्यसनमनुभवन्भागधेयविमुखतया पर्याकुलो जनः । तत्कमत्र प्रक्ष्यामि । कं वोपालप्स्ये । भवतु । स्वयमेवात्र विचेष्यामि । भवतु । दैवमिदानीमुपालप्स्ये । हंहो दैव एकादशानामक्षौहिणीनां नाथो ज्येष्ठो भ्रातृशतस्य भर्ता गाङ्गेयद्रोणाङ्गराजशल्यकृपकृतवर्माश्वत्थामप्रमुखस्य राजचक्रस्य सकलपृथ्वीमण्डलैकनाथो महाराजदुर्योधनो ऽप्यन्विष्यते । अन्विष्यमाणो ऽपि न ज्ञायते कस्मिन्नुद्देशे वर्तत इति । अथ वा किमत्र दैवमुपालभे । तस्य खल्विदं
निर्भर्त्सितविदुरवचनबीजस्यावधीरितपितामहहितोपदेशाङ्कुरस्य शकुनिप्रोत्साहनादिविरूढमूलस्य जतुगृहद्यूतविषशाखिनः संभूतचिरकालसंबद्धवैरालवालस्य पाञ्चालीकेशग्रहणकुसुमस्य फलं परिणमति । यथात्रैव विविधरत्नप्रभासंवलितसूर्यकिरणप्रसूतशक्रचापसहस्रसंपूरितदशदिशामुखो लूनकेतवंशो रथो दृश्यते तथाहं तर्कयाम्यवश्यमेतेन महाराजदुर्योधनस्य विश्रामोद्देशेन भवितव्यमिति । यावन्निरूपयामि । कथमेकादशानामक्षौहिणीनां नायको भूत्वा महाराजो दुर्योधनः प्राकृतपुरुष इवाश्लाघनीयायां भूमावुपवष्टस्तिष्ठति । अथ वा तस्य खल्विदं पाञ्चालीकेशग्रहकुसुमस्य फलं परिणमति ।
*उपसृत्य सूतं संज्ञया पृच्छति**
&सूतः&:
*दृष्ट्वा**
अये कथं संग्रामात्सुन्दरकः प्राप्तः ।
&सुन्दरकः&:
{प्क्त्_103}*उपगम्य**
जेदु जेदु महाराओ ।
स्क्त्छ्_103: जयतु जयतु महाराजः ।
&दुर्योधनः&:
*विलोक्य**
अये सुन्दरकः । सुन्दरक कच्चित्कुशलमङ्गराजस्य ।
&सुन्दरकः&:
{प्क्त्_104}देव कुसलं सरीरमेत्तेण ।
स्क्त्छ्_104: देव कुशलं शरीरमात्रेण ।
&दुर्योधनः&:
*ससंभ्रमम्**
सुन्दरक किं किरीटिनास्य निहता धौरेया हतः सारथिर्भग्नो वा रथः ।
&सुन्दरकः&:
{प्क्त्_105}देव ण भग्गो रहो । से मणोरहो बि ।
स्क्त्छ्_105: देव न भग्नो रथः । अस्य मनोरथो ऽपि ।
&दुर्योधनः&:
*सरोषम्**
किमविस्पष्टकथितैराकुलमपि पर्याकुलयसि मे हृदयम् । तदशेषतो विस्पष्टं कथ्यताम् ।
&सुन्दरकः&:
{प्क्त्_106}जं देवो आणबेदि । अए देवस्स मुउडमणिप्पहावेण अबणीदा मे रणप्पहारवेअणा* ।इति साटोपं परिक्रम्य**
सुणादु देवो । अत्थि दाणिं कुमालदुस्सासणवह* ।इत्यर्धोक्ते मुखमाच्छाद्य शङ्कां नाटयति**
स्क्त्छ्_106: यद्देव आज्ञापयति । अये देवस्य मुकुटमणिप्रभावेणापनीता मे रणप्रहारवेदना । शृणोतु देवः । अस्तीदानीं कुमारदुःशासनवध ।
&सूतः&:
सुन्दरक कथय । कथितमेव दैवेन ।
&दुर्योधनः&:
कथ्यताम् । श्रुतमस्माभिः ।
&सुन्दरकः&:
{प्क्त्_107}सणादु देवो । अज्ज दाव कुमालदुस्सासणवहामरिसिदेण सामिणा अङ्गराएण कुडिलभिउडीभङ्गभीसणणिडलबट्टेण अविण्णादसंधाणमोक्खसिलीमुहसंघादवरिसिणा अभिजुत्तो सो दुराआरो मज्झमपण्डवो भीमसेणहदओ ।
स्क्त्छ्_107: शृणोतु देवः । अद्य तावत्कुमारदुःशासनवधामर्षितेन स्वामिनाङ्गराजेन कुटिलभ्रुकुटीभङ्गभीषणनिटलपट्टेनाविज्ञातसंधानमोक्षशिलीमुखसंघातवर्षिणाभियुक्तः स दुराचारो मध्यमपाण्डवो भीमसेनहतकः ।
&उभौ&:
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_108}तदो देव उहअबलमिलन्तदिप्पन्तकरितुरअपदादिसमुब्भूदधूलिणिअरेण पल्लत्थगअघडासंघादेण अ वित्थरन्तेण अन्धआरेण अन्धीकिदं उहअबलं । ण हु गगणतलं लक्खीअदि ।
स्क्त्छ्_108: ततो देव उभयबलमिलद्दीप्यमानकरितुरगपदातिसमुद्भूतधूलिनिकरेण पर्यस्तगजघटासंघातेन च विस्तीर्णमानेनान्धकारेणान्धीकृतमुभयबलम् । न खलु गगनतलं लक्ष्यते ।
&उभौ&:
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_109}तदो देव दूराकट्ठिअधणुग्गुणाच्छोडणटंकारेण गम्भीरभीसणेण जाणीअदि गज्जिदं पलअजलहरेण त्ति ।
स्क्त्छ्_109: ततो देव दूराकृष्टधनुर्गुणाच्छोटनटंकारेण गम्भीरभीषणेन ज्ञायते गर्जितं प्रलयजलधरेणेति ।
&दुर्योधनः&:
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_110}तदो देव दोण्णं बि ताणं अण्णोण्णसिंहणादगज्जिदपिसुणं विविहपरिमुक्कप्पहरणाहदकवअसंगलिदज्जलणविज्जुच्छडाभासुरं गम्भीरत्थणिअचापजलहरं प्पसरन्तसरधारासहस्सवरिसं जादं समरदुद्दिणं ।
स्क्त्छ्_110: ततो देव द्वयोरपि तयोरन्यो ऽन्यसिंहनादगर्जितपिशुनं विविधपरिमुक्तप्रहरणाहतकवचसंगलितज्वलनविद्युच्छटाभासुरं गम्भीरस्तनितचापजलधरं प्रसरच्छरधारासहस्रवर्षि जातं समरदुर्दिनम् ।
&दुर्योधनः&:
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_111}तदो अ देव एदस्सिं अन्तरे जेट्ठस्स भादुणो पराभवसङ्किणा धणंजएण वज्जणिग्घादणिग्घोसविसमरसिदधअअग्गट्ठिदमहावाणरो तुरंगमसंवाहणवापिदवासुदेवसङ्खचक्कासिगदालञ्छिदचौब्बाहुदण्डदुद्दंसणो आपूरिअपञ्चजण्णदेअदत्तताररसिदप्पडिरवभरिददसदिसामुहकुहरो धाविदो तं उद्देसं रहवरो ।
स्क्त्छ्_111: ततश्च देव एतस्मिन्नन्तरे ज्येष्ठस्य भ्रातुः पराभवशङ्किना धनंजयेन वज्रनिर्घातनिर्घोषविषमरसितध्वजाग्रस्थितमहावानरस्तुरंगमसंवाहनव्यापृतवासुदेवशङ्खचक्रासिगदालाञ्छितचतुर्बाहुदण्डदुर्दर्शन आपूरितपाञ्चजन्यदेवदत्तताररसितप्रतिरवभरितदशदिशामुखकुहरो धावितस्तमुद्देशं रथवरः ।
&दुर्योधनः&:
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_112}तदो भीमसेणधनंजएहिं अभिजुत्तं पिदरं पेक्खिअ ससंभमं विअलिअं अवधूणिअ रअणसीसअं आकण्णाकट्ठिदकठिणकोदण्डजीओ दाहिणहत्थुक्खित्तसरपुङ्खविघट्टणतुवराइदसारहिओ तं देसं उबगदो कुमालविससेणो ।
स्क्त्छ्_112: ततो भीमसेनधनंजयाभ्यामभियुक्तं पितरं प्रेक्ष्य ससंभ्रमं विगलितमवधूय रत्नशीर्षकमाकर्णाकृष्टकठिनकोदण्डजीवः दक्षिणहस्तोत्क्षिप्तशरपुङ्खविघट्टनत्वरितसारथिस्तं देशमुपगतः कुमारवृषसेनः ।
&दुर्योधनः&:
*सावष्ठम्भम्**
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_113}तदो अ देव तेण आअच्छन्तेण एव्व कुमालविससेणेण विदलिदासिलदासामलसिणिद्धपुङ्खेहिं कठिणकङ्कबत्तेहिं किसणवण्णेहिं साणसिलाणिसिदसामलसल्लबन्धेहिं कुसुमिदो विअ तरू मुहुत्तएण सिलीमुहेहिं पच्छादिदो धणंजअस्स रहवरो ।
स्क्त्छ्_113: ततश्च देव तेनागच्छतैव कुमारवृषसेनेन विदलितासिलताश्यामलस्निग्धपुङ्खैः कठिनकङ्कपत्रैः कृष्णवर्णैः शाणशिलानिशितश्यामलशल्यबन्धैः कुसुमित इव तरुर्मुहूर्तेन शिलीमुखैः प्रच्छादितो धनंजयस्य रथवरः ।
&उभौ&:
*सहर्षम्**
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_114}तदो देव तिक्खविक्खित्तणिसिदभल्लबाणवरिसिणा धणंजएण ईसि विहसिअ भणिदं । अरे रे विससेण पिदुणो बि दाव दे ण जुत्तं मह कुबिदस्स अभिमुहं ठादुं । किं उण भवदो बालस्स । ता गच्छ । अबरेहिं कुमारेहिं सह आओधेहि त्ति । एव्वं वाअं णिसमिअ गुरअणाहिक्खेबेण उद्दीबिअकोबोबरत्तमुहमण्डलविअम्भिअभिउडीभङ्गभीसणेण चाबधारिणा कुमालविससेणेण बि मम्मभेदएहिं परुसविसमेहिं सुदिवहकिदप्पणएहिं णिब्भच्छिदो गण्डीवी बाणेहिं ण उण दुट्ठवअणेहिं ।
स्क्त्छ्_114: ततो देव तीक्ष्णविक्षिप्तनिशितभल्लबाणवर्षिणा धनंजयेनेषद्विहस्य भणितम् । अरे रे वृषसेन पितुरपि तावत्ते न युक्तं मम कुपितस्याभिमुखं स्थातुम् । किं पुनर्भवतो बालस्य । तद्गच्छ । अपरैः कुमारैः सहायुध्यस्वेति । एवं वाचं निशम्य गुरुजनाधिक्षेपेणोद्दीपितकोपोपरक्तमुखमण्डलविजृम्भितभ्रुकुटीभङ्गभीषणेन चापधारिणा कुमारवृषसेनेनापि मर्मभेदकैः परुषविषमैः श्रुतिपथकृतप्रणयैर्निर्भर्त्सितो गाण्डीवी बाणैर्न पुनर्दुष्टवचनैः ।
&दुर्योधनः&:
साधु वृषसेन साधु । सुन्दरक ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_115}तदो देव णिसिदसराभिघादवेअणोपजादमण्णुणा किरीटिणा चण्डगण्डीवजीआसद्दणिज्जिदवज्जणिग्घादघोसेण बाणणिपदणपडिसिद्धदंसणप्पसरेण पत्थुदं सिक्खाबलाणुरूबं किं बि अच्चलिअं ।
स्क्त्छ्_115: ततो देव निशितशराभिघातवेदनोपजातमन्युना किरीटिना चण्डगाण्डीवजीवाशब्दनिर्जितवज्रनिर्घातघोषेण बाणनिपतनप्रतिषिद्धदर्शनप्रसरेण प्रस्तुतं शिक्षाबलानुरूपं किमप्याश्चर्यम् ।
&दुर्योधनः&:
*साकूतम्**
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_116}तदो अ देव तं तारिसं पेक्खिअ सत्तुणो समरव्वाबारचौरत्तणं अविभाविअतूणीरमुहधणुग्गुणगमणागमणसरसंधाणमोक्खचडुलकरअलेण कुमालविससेणेण बि सविसेसं पत्थुदं समलकम्म ।
स्क्त्छ्_116: ततश्च देव तत्तादृशं प्रेक्ष्य शत्रोः समरव्यापारचतुरत्वमविभाविततूणीरमुखधनुर्गुणगमनागमनशरसंधानमोक्षचटुलकरतलेन कुमारवृषसेनेनापि सविशेषं प्रस्तुतं समरकर्म ।
&दुर्योधनः&:
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_117}तदो देव एत्थन्तरे विमुक्कसमरव्वाबारो मुहुत्तविस्समिदवेराणुबन्धो दोणं बि कुरुराअपण्डवबलाणं साहु कुमालविससेण साहु त्ति किदकलअलो वीरलोओ अवलोइदुं पौत्तो ।
स्क्त्छ्_117: ततो देव अत्रान्तरे विमुक्तसमरव्यापारो मुहूर्तविश्रमितवैरानुबन्धो द्वयोरपि कुरुराजपाण्डवबलयोः साधु कुमारवृषसेन साध्विति कृतकलकलो वीरलोको ऽवलोकयितुं प्रवृत्तः ।
&दुर्योधनः&:
*सविस्मयम्**
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_118}तदो अ देव अवहीरिदसअलधाणुक्कचक्कपरक्कमसालिणो सुदस्स तहाविहेण समलकम्मालम्भेण हरिसरोसकरुणासंकडे वट्टमाणस्स सामिणो अङ्गराअस्स णिपडिआ सरपद्धई भीमसेणे बप्फपज्जाउला दिट्ठी कुमालविससेणे ।
स्क्त्छ्_118: ततश्च देव अवधीरितसकलधानुष्कचक्रपराक्रमशालिनः सुतस्य तथाविधेन समरकर्मारम्भेण हर्षरोषकरुणासंकटे वर्तमानस्य स्वामिनो ऽङ्गराजस्य निपतिता शरपद्धतिर्भीमसेने बाष्पपर्याकुला दृष्टिः कुमारवृषसेने ।
&दुर्योधनः&:
*सभयम्**
ततस्ततः ।
मूल पाठ: Veṇīsaṃhāra · Edition: Venisamhara: Die Ehrenrettung der Königin, Ein Drama in 6 Akten von Bhatta Narayana. Julius Grill (Ed.). Leipzig : Fues's Verlag (R. Reisland) 1871. and Venisamhara of Bhatta Narayana. Edited with the commentary of Jagaddhara by M. R. Kale. Delhi : Motilal Banarsidass 1989. · Data entry Yves Codet · GRETIL (Göttingen) · CC BY-NC-SA 4.0