भाषा

ENहिગુ
ग्रंथ पाठ

वेणीसंहार · भाग 120

नोते: थिस् ए-तेxत् इस् चोन्वेर्तेद् fरोम् उनिचोदे देवनगरि एन्चोदिन्ग्.
थेरेfओरे wओर्द् बोउन्दरिएस् अरे नोत् स्पचेद्.
*...** = स्तगे
&...&: = स्पेअकेर्
{प्क्त्_न्} = प्रक्रित् तेxत्
स्क्त्छ्_न्: = सन्स्क्रित् छय ओf प्रक्रित् तेxत्
[स्...] = दिविसिओन्स् ओf थे प्लोत्
भट्टनारायण: वेणीसंहार
द्रमतिस् पेर्सोनए:
स्तगे दिरेच्तोर्
अस्सिस्तन्त् ओf थे स्तगे दिरेच्तोर्
युधिष्ठिर
भीमसेन
अर्जुन
सहदेव
कृष्ण
धृतराष्ट्र
दुर्योधन
कर्ण
कृप
अश्वत्थामन्
संजय
सुन्दरक, अन् अत्तेन्दन्त् ओन् कर्ण
छम्बेर्लैन् ओf युधिष्ठिर
छम्बेर्लैन् ओf दुर्योधन
राक्षस (रुधिरप्रिय), अन् अत्तेन्दन्त् ओन् हिडिम्बा
राक्षस, अ fरिएन्द् ओf दुर्योधन
छरिओतेएर्स्, दोओर्केएपेर्स्
द्रौपदी
भानुमती, wइfए ओf दुर्योधन
गान्धारी
दुःशला, सिस्तेर् ओf दुर्योधन अन्द् wइfए ओf जयद्रथ
राक्षसी, wइfए ओf रुधिरप्रिय
मोथेर् ओf जयद्रथ
अत्तेन्दन्त्स् ओन् द्रौपदी अन्द् भानुमती
वेणीसंहारम् ।
अच्त्_1
प्रथमो ऽङ्कः ।
वेर्से_1.1
निषिद्धैरप्येभिर्लुलितमकरन्दो मधुकरैः $ करैरिन्दोरन्तश्छुरित इव संभिन्नमुकुलः &

विधत्तां सिद्धिं नो नयनसुभगामस्य सदसः ē̃ प्रकीर्णः पुष्पाणां हरिचरणयोरञ्जलिरयम् ॥ 1.1 ॥
अपि च
वेर्से_1.2
कालिन्द्याः पुलिनेषु केलिकुपितामुत्सृज्य रासे रसं $ गच्छन्तीमनुगच्छतो ऽश्रुकलुषां कंसद्विषो राधिकाम् &
तत्पादप्रतिमानिवेशितपदस्योद्भूतरोमोद्गते- ē̃ रक्षुण्णो ऽनुनयः प्रसन्नदयितादृष्टस्य पुष्णातु वः ॥ 1.2 ॥
अपि च
वेर्से_1.3
दृष्टः सप्रेम देव्या किमिदमिति भयात्संभ्रमाच्चासुरीभिः $ शान्तान्तस्तत्त्वसारैः सकरुणमृषिभिर्विष्णुना सस्मितेन &
आकृष्यास्त्रं सगर्वैरुपशमितवधूसंभ्रमैर्दैत्यवीरैः ē̃ सानन्दं देवताभिर्मयपुरदहने धूर्जटिः पातु युष्मान् ॥ 1.3 ॥
*नान्द्यन्ते**
&सूत्रधारः&:
अलमतिप्रसङ्गेन ।
वेर्से_1.4
श्रवणाञ्जलिपुटपेयं विरचितवान्भारताख्यममृतं यः ।
तमहमरागमकृष्णं कृष्णद्वैपायनं वन्दे ॥ 1.4 ॥
*समन्तादवलोक्य**
तद्भवन्तः परिषदग्रेसराः विज्ञाप्यं नः किंचिदस्ति ।
वेर्से_1.5
कुसुमाञ्जलिरपर इव प्रकीर्यते काव्यबन्ध एषो ऽत्र ।
मधुलिह इव मधुबिन्दून्विरलानपि भजत गुणलेशान् ॥ 1.5 ॥
तदिदं कवेर्मृगराजलक्ष्मणो भट्टनारायणस्य कृतिं वेणीसंहारं नाम नाटकं प्रयोक्तुमुद्यता वयम् । तदत्र कविपरिश्रमानुरोधाद्वोदात्तकथावस्तुगौरवाद्वा नवनाटकदर्शनकुतूहलाद्वा भवद्भिरवधानं दीयमानमभ्यर्थये ।
*नेपथ्ये**
भाव त्वर्यतां त्वर्यताम् । एते खल्वार्यविदुराज्ञया पुरुषाः सकलमेव शैलूषजनं व्याहरन्ति । प्रवर्त्यन्तामपरिहीयमानमातोद्यविन्यासादिका विधयः । प्रवेशकालः किल तत्रभवतः पाराशर्यनारदतुम्बुरुजामदग्न्यप्रभृतिभिर्मुनिवृन्दारकैरनुगम्यमानस्य भरतकुलहितकाम्यया स्वयं प्रतिपन्नदौत्यस्य देवकीसूनोश्चक्रपाणेर्महाराजदुर्योधनशिबिरं प्रति प्रस्थातुकामस्येति ।
&सूत्रधारः&:
*आकर्ण्य सानन्दम्**
अहो नु खलु भो भगवता जगत्प्रभवस्थितिनिरोधप्रभविष्णुना विष्णुनाद्यानुगृहीतमिदं भरतकुलं सकलं च राजकमनयोः कुरुपाण्डवराजपुत्रयोराहवकल्पान्तानलप्रशमहेतुना स्वयं संधिकारिणा कंसारिणा दूतेन । तत्किमिति पारिपार्श्विक नारम्भयसि कुशीलवैः सह संगीतकम् ।
*प्रविश्य**
&पारिपार्श्विकः&:
भवतु । आरम्भयामि । कं समयमाश्रित्य गीयताम् ।
&सूत्रधारः&:
नन्वमुमेव तावच्चन्द्रातपनक्षत्रक्रौञ्चहंसकुलसप्तच्छदकुमुदपुण्डरीककाशकुसुमपरागधवलितगगनदिङ्मण्डलं स्वादुजलजलाशयं शरत्समयमाश्रित्य प्रवर्त्यतां संगीतकम् । तथा ह्यस्यां शरदि
वेर्से_1.6
सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः ।
निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे ॥ 1.6 ॥
&पारिपार्श्विकः&:
*ससंभ्रमम्**
भाव शान्तं पापं प्रतिहतममङ्गलम् ।
&सूत्रधारः&:
*सवैलक्ष्यस्मितम्**
मारिष शरत्समयवर्णनाशंसया हंसा धार्तराष्ट्रा इति व्यपदिश्यन्ते । तत्किं शान्तं पापं प्रतिहतममङ्गलम् ।

&पारिपार्श्विकः&:
न खलु न जाने । किं त्वमङ्गलाशंसयास्य वो वचनस्य यत्सत्यं कम्पितमिव मे हृदयम् ।
&सूत्रधारः&:
मारिष ननु सर्वमेवेदानीं प्रतिहतममङ्गलं स्वयं प्रतिपन्नदौत्येन संधिकारिणा कंसारिणा । तथा हि
वेर्से_1.7
निर्वाणवैरदहनाः प्रशमादरीणां $ नन्दन्तु पाण्डुतनयाः सह माधवेन &
रक्तप्रसाधितभुवः क्षतविग्रहाश्च ē̃ स्वस्था भवन्तु कुरुराजतनयाः सभृत्याः ॥ 1.7 ॥
*नेपथ्ये । साधिक्षेपम्**
आः दुरात्मन्वृथामङ्गलपाठक शैलूषापसद ।
वेर्से_1.8
लाक्षागृहानलविषान्नसभाप्रवेशैः $ प्राणेषु वित्तनिचयेषु च नः प्रहृत्य &
आकृष्टपाण्डववधूपरिधानकेशाः ē̃ स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः ॥ 1.8 ॥
[संध्यङ्ग । वलुए="उपक्षेप" रेस्प्="व् 6.69" fरोम्="प्ल्1"]
*सूत्रधारपारिपार्श्विकावाकर्णयतः**
&पारिपार्श्विकः&:
भाव कुत एतत् ।
&सूत्रधारः&:
*पृष्ठतो विलोक्य**
अये एष खलु वासुदेवगमनात्कुरुसंधानममृष्यमाणः पृथुललाटतटघटितविकटकीनाशतोरणत्रिशूलायमानभीषणभ्रुकुटिरापिबन्निव नः सर्वान्दृष्टिपातेन सहदेवानुगम्यमानः क्रुद्धो भीमसेन इत एवाभिवर्तते । तन्न युक्तमस्य पुरतः स्थातुम् । तदित आवामन्यत्र गच्छावः ।
*इति निष्क्रान्तौ**
प्रस्तावना ।
*ततः प्रविशति सहदेवानुगम्यमानः क्रुद्धो भीमसेनः**
&भीमसेनः&:
आः दुरात्मन्वृथामङ्गलपाठक शैलूषापसद* ।लाक्षागृहेत्यादि पुनः पठति**
&सहदेवः&:
*सानुनयम्**
आर्य मर्षय मर्षय । अनुमतमेव नो भरतपुत्रस्यास्य वचनम् । निर्वाणवैरदहना इति यथार्थमेव । सभृत्याः कुरवः क्षतजालंकृतवसुंधराः क्षतशरीराश्च स्वर्गस्था भवन्त्विति ब्रवीति ।
&भीमसेनः&:
*सोपालम्भम्**
न खलु न खल्वमङ्गलानि चिन्तयितुमर्हन्ति भवन्तः कौरवाणाम् । संधेयास्ते भ्रातरो युष्माकम् ।
&सहदेवः&:
*सरोषम्**
आर्य
वेर्से_1.9
धृतराष्ट्रस्य तनयान्कृतवैरान्पदे पदे ।
राजा न चेन्निषेद्धा स्यात्कः क्षमेत तवानुजः ॥ 1.9 ॥
&भीमसेनः&:
एवमिदम् । अत एवाहमद्यप्रभृति भिन्नो भवद्भ्यः । पश्य ।
वेर्से_1.10
प्रवृद्धं यद्वैरं मम खलु शिशोरेव कुरुभि- $ र्न तत्रार्यो हेतुर्न भवति किरीटी न च युवाम् &

