भाषा

ENहिગુ
ग्रंथ पाठ

वेदार्थसंग्रह · श्लोक 83-103

83

तद् एतन् नानाविधानन्तश्रुतिनिकरशिष्टपरिगृहीततद्व्याख्यानपरिश्रमाद् अवधारितम् । तथा हि -- प्रमाणान्तरापरिदृष्टापरिमितपरिणामान् एकतत्त्वनियतक्रमविशिष्टौ सृष्टिप्रलयौ ब्रह्मणो ऽनेकविधाः श्रुतयो वदन्ति -- निरवद्यं निरञ्जनं विज्ञानम् आनन्दं निर्विकारं निष्कलं निष्क्रियं शान्तं निर्गुणम् इत्य् आदिकाः निर्गुणं ज्ञानस्वरूपं ब्रह्मेति काश्चन श्रुतयो ऽभिदधति । नेह नानास्ति किंचन -- मृत्योः स मृत्युम् आप्नोति य इह नानेव पश्यति --यत्र त्व् अस्य सर्वम् आत्मैवाभूत् -- तत् केन कं पश्येत् तत् केन कं विजातीयाद् इत्यादिका नानात्वनिषेधवादिन्यः सन्ति काश्चन श्रुतयः । यः सर्वज्ञः सर्ववित् -- यस्य ज्ञानमयं तपः --सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन् यद् आस्ते
-- सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि -- अपहतपाप्मा विजरो विमृत्युर् विशोको विजघत्सो ऽपिपासः सत्यकामः सत्यसंकल्प इति सर्वस्मिञ् जगति हेयतयावगतं सर्वगुणं प्रतिषिध्य निरतिशयकल्याणगुणानन्त्यं सर्वज्ञता सर्वशक्तियोगं सर्वनामरूपव्याकरणं सर्वस्यावधारतां च काश्चन श्रुतयो ब्रुवते । सर्वं खल्व् इदं ब्रह्म तज्जलान् इति -- ऐतदात्म्यम् इदं सर्वं -- एकः सन् बहुधा विचार इत्यादिका ब्रह्मसृष्टं जगन् नानाकारं प्रतिपाद्य तदैक्यं च प्रतिपादयन्ति काश्चन । पृथगात्मानं प्रेरितारं च मत्वा -- भोक्ता भोग्यं प्रेरितारं च मत्वा -- प्रजापतिर् अकामयत प्रजाः सृजेयेति -- पतिं विश्वस्यात्मेश्वरं -- श्वास्तं शिवम् अच्युतं -- तम् ईश्वराणां परं महेश्वरं तं देवतानां परं च
दैवतं -- सर्वस्य वशी सर्वस्येशान इत्यादिका ब्रह्मणः सर्वस्माद् अन्यत्वं सर्वस्येशितव्यम् ईश्वरत्वं च ब्रह्मणः सर्वस्य शेषतां पतित्वं चेश्वरस्य काश्चन । अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा -- एष त आत्मान्तर्याम्य् अमृतः -- यस्य पृथिवी शरीरं -- यस्यापः शरीरं -- यस्य तेजः शरीरम् इत्यादि यस्याव्यक्तं शरीरं -- यस्याक्षरं शरीरं - यस्य मृत्युः शरीरं --यस्यात्मा शरीरम् इति ब्रह्मव्यतिरिक्तस्य सर्वस्य वस्तुनो ब्रह्मणश् च शरीरात्मभावं दर्शयन्ति काश्चनेति ।

84

नानारूपाणां वाक्यानाम् अविरोधो मुख्यार्थापरित्यागश् च यथा संभवति तथा वर्णनीयम् । वर्णितं च -- अविकारश्रुतयः स्वरूपपरिणामपरिहाराद् एव मुख्यार्थाः । निर्गुणवादाश् च प्राकृतहेयगुणनिषेधपरतया व्यवस्थिताः । नानात्वनिषेधवादाश् चैकस्य ब्रह्मणः शरीरतया प्रकारभूतं सर्वं चेतनाचेतनं वस्त्व् इति सर्वस्यात्मतया सर्वप्रकारं ब्रह्मैवावस्थितम् इति सुरक्षिताः । सर्वप्रकारविलक्षणत्वपतित्वेश्वरत्वसर्वकल्याणगुणगणाकारत्वसत्यकामत्वसत्यसंकल्पत्वादिवाक्यं तदभ्युपगमाद् एव सुरक्षितम् । ज्ञानानन्दमात्रवादि च सर्वस्माद् अन्यस्य सर्वकल्याणगुणगणाश्रयस्य सर्वेश्वरस्य सर्वशेषिणः सर्वाधारस्य सर्वोत्पत्तिस्थितिप्रलयहेतुभूतस्य निरवद्यस्य निर्विकारस्य सर्वात्मभूतस्य
परस्य ब्रह्मणः स्वरूपनिरूपकधर्मो मलप्रत्यनीकानन्दरूपज्ञानम् एवेति स्वप्रकाशतया स्वरूपम् अपि ज्ञानम् एवेति च प्रतिपादनाद् अनुपालितम् । ऐक्यवादाश् च शरीरात्मभावेन सामानाधिकरण्यमुख्यार्थतोपपादनाद् एव सुस्थिताः ।

85

एवं च सत्य् अभेदो वा भेदो वा द्व्यात्मकता वा वेदान्तवेद्यः को ऽयम् अर्थः समर्थितो भवति । सर्वस्य वेदवेद्यत्वात् सर्वं समर्थितम् । सर्वशरीरतया सर्वप्रकारं ब्रह्मैवावस्थितम् इत्य् अभेदः समर्थितः । एकम् एव ब्रह्म नानाभूतचिदचिद्वस्तुप्रकारं नानात्वेनावस्थितम् इति भेदाभेदौ । अचिद्वस्तुनश् चिद्वस्तुनश् चेश्वरस्य च स्वरूपस्वभाववैलक्षण्याद् असंकराच् च भेदः समर्थितः ।

86

ननु च तत् त्वम् असि श्वेतकेतो तस्य तावद् एव चिरम् इत्य् ऐक्यज्ञानम् एव परमपुरुषार्थलक्षणमोक्षसाधनम् इति गम्यते । नैतद् एवम् । पृथगात्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेनामृतत्वम् एतीत्य् आत्मानं प्रेरितारं चान्तर्यामिणं पृथग् मत्वा ततः पृथक्त्वज्ञानाद् धेतोस् तेन परमात्मना जुष्टो ऽमृतत्वम् एतीति साक्षादमृतत्वप्राप्तिसाधनम् आत्मनो नियन्तुश् च पृथग्भावज्ञानम् एवेत्य् अवगम्यते ।

87

ऐक्यवाक्यविरोधाद् एतदपरमार्थसगुणब्रह्मप्राप्तिविषयम् इत्य् अभ्युपगन्तव्यम् इति चेत् । पृथक्त्वज्ञानस्यैव साक्षादमृतत्वप्राप्तिसाधनत्वश्रवणाद् विपरीतं कस्मान् न भवति ।
एतद् उक्तं भवति । द्वयोर् तुल्ययोर् विरोधे सत्य् अविरोधेन तयोर् विषयो विवेचनीय इति । कथम् अविरोध इति चेत् । अन्तर्यामिरूपेणावस्थितस्य परस्य ब्रह्मणः शरीरतया प्रकारत्वाज् जीवात्मनस् तत्प्रकारं ब्रह्मैव त्वम् इति शब्देनाभिधीयते । तथैव ज्ञातव्यम् इति तस्य वाक्यस्य विषयः । एवंभूताज् जीवात् तदात्मतयावस्थितस्य परमात्मनो निखिलदोषरहिततया सत्यसंकल्पत्वाद् अनवधिकातिशयासंख्येयकल्याणगुणगणाकरत्वेन च यः पृथग्भावः सो ऽनुसंधेय इत्य् अस्य वाक्यस्य विषय इत्य् अयम् अर्थः पूर्वम् असकृदुक्तः । भोक्ता भोग्यं प्रेरितारं च मत्वेति भोग्यरूपस्य वस्तुनो ऽचेतनत्वं परमार्थत्वं सततं विकारास्पदत्वम् इत्यादयः स्वभावाः, भोक्तुर् जीवात्मनश्
चामलापरिच्छिन्नज्ञानानन्दस्वभावस्यैवानादिकर्मरूपाविद्याकृतनानाविधज्ञानसंकोचविकासौ भोग्यभूताचिद्वस्तुसंसर्गश् च परमात्मोपासनान् मोक्षश् चेत्यादयः स्वभावाः, एवंभूतभोक्तृभोग्ययोर् अन्तर्यामिरूपेणावस्थानं स्वरूपेण चापरिमितगुणौघाश्रयत्वेनावस्थानम् इति परस्य ब्रह्मस् त्रिविधावस्थानं ज्ञातव्यम् इत्यर्थः ॥

88

तत् त्वम् असीति सद्विद्यायाम् उपास्यं ब्रह्म सगुणं सगुणब्रह्मप्राप्तिश् च फलम् इत्य् अभियुक्तैः पूर्वाचार्यैर् व्याख्यातम् । यथोक्तं वाक्यकारेण -- युक्तं तद्गुणकोपासनाद् इति । व्याख्यातं च द्रमिडाचार्येण विद्याविकल्पं वदता -- यद्य् अपि सच्चितो न निर्भुग्नदैवतं गुणगणं मनसानुधावेत् तथाप्य् अन्तर्गुणाम् एव देवतां भजत इति तत्रापि सगुणैव देवता प्राप्यत इति । सच्चित्तः सद्विद्यानिष्ठः । न निर्भुग्नदैवतं गुणगणं मनसानुधावेत् --अपहतपाप्मत्वादिकल्याणगुणगणं दैवताद् विभक्तं यद्य् अपि दहरविद्यानिष्ठ इव सच्चितो न स्मरेत् । तथाप्य् अन्तर्गुणाम् एव देवतां भजते -- देवतास्वरूपानुबन्धित्वात् सकलकल्याणगुणगणस्य केनचिद् परदेवतासाधारणेन निखिलजगत्कारणत्वादिना गुणेनोपास्यमानापि
देवता वस्तुतः स्वरूपानुबन्धि सर्वकल्याणगुणगणविशिष्टैवोपास्यते । अतः सगुणम् एव ब्रह्म तत्रापि प्राप्यम् इति सद्विद्यादहरविद्ययोर् विकल्प इत्यर्थः ।

89

ननु च सर्वस्य जन्तोः परमात्मान्तर्यामी तन्नियाम्यं च सर्वम् एवेत्य् उक्तम् । एवं च सति विधिनिषेधशास्त्राणाम् अधिकारी न दृश्यते । यः स्वबुद्ध्यैव प्रवृत्तिनिवृत्तिशक्तः स एवं कुर्यान् न कुर्याद् इति विधिनिषेधयोग्यः । न चैष दृश्यते । सर्वस्मिन् प्रवृत्तिजाते सर्वस्य प्रेरकः परमात्मा कारयितेति तस्य सर्वनियमनं प्रतिपादितम् । तथा च श्रूयते -- एष एव साधु कर्म कारयति ते यम् एभ्यो लोकेभ्य उन्निनीषति । एष एवासाधु कर्म कारयति तं यम् अधो निनीषतीति । साध्वसाधुकर्मकारयितृत्वान् नैर्घृण्यं च ।

90

अत्रोच्यते -- सर्वेषाम् एव चेतनानां चिच्छक्तियोगः प्रवृत्तिशक्तियोग इत्यादि सर्वं प्रवृत्तिनिवृत्तिपरिकरं सामान्येन संविधाय तन्निर्वहणाय तदाधारो भूत्वान्तः प्रविश्यानुमन्तृतया च नियमनं कुर्वञ् शेषित्वेनावस्थितः परमात्मैतदाहितशक्तिः सन्प्रवृत्तिनिवृत्त्यादि स्वयम् एव कुरुते । एवं कुर्वाणम् ईक्षमाणः परमात्मोदासीन आस्ते । अतः सर्वम् उपपन्नम् । साध्वसाधुकर्मणोः कारयितृत्वं तु व्यवस्थितविषयं न सर्वसाधारणम् । यस् तु सर्वं स्वयम् एवातिमात्रम् आनुकूल्ये प्रवृत्तस् तं प्रति प्रीतः स्वयम् एव भगवान् कल्याणबुद्धियोगदानं कुर्वन् कल्याणे प्रवर्तयति । यः पुनर् अतिमात्रं प्रातिकूल्ये प्रवृत्तस् तस्य क्रूरां बुद्धिं ददन् स्वयम् एव क्रूरेष्व् एव कर्मसु प्रेरयति भगवान् । यथोक्तं भगवता
--
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन माम् उपयान्ति ते ॥
तेषाम् एवानुकम्पार्थम् अहम् अज्ञानजं तमः ।
नाशयाम्य् आत्मभावस्थो ज्ञानदीपेन भास्वता ॥
तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥ इति ।

91

सो ऽयं परब्रह्मभूतः पुरुषोत्तमो निरतिशयपुण्यसंचयक्षीणाशेषजन्मोपचितपापराशेः परमपुरुषचरणारविन्दशरणागतिजनिततदभिमुख्यस्य सदाचार्योपदेशोपबृंहितशास्त्राधिगततत्त्वयाथात्म्यावबोधपूर्वकाहरहरुपचीयमानशमदमतपःशौचक्षमार्जवभयाभयस्थानविवेकदयाहिंसाद्यात्मगुणोपेतस्य वर्णाश्रमोचितपरमपुरुषाराधनवेषनित्यनैमित्तिककर्मोपसंहृतिनिषिद्धपरिहारनिष्टस्य परमपुरुषचरणारविन्दयुगलन्यस्तात्मात्मीयस्य
तद्भक्तिकारितानवरतस्तुतिस्मृतिनमस्कृतिवन्दनयतनकीर्तनगुणश्रवणवचनध्यानार्चनप्रणामादिप्रीतपरमकारुणिकपुरुषोत्तमप्रसादविध्वस्तस्वान्तध्वान्तस्यानन्यप्रयोजनानवरतनिरतिशयप्रियविशदतमप्रत्यक्षतापन्नानुध्यानरूपभक्त्येकलभ्यः । तद् उक्तं परमगुरुभिर् भगवद्यामुनाचार्यपादैः -- उभयपरिकर्मितस्वान्तस्यैकान्तिकात्यन्तिकभक्तियोगलभ्य इति । ज्ञानयोगकर्मयोगसंस्कृतान्तःकरणस्येत्यर्थः । तथा च श्रुतिः ।
विद्यां चाविद्यां च यस् तद् वेदोभ्यं सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययामृतम् अश्नुते ॥
इति। अत्राविद्याशब्देन विद्येतरत्वाद् वर्णाश्रमाचारादि पूर्वोक्तं कर्मोच्यते विद्याशब्देन च भक्तिरूपापन्नं ध्यानम् उच्यते । यथोक्तम् --
इजाय सो ऽपि सुबहून्य् अज्ञाञ् ज्ञानव्यपाश्रयः ।
ब्रह्मविद्याम् अधिष्ठाय तर्तुं मृत्युम् अविद्यया ॥
इति । तम् एवं विद्वान् अमृत इह भवति नान्यः पन्था अयनाय विद्यते । य एनं विदुर् अमृतास् ते भवन्ति । ब्रह्मविद् आप्नोति परम् । सो यो ह वै तत् परं वेद ब्रह्म वेद ब्रह्मैव भवतीत्यादि । वेदनशब्देन ध्यानम् एवाभिहितम् । निदिध्यासितव्य इत्यादिनाइकार्थ्यात् । तद् एव ध्यानं पुनर् अपि विशिनष्टि -- नायम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुधा श्रुतेन । यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनूं स्वाम् इति । भक्तिरूपापन्नानुध्यानेनैव लभ्यते न केवल,, वेदनामात्रेण न मेधयेति केवलस्य निषिद्धत्वात् ।

92

एतद् उक्तं भवति -- यो ऽयं मुमुक्षुर् वेदान्तविहितवेदनरूपध्यानादिनिष्ठो यदा तस्य तस्मिन्न् एवानुध्याने निरवधिकातिशया प्रीतिर् जायते तदैव तेन लभ्यते परः पुरुष इति । यथोक्तं भगवता --
पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया ।
भक्त्या त्व् अनन्यया शक्यो ऽहम् एवंविधो ऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टं च परंतप ॥
भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥
इति । तदनन्तरं तत एव भक्तितो विशत इत्यर्थः । भक्तिर् अपि निरतिशयप्रियानन्यप्रयोजनसकलेतरवैतृण्यावहज्ञानविशेष एवेति । तद् युक्त एव तेन परेणात्मना वरणीयो भवतीति तेन लभ्यत इति श्रुत्यर्थः । एवंविधपरभक्तिरूपज्ञानविशेषस्योत्पादकः पूर्वोक्ताहरहरुपचीयमानज्ञानपूर्वककर्मानुगृहीतभक्तियोग एव । यथोक्तं भगवता पराशरेण --
वर्णाश्रमाचारवता पुरुषेण परः पुमान् ।
विष्णुर् आराध्यते पन्था नान्यस् तत्तोषकारकः ॥
इति । निखिलजगदुद्धारणायावनितले ऽवतीर्णः परब्रह्मभूतः पुरुषोत्तमः स्वयम् एवैतदुक्तवान् --
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥
यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् ।
स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः ॥
इति । यथोदितक्रमपरिणतभक्त्येकलभ्य एव ।
र्वस्_93
बोधायनटङ्कद्रमिडगुहदेवकपर्दिभारुचिप्रभृत्यविगीतशिष्टपरिगृहीतपुरातनवेदवेदान्तव्याख्यानसुव्यक्तार्थश्रुतिनिकरनिदर्शितो ऽयं पन्थाः । अनेन चार्वाकशाक्याउलूक्याक्षपादक्षपणककपिलपतञ्जलिमतानुसारिणो वेदबाह्या वेदावलम्बिकुदृष्टिभिः सह निरस्ताः । वेदावलम्बिनाम् अपि यथावस्थितवस्तुविपर्ययस् ताडृशां बाह्यसाम्यं मनुनैवोक्तम् --
यो वेदबाह्याः स्मृतयो याश् च काश् च कुदृष्टयः ।
सर्वस् ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥
इति । रजस्तमोभ्याम् अस्पृष्टम् उत्तमं सत्त्वम् एव येषां स्वाभाविको गुणस् तेषाम् एव वैदिकी रुचिर् वेदार्थयाथात्म्यावबोधश् चेत्यर्थः ।

94

यथोक्तं मात्स्ये --
संकीर्णाः सात्त्विकाश् चैव राजसास् तामसास् तथा ।
इति । केचिद् ब्रह्मकल्पाः संकीर्णाः केचित् सत्त्वप्रायाः केचिद् रजःप्राया केचित् तमःप्राया इति कल्पविभागम् उक्त्वा सत्त्वरजस्तमोमयानां तत्त्वानां माहात्म्यवर्णनं च तत्तत्कल्पप्रोक्तपुराणेषु सत्त्वादिगुणमयेन ब्रह्मणा क्रियत इति चोक्तम् --
यस्मिन् कल्पे तु यत् प्रोक्तं पुराणं ब्रह्मणा पुरा ।
तस्य तस्य तु माहात्म्यं तत्स्वरूपेण वर्ण्यते ॥
इति । विशेषतश् चोक्तम् --
अग्नेः शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते ।
राजसेषु च माहात्म्यम् अधिकं ब्रह्मणो विदुः ॥
सात्त्विकेषु च कल्पेषु माहात्म्यम् अधिकं हरेः ।
तेष्व् एव योगसंसिद्धा गमिष्यन्ति परां गतिम् ॥
संकीर्णेषु सरस्वत्याः ....................... ॥
इत्यादि । एतदुक्तं भवति -- आदिक्षेत्रज्ञत्वाद् ब्रह्मणस् तस्यापि केषुचिद् अहस्सु सत्त्वमुद्रिकं केषुचिद् रजः केषुचित् तमः । यथोक्तं भगवता --
न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर् मुक्तं यद् एभिः स्यात् त्रिभिर् गुणैः ॥
इति । यो ब्रह्मणं विदधति पूर्वं यो वै वेदांश् च प्रहिणोति तस्मा इति श्रुतेः । ब्रह्मणो ऽपि सृज्यत्वेन शास्त्रवश्यत्वेन च क्षेत्रज्ञत्वं गम्यते । सत्त्वप्रायेष्व् अहस्सु तदितरेषु यानि पुराणानि ब्रह्मणा प्रोक्तानि तेषां परस्परविरोधे सति सात्त्विकाहःप्रोक्तम् एव पुराणं यथार्थं तद्विरोध्यन्यद् अयथार्थम् इति पुराणनिर्णयायैवेदं सत्त्वनिष्ठेन ब्रह्मणाभिहितम् इति विज्ञायत इति ।
सत्त्वादीनां कार्यं च भगवतैवोक्तम् --
सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतो ऽज्ञानम् एव च ॥
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥
यथा धर्मम् अधर्मं च कार्यं चाकार्यम् एव च ।
अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥
अधर्मं धर्मम् इति या मन्यते तमसावृता ।
सर्वार्थान् विपरीतांश् च बुद्धिः सा पार्थ तामसी ॥
इति ।
सर्वान् पुराणार्थान् ब्रह्मणः सकाशाद् अधिगम्यैव सर्वाणि पुराणानि पुराणकाराश् चक्रुः । यथोक्तम् --
कथयामि यथा पूर्वं दक्षाद्यैर् मुनिसत्तमैः ।
पृष्टः प्रोवाच भगवान् अब्जयोनिः पितामहः ॥
इति ।

95

अपौरुषेयेषु वेदवाक्येषु परस्परविरुद्धेषु कथम् इति चेत् । तात्पर्यनिश्चयाद् अविरोधः पूर्वम् एवोक्तः । यद् अपि चेद् एवं विरुद्धवद् दृश्यते -- प्राणं मनसि सह कारणैर् नादान्ते परमात्मनि संप्रतिष्ठाय ध्यायीतव्यं प्रध्यायीतव्यं सर्वम् इदं, ब्रह्मविष्णुरुद्रास् ते सर्वे संप्रसूयन्ते, न कारणं, कारणं तु ध्यायः, सर्वाइश्वर्यसंपन्नः सर्वेश्वरः शंभुर् आकाशमध्ये ध्येयः -- यस्मात् परं नापरम् अस्ति किंचिद् यस्मान् नाणीयो न ज्यायो ऽस्ति कश्चित् -- वृक्ष इव स्तब्धो दिवि तिष्ठत्य् एकस् तेनेदं पूर्णं पुरुषेण सर्वम् -- ततो यदुत्तरतरं तदरूपम् अनामयं य एतद्विदुर् अमृतास् ते भवन्ति, अथेतरे दुःखम् एवापियन्ति --
सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ।
सर्वव्यापी च भगवांस् तस्मात् सर्वगतः शिवः ॥
यदा तमस् तन् न दिवा न रात्रिर् न सन् न चासच् छिव एव केवलः ।
तदक्षरं तत्सवितुर् वरेण्यं प्रज्ञा च तस्मात् प्रसृता पुराणी ॥
इत्यादि नारायणः परं ब्रह्मेति च पूर्वम् एव प्रतिपादितं, तेनास्य कथम् अविरोधः ।

96

अत्यल्पम् एतत् -
वेदवित्प्रवरप्रोक्तवाक्यन्यायोपबृंहिताः ।
वेदाः साङ्गा हरिं प्राहुर् जगज्जन्मादिकारणं ॥
जन्माद्यस्य यतः -- यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्य् अभिसंविशन्ति, तद् विजिज्ञानस्व तद् ब्रह्मेति जगज्जन्मादिकारणं ब्रह्मेत्य् अवगम्यते । तच् च जगत्सृष्टिप्रलयप्रकरणेष्व् अवगन्तव्यम् । सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् इति जगदुपादानताजगन्निमित्तताजगदन्तर्यामितादिमुखेन परमकारणं सच्छब्देन प्रैत्पादितं ब्रह्मेत्य् अवगतम् । अयम् एवार्थः -- ब्रह्म वा इदम् एकम् एवाग्र आसीद् इति शाखान्तरे ब्रह्मशब्देन प्रतिपदितः । अनेन सच्छब्देनाभिहितं ब्रह्मेत्य् अवगतम् । अयम् एवार्थस् तथा शाखान्तर आत्मा वा इदम् एक एवाग्र आसीन् नान्यत् किंचन मिषद् इति सद्ब्रह्मशब्दाभ्याम् आत्मैवाभिहित इत्य् अवगम्यते । तथा च शाखान्तर एको ह वै नारायण आसीन् न ब्रह्म नेशानो नेमे द्यावपृथिवी न नक्षत्राणीति
सद्ब्रह्मात्मादिपरमकारणवादिभिः शब्दैर् नारायण एवाभिधीयत इति निश्चीयते ।

97

यम् अन्तः समुद्रे कवयो वयन्तीत्यादि -- नैनम् ऊर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभत् । न तस्येशे कश्चन तस्य नाम महद्यशः ॥ न संदृशे तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनैनम्, हृदा मनीषा मनसाभिकॢप्तो य एवं विदुर् अमृतास् ते भवन्तीति सर्वस्मात् परत्वम् अस्य प्रतिपाद्य, न तस्येशे कश्चनेति तस्मात् परं किम् अपि न विद्यत इति च प्रतिषिध्य, अद्भ्यः सम्भूतो हिरण्यगर्भ इत्यष्टाव् इति तेनैकवाक्यतां गमयति । तच् च महापुरुषप्रकरणं ह्रीश् च ते लक्ष्मीश् च पत्न्याव् इति च नारायण एवेति द्योतयति ।

98

अयम् अर्थो नारायणानुवाके प्रपञ्चितः । सहस्रशीर्षं देवम् इत्यारभ्य स ब्रह्म स शिवः सेन्द्रः सो ऽक्षरः परमः स्वराड् इति । सर्वशाखासु परतत्त्वप्रतिपादनपरान् अक्षरशिवशंभुपरब्रह्मपरज्योतिःपरतत्त्वपरायणपरमात्मादिसर्वशब्दांस् तत्तद्गुणयोगेन नारायण एव प्रयुज्य तद्व्यतिरिक्तस्य समस्तस्य तदाधारतां तन्नियाम्यतां तच्छेषताम् तदात्मकतां च प्रतिपाद्य ब्रह्मशिवयोर् अपीन्द्रादिसमानाकारतया तद्विभूतित्वं च प्रतिपादितम् । इदं च वाक्यं केवलपरतत्त्वप्रतिपादनैकपरम् अन्यत् किंचिद् अप्य् अत्र न विधीयते ।

99

अस्मिन् वाक्ये प्रतिपादितस्य सर्वस्मात् परत्वेनावस्थितस्य ब्रह्मणो वाक्यान्तरेषु ब्रह्मविद् आप्नोति परम् इत्यादिषूपासनादि विधीयते । अतः प्राणं मनसि सह करणैर् इत्यादि वाक्यं सर्वकारणे परमात्मनि करणप्राणादि सर्वं विकारजातम् उपसंहृत्य तम् एव परमात्मानं सर्वस्येशानं ध्यायीतेति परब्रह्मभूतनारायणस्यैव ध्यानं विदधाति ।

100

पतिं विश्वस्येति न तस्येशे कश्चनेति च तस्यैव सर्वस्येशानता प्रतिपादिता । अत एव सर्वाइश्वर्यसंपन्नः सर्वेश्वरः शंभुराकाशमध्ये ध्येय इति नारायणस्यैव परमकारणस्य शंभुशब्दवाच्यस्य ध्यानं विधीयते । कश् च ध्येय इत्यारभ्य कारणं तु ध्येय इति कार्यस्याध्येयतापूर्वककारणैकध्येयतापरत्वाद् वाक्यस्य । तस्यैव नारायणस्य परमकारणता शंभुशब्दवाच्यता च परमकारणप्रतिपादनैकपरे नारायणानुवाक एव प्रतिपन्नेति तद्विरोध्यर्थान्तरपरिकल्पनं कारणस्यैव ध्येयत्वेन विधिवाक्ये न युज्यते ।

101

यद् अपि ततो यदुत्तरम् इत्य् अत्र पुरुषाद् अन्यस्य परतरत्वं प्रतीयत इत्यभ्यधायि तद् अपि यस्मात् परं नापरम् अस्ति किंचिद् यस्मान् नाणीयो न ज्यायो ऽस्ति कश्चित्-- यस्माद् अपरं -- यस्माद् अन्यत् किंचिद् अपि परं नास्ति केनापि प्रकारेण पुरुषव्यतिरिक्तस्य परत्वं नास्तीत्यर्थः । अणीयस्त्वं -- सूक्ष्मत्वम् । ज्यायस्त्वं -- सर्वेश्वरत्वम् । सर्वव्यापित्वात् सर्वेश्वरत्वाद् अस्यैतद्व्यतिरिकितस्य कस्याप्य् अणीयस्त्वं ज्यायस्त्वं च नास्तीत्यर्थः । यस्मान् नाणीयो न ज्यायो ऽस्ति कश्चिद् इति पुरुषाद् अन्यस्य कस्यापि ज्यायस्त्वं निषिद्धम् इति तस्माद् अन्यस्य परत्वं न युज्यत इति प्रत्युक्तम् ।

102

कस् तर्ह्य् अस्य वाक्यस्यार्थः । अस्य प्रकरणस्योपक्रमे तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यते ऽयनायाइति पुरुषवेदनस्यामृतत्वहेतुतां तद्व्यतिरिक्तस्यापथतां च प्रतिज्ञाय यस्मात् परं नापरम् अस्ति किंचित् तेनेदं पूर्णं पुरुषेण सर्वम् इत्य् एतद् अन्तेन सर्वस्मात् परत्वं प्रतिपादितम् । यतः पुरुषतत्त्वम् एवोत्तरतरं ततो यदुत्तरतरं पुरुषतत्त्वं तद् एवारूपम् अनामयं य एतद्विदुर् अमृतास् ते भवन्ति, अथेतरे दुःखम् एवापियन्तीति पुरुषवेदनस्यामृतत्वहेतुत्वं तदितरस्यापथत्वं प्रतिज्ञातं सहेतुकम् उपसंहृतम् । अन्यथोपक्रमगतप्रतिज्ञाभ्यां विरुध्यते । पुरुषस्यैव शुद्धिगुणयोगेन शिवशब्दाभिप्रायत्वं शाश्वतं शिवम् अच्युतम् इत्यादिना ज्ञातम् एव । पुरुष एव शिवशब्दाभिधेय इत्यनन्तरम् एव वदति -- महान्
प्रभुर् वै पुरुषः सत्त्वस्यैष प्रवर्तक इति । उक्तेनैव न्यायेन न सन् न चासच् छिव एव केवल इत्यादि सर्वं नेयम् ।

103

किंच न तस्येशे कश्चनेति निरस्तसमाभ्यधिकसंभावनस्य पुरुषस्याणोर् अणीयानित्यस्मिन्न् अनुवाके वेदाद्यन्तरूपतया वेदबीजभूतप्रणवस्य प्रकृतिभूताकारवाच्यतया महेश्वरत्वं प्रतिपाद्य दहरपुण्डरीकमध्यस्थाकाशान्तर्वर्तितयोपास्यत्वम् उक्तम् । अयम् अर्थः -- सर्वस्य वेदजातस्य प्रकृतिः प्रणव उक्तः । प्रणवस्य च प्रकृतिर् अकारः । प्रणवविकारो वेदः स्वप्रकृतिभूते प्रणवे लीनः । प्रणवो ऽप्य् अकारविकारभूतः स्वप्रकृताव् अकारे लीनः । तस्य प्रणवप्रकृतिभूतस्याकारस्य यः परो वाच्यः स एव महेश्वर इति सर्ववाचकजातप्रकृतिभूताकारवाच्यः सर्ववाच्यजातप्रकृतिभूतनारायणो यः स महेशवर इत्यर्थः । यथोक्तं भगवता --
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा ।
मत्तः परतरं नान्यत्किंचिद् अस्ति धनंजय ॥
अक्षरणाम् अकारो ऽस्मि ----------------- ॥
इति । अ इति ब्रह्मेति च श्रुतेः । अकारो वै सर्वा वाग् इति च । वाचकजातस्याकारप्रकृतित्वं वाच्यजातस्य ब्रह्मप्रकृतित्वं च सुस्पष्टम् । अतो ब्रह्मणो ऽकारवाच्यताप्रतिपादनाद् अकारवाच्यो नारायण एव महेश्वर इति सिद्धम् ।

मूल पाठ: Vedārthasaṃgraha · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc