वेणीसंहार · भाग 6173
{प्क्त्_167}बुद्धिमदिए वीएहि महेस्सिं इमिणा तालविन्तेण ।
स्क्त्छ्_167: बुद्धिमतिके वीजय महर्षिमनेन तालवृन्तेन ।
*चेटी तथा करोति**
&राक्षसः&:
भवति अनुचितो ऽयमस्मासु समुदाचारः ।
&युधिष्ठिरः&:
मुने कथय कथमेवं भवान्परिश्रान्तः ।
&राक्षसः&:
मुनिजनसुलभेन कौतूहलेन तत्रभवतां महाक्षत्रियाणां द्वन्द्वयुद्धमवलोकयितुं पर्यटामि समन्तपञ्चकम् । अद्य तु बलवत्तया शरदातपस्यापर्याप्तमेवावलोक्य गदायुद्धमर्जुनसुयोधनयोरागतो ऽस्मि ।
*सर्वे विषादं नाटयन्ति**
&कञ्चुकी&:
मुने न खल्वेवम् । भीमसुयोधनयोरिति कथय ।
&राक्षसः&:
आः अविदितवृत्तान्त एव कथं मामाक्षिपसि ।
&युधिष्ठिरः&:
महर्षे कथय कथय ।
&राक्षसः&:
क्षणमात्रं विश्रम्य सर्वं कथयामि भवतो न पुनरस्य वृद्धस्य ।
&युधिष्ठिरः&:
कथय किमर्जुनसुयोधनयोरिति ।
&राक्षसः&:
ननु पूर्वमेव कथितं मया प्रवृत्तं गदायुद्धमिति ।
&युधिष्ठिरः&:
न भीमसुयोधनयोरिति ।
&राक्षसः&:
वृत्तं तत् ।
*युधिष्ठिरो द्रौपदी च मोहमुपगतौ**
&कञ्चुकी&:
*सलिलेनासिच्य**
समाश्वसितु देवो देवी च ।
&चेटी&:
{प्क्त्_168}समस्ससिदु समस्ससिदु देवी ।
स्क्त्छ्_168: समाश्वसितु समाश्वसितु देवी ।
*उभौ संज्ञां लभेते**
&युधिष्ठिरः&:
किं कथयसि मुने वृत्तं भीमसुयोधनयोर्गदायुद्धमिति ।
&द्रौपदी&:
{प्क्त्_169}भअवं कहेहि कहेहि किं वुत्तं त्ति ।
स्क्त्छ्_169: भगवन्कथय कथय किं वृत्तमिति ।
&राक्षसः&:
कञ्चुकिन्कौ पुनरेतौ ।
&कञ्चुकी&:
ब्रह्मन्नेष देवो युधिष्ठिर इयमपि पाञ्चालराजतनया ।
&राक्षसः&:
आः दारुणमुपक्रान्तं मया नृशंसेन ।
&द्रौपदी&:
{प्क्त्_170}हा णाह भीमसेण* ।इति मोहमुपगता**
स्क्त्छ्_170: हा नाथ भीमसेन ।
&कञ्चुकी&:
किं नाम कथितम् ।
&चेटी&:
{प्क्त्_171}समस्ससिदु समस्ससिदु देवी ।
स्क्त्छ्_171: समाश्वसितु समाश्वसितु देवी ।
&युधिष्ठिरः&:
*सास्रम्**
ब्रह्मन्
वेर्से_6.14
पदे संदिग्ध एवास्मिन्दुःखमास्ते युधिष्ठिरः ।
वत्सस्य निश्चिते तत्त्वे प्राणत्यागादयं सुखी ॥ 6.14 ॥
&राक्षसः&:
*सानन्दमात्मगतम्**
अत्रैव मे यत्नः* ।प्रकाशम्**
यदि त्ववश्यं कथनीयं तदा संक्षेपतः कथयामि । न युक्तं बन्धुव्यसनं विस्तरेणावेदयितुम् ।
&युधिष्ठिरः&:
*अश्रूणि मुञ्चन्**
वेर्से_6.15
सर्वथा कथय ब्रह्मन्संक्षेपाद्विस्तरेण वा ।
वत्सस्य किमपि श्रोतुमेष दत्तः क्षणो मया ॥ 6.15 ॥
&राक्षसः&:
श्रूयताम् ।
वेर्से_6.16
तस्मिन्कौरवभीमयोर्गुरुगदाघोरध्वनौ संयुगे
&द्रौपदी&:
{प्क्त्_172}*सहसोत्थाय**
तदो तदो ।
स्क्त्छ्_172: ततस्ततः ।
&राक्षसः&:
*स्वगतम्**
कथं पुनरनयोर्लब्धसंज्ञतामपनयामि ।
वेर्से_6.16
सीरी सत्वरमागतश्चिरमभूत्तस्याग्रतः संगरः ।
आलम्ब्य प्रियशिष्यतां तु हलिना संज्ञा रहस्याहिता $ यामासाद्य कुरूत्तमः प्रतिकृतिं दुःशासनारौ गतः ॥ 6.16 ॥
&युधिष्ठिरः&:
हा वत्स वृकोदर* ।इति मोहमुपगतः**
&द्रौपदी&:
{प्क्त्_173}हा णाह भीमसेण हा मह परिभवपडिआरपरिच्चत्तजीविअ जडासुरबअहिडिम्बकिम्मीरकीचअजरासंधणिसूदण सोअन्धिआहरणचाडुआर देहि मे पडिवअणं* ।इति मोहमुपगता**
स्क्त्छ्_173: हा नाथ भीमसेन हा मम परिभवप्रतीकारपरित्यक्तजीवित जटासुरबकहिडिम्बकिर्मीरकीचकजरासंधनिषूदन सौगन्धिकाहरणचाटुकार देहि मे प्रतिवचनम् ।
&कञ्चुकी&:
*सास्रम्**
हा कुमार भीमसेन धार्तराष्ट्रकुलकमलिनीप्रालेयवर्ष* ।ससंभ्रमम्**
समाश्वसितु महाराजः । भद्रे समाश्वासय स्वामिनीम् । महर्षे त्वमपि तावदाश्वासय महाराजम् ।
&राक्षसः&:
*स्वगतम्**
आश्वासयामि प्राणान्परित्याजयितुम्* ।प्रकाशम्**
भो भीमाग्रज क्षणमेकमाधीयतां समाश्वासः । कथाशेषो ऽस्ति ।
&युधिष्ठिरः&:
*समाश्वस्य**
महर्षे किमस्ति कथाशेषः ।
&द्रौपदी&:
{प्क्त्_174}*प्रतिबुध्य सभयम्**
भअवं कधेहि कीदिसो कधासेसो त्ति ।
स्क्त्छ्_174: भगवन्कथय कीदृशः कथाशेष इति ।
&कञ्चुकी&:
कथय कथय ।
&राक्षसः&:
ततश्च हते तस्मिन्सुक्षत्रिये वीरसुलभां गतिमुपगते समग्रसंगलितं भ्रातृवधशोकजं बाष्पं प्रमृज्य भ्रातृवधशोकादपहाय गाण्डीवं प्रत्यग्रक्षतजच्छटाचर्चितां तामेव गदां भ्रातृहस्तादाकृष्य निवार्यमाणो ऽपि संधित्सुना वासुदेवेनागच्छागच्छेति सोपहासं भ्रमितगदाझंकारमूर्च्छितगम्भीरवचनध्वनिनाहूयमानः कौरवराजेन तृतीयो ऽनुजस्ते किरीटी योद्धुमारब्धः । अकृतिनस्तस्य गदाघातान्निधनमुत्प्रेक्षमाणेन कामपालेनार्जुनपक्षपाती देवकीसूनुरतिप्रयत्नात्स्वरथमारोप्य द्वारकां नीतः ।
&युधिष्ठिरः&:
साधु भो अर्जुन तदैव प्रतिपन्ना वृकोदरपदवी गाण्डीवं परित्यजता । अहं पुनः केनोपायेन प्राणापगममहोत्सवमुत्सहिष्ये ।
&द्रौपदी&:
{प्क्त्_175}हा णाह भीमसण ण जुत्तं दाणिं दे कणीअसं भादरं असिक्खिदं गदाए दारुणस्स सत्तुणो अहिमुहं गच्छन्तं उबेक्खिदुं* ।मोहमुपगता**
स्क्त्छ्_175: हा नाथ भीमसेन न युक्तमिदानीं ते कनीयांसं भ्रातरमशिक्षितं गदायां दारुणस्य शत्रोरभिमुखं गच्छन्तमुपेक्षितुम् ।
&राक्षसः&:
ततश्चाहम्
&युधिष्ठिरः&:
भवतु मुने किमतः परं श्रुतेन । हा तात भीमसेन कान्तारव्यसनबान्धव हा मच्छरीरस्थितिविच्छेदकातर जतुगृहविपत्समुद्रतरणयानपात्र हा किर्मीरहिडिम्बासुरजरासंधविजयैकमल्ल हा कीचकसुयोधनानुजकमलिनीकुञ्जर हा द्यूतपणप्रणयिन्हा मदाज्ञासंपादक हा कौरववनदावानल
वेर्से_6.17
निर्लज्जस्य दुरोदरव्यसनिनो वत्स त्वया सा तदा $ भक्त्या मे समदद्विपायुतबलेनाङ्गीकृता दासता &
किं नामापकृतं मयाधिकमतस्त्वय्यद्य यद्गम्यते ē̃ त्यक्त्वा नाथ सबान्धवं सपदि मां प्रीतिः क्व ते साधुना ॥ 6.17 ॥
&द्रौपदी&:
{प्क्त्_176}*संज्ञामुपलभ्योत्थाय च**
महाराअ किं एदं वट्टै ।
स्क्त्छ्_176: महाराज किमेतद्वर्तते ।
&युधिष्ठिरः&:
कृष्णे किमन्यत् ।
वेर्से_6.18
स कीचकनिषूदनो बकहिडिम्बकिर्मीरहा $ मदान्धमगधाधिपद्विरदसंधिभेदाशनिः &
गदापरिघशोभिना भुजयुगेन तेनान्वितः ē̃ प्रियस्तव ममानुजो ऽर्जुनगुरुर्गतो ऽस्तं किल ॥ 6.18 ॥
&द्रौपदी&:
{प्क्त्_177}णाह भीमसेण तुए किल मे केसा संअमिदव्वा । ण जुत्तं वीरस्स खत्तिअस्स पडिण्णादं सिढिलेदुं । ता पडिबालेहि मं जाव उबसप्पामि* ।पुनर्मोहमुपगता**
स्क्त्छ्_177: नाथ भीमसेन त्वया किल मे केशाः संयमितव्याः । न युक्तं वीरस्य क्षत्रियस्य प्रतिज्ञातं शिथिलयितुम् । तत्प्रतिपालय मां यावदुपसर्पामि ।
&युधिष्ठिरः&:
*आकाशे**
अम्ब पृथे श्रुतो ऽयं तव पुत्रस्य समुदाचारः । मामेकमनाथं विलपन्तमुत्सृज्य क्वापि गतः । तात जरासंधशत्रो किं नाम वैपरीत्यमेतावता कालेनाल्पायुषि त्वयि समालोकितं जनेन । अथ वा मयैव बहूपलब्धम् ।
वेर्से_6.19
दत्त्वा मे करदीकृताखिलनृपां यन्मेदिनीं लज्जसे $ द्यूते यच्च पणीकृतो ऽपि हि मया न क्रुध्यसि प्रीयसे &
स्थित्यर्थं मम मत्स्यराजभवने प्राप्तो ऽसि यत्सूदतां ē̃ वत्सैतानि विनश्वरस्य सहसा दृष्टानि चिह्नानि ॥ 6.19 ॥
मुने किं कथयसि* ।तस्मिन्कौरवभीमयोरित्यादि पठति**
&राक्षसः&:
एवमेतत् ।
&युधिष्ठिरः&:
धिगस्मद्भागधेयानि । भगवन्कामपाल कृष्णाग्रज सुभद्राभ्रातः
वेर्से_6.20
ज्ञातिप्रीतिर्मनसि न कृता क्षत्रियाणां न धर्मो $ रूढं सख्यं तदपि गणितं नानुजस्यार्जुनेन &
तुल्यः कामं भवतु भवतः शिष्ययोः स्नेहबन्धः ē̃ को ऽयं पन्था यदसि विमुखो मन्दभाग्ये मयीत्थम् ॥ 6.20 ॥
*द्रौपदीमुपगम्य**
अयि पाञ्चालि उत्तिष्ठ । समानदुःखावेवावां भवावः । मूर्च्छया किं मामेवमतिसंधत्से ।
&द्रौपदी&:
{प्क्त्_178}*लब्धसंज्ञा**
बन्धेदु णाहो दुज्जोहणरुधिलाद्देण हत्थेण दुस्सासणमुक्कं मे केसहत्थं । हञ्जे बुद्धिमदिए तव पच्चक्खं एव्व णाहेण पडिण्णादं* ।कञ्चुकिनमुपेत्य**
अज्ज किं संदिट्ठं दाव मे देवेण देवईणन्दणेण पुणो बि केसरअणा आरम्भीअदु त्ति । ता उबणेहि मे पुप्फदामाइं । विरएहि दाव कवरिं । करेहि भअवदो णाराअणस्स वअणं । ण हु सो अलीअं संदिसदि । अह वा किं मए संतत्ताए भणिदं । अचिरगदं अज्जौत्तं अणुगमिस्सं* ।युधिष्ठिरमुपगम्य**
महाराअ आदीबअ मे चिदं । तुमं बि खत्तधम्मं अणुवट्टन्तो एव्व णाहस्स जीविअहरस्स अहिमुहो होहि ।
स्क्त्छ्_178: बध्नातु नाथो दुर्योधनरुधिरार्द्रेण हस्तेन दुःशासनमुक्तं मे केशहस्तम् । हञ्जे बुद्धिमतिके तव प्रत्यक्षमेव नाथेन प्रतिज्ञातम् । आर्य किं संदिष्टं तावन्मे देवेन देवकीनन्दनेन पुनरपि केशरचनारभ्यतामिति । तदुपनय मे पुष्पदामानि । विरचय तावत्कबरीम् । कुरु भगवतो नारायणस्य वचनम् । न खलु सो ऽलीकं संदिशति । अथ वा किं मया संतप्तया भणितम् । अचिरगतमार्यपुत्रमनुगमिष्यामि । महाराज आदीपय मे चिताम् । त्वमपि क्षत्रधर्ममनुवर्तमान एव नाथस्य जीवितहरस्याभिमुखो भव ।
&युधिष्ठिरः&:
युक्तमाह पाञ्चाली । कञ्चुकिन्क्रियतामियं तपस्विनी चितासंविभागेन सह्यवेदना । ममापि सज्जं धनुरुपनय । अलमथ वा धनुषा ।
वेर्से_6.21
तस्यैव देहरुधिरोक्षितपाटलाङ्गी- $ मादाय संयति गदामपविध्य चापम् &
भ्रातृप्रियेण कृतमद्य यदर्जुनेन ē̃ श्रेयो ममापि हि तदेव कृतं जयेन ॥ 6.21 ॥
&राक्षसः&:
राजन्रिपुजयविमुखं ते यदि चेतस्तदा यत्र तत्र वा प्राणत्यागं कुरु । वृथा तत्र गमनम् ।
&कञ्चुकी&:
धिङ्मुने राक्षससदृशं हृदयं भवतः ।
&राक्षसः&:
*सभयं स्वगतम्**
किं ज्ञातो ऽहमनेन* ।प्रकाशम्**
भोः कञ्चुकिन्तयोर्गदया खलु युद्धं प्रवृत्तमर्जुनदुर्योधनयोः । जानामि च तयोर्गदायां भुजसारम् । दुःखितस्य पुनरस्य राजर्षेरपरमनिष्टश्रवणं परिहरन्नेवं ब्रवीमि ।
&युधिष्ठिरः&:
*बाष्पं विसृजन्**
साधु महर्षे साधु । सुस्निग्धमभिहितम् ।
&कञ्चुकी&:
महाराज किं नाम शोकान्धतया देवेन देवकल्पेनापि प्राकृतेनेव त्यजते क्षात्रधर्मः ।
&युधिष्ठिरः&:
आर्य जयंधर
वेर्से_6.22
शक्ष्यामि नो परिघपीवरबाहुदण्डौ $ वित्तेशशक्रपुरदर्शितवीर्यसारौ &
भीमार्जुनौ क्षितितले प्रविचेष्टमानौ ē̃ द्रष्टुं तयोश्च निधनेन रिपुं कृतार्थम् ॥ 6.22 ॥
अयि पाञ्चालराजतनये मद्दुर्नयप्राप्तशोच्यदशे यथा संदीप्यते पावकस्तथा सहितावेव बन्धुजनं संभावयावः ।
&द्रौपदी&:
{प्क्त्_179}अज्ज करेहि दारुसंचअं । पज्जलीअदु अग्गी । तुवरदि मे हिअअं णाहं पेक्खिदुं* ।सर्वतो दृष्ट्वा**
कहं ण को बि महाराअस्स वअणं करेदि । हा णाह भीमसेण तं एव्व एदं राऔलं तुए विरहिदं परिअणो वि संपदं परिहरदि ।
स्क्त्छ्_179: आर्य कुरु दारुसंचयम् । प्रज्वाल्यतामग्निः । त्वरते मे हृदयं नाथं प्रेक्षितुम् । कथं न को ऽपि महाराजस्य वचनं करोति । हा नाथ भीमसेन तदेवेदं राजकुलं त्वया विरहितं परिजनो ऽपि सांप्रतं परिहरति ।
&राक्षसः&:
सदृशमिदं भरतकुलवधूनां पत्युरनुसरणम् ।
&युधिष्ठिरः&:
महर्षे न कश्चिच्छृणोति तावदावयोर्वचनम् । तदिन्धनप्रदानेन प्रसादः क्रियताम् ।
&राक्षसः&:
मुनिजनविरुद्धमिदम्* ।स्वगतम्**
पूर्णो मे मनोरथः । यावदनुपलक्षितः समिन्धयामि वह्निम्* ।प्रकाशम्**
राजन्न शक्नुमो वयमिह स्थातुम्* ।इति निष्क्रान्तः**
&युधिष्ठिरः&:
कृष्णे न कश्चिदस्मद्वचनं करोति । भवतु । स्वयमेवाहं दारुसंचयं कृत्वा चितामादीपयामि ।
&द्रौपदी&:
{प्क्त्_180}तुवरदु तुवरदु महाराओ ।
स्क्त्छ्_180: त्वरतां त्वरतां महाराजः ।
*नेपथ्ये कलकलः**
&द्रौपदी&:
{प्क्त्_181}*सभयमाकर्ण्य**
महाराअ कस्स बि एसो बलदप्पिदस्स विसमो सङ्खणिग्घोसो सुणीअदि । अबरं बि अप्पिअं सुणिदुं अत्थि णिब्बन्धो तदो विलम्बीअदि ।
स्क्त्छ्_181: महाराज कस्याप्येष बलदर्पितस्य विषमः शङ्खनिर्घोषः श्रूयते । अपरमप्यप्रियं श्रोतुमस्ति निर्बन्धस्ततो विलम्ब्यते ।
&युधिष्ठिरः&:
न खलु विलम्ब्यते । उत्तिष्ठ* ।इति सर्वे परिक्रामन्ति**
अयि पाञ्चालि अम्बायाः सपत्नीजनस्य च किंचित्संदिश्य निवर्तय परिजनम् ।
&द्रौपदी&:
{प्क्त्_182}महाराअ अम्बाए एव्वं संदिसिस्सं । जो सो बअहिडिम्बकिम्मीरजडासुरजरासंधविजअमल्लो दे मज्झमपुत्तो सो मम हदासाए पक्खबादेण परलोअं गदो त्ति ।
स्क्त्छ्_182: महाराज अम्बाया एवं संदेक्ष्यामि । यः स बकहिडिम्बकिर्मीरजटासुरजरासंधविजयमल्लस्ते मध्यमपुत्रः स मम हताशायाः पक्षपातेन परलोकं गत इति ।
&युधिष्ठिरः&:
भद्रे बुद्धिमतिके उच्यतामस्मद्वचनादम्बा ।
वेर्से_6.23
येनासि तत्र जतुवेश्मनि दीप्यमाने $ निर्वाहिता सह सुतैर्भुजयोर्बलेन &
तस्य प्रियस्य बलिनस्तनयस्य पाप- ē̃ माख्यामि ते ऽम्ब कथयेत्कथमीदृगन्यः ॥ 6.23 ॥
आर्य जयंधर त्वयापि सहदेवसकाशं गन्तव्यम् । वक्तव्यश्च तत्रभवान्पाण्डुकुलबृहस्पतिर्माद्रेयः कनीयानस्माकम् । सकलकुरुकुलकमलाकरदावानलो युधिष्ठिरः परलोकमभिप्रस्थितः प्रियानुजमप्रतिकूलं सततमाशंसनीयमसंमूढं व्यसने ऽभ्युदये च धृतिमन्तं भवन्तमविरलमालिङ्ग्य शिरसि चाघ्रायेदं प्रार्थयते ।
वेर्से_6.24
मम हि वयसा दूरेणाल्पः श्रुतेन समो भवा- $ न्सहजकृतया बुद्ध्या ज्येष्ठो मनीषितया गुरुः &
शिरसि मुकुलौ पाणी कृत्वा भवन्तमतो ऽर्थये ē̃ मयि विरलतां नेयः स्नेहः पितुर्भव वारिदः ॥ 6.24 ॥
अपि च बाल्ये संवर्धितस्य नित्याभिमानिनो ऽस्मत्सदृशहृदयसारस्यापि नकुलस्य ममाज्ञया वचने स्थातव्यम् । तदुच्यतां नकुलः । नानुगन्तव्यास्मत्पदवी । त्वया हि वत्स
वेर्से_6.25
विस्मृत्यास्मान्श्रुतिविशदया प्रज्ञया सानुजेन $ पिण्डान्पाण्डोरुदकपृषतानश्रुगर्भान्प्रदातुम् &
दायादानामपि तु भवने यादवानां कुले वा ē̃ कान्तारे वा कृतवसतिना रक्षणीयं शरीरम् ॥ 6.25 ॥
गच्छ जयंधर अस्मच्छरीरस्पृष्टिकया शापितेन भवताकालहीनमिदमवश्यमावेदनीयम् ।
&द्रौपदी&:
{प्क्त्_183}हला बुद्धिमदिए भणाहि मम वअणेण पिअसहिं सुभद्दं । अज्ज वच्छाए उत्तराए चौत्थो मासो पडिबण्णस्स गब्भस्स । तुमं एव्व एदं कुलपडिट्ठाबअं सावहाणं रक्ख । कदा बि इदो परलोअगदस्स ससुरौलस्स अम्हाणं बि सलिलबिन्दुदो भविस्सदि त्ति ।
स्क्त्छ्_183: हला बुद्धिमतिके भण मम वचनेन प्रियसखीं सुभद्राम् । अद्य वत्साया उत्तरायाश्चतुर्थो मासः प्रतिपन्नस्य गर्भस्य । त्वमेवैतं कुलप्रतिष्ठापकं सावधानं रक्ष । कदापीतः परलोकगतस्य श्वशुरकुलस्यास्माकमपि सलिलबिन्दुदो भविष्यतीति ।
&युधिष्ठिरः&:
*सास्रम्**
भोः कष्टम् ।
वेर्से_6.26
शाखारोधस्थगितवसुधामण्डले मण्डिताशे $ पीनस्कन्धे सुसदृशमहामूलपर्यन्तबन्धे &
दग्धे दैवात्सुमहति तरौ तस्य सूक्ष्माङ्कुरे ऽस्मि- ē̃ न्नाशाबन्धं कमपि कुरुते छाययार्थी जनो ऽयम् ॥ 6.26 ॥
साधु । इदानीमध्यवसितं करणीयम्* ।कञ्चुकिनमवलोक्य**
आर्य जयंधर स्वशरीरेण शापितो ऽसि तथापि न गम्यते ।
&कञ्चुकी&:
*साक्रन्दम्**
हा देव पाण्डो तव सुतानामजातशत्रुभीमार्जुननकुलसहदेवानामयं दारुणः परिणामः । हा देवि कुन्ति भोजराजभवनपताके
वेर्से_6.27
भ्रातुस्ते तनयेन शौरिगुरुणा श्यालेन गाण्डीविन- $ स्तस्यैवाखिलधार्तराष्ट्रनलिनीव्यालोलने दन्तिनः &
आचार्येण वृकोदरस्य हलिनोन्मत्तेन मत्तेन वा ē̃ दग्धं त्वत्सुतकाननं ननु मही यस्याश्रयाच्छीतला ॥ 6.27 ॥
*इति रुदन्निष्क्रान्तः**
&युधिष्ठिरः&:
जयंधर जयंधर ।
*प्रविश्य**
&कञ्चकी&:
आज्ञापयतु देवः ।
&युधिष्ठिरः&:
वक्तव्यमिति ब्रवीमि । न पुनरेतावन्ति भागधेयानि नः । यदि कदाचिद्विजयी स्याद्वत्सो ऽर्जुनस्तद्वक्तव्यो ऽस्मद्वचनाद्भवता ।
वेर्से_6.28
हली हेतुः सत्यं भवति मम वत्सस्य निधने $ तथाप्येष भ्राता सहजसुहृदस्ते मधुरिपोः &
अतः क्रोधः कार्यो न खलु यदि च प्राणिषि ततो ē̃ वनं गच्छेर्मा गाः पुनरकरुणां क्षात्रपदवीम् ॥ 6.28 ॥
&कञ्चुकी&:
यदाज्ञापयति देवः* ।इति निष्क्रान्तः**
&युधिष्ठिरः&:
*अग्निं दृष्ट्वा सहर्षम्**
कृष्णे ननूद्धतशिखाहस्ताहूतास्मद्विधव्यसनिजनः समिद्धो भगवान्हुताशनस्तत्रेन्धनीकरोम्यात्मानम् ।
&द्रौपदी&:
{प्क्त्_184}पसीददु पसीददु महाराओ मम इमिणा अपच्छिमेण पणएण । अहं दाव अग्गदो पविसामि ।
स्क्त्छ्_184: प्रसीदतु प्रसीदतु महाराजो ममानेनापश्चिमेन प्रणयेन । अहं तावदग्रतः प्रविशामि ।
&युधिष्ठिरः&:
यद्येवं सहितावेवाभ्युदयमुपभोक्ष्यावहे ।
&चेटी&:
{प्क्त्_185}हा भअवन्तो लोअबाला परित्ताअह परित्ताअह । एसो क्खु सोमवंसराएसी राअसूअसंतप्पिदहव्ववाहो खण्डवसंतप्पिदहुदवहस्स किरीडिणो जेट्ठो भादा सुगिहीदणामहेओ महाराअजुहिट्ठिरो । एसा बि पञ्चालराअतणआ देवी जण्णवेदिमज्झसंभवा जण्णसेणी । दुवे बि णिक्करुणजलणस्स प्पवेसेण इन्धणीहोन्ति । ता परित्ताअह अज्जा परित्ताअह । कधं ण को बि परित्ताअदि* ।तयोरग्रतः पतित्वा**
किं ववसिदं देवीए देवेण अ ।
स्क्त्छ्_185: हा भगवन्तो लोकपालाः परित्रायध्वं परित्रायध्वम् । एष खलु सोमवंशराजर्षी राजसूयसंतर्पितहव्यवाहः खाण्डवसंतर्पितहुतवहस्य किरीटिनो ज्येष्ठो भ्राता सुगृहीतनामधेयो महाराजयुधिष्ठिरः । एषापि पाञ्चालराजतनया देवी यज्ञवेदिमध्यसंभवा याज्ञसेनी । द्वावपि निष्करुणज्वलनस्य प्रवेशेनेन्धनीभवतः । तत्परित्रायध्वमार्याः परित्रायध्वम् । कथं न को ऽपि परित्रायते । किं व्यवसितं देव्या देवेन च ।
&युधिष्ठिरः&:
अयि बुद्धिमतिके यद्वत्सलेन प्रियानुजेन विना सदृशं तत् । उत्तिष्ठोत्तिष्ठ भद्रे उदकमुपनय ।
&चेटी&:
{प्क्त्_186}जं देवो आणबेदि* ।इति निष्क्रम्य पुनः प्रविश्य च**
जेदु जेदु महाराओ ।
स्क्त्छ्_186: यद्देव आज्ञापयति । जयतु जयतु महाराजः ।
&युधिष्ठिरः&:
पाञ्चालि त्वमपि तावत्स्वपक्षपातिनो वृकोदरस्य प्रियस्यार्जुनस्योदकक्रियां कुरु ।
&द्रौपदी&:
{प्क्त्_187}महाराओ एव्व करेदु । अहं पुणो जलणं पविसिस्सं ।
स्क्त्छ्_187: महाराज एव करोतु । अहं पुनर्ज्वलनं प्रवेक्ष्यामि ।
&युधिष्ठिरः&:
अनतिक्रमणीयं लोकवृत्तम् । भद्रे उदकमुपनय ।
*चेटी तथा करोति**
&युधिष्ठिरः&:
*पादौ प्रक्षाल्योपस्पृश्य च**
एष तावत्सलिलाञ्जलिर्गाङ्गेयाय भीष्माय गुरवे । अयं प्रपितामहाय शान्तनवे । अयमपि पितामहाय विचित्रवीर्याय* ।सास्रम्**
तातस्याधुनावसरः । अयमपि तत्रभवते सुगृहीतनाम्ने पित्रे पाण्डवे ।
वेर्से_6.29
अद्य प्रभृति वारीदमस्मत्तो दुर्लभं पुनः ।
तात माद्र्यम्बया सार्धं मया दत्तं निपीयताम् ॥ 6.29 ॥
वेर्से_6.30
एतज्जलं जलजनीलविलोचनाय $ भीमाय तस्य मम चाप्यविभक्तमस्तु &
एकं क्षणं विरम वत्स पिपासितो ऽपि ē̃ पातुं त्वया सह जवादयमागतो ऽस्मि ॥ 6.30 ॥
अथ वा सुक्षत्रियाणां गतिमुपगतं वत्समहमुपगतो ऽप्यकृती द्रष्टुम् । वत्स भीमसेन
वेर्से_6.31
मया पीतं पीतं तदनु भवताम्बास्तनयुगं $ मदुच्छिष्टैर्वृत्तिं जनयसि रसैर्वत्सलतया &
वितानेष्वप्येवं तव मम च सोमे विधिरभू- ē̃ न्निवापाम्भः पूर्वं पिबसि कथमेवं त्वमधुना ॥ 6.31 ॥
कृष्णे त्वमपि देहि सलिलाञ्जलिम् ।
&द्रौपदी&:
{प्क्त्_188}हञ्जे बुद्धिमदिए उबणेहि मे सलिलं ।
स्क्त्छ्_188: हञ्जे बुद्धिमतिके उपनय मे सलिलम् ।
*चेटी तथा करोति**
&द्रौपदी&:
{प्क्त्_189}*उपसृत्य जलाञ्जलिं पूरयित्वा**
महाराअ कस्स सलिलं देम्हि ।
स्क्त्छ्_189: महाराज कस्मै सलिलं ददामि ।
&युधिष्ठिरः&:
वेर्से_6.32
तस्मै देहि जलं कृष्णे सहसा गच्छते दिवम् ।
अम्बापि येन गान्धार्या रुदितेन सखी कृता ॥ 6.32 ॥
&द्रौपदी&:
{प्क्त्_190}णाह भीमसेण परिअणोबणीदं उदअं सग्गगदस्स दे पादोदअं भोदु ।
स्क्त्छ्_190: नाथ भीमसेन परिजनोपनीतमुदकं स्वर्गगतस्य ते पादोदकं भवतु ।
&युधिष्ठिरः&:
फाल्गुनाग्रज
वेर्से_6.33
असमाप्तप्रतिज्ञे ऽस्तं याते त्वयि महाभुजे ।
मुक्तकेश्यैव दत्तस्ते प्रियया सलिलाञ्जलिः ॥ 6.33 ॥
&द्रौपदी&:
{प्क्त्_191}उट्ठेहि महाराअ दूरं गच्छदि दे भादा ।
स्क्त्छ्_191: उत्तिष्ठ महाराज दूरं गच्छति ते भ्राता ।
&युधिष्ठिरः&:
*दक्षिणाक्षिस्पन्दनं सूचयित्वा**
पाञ्चालि निमित्तानि मे कथयन्ति संभावयिष्यसि वृकोदरमिति ।
&द्रौपदी&:
{प्क्त्_192}महाराअ सुणिमित्तं भोदु ।
स्क्त्छ्_192: महाराज सुनिमित्तं भवतु ।
*नेपथ्ये कलकलः**
*प्रविश्य संभ्रान्तः**
&कञ्चुकी&:
परित्रायतां परित्रायतां महाराजः । एष खलु दुरात्मा कौरवापसदः क्षतजाभिषेकपाटलिताम्बरशरीरः समुच्छ्रितदिग्धभीषणगदापाणिरुद्यतकालदण्ड इव कृतान्तो ऽत्रभवतीं पाञ्चालराजतनयामितस्ततः परिमार्गमाण इत एवाभिवर्तते ।
&युधिष्ठिरः&:
हा दैव ते निर्णयो जातः । हा गाण्डीवधन्वन्* ।इति मुह्यति**
&द्रौपदी&:
{प्क्त्_193}हा अज्जौत्त हा मम सअंवरसअंगाहदुल्ललिद पिअं भादुअं अणुगदोसि ण उण महाराअं इमं दासजणं अ* ।इति मोहमुपगता**
स्क्त्छ्_193: हा आर्यपुत्र हा मम स्वयंवरस्वयंग्राहदुर्ललित प्रियं भ्रातरमनुगतो ऽसि न पुनर्महाराजमिमं दासजनं च ।
&युधिष्ठिरः&:
हा वत्स सव्यसाचिन्हा त्रिलोचनाङ्गनिष्पेषमल्ल हा निवातकवचोद्धरणनिष्कण्टकीकृतामरलोक हा बदर्याश्रममुनिद्वितीयतापस हा द्रोणाचार्यप्रियशिष्य हा अस्त्रशिक्षाबलपरितोषितगाङ्गेय हा राधेयकुलकमलिनीप्रालेयवर्ष हा गन्धर्वनिर्वासितदुर्योधन हा पाण्डवकुलकमलिनीराजहंस
वेर्से_6.34
तां वत्सलामनभिवाद्य विनीतमम्बां $ गाढं च मामनुपगुह्य मयाप्यनुक्तः &
एतां स्वयंवरवधूं दयितामदृष्ट्वा ē̃ दीर्घप्रवासमयि तात कथं गतो ऽसि ॥ 6.34 ॥
*मोहमुपगतः**
&कञ्चुकी&:
भोः कष्टम् । एष दुरात्मा कौरवाधमो यथेष्टमित एवाभिवर्तते । सर्वथा संप्रत्ययमेव कालोचितः प्रतीकारः । चितासमीपमुपनयाम्यत्रभवतीं पाञ्चालराजतनयाम् । अहमप्येवमेवानुगच्छामि* ।चेटीं प्रति**
भद्रे त्वमपि देव्या भ्रातरं धृष्टद्युम्नं नकुलसहदेवौ वावाप्नुहि । अथ वैवमवस्थिते महाराजे ऽस्तमितयोर्भीमार्जुनयोः कुतो ऽत्र परित्राणाशा ।
&चेटी&:
{प्क्त्_194}परित्ताअह परित्ताअह अज्जा ।
स्क्त्छ्_194: परित्रायध्वं परित्रायध्वमार्याः ।
*नेपथ्ये कलकलानन्तरम्**
भो भोः समन्तपञ्चकसंचारिणः क्षतजासवमत्तयक्षराक्षसपिशाचभूतवेतालकङ्कगृध्रजम्बुकोलूकवायसभूयिष्ठा विरलयोधपुरुषाः कृतमस्मद्दर्शनत्रासेन । कथयत कस्मिन्नुद्देशे याज्ञसेनी संनिहितेति । कथयाम्युपलक्षणं तस्याः ।
वेर्से_6.35
ऊरू करेण परिघट्टयतः सलीलं $ दुर्योधनस्य पुरतो ऽपहृताम्बरा या &
दुःशासनेन कचकर्षणभिन्नमौलिः ē̃ सा द्रौपदी कथयत क्व पुनः प्रदेशे ॥ 6.35 ॥
&कञ्चुकी&:
हा देवि यज्ञवेदिसंभवे परिभूयसे संप्रत्यनाथा कुरुकुलकलङ्केन ।
&युधिष्ठिरः&:
*सहसोत्थाय सावष्टम्भम्**
पाञ्चालि न भेतव्यं न भेतव्यम्* ।ससंभ्रमम्**
कः को ऽत्र भोः । सनिषङ्गं मे धनुरुपनय । दुरात्मन्दुर्योधनहतक आगच्छागच्छ । अपनयामि ते गदाकौशलसंभृतं भुजदर्पं शिलीमुखासारेण । अन्यच्च रे कुरुकुलाङ्गार
वेर्से_6.36
प्रियमनुजमपश्यंस्तं जरासंधमल्लं $ कुपितहरकिरातायोधिनं तं च वत्सम् &
त्वमिव कठिनचेताः प्राणितुं नास्मि शक्तो ē̃ ननु पुनरपहर्तुं बाणवर्षैस्तवासून् ॥ 6.36 ॥
*ततः प्रविशति गदापाणिः क्षतजसिक्तसर्वाङ्गो भीमसेनः**
&भीमसेनः&:
*उद्धतं परिक्रामन्**
भो भोः समन्तपञ्चकसंचारिणः सैनिकाः को ऽयमावेगः ।
वेर्से_6.37
नाहं रक्षो न भूतो रिपुरुधिरजलप्लाविताङ्गः प्रकामं $ निस्तीर्णोरुप्रतिज्ञाजलनिधिगहनः क्रोधनः क्षत्रियो ऽस्मि &
भो भो राजन्यवीराः समरशिखिशिखादग्धशेषाः कृतं व- ē̃ स्त्रासेनानेन लीनैर्हतकरितुरगान्तर्हितैरास्यते यत् ॥ 6.37 ॥
कथयन्तु भवन्तः कस्मिन्नुद्देशे पाञ्चाली तिष्ठति ।
&द्रौपदी&:
{प्क्त्_195}*लब्धसंज्ञा**
परित्ताअदु परित्ताअदु महाराओ ।
स्क्त्छ्_195: परित्रायतां परित्रायतां महाराजः ।
&कञ्चुकी&:
देवि पाण्डुस्नुषे उत्तिष्ठोत्तिष्ठ । संप्रति झटिति चिताप्रवेश एव श्रेयान् ।
&द्रौपदी&:
{प्क्त्_196}*सहसोत्थाय**
कहं ण संभावेमि अज्ज बि चिदासमीबं ।
स्क्त्छ्_196: कथं न संभावयाम्यद्यापि चितासमीपम् ।
&युधिष्ठिरः&:
कः को ऽत्र भोः । सनिषङ्गं धनुरुपनय । कथं न कश्चित्परिजनः । भवतु । बाहुयुद्धेनैव दुरात्मानं गाढमालिङ्ग्य ज्वलनमभिपातयामि* ।परिकरं बध्नाति**
&कञ्चुकी&:
देवि पाण्डुस्नुषे संयम्यन्तामिदानीं नयनोपरोधिनो दुःशासनावकृष्टा मूर्धजाः । अस्तमिता संप्रति प्रतीकाराशा । चितासमीपमेव द्रुततरं संभावय ।
&युधिष्ठिरः&:
कृष्णे न खल्वनिहते तस्मिन्दुरात्मनि दुर्योधने संहर्तव्याः केशाः ।
&भीमसेनः&:
पाञ्चालि न खलु मयि जीवति संहर्तव्या दुःशासनविलुलिता वेणिरात्मपाणिभ्याम् । तिष्ठतु तिष्ठतु । स्वयमेवाहं संहरामि ।
*द्रौपदी भयादपसर्पति**
&भीमसेनः&:
तिष्ठ तिष्ठ भीरु क्वाधुना गम्यते* ।इति केशेषु ग्रहीतुमिच्छति**
&युधिष्ठिरः&:
*वेगाद्भीममालिङ्ग्य**
दुरात्मन्भीमार्जुनशत्रो सुयोधनहतक
वेर्से_6.38
आशैशवादनुदिनं जनितापराधो $ मत्तो बलेन भुजयोर्हतराजपुत्रः &
आसाद्य मे ऽन्तरमिदं भुजपञ्जरस्य ē̃ जीवन्प्रयासि न पदात्पदमद्य पाप ॥ 6.38 ॥
&भीमसेनः&:
अये कथमार्यः सुयोधनशङ्कया क्रोधान्निर्दयं मामालिङ्गति ।
&कञ्चुकी&:
*निरूप्य सहर्षम्**
महाराज वञ्च्यसे । अयं खल्वायुष्मान्भीमसेनः सुयोधनक्षतजारुणीकृतसकलशरीराम्बरो दुर्लक्षव्यक्तिः । अलमधुना संदेहेन ।
&चेटी&:
{प्क्त्_197}*द्रौपदीमालिङ्ग्य**
देवि णिवत्तीअदु णिवत्तीअदु । एसो क्खु पूरिदपडिण्णाभारो णाहो दे वेणीसंहारं कादुं तुमं एव्व अण्णेसदि ।
स्क्त्छ्_197: देवि निवृत्यतां निवृत्यताम् । एष खलु पूरितप्रतिज्ञाभारो नाथस्ते वेणीसंहारं कर्तुं त्वामेवान्विष्यति ।
&द्रौपदी&:
{प्क्त्_198}हञ्जे किं मं अलीअवअणेहिं आसासेसि ।
स्क्त्छ्_198: हञ्जे किं मामलीकवचनैराश्वासयसि ।
&युधिष्ठिरः&:
जयंधर किं कथयसि । नायमनुजद्वेषी दुर्योधनहतकः ।
&भीमसेनः&:
देव अजातशत्रो भीमार्जुनगुरो कुतो ऽद्यापि दुर्योधनहतकः । मया हि तस्य दुरात्मनः पाण्डुकुलपरिभाविनः
वेर्से_6.39
भूमौ क्षिप्तं शरीरं निहितमिदमसृक्चन्दनाभं निजाङ्गे $ लक्ष्मीरार्ये निषण्णा चतुरुदधिपयःसीमया सार्धमुर्व्या &
भृत्या मित्राणि योधाः कुरुकुलमखिलं दग्धमेतद्रणाग्नौ ē̃ नामैकं यद्ब्रवीषि क्षितिप तदधुना धार्तराष्ट्रस्य शेषम् ॥ 6.39 ॥
*युधिष्ठिरः स्वैरं मुक्त्वा भीममवलोकयन्नश्रूणि प्रमार्जयति**
&भीमसेनः&:
*पादयोः पतित्वा**
जयत्वार्यः ।
&युधिष्ठिरः&:
वत्स बाष्पजलान्तरितनयनत्वान्न पश्यामि ते मुखचन्द्रम् । तत्कथय कच्चिज्जीवति भवान्समं किरीटिना ।
&भीमसेनः&:
निहतसकलरिपुपक्षे त्वयि नराधिपे जीवति भीमो ऽर्जुनश्च ।
&युधिष्ठिरः&:
*पुनर्गाढमालिङ्ग्य**
वेर्से_6.40
रिपोरास्तां तावन्निधनमिदमाख्याहि शतशः $ प्रियो भ्राता सत्यं त्वमसि मम यो ऽसौ बकरिपुः &
&भीमसेनः&:
आर्य सो ऽहम् ।
&युधिष्ठिरः&:
वेर्से_6.40
जरासंधस्योरःसरसि रुधिरासारसलिले ē̃ तटाघातक्रीडाललितमकरः संयति भवान् ॥ 6.40 ॥
&भीमसेनः&:
आर्य स एवाहम् । तन्मुञ्चतु मामार्यः क्षणमेकम् ।
&युधिष्ठिरः&:
किमपरमवशिष्टम् ।
&भीमसेनः&:
आर्य सुमहदवशिष्टम् । संयच्छामि तावदनेन सुयोधनशोणितोक्षितेन पाणिना पाञ्चाल्या दुःशासनावकृष्टं केशहस्तम् ।
&युधिष्ठिरः&:
सत्वरं गच्छतु भवान् । अनुभवतु तपस्विनी वेणीसंहारमहोत्सवम् ।
&भीमसेनः&:
*द्रौपदीमुपसृत्य**
देवि पाञ्चालराजतनये दिष्ट्या वर्धसे रिपुकुलक्षयेण । अलमलमेवंविधं मामालोक्य त्रासेन ।
वेर्से_6.40
कृष्टा येनासि राज्ञां सदसि नृपशुना तेन दुःशासनेन $ स्त्यानान्येतानि तस्य स्पृश मम करयोः पीतशेषाण्यसृञ्जि &
कान्ते राज्ञः कुरूणामपि सरसमिदं मद्गदाचूर्णितोरो- ē̃ रङ्गे ऽङ्गे ऽसृङ्निषक्तं तव परिभवजस्यानलस्योपशान्त्यै ॥ 6.40 ॥
बुद्धिमतिके क्व सा संप्रति भानुमती योपहसति पाण्डवदारान् । भवति यज्ञवेदिसंभवे याज्ञसेनि ।
&द्रौपदी&:
{प्क्त्_199}आणबेदु णाहो ।
स्क्त्छ्_199: आज्ञापयतु नाथः ।
&भीमसेनः&:
स्मरति भवती यन्मयोक्तम्* ।चञ्चद्भुजेत्यादिसेए स्तन्zअ 1.21. पूर्वोक्तं पठति**
&द्रौपदी&:
{प्क्त्_200}णाह ण केवलं सुमरामि । अणुहवामि अ णाहस्स पसादेण ।
स्क्त्छ्_200: नाथ न केवलं स्मरामि । अनुभवामि च नाथस्य प्रसादेन ।
&भीमसेनः&:
*वेणीमवधूय**
भवति संयम्यतामिदानीं धार्तराष्ट्रकुलकालरात्रिर्दुःशासनविलुलितेयं वेणी ।
&द्रौपदी&:
{प्क्त्_201}णाह विसुमरिदम्हि एदं वाबारं । णाहस्स पसाएण पुणो बि सिक्खिस्सं ।
स्क्त्छ्_201: नाथ विस्मृतास्म्येतं व्यापारम् । नाथस्य प्रसादेन पुनरपि शिक्षिष्ये ।
*भीमसेनः वेणीं बध्नाति**
*नेपथ्ये**
महासमरानलदग्धशेषाय स्वस्ति भवतु राजन्यकुलाय ।
वेर्से_6.42
क्रोधान्धैर्यस्य मोक्षात्क्षतनरपतिभिः पाण्डुपुत्रैः कृतानि $ प्रत्याशं मुक्तकेशान्यतुलभुजबलैः पार्थिवान्तःपुराणि &
कृष्णायाः केशपाशः कुपितयमसखो धूमकेतुः कुरूणां ē̃ सो ऽयं बद्धः प्रजानां विरमतु निधनं स्वस्ति राज्ञां कुलेभ्यः ॥ 6.42 ॥
&युधिष्ठिरः&:
देवि एष ते वेणीसंहारो ऽभिनन्द्यते नभस्तलसंचारिणा सिद्धजनेन ।
*ततः प्रविशतः कृष्णार्जुनौ**
&कृष्णः&:
*युधिष्ठिरमुपगम्य**
विजयतां निहतसकलारातिमण्डलः सानुजः पाण्डवकुलचन्द्रमा महाराजो युधिष्ठिरः ।
&अर्जुनः&:
जयत्वार्यः ।
&युधिष्ठिरः&:
*विलोक्य**
अये भगवान्पुण्डरीकाक्षो वत्सश्च किरीटी । भगवन्नभिवादये* ।किरीटिनं प्रति**
एह्येहि वत्स ।
*अर्जुनः प्रणमति**
&युधिष्ठिरः&:
*वासुदेवं प्रति**
देव कुतस्तस्य विजयादन्यद्यस्य भगवान्पुराणपुरुषो नारायणः स्वयं मङ्गलान्याशास्ते ।
वेर्से_6.43
कृतगुरुमहदादिक्षोभसंभूतमूर्तिं $ गुणिनमुदयनाशस्थानहेतुं प्रजानाम् &
अजममरमचिन्त्यं चिन्तयित्वापि न त्वां ē̃ भवति जगति दुःखी किं पुनर्देव दृष्ट्वा ॥ 6.43 ॥
*अर्जुनमालिङ्ग्य**
वत्स परिष्वजस्व माम् ।
&कृष्णः&:
महाराज युधिष्ठिर
वेर्से_6.44
व्यासो ऽयं भगवानमी च मुनयो वाल्मीकिरामादयो $ धृष्टद्युम्नमुखाश्च सैन्यपतयो माद्रीसुताधिष्ठिताः &
प्राप्ता मागधमत्स्ययादवकुलैराज्ञाविधेयैः समं ē̃ स्कन्धोत्तम्भिततीर्थवारिकलशा राज्याभिषेकाय ते ॥ 6.44 ॥
अहं पुनर्दुरात्मना चार्वाकेण विप्रकृतं भवन्तमुपलभ्यार्जुनेन सह त्वरिततरमायातः ।
&युधिष्ठिरः&:
कथं चार्वाकेण रक्षसा वयमेवं विप्रलब्धाः ।
&भीमसेनः&:
*सरोषम्**
क्वासौ धार्तराष्ट्रसखा पुण्यजनापसदो येनार्यस्य महांश्चित्तविभ्रमः कृतः ।
&कृष्णः&:
निगृहीतः स दुरात्मा नकुलेन । तत्कथय महाराज किमस्मात्परं समीहितं संपादयामि ।
&युधिष्ठिरः&:
एवं पुण्डरीकाक्ष न किंचिन्न ददाति भगवान्प्रसन्नः । अहं तु पुरुषसाधारणया बुद्ध्या संतुष्यामि । न खल्वतः परमभ्यर्थयितुं क्षमः । पश्यतु देवः ।
वेर्से_6.45
क्रोधान्धैः सकलं हतं रिपुकुलं पञ्चाक्षतास्ते वयं $ पाञ्चाल्या मम दुर्नयोपजनितस्तीर्णो निकारार्णवः &
त्वं देवः पुरुषोत्तमः सुकृतिनं मामादृतो भाषसे ē̃ किं नामान्यदतः परं भगवतो याचे प्रसन्नादहम् ॥ 6.45 ॥
तथापि प्रीततरश्चेद्भगवांस्तदिदमस्तु ।
वेर्से_6.46
अकृपणमरुक्श्रान्तं जीव्याज्जनः पुरुषायुषं $ भवतु भगवन्भक्तिर्द्वैतं विना पुरुषोत्तमे &
दयितभुवनो विद्वद्बन्धुर्गुणेषु विशेषवि- ē̃ त्सततसुकृती भूयाद्भूपः प्रसाधितमण्डलः ॥ 6.46 ॥
अपि च
वेर्से_6.47
अवनिमवनिपालाः पान्तु वृष्टिं विधत्तां $ जगति जलधराली शस्यपूर्णास्तु भूमिः &
त्वयि मुरनरकारौ भक्तिरद्वैतयोगा- ē̃ द्भवतु मम सुदीर्घं हव्यमश्नन्तु देवाः ॥ 6.47 ॥
&कृष्णः&:
एवमस्तु ।
*इति निष्क्रान्ताः सर्वे**
इति षष्ठो ऽङ्कः ।
समाप्तमिदं वेणीसंहारं नाम नाटकम् ।
इदं च विदग्धस्निग्धवियोगदुर्मनसा विप्रलपितं तेन कविना ।
काव्यालापसुभाषितव्यसनिनस्ते राजहंसा गता-
स्ता गोष्ठ्यः क्षयमागता गुणलवश्लाघ्यास्तु वाचः सताम् ।
सालंकाररसप्रसन्नमधुराकाराः कवीनां गिरः
प्राप्ता नाशमयं तु भूमिवलये जीयात्प्रबन्धो महान् ॥
मूल पाठ: Veṇīsaṃhāra · Edition: Venisamhara: Die Ehrenrettung der Königin, Ein Drama in 6 Akten von Bhatta Narayana. Julius Grill (Ed.). Leipzig : Fues's Verlag (R. Reisland) 1871. and Venisamhara of Bhatta Narayana. Edited with the commentary of Jagaddhara by M. R. Kale. Delhi : Motilal Banarsidass 1989. · Data entry Yves Codet · GRETIL (Göttingen) · CC BY-NC-SA 4.0