जरासंधस्योरःस्थलमिव विरूढं पुनरपि ē̃ क्रुधा संधिं भीमो विघटयति यूयं घटयत ॥ 1.10 ॥
[संध्यङ्ग । वलुए="परिकर" रेस्प्="व्" fरोम्="प्ल्2"]
&सहदेवः&:
*सानुनयम्**
आर्य एवमतिसंभृतक्रोधेषु युष्मासु कदाचित्खिद्यते गुरुः ।
&भीमसेनः&:
किं नाम खिद्यते गुरुः । गुरुः खेदमपि जानाति । पश्य ।
वेर्से_1.11
तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां $ वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः &
विराटस्यावासे स्थितमनुचितारम्भनिभृतं ē̃ गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ॥ 1.11 ॥
तत्सहदेव निवर्तस्व । एवं चातिचिरप्रवृद्धामर्षोद्दीप्तस्य भीमस्य वचनाद्विज्ञापय राजानम् ।
&सहदेवः&:
आर्य किमिति ।
&भीमसेनः&:
एवं विज्ञापय ।
वेर्से_1.12
युष्मच्छासनलङ्घनांहसि मया मग्नेन नाम स्थितं $ प्राप्ता नाम विगर्हणा स्थितिमतां मध्ये ऽनुजानामपि &
क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा- ē̃ नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव ॥ 1.12 ॥
*इत्युद्धतं परिक्रामति**
&सहदेवः&:
*तमेवानुगच्छन्नात्मगतम्**
अये कथमार्यः पाञ्चाल्याश्चतुःशालं प्रविष्टः । भवतु तावदहमत्रैव तिष्ठामि* ।इति स्थितः**
&भीमसेनः&:
*प्रतिनिवृत्यावलोक्य च**
सहदेव गच्छ त्वं गुरुमनुवर्तस्व । अहमप्यायुधागारं प्रविश्यायुधसहायो भवामि ।
&सहदेवः&:
आर्य नेदमायुधागारं पाञ्चाल्याश्चतुःशालमिदम् ।
&भीमसेनः&:
*सवितर्कम्**
किं नाम नेदमायुधागारं पाञ्चाल्याश्चतुःशालमिदम्* ।किंचिद्विहस्य सहर्षम्**
आमन्त्रयितव्या मया पाञ्चाली* ।सप्रणयं सहदेवं हस्ते गृहीत्वा**
वत्स आगम्यताम् । यदार्यः कुरुभिः संधानमिच्छन्नस्मान्पीडयति तद्भवानपि पश्यतु ।
*उभौ प्रवेशं नाटयतः**
&सहदेवः&:
आर्य इदमासनमास्तीर्णम् । अत्रोपविश्य प्रतिपालयत्वार्यः कृष्णागमनम् ।
&भीमसेनः&:
*उपविश्य**
वत्स कृष्णागमनमित्यनेनोपोद्घातेन स्मृतम् । अथ भगवान्कृष्णः केन पणेन संधिं कर्तुं सुयोधनं प्रति प्रहितः ।
&सहदेवः&:
आर्य पञ्चभिर्ग्रामैः ।

&भीमसेनः&:
*कर्णौ पिधाय**
अहह हन्त देवस्याजातशत्रोरप्ययमीदृशस्तेजोपकर्ष इति यत्सत्यं कम्पितमिव मे हृदयम्* ।परिवृत्य स्थित्वा**
तद्वत्स न त्वया कथितं न मया श्रुतम् ।
वेर्से_1.13
यत्तदूर्जितमत्युग्रं क्षात्रं तेजो ऽस्य भूपतेः ।
दीव्यताक्षैस्तदानेन नूनं तदपि हारितम् ॥ 1.13 ॥
*नेपथ्ये**
{प्क्त्_1}समस्ससदु समस्ससदु भट्टिणी ।
स्क्त्छ्_1: समाश्वसितु समाश्वसितु भट्टिनी ।
&सहदेवः&:
*नेपथ्याभिमुखमवलोक्यात्मगतम्**
अये कथं याज्ञसेनी मुहुरुपचीयमानबाष्पपटलस्थगितनयनार्यसमीपमुपसर्पति । तत्कष्टतरमापतितम् ।
वेर्से_1.14
यद्वैद्युतमिव ज्योतिरार्ये क्रुद्धे ऽद्य संभृतम् ।
तत्प्रावृडिव कृष्णेयं नूनं संवर्धयिष्यति ॥ 1.14 ॥
*ततः प्रविशति यथानिर्दिष्टा द्रौपदी चेटी च । द्रौपदी सास्रं निश्वसिति**
&चेटी&:
{प्क्त्_2}समस्ससदु समस्ससदु भट्टिणी । अबणैस्सदि दे मण्णुं णिच्चाणुबद्धकुरुवेलो कुमालो भीमसेणो ।
स्क्त्छ्_2: समाश्वसितु समाश्वसितु भट्टिनी । अपनेष्यति ते मन्युं नित्यानुबद्धकुरुवैरः कुमारो भीमसेनः ।
&द्रौपदी&:
{प्क्त्_3}हञ्जे बुद्धिमदिए होदि एदं जै महाराअस्स पडिउलो हुविस्सदि ।
स्क्त्छ्_3: हञ्जे बुद्धिमतिके भवत्येतद्यदि महाराजस्य प्रतिकूलो भविष्यति ।
&चेटी&:
{प्क्त्_4}*विलोक्य**
एसो कुमालो चिट्ठदि । ता णं उबसप्पदु भट्टिणी ।
स्क्त्छ्_4: एष कुमारस्तिष्ठति । तदेनमुपसर्पतु भट्टिनी ।
&द्रौपदी&:
{प्क्त्_5}हञ्जे एव्वं करेम्ह ।
स्क्त्छ्_5: हञ्जे एवं कुर्वः ।
*इति परिक्रामतः**
&चेटी&:
{प्क्त्_6}*उपसृत्य**
जअदु जअदु कुमालो ।
स्क्त्छ्_6: जयतु जयतु कुमारः ।
&भीमसेनः&:
*अशृण्वन्यत्तदूर्जितमिति पुनः पठति**
&चेटी&:
{प्क्त्_7}*परिवृत्य**
भट्टिणि परिकुबिदो विअ कुमालो लक्खीअदि ।

स्क्त्छ्_7: भट्टिनि परिकुपित इव कुमारः लक्ष्यते ।
&द्रौपदी&:
{प्क्त्_8}हञ्जे जै एव्वं ता अवहीरणा बि एसा मं अस्सासअदि । ता एत्थ उबविट्ठा भविअ सुणोमि दाव णाहस्स ववसिदं ।
स्क्त्छ्_8: हञ्जे यद्येवं तदवधीरणाप्येषा मामाश्वासयति । तदत्रोपविष्टा भूत्वा शृणोमि तावन्नाथस्य व्यवसितम् ।
*उभे तथा कुरुतः**
&भीमसेनः&:
*सक्रोधं सहदेवमधिकृत्य**
किं नाम पञ्चभिर्ग्रामैः संधिः ।
वेर्से_1.15
मथ्नामि कौरवशतं समरे न कोपा- $ द्दुःशासनस्य रुधिरं न पिबाम्युरस्तः &
संचूर्णयामि गदया न सुयोधनोरू ē̃ संधिं करोतु भवतां नृपतिः पणेन ॥ 1.15 ॥
&द्रौपदी&:
{प्क्त्_9}*सहर्षं जनान्तिकम्**
णाह अस्सुदपुव्वं खु दे ईदिसं वअणं । ता पुणो बि दाव भणाहि ।
स्क्त्छ्_9: नाथ अश्रुतपूर्वं खलु त ईदृशं वचनम् । तत्पुनरपि तावद्भण ।
&भीमसेनः&:
*अशृण्वन्नेव मथ्नामीत्यादि पुनः पठति**
&सहदेवः&:
आर्य किं महाराजस्य संदेशो ऽव्युत्पन्न इव गृहीतः ।
&भीमसेनः&:
का पुनरत्र व्युत्पत्तिः ।
&सहदेवः&:
आर्य एवं गुरणा संदिष्टम् ।
&भीमसेनः&:
कस्य ।
&सहदेवः&:
सुयोधनस्य ।
&भीमसेनः&:
किमिति ।
&सहदेवः&:
वेर्से_1.16
इन्द्रप्रस्थं वृकप्रस्थं जयन्तं वारणावतम् ।
प्रयच्छ चतुरो ग्रामान्कंचिदेकं तु पञ्चमम् ॥ 1.16 ॥
&भीमसेनः&:
ततः किम् ।
&सहदेवः&:
तदेवमनया प्रतिनामग्रामप्रार्थनया पञ्चमस्य चाकीर्तनाद्विषभोजनजतुगृहदाहद्यूतसभाद्यपकारस्थानोद्घाटनमेवेदं मन्ये ।
&भीमसेनः&:
*साटोपम्**
वत्स एवं कृते किं कृतं भवति ।

&सहदेवः&:
आर्य एवं कृते लोके तावत्स्वगोत्रक्षयाशङ्कि हृदयमाविष्कृतं भवति कुरुराजस्यासंधेयता च दर्शिता भवति ।
&भीमसेनः&:
सर्वमप्येतदनर्थकम् । कुरुराजस्य तावदसंधेयता तदैव निवेदिता यदैवास्माभिरितो वनं गच्छद्भिः सर्वैरेव कुरुकुलस्य निधनं प्रतिज्ञातम् । लोके ऽपि च धार्तराष्ट्रकुलक्षयः किं लज्जाकरो भवताम् । अपि च रे मूर्ख
वेर्से_1.17
युष्मान्ह्रेपयति क्रोधाल्लोके शत्रुकुलक्षयः ।
न लज्जयति दाराणां सभायां केशकर्षणम् ॥ 1.17 ॥
&द्रौपदी&:
{प्क्त्_10}*जनान्तिकम्**
णाह ण लज्जन्ति एदे । तुमं बि दाव मा विसुमरेहि ।
स्क्त्छ्_10: नाथ न लज्जन्त एते । त्वमपि तावन्मा विस्मार्षीः ।
&भीमसेनः&:
*सस्मरणम्**
वत्स कथं चिरयति पाञ्चाली ।
&सहदेवः&:
आर्य का खलु वेला तत्रभवत्याः प्राप्तायाः । किं तु रोषावेशवशादागताप्यार्येण नोपलक्षिता ।
&भीमसेनः&:
*दृष्ट्वा सादराम्**
देवि समुद्धतामर्षैरस्माभिरागतापि भवती नोपलक्षिता । अतो न मन्युं कर्तुमर्हसि ।
&द्रौपदी&:
{प्क्त्_11}णाह उदासीणेसु तुम्हेसु मण्णू ण उण कुबिदेसु ।
स्क्त्छ्_11: नाथ उदासीनेषु युष्मासु मन्युर्न पुनः कुपितेषु ।
&भीमसेनः&:
यद्येवमपगतपरीभवमात्मानं समर्थयस्व* ।हस्तं गृहीत्वा पार्श्वे समुपवेश्य मुखमवलोक्य**
किं पुनरत्रभवतीमुद्विग्नामिवोपलक्षयामि ।
&द्रौपदी&:
{प्क्त्_12}णाह किं उव्वेअकालणं तुम्हेसु सण्णिहिदेसु ।
स्क्त्छ्_12: नाथ किमुद्वेगकारणं युष्मासु संनिहितेषु ।
&भीमसेनः&:
किमिति नावेदयसि* ।केशानवलोक्य**
अथ वा किमावेदितेन
वेर्से_1.18
जीवत्सु पाण्डुपुत्रेषु दूरमप्रोषितेषु च ।
पाञ्चालराजतनया वहते यदिमां दशाम् ॥ 1.18 ॥
&द्रौपदी&:
{प्क्त्_13}हञ्जे बुद्धिमदिए णिवेदेहि दाव णाहस्स । को अण्णो मह परिहवेण खिज्जदि ।
स्क्त्छ्_13: हञ्जे बुद्धिमतिके निवेदय तावन्नाथस्य । को ऽन्यो मम परीभवेन खिद्यते ।
&चेटी&:
{प्क्त्_14}जं देवी आणवेदि* ।भीममुपसृत्याञ्जलिं बद्ध्वा**
कुमाल इदो बि अहिअं अज्ज मण्णुकालणं आसी देवीए ।

स्क्त्छ्_14: यद्देव्याज्ञापयति । कुमार इतो ऽप्यधिकमद्य मन्युकारणमासीद्देव्याः ।
&भीमसेनः&:
किं नामास्मादप्यधिकतरम् । तत्कथय कथय ।
वेर्से_1.19
कौरव्यवंशदावे ऽस्मिन्क एष शलभायते ।
मुक्तवेणीं स्पृशन्नेनां कृष्णां धूमशिखामिव ॥ 1.19 ॥
&चेटी&:
{प्क्त्_15}सुणादु कुमालो । अज्ज खु देवी अम्बासहिदा सुभद्दप्पमुहेण सबत्तिवग्गेण परिवुदा अज्जाए गन्धालीए पादवन्दणं कादुं गदा आसी ।
स्क्त्छ्_15: शृणोतु कमारः । अद्य खलु देव्यम्बासहिता सुभद्राप्रमुखेण सपत्नीवर्गेण परिवृतार्याया गान्धार्याः पादवन्दनं कर्तुं गतासीत् ।
&भीमसेनः&:
युक्तमेतत् । वन्द्याः खलु गुरवः । ततस्ततः ।
&चेटी&:
{प्क्त्_16}तदो पडिणिउत्तमाणा भाणुमदीए दिट्ठा ।
स्क्त्छ्_16: ततः प्रतिनिवर्तमाना भानुमत्या दृष्टा ।
&भीमसनः&:
*सक्रोधम्**
आः शत्रोर्भार्यया दृष्टा । हन्त स्थानं क्रोधस्य देव्याः । ततस्ततः ।
&चेटी&:
{प्क्त्_17}तदो ताए देविं पेक्खिअ सहीवअणदिण्णदिट्ठीए सगव्वं ईसि विहसिअ भणिदं ।
स्क्त्छ्_17: ततस्तया देवीं प्रेक्ष्य सखीवदनदत्तदृष्ट्या सगर्वमीषद्विहस्य भणितम् ।
&भीमसेनः&:
न केवलं दृष्टोक्ता च । अहो किं कुर्मः । ततस्ततः ।
&चेटी&:
{प्क्त्_18}ऐ जण्णसेणि पञ्च गामा पत्थीअन्ति त्ति सुणीअदि । कीस दाणिं बि दे केसा ण संजमीअन्ति ।
स्क्त्छ्_18: अयि याज्ञसेनि पञ्चग्रामाः प्रार्थ्यन्त इति श्रूयते । कस्मादिदानीमपि ते केशा न संयम्यन्ते ।
&भीमसेनः&:
सहदेव श्रुतम् ।
&सहदेवः&:
किमिहोच्यते । दुर्योधनकलत्रं हि सा । पश्य ।
वेर्से_1.20
स्त्रीणां हि साहचर्याद्भवन्ति चेतांसि भर्तृसदृशानि ।
मधुरापि हि मूर्च्छयते विषविटपिसमाश्रिता वल्ली ॥ 1.20 ॥
&भीमसेनः&:
बुद्धिमतिके ततो देव्या किमभिहितम् ।
&चेटी&:
{प्क्त्_19}कुमाल जै परिजणहीणा भवे तदो देवी भणादि ।
स्क्त्छ्_19: कुमार यदि परिजनहीना भवेत्तदा देवी भणति ।
&भीमसेनः&:
किं पुनरभिहितं भवत्या ।
&चेटी&:

{प्क्त्_20}मए एव्वं भणिदं । ऐ भाणुमदि तुम्हाणं अमुक्केसु केसेसु कहं अम्हाणं देवीए केसा संजमीअन्ति त्ति ।
स्क्त्छ्_20: मया एवं भणितम् । अयि भानुमति युष्माकममुक्तेषु केशेषु कथमस्माकं देव्याः केशाः संयम्यन्त इति ।
&भीमसेनः&:
*सपरितोषम्**
साधु बुद्धिमतिके साधु । तदभिहितं यदस्मत्परिजनोचितम्* ।स्वाभरणानि बुद्धिमतिकायै प्रयच्छति**
अत्रभवति पाञ्चालराजतनये श्रूयताम् । अचिरेणैव कालेन
वेर्से_1.21
चञ्चद्भुजभ्रमितचण्डगदाभिघात- $ संचूर्णितोरुयुगलस्य सुयोधनस्य &
स्त्यानावनद्धघनशोणितशोणपाणि- ē̃ रुत्तंसयिष्यति कचांस्तव देवि भीमः ॥ 1.21 ॥
[संध्यङ्ग । वलुए="परिन्यास" रेस्प्="व् 6.71" fरोम्="प्ल्3"]
&द्रौपदी&:
{प्क्त्_21}किं णाह दुक्करं तुए परिकुबिदेण ।
अणुगेण्हन्तु एदं ववसिदं दे भादरो ।
स्क्त्छ्_21: किं नाथ दुष्करं त्वया परिकुपितेन । अनुगृह्णन्त्वेतद्व्यवसितं ते भ्रातरः ।
[संध्यङ्ग । वलुए="विलोभन" रेस्प्="व् 6.72" fरोम्="छ्21" तो="प्ल्4"]
&सहदेवः&:
अनुगृहीतमेतदस्माभिः ।
*नेपथ्ये महान्कलकलः । सर्वे सविस्मयमाकर्णयन्ति**
&भीमसेनः&:
वेर्से_1.22
मन्थायस्तार्णवाम्भःप्लुतकुहरवलन्मन्दरध्वानधीरः $ कोणाघातेषु गर्जत्प्रलयघनघटान्यो ऽन्यसंघट्टचण्डः &
कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः ē̃ केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताड्यते ऽयम् ॥ 1.22 ॥
*प्रविश्य संभ्रान्तः**
&कञ्चुकी&:
कुमार एष खलु भगवान्वासुदेवः ।
*सर्वे कृताञ्जलयः समुत्तिष्ठन्ति**
&भीमसेनः&:
*ससंभ्रमम्**
क्वासौ भगवान् ।
&कञ्चुकी&:
पाण्डवपक्षपातामर्षितेन सुयोधनेन संयन्तुमारब्धः ।
*सर्वे संभ्रमं नाटयन्ति**
&भीमसेनः&:
किं संयतः ।
&कञ्चुकी&:
न हि न हि संयन्तुमारब्धः ।
&भीमसेनः&:
किं कृतं देवेन ।
&कञ्चुकी&:
ततः स महात्मा दर्शितविश्वरूपतेजःसंपातमूर्च्छितमवधूय कुरुकुलमस्मच्छिबिरसंनिवेशमनुप्राप्तः । कमारमविलम्बितं द्रष्टुमिच्छति ।

&भीमसेनः&:
*सोपहासम्**
किं नाम दुरात्मा सुयोधनो भगवन्तं संयन्तुमिच्छति* ।आकाशे दत्तदृष्टिः**
आः दुरात्मन्कुरुकुलपांसन एवमतिक्रान्तमर्यादे त्वयि निमित्तमात्रेण पाण्डवक्रोधेन भवितव्यम् ।
&सहदेवः&:
आर्य किमसौ दुरात्मा सुयोधनो वासुदेवमपि भगवन्तं स्वेन रूपेण न जानाति ।
&भीमसेनः&:
वत्स मूढः खल्वयं दुरात्मा । कथं जानातु । पश्य ।
वेर्से_1.23
आत्मारामा विहितमतयो निर्विकल्पे समाधौ $ ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः &
यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्ता- ē̃ त्तं मोहान्धः कथमयममुं वेत्तु देवं पुराणम् ॥ 1.23 ॥
आर्य जयंधर किमिदानीमध्यवस्यति गुरुः ।
&कञ्चुकी&:
स्वयमेव गत्वा महाराजस्याध्यवसितं ज्ञास्यति कुमारः ।
*इति निष्क्रान्तः**
*नेपथ्ये कलकलानन्तरम्**
भो भो द्रुपदविराटवृष्ण्यन्धकसहदेवप्रभृतयो ऽस्मदक्षौहिणीपतयः कौरवचमूप्रधानयोधाश्च शृण्वन्तु भवन्तः ।
वेर्से_1.24
यत्सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं $ यद्विस्मर्तुमपीहितं शमवता शान्तिं कुलस्येच्छता &
तद्द्यूतारणिसंभृतं नृपवधूकेशाम्बराकर्षणैः ē̃ क्रोधज्योतिरिदं महत्कुरुवने यौधिष्ठिरं जृम्भते ॥ 1.24 ॥
&भीमसेनः&:
*आकर्ण्य । सहर्षम्**
जृम्भतां जृम्भतामप्रतिहतप्रसरमार्यस्य क्रोधज्योतिः ।
&द्रौपदी&:
{प्क्त्_22}णाह किं दाणिं एसो पलअजलहरत्थणिदमंसलो खणे खणे समरदुन्दुही ताडीअदि ।
स्क्त्छ्_22: नाथ किमिदानीमेष प्रलयजलधरस्तनितमांसलः क्षणे क्षणे समरदुन्दुभिस्ताड्यते ।
&भीमसेनः&:
देवि किमन्यत् । यज्ञः प्रवर्तते ।
&द्रौपदी&:
{प्क्त्_23}*सविस्मयम्**
को एसो जण्णो ।
स्क्त्छ्_23: क एष यज्ञः ।
&भीमसेनः&:
रणयज्ञः । तथा हि
वेर्से_1.25
चत्वारो वयमृत्विजः स भगवान्कर्मोपदेष्टा हरिः $ संग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतव्रता &
कौरव्याः पशवः प्रियापरिभवक्लेशोपशान्तिः फलं ē̃ राजन्योपनिमन्त्रणाय रसति स्फीतं यशोदुन्दुभिः ॥ 1.25 ॥
&सहदेवः&:
आर्य गच्छामो वयमिदानीं गुरुजनानुज्ञाप्ता किक्रमानुरूपमाचरितुम् ।
&भीमसेनः&:

वत्स एते वयमुद्यता एवार्यस्यानुज्ञानमनुष्ठातुम्* ।
उत्थाय**
देवि गच्छामो वयमिदानीं कुरुकुलक्षयाय ।
&द्रौपदी&:
{प्क्त्_24}*बाष्पं धारयन्ती**
णाह असुरसमराहिमुहस्स हरिणो विअ मङ्गलं तुम्हाणं होदु ।
स्क्त्छ्_24: नाथ असुरसमराभिमुखस्य हरेरिव मङ्गलं युष्माकं भवतु ।
&उभौ&:
प्रतिगृहीतं मङ्गलवचनमस्माभिः ।
&द्रौपदी&:
{प्क्त्_25}अण्णं च णाह पुणो बि तुम्हेहिं समरादो आअच्छिअ अहं समासासैदव्वा ।
स्क्त्छ्_25: अन्यच्च नाथ पुनरपि युष्माभिः समरादागत्याहं समाश्वासयितव्या ।
&भीमसेनः&:
ननु पाञ्चालराजतनये किमद्याप्यलीकाश्वासनया ।
वेर्से_1.26
भूयः परिभवक्लान्तिलज्जाविधुरिताननम् ।
अनिःशेषितकौरव्यं न पश्यसि वृकोदरम् ॥ 1.26 ॥
&द्रौपदी&:
{प्क्त्_26}णाह मा खु मा खु जण्णसेणीपरिहवुद्दीबिदकोबाणला अणवेक्खिदसरीरा संचरिस्सह । जदो अप्पमत्तसंचरणिज्जाइं रिउबलाइं सुणीअन्ति ।
स्क्त्छ्_26: नाथ मा खलु मा खलु याज्ञसेनीपरिभवोद्दीपितकोपानला अनपेक्षितशरीराः संचरिष्यथ । यतो ऽप्रमत्तसंचरणीयानि रिपुबलानि श्रूयन्ते ।
&भीमसेनः&:
अयि सुक्षत्रिये
वेर्से_1.27
अन्यो ऽन्यास्फालभिन्नद्विपरुधिरवसामांसमस्तिष्कपङ्के $ मग्नानां स्यन्दनानामुपरिकृतपदन्यासविक्रान्तपत्तौ &
स्फीतासृक्पानगोष्ठीरसदशिवशिवातूर्यनृत्यत्कबन्धे ē̃ संग्रामैकार्णवान्तःपयसि विचरितुं पण्डिताः पाण्डुपुत्राः ॥ 1.27 ॥
*इति निष्क्रान्ताः सर्वे**
इति प्रथमो ऽङ्कः ।
अच्त्_2
द्वितीयो ऽङ्कः ।
*ततः प्रविशति कञ्चुकी**
&कञ्चुकी&:
आदिष्टो ऽस्मि महाराजदुर्योधनेन । विनयंधर सत्वरं गच्छ त्वम् । अन्विष्यतां देवी भानुमती । अपि निवृत्ताम्बायाः पादवन्दनसमयान्न वेति । यतस्तां विलोक्य निहताभिमन्यवो राधेयजयद्रथप्रभृतयो ऽस्मत्सेनापतयः समरभूमिं गत्वा सभाजयितव्या इति । तन्मया द्रुततरं गन्तव्यम् । अहो प्रभविष्णुता महाराजस्य यन्मम जरसाभिभूतस्य मर्यादामात्रमेवावरोधव्यापारः । अथ वा किमिति जरामुपालभेय यतः सर्वान्तःपुरिकाणामेव व्यावहारिको वेषश्चेष्टा च । तथा हि
वेर्से_2.1
नोच्चैः सत्यपि चक्षुषीक्षितमलं श्रुत्वापि नाकर्णितं $ शक्तेनाप्यधिकार इत्यधिकृता यष्टिः समालम्बिता &
सर्वत्र स्खलितेषु दत्तमनसा यातं मया नोद्धतं ē̃ सेवास्वीकृतजीवितस्य जरसा किं नाम यन्मे कृतम् ॥ 2.1 ॥
*परिक्रम्य दृष्ट्वाकाशे**
विहंगिके अपि श्वश्रूजनपादवन्दनं कृत्वा प्रतिनिवृत्ता भानुमती* ।कर्णं दत्त्वा**
किं कथयसि । एषा भानुमती देवी पत्युः समरविजयाशंसया निर्वर्तितगुरुदेवपादवन्दनाद्यप्रभृत्यारब्धनियमा बालोद्याने तिष्ठतीति । तद्भद्रे गच्छ त्वमात्मव्यापाराय यावदहमप्यत्रस्थां देवीं महाराजाय निवेदयामि* ।इति परिक्रम्य**
साधु पतिव्रते साधु स्त्रीभावे ऽपि वर्तमाना वरं भवती न पुनर्महाराजः यो ऽयमुद्यतेषु बलवत्स्वबलवत्सु वा वासुदेवसहायेषु पाण्डुपुत्रेष्वरिष्वद्याप्यन्तःपुरविहारमनुभवति* ।विचिन्त्य**
इदमपरमयथातथं स्वामिनश्चेष्टितम् । कुतः

वेर्से_2.2
आ शस्त्रग्रहणादकुण्ठपरशोस्तस्यापि जेता मुने- $ स्तापायास्य न पाण्डुसूनुभिरयं भीष्मः शरैः शायितः &
प्रौढानेकधनुर्धरारिविजयश्रान्तस्य चैकाकिनो ē̃ बालस्यायमरातिलूनधनुषः प्रीतो ऽभिमन्योर्वधात् ॥ 2.2 ॥
सर्वथा दैवं नः स्वस्ति करिष्यति । तद्यावदत्रस्थां देवीं महाराजाय निवेदयामि* ।इति निष्क्रान्तः**
विष्कम्भकः ।
*ततः प्रविशत्यासनस्था देवी भानुमती सखी चेटी च**
&सखी&:
{प्क्त्_27}सहि भाणुमदि कीस दाणिं तुमं सिबिणअदंसणमेत्तस्स किदे अहिमाणिणो महाराअदुज्जोहणस्स महिसी भविअ एव्वं विअलिअधीरभावा अदिमेत्तं संतप्पसि ।
स्क्त्छ्_27: सखि भानुमति कस्मादिदानीं त्वं स्वप्नदर्शनमात्रस्य कृते ऽभिमानिनो महाराजदुर्योधनस्य महिषी भूत्वैवं विगलितधीरभावातिमात्रं संतप्यसे ।
&चेटी&:
{प्क्त्_28}भट्टिणि सोहणं भणादि सुवअणा । सिबिणअन्तो जणो किं ण खु पलबदि ।
स्क्त्छ्_28: भट्टिनि शोभनं वदति सुवदना । स्वपञ्जनः किं न खलु प्रलपति ।
&भानुमती&:
{प्क्त्_29}हञ्जे एव्वं एदं । किं दु एदं सिबिणअं अदिमेत्तं अकुसलदंसणं मे पडिभादि ।
स्क्त्छ्_29: हञ्जे एवमेतत् । किं त्वयं स्वप्नो ऽतिमात्रमकुशलदर्शनो मे प्रतिभाति ।
&सखी&:
{प्क्त्_30}पिअसहि जै एव्वं ता कहेहि सिबिणअं जेण अम्हे बि पडिट्ठाबअन्तीओ धम्मप्पसंसाए देवदासंकित्तणेण दुव्वादिपडिग्गहेण अ पडिहडिस्सामो ।
स्क्त्छ्_30: प्रियसखि यद्येवं तत्कथय स्वप्नं येनावामपि प्रतिष्ठापयन्त्यौ धर्मप्रशंसया देवतासंकीर्तनेन दूर्वादिपरिग्रहेण च परिहरिष्यावः ।
&चेटी&:
{प्क्त्_31}सोहणं क्खु भणादि सुवअणा । अकुसलदंसणा सिबिणआ देवदाणं पसंसाए कुसलपरिणामा होन्ति त्ति सुणीअदि ।
स्क्त्छ्_31: शोभनं खलु भणति सुवदना । अकुशलदर्शनाः स्वप्ना देवतानां प्रशंसया कुशलपरिणामा भवन्तीति श्रूयते ।
&भानुमती&:
{प्क्त्_32}जै एव्वं ता कहैस्सं । अवहिदा दाव होहि ।
स्क्त्छ्_32: यद्येवं तत्कथयिष्ये । अवहिता तावद्भव ।
&सखी&:
{प्क्त्_33}अवहिदम्हि । कहेदु पिअसही ।
स्क्त्छ्_33: अवहितास्मि । कथयतु प्रियसखी ।
&भानुमती&:
{प्क्त्_34}हला भएण विसुमरिदम्हि । ता चिट्ठ जाव सव्वं सुमरिअ कहैस्सं* ।इति चिन्तां नाटयति**
स्क्त्छ्_34: हला भयेन विस्मृतास्मि । तत्तिष्ठ यावत्सर्वं स्मृत्वा कथयिष्यामि ।
*ततः प्रविशति दुर्योधनः कञ्चुकी च**
&दुर्योधनः&:
सूक्तमिदं कस्यचित् ।
वेर्से_2.3
गुप्त्या साक्षान्महानल्पः स्वयमन्येन वा कृतः ।
करोति महतीं प्रीतिमपकारो ऽपकारिणाम् ॥ 2.3 ॥
येनाद्य द्रोणकर्णजयद्रथादिभिर्हतमभिमन्युमुपश्रुत्य समुच्छ्वासितमिव नश्चेतसा ।
&कञ्चुकी&:
देव नेदमतिदुष्करमाचार्यशस्त्रप्रभावाणां कर्णजयद्रथयोर्वा । का नामात्र श्लाघा ।
&राजा&:

विनयंधर किमाह भवान् । एको बहुभिर्बालो लूनशरासनश्च निहत इत्यत्र का श्लाघा कुरुपुंगवानामिति । मूढ पश्य ।
वेर्से_2.4
हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनम् ।
या श्लाघा पाण्डुपुत्राणां सैवास्माकं भविष्यति ॥ 2.4 ॥
&कञ्चुकी&:
*सवैलक्ष्यम्**
देव न ममायं संकल्पः । किं तु भवत्पौरुषप्रतीघातो ऽस्माभिर्नावलोकितपूर्व इत्यत एवं विज्ञापयामि ।
&राजा&:
एवमिदम् ।
वेर्से_2.5
सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् ।
स्वबलेन निहन्ति संयुगे न चिरात्पाण्डुसुतः सुयोधनम् ॥ 2.5 ॥
&कञ्चुकी&:
*कर्णौ पिधाय सभयम्**
शान्तं पापम् । प्रतिहतममङ्गलम् ।
&राजा&:
विनयंधर किं मयोक्तम् ।
&कञ्चुकी&:
*सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् । स्वबलेन निहन्ति संयुगे न चिरात्पाण्डुसुतं सुयोधनः ॥ इति पठति**
एतद्विपरीतमभिहितं देवेन ।
&राजा&:
विनयंधर अद्य खलु भानुमती यथापूर्वं मामनामन्त्र्य वासभवनात्प्रातरेव निष्क्रान्तेति व्याक्षिप्तं मे मनः । तदादेशय तमुद्देशं यत्रस्था भानुमती ।
&कञ्चुकी&:
इत इतो देवः ।
*उभौ परिक्रामतः**
&कञ्चुकी&:
*पुरो ऽवलोक्य समन्ततो गन्धमाघ्राय**
देव पश्य पश्य । एतत्तुहिनकणशिशिरसमीरणोद्वेल्लितबन्धनच्युतशेफालिकाविरचितकुसुमप्रकरमीषदालोहितमुग्धवधूकपोलपाटललोध्रप्रसूनविजितश्यामलतासौभाग्यमुन्मीलितबकुलकुन्दकुसुमसुरभिशीतलं प्रभातकालरमणीयमग्रतस्ते बालोद्यानम् । तदवलोकयतु देवः । तथा हि
वेर्से_2.6
प्रालेयमिश्रमकरन्दकरालकोशैः $ पुष्पैः समं निपतिता रजनीप्रबुद्धैः &
अर्कांशुभिन्नमुकुलोदरसान्द्रगन्ध- ē̃ संसूचितानि कमलान्यलयः पतन्ति ॥ 2.6 ॥
&राजा&:
*समन्तादवलोक्य**
विनयंधर इदमपरममुष्मिन्नुषसि रमणीयम् । पश्य ।
वेर्से_2.7
जृम्भारम्भप्रविततदलोपान्तजालप्रविष्टै- $ र्हस्तैर्भानोर्नृपतय इव स्पृश्यमाना विबुद्धाः &
स्त्रीभिः सार्धं घनपरिमलस्तोकलक्ष्याङ्गरागा ē̃ मुञ्चन्त्येते विकचनलिनीगर्भशय्यां द्विरेफाः ॥ 2.7 ॥
&कञ्चुकी&:
देव नन्वेषा देवी भानुमती सुवदनया तरलिकया च पर्युपास्यमाना तिष्ठति । तदुपसर्पतु देवः ।
&राजा&:

*दृष्ट्वा**
आर्य विनयंधर गच्छ त्वं सांग्रामिकं मे रथमुपकल्पयितुम् । अहमप्येष देवीं दृष्ट्वानुपदमागत एव ।
&कञ्चुकी&:
एष कृतो देवादेशः* ।इति निष्क्रान्तः**
&सखी&:
{प्क्त्_35}पिअसहि अबि सुमरिदं तुए ।
स्क्त्छ्_35: प्रियसखि अपि स्मृतं त्वया ।
&भानुमती&:
{प्क्त्_36}सहि सुमरिदं । अज्ज किल पमदवणे आसीणाए मम अग्गदो केण बि अदिसैददिव्वरूबिणा णौलेण अहिसदं वाबादिदं ।
स्क्त्छ्_36: सखि स्मृतम् । अद्य किल प्रमदवन आसीनाया ममाग्रतः केनाप्यतिशयितदिव्यरूपिणा नकुलेनाहिशतं व्यापादितम् ।
&उभे&:
{प्क्त्_37}*अपवार्यात्मगतम्**
सन्तं पाबं पडिहदं अमङ्गलं* ।प्रकाशम्**
तदो तदो ।
स्क्त्छ्_37: शान्तं पापं प्रतिहतममङ्गलम् । ततस्ततः ।
&भानुमती&:
{प्क्त्_38}अदिसंदाबोबगहीअहिअआए विसुमरिदं मए । ता पुणो बि सुमरिअ कहैस्सं ।
स्क्त्छ्_38: अतिसंतापोपगृहीतहृदयया विस्मृतं मया । तत्पुनरपि स्मृत्वा कथयिष्ये ।
&राजा&:
अहो देवी भानुमती सुवदनातरलिकाभ्यां सह किमपि मन्त्रयमाणा तिष्ठति । भवतु । अनेन लताजालेनान्तरितः शृणोमि तावदासां विश्रब्धालापम्* ।इति तथा स्थितः**
&सखी&:
{प्क्त्_39}सहि अलं संदाबेण । कहेदु पिअसही ।
स्क्त्छ्_39: सखि अलं संतापेन । कथयतु प्रियसखी ।
&राजा&:
किं नु खल्वस्याः संतापकारणम् । अथ वानामन्त्र्य मामियमद्य वासभवनान्निष्क्रान्तेति समर्थित एवास्या मया कोपः । अयि भानुमति अविषयः खलु दुर्योधनो भवत्याः कोपस्य ।
वेर्से_2.8
किं कण्ठे शिथिलीकृतो भुजलतापाशः प्रमादान्मया $ निद्राच्छेदविवर्तनेष्वभिमुखं नाद्यासि संभाविता &
अन्यस्त्रीजनसंकथालघुरहं स्वप्ने त्वया लक्षितो ē̃ दोषं पश्यसि कं प्रिये परिजनोपालम्भयोग्ये मयि ॥ 2.8 ॥
*विचिन्त्य**
अथ वा
वेर्से_2.9
इयमस्मदुपाश्रयैकचित्ता मनसा प्रेमनिबद्धमत्सरेण ।
नियतं कुपितातिवल्लभत्वात्स्वयमुत्प्रेक्ष्य ममापराधलेशम् ॥ 2.9 ॥
तथापि शृणुमस्तावत्किं वक्ष्यतीति ।
&भानुमती&:
{प्क्त्_40}हला हं तदो तस्स अदिसैददिव्वरूबिणो णौलस्स दंसणेण उस्सुआ जादा ।
स्क्त्छ्_40: हला अहं ततस्तस्यातिशयितदिव्यरूपिणो नकुलस्य दर्शनेनोत्सुका जाता ।
&राजा&:
*सवैलक्ष्यम्**
किं नामातिशयितदिव्यरूपिणो नकुलस्य दर्शनेनोत्सुका जाता । तत्किमनया पापया माद्रीसुतानुरक्तया वयमेवं विप्रलब्धाः* ।सोत्प्रेक्षमियमस्मदिति पठित्वा**

मूढ दुर्योधन कुलटाविप्रलभ्यमानमात्मानं बहुमन्यमानो ऽधुना किं वक्ष्यसि* ।किं कण्ठ इत्यादि पठित्वा दिशो ऽवलोक्य**
अहो एतदर्थमेवास्याः प्रातरेव विविक्तस्थानाभिलाषः सखीजनसंकथासु च पक्षपातः । दुर्योधनस्तु मोहादविज्ञातबन्धकीहृदयसारः क्वापि परिभ्रान्तः । आः पापे मत्परिग्रहपांसुले
वेर्से_2.10
तद्भीरुत्वं तव मम पुरः साहसानीदृशानि $ श्लाघा सास्मद्वपुषि विनयव्युत्क्रमे ऽप्येष रागः &
तच्चौदार्यं मयि जडमतौ चापले को ऽपि पन्थाः ē̃ ख्याते तस्मिन्वितमसि कुले जन्म कौलीनमेतत् ॥ 2.10 ॥
&सखी&:
{प्क्त्_41}तदो तदो ।
स्क्त्छ्_41: ततस्ततः ।
&भानुमती&:
{प्क्त्_42}तदो उज्झिअ तं आसणट्ठाणं लदामण्डबं पविट्ठा । तदो सो बि मं अणुसरन्तो एव्व लदामण्डबं पविट्ठो ।
स्क्त्छ्_42: तत उज्झित्वा तदासनस्थानं लतामण्डपं प्रविष्टा । ततः सो ऽपि मामनुसरन्नेव लतामण्डपं प्रविष्टः ।
&राजा&:
अहो कुटलोचितमस्याः पापाया अशालीनत्वम् ।
वेर्से_2.11
यस्मिंश्चिरप्रणयनिर्भरबद्धभाव- $ मावेदितो रहसि मत्सुरतोपभोगः &
तत्रैव दुश्चरितमद्य निवेदयन्ती ē̃ ह्रीणासि पापहृदये न सखीजने ऽस्मिन् ॥ 2.11 ॥
&उभे&:
{प्क्त्_43}तदो तदो ।
स्क्त्छ्_43: ततस्ततः ।
&भानुमती&:
{प्क्त्_44}तदो तेण सगव्वं पसारिअकरेण अपहरिअं मे थणंसुअं ।
स्क्त्छ्_44: ततस्तेन सगर्वं प्रसारितकरेणापहृतं मे स्तनांशुकम् ।
&राजा&:
*विचिन्त्य**
सगर्वं प्रसारितकरेणापहृतं मे स्तनांशुकम्* ।सक्रोधम्**
अलमतः परं श्रुत्वा । भवतु तावत्तस्य परवनितास्कन्दनप्रगल्भस्य माद्रीसुतहतकस्य जीवितमपहरामि* ।किंचिद्गत्वा विचिन्त्य**
अथ वेयमेव तावत्पापशीला प्रथममनुशासनीया* ।इति निवर्तते**
&उभे&:
{न्_45}तदो तदो ।
स्क्त्छ्_45: ततस्ततः ।
&भानुमती&:
{प्क्त्_46}तदो हं अज्जौत्तस्स पभादमङ्गलतूररवमिस्सेण वारविलासिणीसंगीदसद्देण पडिबोधिदम्हि ।
स्क्त्छ्_46: ततो ऽहमार्यपुत्रस्य प्रभातमङ्गलतूर्यरवमिश्रेण वारविलासिनीसंगीतशब्देन प्रतिबोधितास्मि ।
&राजा&:
*सवितर्कम्**
किं नु प्रतिबोधितास्मीति स्वप्नदर्शनमनया वर्णितं भवेत्* ।विचिन्त्य**
भवतु सखीवचनाद्व्यक्तिर्भविष्यति ।
*उभे सविषादमन्यो ऽन्यं पश्यतः**
&सुवदना&:
{प्क्त्_47}जं किं बि एत्थ अच्चाहिदं तं भाईरहीप्पमुहाणं णईणं सलिलेण अवहरीअदु । भअवदाणं बम्हणाणं बि आसीसाए आहुदिहुदेण पज्जलिदेण भअवदा हुदासणेण अ णस्सदु ।

स्क्त्छ्_47: यत्किमप्यत्रात्याहितं तद्भागीरथीप्रमुखाणां नदीनां सलिलेनापह्रियताम् । भगवतां ब्राह्मणानामप्याशिषाहुतिहुतेन प्रज्वलितेन भगवता हुताशनेन च नश्यतु ।
&राजा&:
अलं विकल्पेन । स्वप्नदर्शनमेवैतदनया वर्णितम् । मया पुनर्मन्दधियान्यथैव संभावितम् ।
वेर्से_2.12
दिष्ट्यार्धश्रुतिविप्रलम्भजनितक्रोधादहं नो गतो $ दिष्ट्या नो परुषं रुषार्धकथने किंचिन्मया व्याहृतम् &
मां प्रत्याययितुं विमूढहृदयं दिष्ट्या कथान्तं गता ē̃ मिथ्यादूषितयानया विरहितं दिष्ट्या न जातं जगत् ॥ 2.12 ॥
&भानुमती&:
{प्क्त्_48}हला कहेहि किं एत्थ सुहसूअअं ।
स्क्त्छ्_48: हला कथय किमत्र शुभसूचकम् ।
&सखी चेटी च&:
{प्क्त्_49}*अन्यो ऽन्यमवलोक्यापवार्य**
एत्थ णत्थि थोअं बि सुहसूअअं । जै एत्थ अलीअं कहैस्सं ता पिअसहीए अबराहिणी भविस्सं । सो एव्व सिणिद्धो जणो जो पुच्छिदो परुसं बि हिदं भणादि* ।प्रकाशम्**
सहि सव्वं एव्व एदं असुहणिवेदणं । ता देवदाणं पणामेण दुजादिजणपडिग्गहेण अ अन्तरीअदु । ण हु दाठिणो णौलस्स वा दंसणं अहिसदवहं अ सिबिणए पसंसन्ति विअक्खणा ।
स्क्त्छ्_49: अत्र नास्ति स्तोकमपि शुभसूचकम् । यद्यत्रालीकं कथयिष्ये तत्प्रियसख्या अपराधिनी भविष्यामि । स एव स्निग्धो जनो यः पृष्टः परुषमपि हितं भणति । सखि सर्वमेवैतदशुभनिवेदनम् । तद्देवतानां प्रणामेन द्विजातिजनप्रतिग्रहेण चान्तर्यताम् । न खलु दंष्ट्रिणो नकुलस्य वा दर्शनमहिशतवधं च स्वप्ने प्रशंसन्ति विचक्षणाः ।
&राजा&:
अवितथमाह सुवदना । नकुलेन पन्नगशतवधः स्तनांशुकापहरणं च नियतमरिष्टोदर्कं तर्कयामि ।
वेर्से_2.13
पर्यायेण हि दृश्यन्ते स्वप्नाः कामं शुभाशुभाः ।
शतसंख्या पुनरियं सानुजं स्पृशतीव माम् ॥ 2.13 ॥
*वामाक्षिस्पन्दनं सूचयित्वा**
आः ममापि नाम दुर्योधनस्यानिमित्तानि हृदयक्षोभमावेदयन्ति* ।सावष्टम्भम्**
अथ वा भीरुजनहृदयप्रकम्पनेषु का गणना दुर्योधनस्यैवंविधेषु । गीतश्चायमर्थो ऽङ्गिरसा ।
वेर्से_2.14
ग्रहाणां चरितं स्वप्नो ऽनिमित्तान्युपयाचितम् ।
फलन्ति काकतालीयं तेभ्यः प्राज्ञा न बिभ्यति ॥ 2.14 ॥
तद्भानुमत्याः स्त्रीस्वभावसुलभामलीकाशङ्कामपनयामि ।
&भानुमती&:
{प्क्त्_50}हला सुवअणे पेक्ख दाव उदअगिरिसिहरन्तरिदविमुक्करहवरो विअलिदसंझाराअप्पसण्णदुरालोअमण्डलो जादो भअवं दिअहणाहो ।
स्क्त्छ्_50: हला सुवदने पश्य तावदुदयगिरिशिखरान्तरितविमुक्तरथवरो विगलितसंध्यारागप्रसन्नदुरालोकमण्डलो जातो भगवान्दिवसनाथः ।
&सखी&:
{प्क्त्_51}सहि रोसाणिदकणअपत्तसरिसेण लदाजालन्तरोबहिदकिरणणिवहेण पिञ्जरिदुज्जाणभूमिभाओ दुप्पेक्खणिज्जो भअवं सहस्सरस्सी संवुत्तो । ता समओ दे लोहिदचन्दणकुसुमगब्भेण अग्घेण पज्जुबट्ठादुं ।
स्क्त्छ्_51: सखि रोषाणितकनकपत्रसदृशेन लताजालान्तरोपहितकिरणनिवहेन पिञ्जरितोद्यानभूमिभागो दुःप्रेक्षणीयो भगवान्सहस्ररश्मिः संवृत्तः । तत्समयस्ते लोहितचन्दनकुसुमगर्भेणार्घेण पर्युपस्थातुम् ।
&भानुमती&:
{प्क्त्_52}हञ्जे तरलिए उबणेहि मे अग्घभाअणं जाव भअवदो सहस्सरस्सिणो सबरिअं णिव्वत्तेमि ।
स्क्त्छ्_52: हञ्जे तरलिके उपनय मे ऽर्घ्यभाजनं यावद्भगवतः सहस्ररश्मेः सपर्यां निर्वर्तयामि ।
&चेटी&:
{प्क्त्_53}जं देवी आणबेदि* ।इति निष्क्रान्ता**
स्क्त्छ्_53: यद्देव्याज्ञापयति ।
&राजा&:
अयमेव साधुतरोवसरः प्रियासमीपमुपगन्तुम्* ।इत्युपसर्पति**

*प्रविश्य**
&चेटी&:
{प्क्त्_54}भट्टिणि एदं अग्घभाअणं । ता णिव्वत्तीअदु भअवदो सहस्सरस्सिणो सबरिआ ।
स्क्त्छ्_54: भट्टिनि इदमर्घ्यभाजनम् । तन्निवर्त्यतां भगवतः सहस्ररश्मेः सपर्या ।
&सखी&:
{प्क्त्_55}*विलोक्यात्मगतम्**
कहं महाराओ आअदो । हन्त जादो से णिअमभङ्गो ।
स्क्त्छ्_55: कथं महाराज आगतः । हन्त जातो ऽस्या नियमभङ्गः ।
*राजोपसृत्य संज्ञया परिजनमुत्सार्य स्वयमेवार्घ्यपात्रं गृहीत्वा ददाति**
&भानुमती&:
{प्क्त्_56}*दिनकराभिमुखी भूत्वा**
भअवं अम्बरमहासरेक्कसहस्सपत्त पुव्वदिहावहूमुहमण्डलकुङ्कुमविसेसअ सअलभुअणेक्करअणप्पदीब जं एत्थ सिबिणअदंसणे किं बि अच्चाहिदं तं भअवदो पणामेण सभादुअस्स अज्जौत्तस्स कुसलपरिणामि होदु* ।अर्घ्यं दत्त्वा**
हञ्जे तरलिए उबणेहि मे कुसुमाइं । अबराणं बि देवदाणं सबरिअं णिव्वत्तेमि* ।हस्तौ प्रसारयति**
स्क्त्छ्_56: भगवन्नम्बरमहासरएकसहस्रपत्र पूर्वदिशावधूमुखमण्डलकुङ्कुमविशेषक सकलभुवनैकरत्नप्रदीप यदत्र स्वप्नदर्शने किमप्यत्याहितं तद्भगवतः प्रणामेन सभ्रातृकस्यार्यपुत्रस्य कुशलपरिणामि भवतु । हञ्जे तरलिके उपनय मे कुसुमानि । अपरासामपि देवतानां सपर्यां निर्वर्तयामि ।
*राजा पुष्पाण्युपनयति स्पर्शसुखमभिनीय च कुसुमानि भूमौ पातयति**
&भानुमती&:
{प्क्त्_57}*सरोषम्**
अहो पमादो परिअणस्स* ।परिवृत्य दृष्ट्वा ससंभ्रमम्**
कहं अज्जौत्तो ।
स्क्त्छ्_57: अहो प्रमादः परिजनस्य । कथमार्यपुत्रः ।
&राजा&:
देवि अनिपुणः परिजनो ऽयमेवंविधे सेवावकाशे । तत्प्रभवत्यत्रानुशासने देवी ।
*भानुमती लज्जां नाटयति**
&राजा&:
अयि प्रिये
वेर्से_2.15
विकिर धवलदीर्घापाङ्गसंसर्पि चक्षुः $ परिजनपथवर्तिन्यत्र किं संभ्रमेण &
स्मितमधुरमुदारं देवि मामालपोच्चैः ē̃ प्रभवति मम पाण्योरञ्जलिः सेवितुं त्वाम् ॥ 2.15 ॥
&भानुमती&:
{प्क्त्_58}अज्जौत्त अब्भणुण्णादाए तुए अत्थि मे कस्सिं बि णिअमे अहिलासो ।
स्क्त्छ्_58: आर्यपुत्र अभ्यनुज्ञातायास्त्वयास्ति मे कस्मिन्नपि नियमे ऽभिलाषः ।
&राजा&:
श्रुतविस्तार एवास्मि भवत्याः स्वप्नवृत्तान्तं प्रति । तदलमेवं प्रकृतिसुकुमारमात्मानं खेदयितुम् ।
&भानुमती&:
{प्क्त्_59}अज्जौत्त अदिमेत्तं मे सङ्का बाहेइ । ता अणुमण्णदु मं अज्जौत्त ।
स्क्त्छ्_59: आर्यपुत्र अतिमात्रं मां शङ्का बाधते । तदनुमन्यतां मामार्यपुत्रः ।
&राजा&:
*सगर्वम्**
देवि अलमनया शङ्कया । पश्य ।
वेर्से_2.16

किं नो व्याप्तदिशां प्रकम्पितभुवामक्षौहिणीनां फलं $ किं द्रोणेन किमङ्गराजविशिखैरेवं यदि क्लाम्यसि &
भीरु भ्रातृशतस्य मे भुजवनच्छायां सुखोपस्थिता ē̃ त्वं दुर्योधनकेसरीन्द्रगृहिणी शङ्कास्पदं किं तव ॥ 2.16 ॥
&भानुमती&:
{प्क्त्_60}अज्जौत्त ण हु किं बि मे सङ्काकालणं तुम्हेसु सण्णिहिदेसु । किं तु अज्जौत्तस्स एव्व मणोरहसंपत्तिं अभिणन्दामि ।
स्क्त्छ्_60: आर्यपुत्र न खलु किमपि मे शङ्काकारणं युष्मासु संनिहितेषु । किं त्वार्यपुत्रस्यैव मनोरथसंपत्तिमभिनन्दामि ।
&राजा&:
अयि सुन्दरि एतावन्त एव मनोरथा यदहं दयितया संगतः स्वेच्छया विहरामीति । पश्य ।
वेर्से_2.17
प्रेमाबद्धस्तिमितनयनापीयमानाब्जशोभं $ लज्जायोगादविशदकथं मन्दमन्दस्मितं वा &
वक्त्रेन्दुं ते नियममुषितालक्तकाग्राधरं वा । ē̃ पातुं वाञ्छा परमसुलभं किं नु दुर्योधनस्य ॥ 2.17 ॥
*नेपथ्ये महान्कलकलः । सर्व आकर्णयन्ति**
&भानुमती&:
{प्क्त्_61}*सभयं राजानं परिष्वज्य**
परित्ताअदु परित्ताअदु अज्जौत्तो ।
स्क्त्छ्_61: परित्रायतां परित्रायतामार्यपुत्रः ।
&राजा&:
*समन्तादवलोक्य**
प्रिये अलं संभ्रमेण । पश्य ।
वेर्से_2.18
दिक्षु व्यूढाङ्घ्रिपाङ्गस्तृणजटिलचलत्पांशुदण्डो ऽन्तरिक्षे $ झांकारी शर्करालः पथिषु विटपिनां स्कन्धकाषैः सधूमः &
प्रासादानां निकुञ्जेष्वभिनवजलदोद्गारगम्भीरधीर- ē̃ श्चण्डारम्भः समीरो वहति परिदिशं भीरु किं संभ्रमेण ॥ 2.18 ॥
&सखी&:
{प्क्त्_62}महाराओ पविसदु एदं दारुपव्वअपासादं । उव्वेअकारी खु अअं उत्थिदपरुसरअकलुसीकिदणअणो उम्मूलिदतरुवरसद्दवित्तत्थमन्दुरापरिब्भट्ठवल्लहतुलंगमपज्जाउलीकिदजणपद्धई भीसणो समीरणासारो ।
स्क्त्छ्_62: महाराजः प्रविशत्विमं दारुपर्वतप्रासादम् । उद्वेगकारी खल्वयमुत्थितपरुषरजःकलुषीकृतनयन उन्मूलिततरुवरशब्दवित्रस्तमन्दुरापरिभ्रष्टवल्लभतुरंगमपर्याकुलीकृतजनपद्धतिर्भीषणः समीरणासारः ।
&राजा&:
*सहर्षम्**
उपकारि खल्विदं वात्याचक्रं सुयोधनस्य । यस्य प्रसादादयत्नपरित्यक्तनियमया देव्या संपादितो ऽस्मन्मनोरथः । कथमिति ।
वेर्से_2.19
न्यस्ता न भ्रुकुटिर्न बाष्पसलिलैराच्छादिते लोचने $ नीतं नाननमन्यतः सशपथं नाहं स्पृशन्वारितः &
तन्व्या मग्नपयोधरं भयवशादाबद्धमालिङ्गितं ē̃ भङ्क्तास्या नियमस्य भीषणमरुन्नायं वयस्यो मम ॥ 2.19 ॥
तत्संपूर्णमनोरथस्य मे कामचारः संप्रति विहारेषु । तदितो दारुपर्वतप्रासादमेव गच्छामः ।
*सर्वे वात्याबाधां रूपयन्तो यत्नतः परिक्रामन्ति**
&राजा&:
वेर्से_2.20
कुरु घनोरु पदानि शनैः शनैरयि विमुञ्च गतिं परिवेपिनीम् ।
पतसि बाहुलतोपरिबन्धनं मम निपीडय गाढमुरःस्थलम् ॥ 2.20 ॥
*प्रवेशं रूपयित्वा**
प्रिये अलब्धावकाशः समीरणः संवृतत्वाद्गर्भगृहस्य । विस्रब्धमुन्मीलय चक्षुरुन्मृष्टरेणुनिकरम् ।
&भानुमती&:
{प्क्त्_63}*सहर्षम्**

दिट्ठिआ इह दाव उप्पादसमीरणो ण बाधेदि ।
स्क्त्छ्_63: दिष्ट्येह तावदुत्पातसमीरणो न बाधते ।
&सखी&:
{प्क्त्_64}महाराअ आरोहणसंभमणिस्सहं पिअसहीए ऊरुजुअलं । ता कीस दाणिं महाराओ आसणवेदिं ण भूसेदि ।
स्क्त्छ्_64: महाराज आरोहणसंभ्रमनिःसहं प्रियसख्या ऊरुयुगलम् । तत्कस्मादिदानीं महाराज आसनवेदीं न भूषयति ।
&राजा&:
*देवीमवलोक्य**
भवति अनल्पमेवापकृतं वात्यासंभ्रमेण । तथा हि
वेर्से_2.21
रेणुर्बाधां विधत्ते तनुरपि महतीं नेत्रयोरायतत्वा- $ दुत्कम्पो ऽल्पो ऽपि पीनस्तनभरितमुरः क्षिप्तहारं दुनोति &
ऊर्वोर्मन्दे ऽपि याते पृथुजघनभराद्वेपथुर्वर्धते ऽस्या ē̃ वात्या खेदं कृशाङ्गयाः सुचिरमवयवैर्दत्तहस्ता करोति ॥ 2.21 ॥
*सर्व उपविशन्ति**
&राजा&:
तत्किमित्यनास्तीर्णं कठिनं शिलातलमध्यास्ते देवी ।
वेर्से_2.22
लोलांशुकस्य पवनाकुलितांशुकान्तं $ त्वद्दृष्टिहारि मम लोचनबान्धवस्य &
अध्यासितुं तव चिरं जघनस्थलस्य ē̃ पर्याप्तमेव करभोरु ममोरुयुग्मम् ॥ 2.22 ॥
*प्रविश्य पटाक्षेपेण संभ्रान्तः**
&कञ्चुकी&:
देव भग्नं भग्नम् ।
*सर्वे सातङ्कं पश्यन्ति**
&राजा&:
किं नाम ।
&कञ्चुकी&:
भग्नं भीमेन ।
&राजा&:
आः किं प्रलपसि ।
&भानुमती&:
{प्क्त्_65}अज्ज किं अणत्थं मन्तेसि ।
स्क्त्छ्_65: आर्य किमनर्थं मन्त्रयसे ।
&कञ्चुकी&:
*सभयम्**
ननु भग्नं भीमेन भवतः ।
&राजा&:
धिक्प्रलापिन्वृद्धापसद को ऽयमद्य ते व्यामोहः ।
&कञ्चुकी&:
देव न खलु कश्चिद्व्यामोहः । सत्यमेव ब्रवीमि ।
वेर्से_2.23
भग्नं भीमेन भवतो मरुता रथकेतनम् ।
पतितं किङ्किणीक्वाणबद्धाक्रन्दमिव क्षितौ ॥ 2.23 ॥

&राजा&:
बलवत्समीरणवेगात्कम्पिते भुवने भग्नः स्यन्दनकेतुः । तत्किमित्युद्धतं प्रलपसि भग्नं भग्नमिति ।
&कञ्चुकी&:
देव न किंचित् । किं तु शमनार्थमस्यानिमित्तस्य विज्ञापयितव्यो देव इति स्वामिभक्तिर्मां मुखरयति ।
&भानुमती&:
{प्क्त्_66}अज्जौत्त परिहरीअदु एदं अणिमित्तं पसण्णबम्हणवेआणुघोसेण होमेण अ ।
स्क्त्छ्_66: आर्यपुत्र परिहार्यतामेतदनिमित्तं प्रसन्नब्राह्मणवेदानुघोषेण होमेन च ।
&राजा&:
*सावज्ञम्**
ननु गच्छ । पुरोहितसुमित्राय निवेदय ।
&कञ्चुकी&:
यदाज्ञापयति देवः* ।इति निष्क्रान्तः**
*प्रविश्य**
&प्रतीहारी&:
{प्क्त्_67}*सोद्वेगमुपसृत्य**
जअदु जअदु महाराओ । महाराअ एसा खु जामादुणो सिन्धुराअस्स मादा दुस्सला अ पडिहारभूमीए चिट्ठदि ।
स्क्त्छ्_67: जयतु जयतु महाराजः । महाराज एषा खलु जामातुः सिन्धुराजस्य माता दुःशला च प्रतीहारभूमौ तिष्ठति ।
&राजा&:
*किंचिद्विचिन्त्यात्मगतम्**
किं जयद्रथमाता दुःशला चेति । कच्चिदभिमन्युवधामर्षितैः पाण्डुपुत्रैर्न किंचिदत्याहितमाचेष्टितं भवेत्* ।प्रकाशम्**
गच्छ । प्रवेशय शीघ्रम् ।
&प्रतीहारी&:
{प्क्त्_68}जं महाराओ आणबेदि* ।इति निष्क्रान्तः**
स्क्त्छ्_68: यन्महाराज आज्ञापयति ।
*ततः प्रविशति संभ्रान्ता जयद्रथमाता दुःशला च । उभे सास्रं दुर्योधनस्य पादयोः पततः**
&माता&:
{प्क्त्_69}परित्ताअदु परित्ताअदु कुलुणाहो ।
स्क्त्छ्_69: परित्रायतां परित्रायतां कुरुनाथः ।
*दुःशला रोदिति**
&राजा&:
*ससंभ्रममुत्थाप्य**
अम्ब समाश्वसिहि समाश्वसिहि । किमत्याहितम् । अपि कुशलं समराङ्गणेष्वप्रतिरथस्य जयद्रथस्य ।
&माता&:
{प्क्त्_70}जाद कुदो कुसलं ।
स्क्त्छ्_70: जात कुतः कुशलम् ।
&राजा&:
कथमिव ।
&माता&:
{प्क्त्_71}*साशङ्कम्**
अज्ज खु पुत्तवहामरिसुद्दीबिदेण गण्डीविणा अणत्थमिदे दिअसणाहे तस्स वहो पडिण्णादो ।

मूल पाठ: Veṇīsaṃhāra · Edition: Venisamhara: Die Ehrenrettung der Königin, Ein Drama in 6 Akten von Bhatta Narayana. Julius Grill (Ed.). Leipzig : Fues's Verlag (R. Reisland) 1871. and Venisamhara of Bhatta Narayana. Edited with the commentary of Jagaddhara by M. R. Kale. Delhi : Motilal Banarsidass 1989. · Data entry Yves Codet · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc