भाषा

ENहिગુ
ग्रंथ पाठ

वेदार्थसंग्रह · श्लोक 104-123

104

तस्यैव सहस्रशीर्षं देवम् इति केवलपरतत्त्वविशेषप्रतिपादनपरेण नारायणानुवाकेन सर्वस्मात् परत्वं प्रपञ्चितम् । अनेनानन्यपरेण प्रतिपादितम् एव परतत्त्वम् अन्यपरेषु सर्ववाक्येषु केनापि शब्देन प्रतीयमानं तद् एवेत्य् अवगम्य इति शास्त्रदृष्त्या तूपदेशो वामदेववद् इति सूत्रकारेण निर्णीतम् । तद् एतत् परं ब्रह्म क्वचिद् ब्रह्मशिवादिशब्दाद् अवगतम् इति केवलब्रह्मशिवयोर् न परत्वप्रसङ्गः । अस्मिन्न् अनन्यपरे ऽनुवाके तयोर् इन्द्रादितुल्यतया तद्विभूतित्वप्रतिपादनात् । क्वचिद् आकाशप्राणादिशब्देन परं ब्रह्माभिहितम् इति भूताकाशप्राणादेर् यथा न परत्वम् । यत् पुनर् इदम् आशङ्कितम् अथ यद् इदम् अस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो ऽस्मिन्न् अन्तराकाशस् तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यं तद् वा व विजिज्ञासितव्यम्
इत्य् अत्राकाशशब्देन जगदुपादानकारणं प्रतिपाद्य तदन्तर्वर्तिनः कस्यचित् तत्त्वविशेषस्यान्वेष्टव्यता प्रतिपाद्यते । अस्याकाशस्य नामरूपयोर् निवोढृत्वश्रवणात् पुरुषसूक्ते पुरुषस्य नामरूपयोः कर्तृत्वदर्शनाच् चाकाशपर्यायभूतात् पुरुषाद् अन्यस्यान्वेष्टव्यतयोपास्यत्वं प्रतीयत इत्यनधीतवेदानाम् अदृष्टशास्त्राणाम् इदं चोद्यं ।

105

यतस् तत्र श्रुतिर् एवास्य परिहारम् आह । वाक्यकारश् च -- दहरो ऽस्मिन्न् अन्तराकाशः किं तद् अत्र विद्यते यद् अन्वेष्टव्यं यद् वा व विजिज्ञासितव्यम् इति चोदिते यावान् वा अयम् आकाशस् तावान् एषो ऽन्तर्हृदय आकाश इत्यादिनास्याकाशशब्दवाच्यस्य परमपुरुषस्यानवधिकमहत्त्वं सकलजगदाधारत्वं च प्रतिपाद्य तस्मिन् कामाः समाहिता इति कामशब्देनापहतपाप्मत्वादिसत्यसंकल्पपर्यन्तगुणाष्टकं निहितम् इति परमपुरुषवत् परमपुरुषगुणाष्टकस्यापि पृथिविजिज्ञासितव्यताप्रतिपादयिषया तस्मिन् यद् अन्तस् तदन्वेष्टव्यम् इत्युक्तम् इति श्रुत्यैव सर्वं परिहृतम् ।

106

एतद् उक्तं भवति -- किं तद् अत्र विद्यते यद् अनेष्टव्यम् इत्य् अस्य चोद्यस्य तस्मिन् सर्वस्य जगतः स्रष्टृत्वम् आधारत्वं नियन्तृत्वं शेषित्वम् अपहतपाप्मत्वादयो गुणाश् च विद्यन्त इति परिहार इति । तथा च वाक्यकारवचनम् -- तस्मिन् यद् अन्तर् इति कामव्यपदेश इति । काम्यन्त इति कामाः । अपहतपाप्मत्वादयो गुणा इत्यर्थः । एतद् उक्तं भवति -- यद् एतद् दहराकाशशब्दाभिधेयं निखिलजगदुदयवैभवलयलीलं परं ब्रह्म तस्मिन् यद् अन्तर् निहितम् अनवधिकातिशयम् अपहतपाप्मत्वादिगुणाष्टकं तद् उभयम् अप्य् अन्वेष्टव्यं विजिज्ञासितव्यम् इति । यथाह -- अथ य इहात्मानम् अनुविद्य व्रजन्त्य् एतांश् च सत्यान् कामांस् तेषां सर्वेषु लोकेषु कामचारो भवन्तीति ।

107

यः पुनः कारणस्यैव ध्येयताप्रतिपादनपरे वाक्ये विष्णोर् अनन्यपरवाक्यप्रतिपादितपरतत्त्वभूतस्य कार्यमध्ये निवेशः स स्वकार्यभूततत्त्वसंख्यापूरणं कुर्वतः स्वलीलया जगदुपकाराय स्वेच्छावतार इत्य् अवगन्तव्यः । यथा लीलया देवसंख्यापूर्णं कुर्वत उपेन्द्रत्वं परस्यैव, यथा च सूर्यवंशोद्भवराजसंख्यापूर्णं कुर्वतः परस्यैव ब्रह्मणो दाशरथिरूपेण स्वेच्छावतारः, यथा च सोमवंशसंख्यापूरणं कुर्वतो भगवतो भूभारावतारणाय स्वेच्छया वसुदेवगृहे ऽवतारः ।

108

सृष्टिप्रलयप्रकरणेषु नारायण एव परमकारणतया प्रतिपाद्यत इति पूर्वम् एवोक्तम् । यत् पुनर् अथर्वशिरसि रुद्रेण स्वसर्वाइश्वर्यं प्रपञ्चितं तत् सो ऽन्तराद् अन्तरं प्राविशद् इति परमात्मप्रवेशाद् उक्तम् इति श्रुत्यैव व्यक्तम् । शास्त्रदृष्ट्या तूपदेशो वामदेववद् इति सूत्रकारेणैवंवादिनाम् अर्थः प्रतिपादितः । यथोक्तं प्रह्लादेनापि --
सर्वगत्वाद् अनन्तरस्य स एवाहम् अवस्थितः ।
मत्तः सर्वम् अहं सर्वं मयि सर्वं सनातने ॥
इत्यादि । अत्र सर्वगत्वाद् अनन्तस्येति हेतुर् उक्तः । स्वशरीरभूतस्य सर्वस्य चिदचिद्वस्तुन आत्मत्वेन सर्वगः परमात्मेति सर्वे शब्दाः सर्वशरीरं परमात्मानम् एवाभिदधतीत्य् उक्तम् । अतो ऽहम् इति शब्दः स्वात्मप्रकारप्रकारिणं परमात्मानम् एवाचष्टे । अत इदम् उच्यते । आत्मेत्य् एव तु गृह्णीयात् सर्वस्य तन्निष्पत्तेर् इत्यादिनाहंग्रहणोपासनं वाक्यकारेण कार्यावस्थः कारणावस्थश् च स्थूलसूक्ष्मचिदचिद्वस्तुशरीरः परमात्मैवेति सर्वस्य तन्निष्पत्तेर् इत्य् उक्तम् । आत्मेति तूपगच्छन्ति ग्राहयन्ति चेति सूत्रकारेण च । महाभारते च ब्रह्मरुद्रसंवादे ब्रह्मा रुद्रं प्रयाह --
तवान्तरात्मा मम च ये चान्ये देहिसंज्ञिताः ।
इति । रुद्रस्य ब्रह्मणश् चान्येषां च देहिनां परमेश्वरो नारायणो ऽन्तरात्मतयावस्थित इति । तथा तत्रैव --
विष्णुर् आत्मा भगवतो भवस्यामिततेजसः ।
तस्माद् धनुर्ज्यासंस्पर्शं स विषेहे महेश्वरः ॥
इति । तत्रैव --
एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ ।
तदादर्शितपन्थानौ सृष्टिसंहारकारकौ ॥
इति । अन्तरात्मतयावस्थितनारायणदर्शितपथौ ब्रह्मरुद्रौ सृष्टिसंहारकार्यकराव् इत्यर्थः ।

109

निमित्तोपादानयोस् तु भेदं वदन्तो वेदबाह्या एव स्युः । जन्माद्यस्य यतः -- प्रकृतिश् च -- प्रतिज्ञादृष्टान्तानुपरोधाद् इत्यादि वेदवित्प्रणीतसूत्रविरोधात् । सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् -- तद् ऐक्षत बहु स्यां प्रजायेयेति -- ब्रह्मवनं ब्रह्म स वृक्ष आसीद् यतो द्यावापृथिवी निष्टतक्षुः -- ब्रह्माध्यतिष्ठद्भुवनानि धारयन् -- सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि -- न तस्येशे कश्चन तस्य नाम महद्यशः -- नेह नानास्ति किंचन -- सर्वस्य वशी सर्वस्येशानः -- पुरुष एवेदं सर्वं यद् भूतं यच् च भव्यम् उतामृतत्त्वस्येशानः -- नान्यः पन्था अयनाय विद्यत इत्यादिसर्वश्रुतिविरोधाच् च ।

110

इतिहासपुराणेषु च सृष्टिस्थितिप्रलयप्रकरणयोर् इदम् एव परतत्त्वम् इत्य् अवगम्यते । यथा महाभारते --
कुतः सृष्टम् इदं सर्वं जगत्स्थावरजङ्गमम् ।
प्रलये च कम् अभ्येति तन् तो ब्रूहि पितामह ॥
इति पृष्टो --
नारायणो जगन्मूर्तिर् अनन्तात्मा सनातन ।
इत्यादि च वदति --
ऋषयः पितरो देवा महाभूतानि धातवः ।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥
इति च । प्राच्योदीच्यदाक्षिणात्यपाश्चात्यसर्वशिष्टैः सर्वधर्मसर्वतत्त्वव्यवस्थायाम् इदम् एव पर्याप्तम् इत्य् अविगानपरिगृहीतं वैष्णवं च पुराणं जन्माद्य् अस्य यत इति जगज्जन्मादिकारणं ब्रह्मेत्य् अवगम्यते । तज्जन्मादिकारणं किम् इति प्रश्नपूर्वकं विष्णोः सकाशाद् भूतम् इत्यादिना ब्रह्मस्वरूपविशेषप्रतिपादनैकपरतया प्रवृत्तम् इति सर्वसंमतम् । तथा तत्रैव --
प्रकृतिर् या ख्याता व्यक्ताव्यक्तस्वरूपिणी ।
पुरुषश् च+प्य् उभाव् एतौ लीयेते परमात्मनि ॥
परमात्मा च सर्वेषाम् आधारः परमेश्वरः ।
विष्णुनामा स वेदेषु वेदान्तेषु च गीयते ॥
इति । सर्ववेदवेदान्तेषु सर्वैः शब्दैः परमकारणतयायम् एव गीयत इत्यर्थः । यथा सर्वासु ष्रुतिषु केवलपरब्रह्मस्वरूपविशेषप्रतिपादनायैव प्रवृत्तो नारायणानुवाकस् तथेदं वैष्णवं च पुराणम् --
सो ऽहम् इच्छामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत् ।
बभूव भूयश् च यथा महाभाग भविष्यति ॥
यन्मयं च जगद्ब्रह्मन्य् अतश् चैतच्चराचरम् ।
लीनम् आसीद् यथा यत्र लयम् एष्यति यत्र च ॥
इति परं ब्रह्म किम् इति प्रक्रम्य --
विष्णोः सकाशाद् उद्भूतं जगत् तत्रैव च स्थितम् ।
स्थितिसंयमकर्तासौ जगतो ऽस्य जगच् च सः ॥
परः पराणां परमः परमात्मात्मसंस्थितः ।
रूपवर्णादिनिर्देशविशेषणविवर्जितः ॥
अपक्षयविनाशाभ्यां परिणामर्द्धिजन्मभिः ।
वर्जितः शक्यते वक्तुं यः सद् अस्तीति केवलम् ॥
सर्वत्रासौ समस्तं च वसत्य् अत्रेति वै यतः ।
ततः स वासुदेवेति विद्वद्भिः परिपठ्यते ॥
तद्ब्रह्म परं नित्यम् अजम् अक्षयम् अव्ययम् ।
एकस्वरूपं च सदा हेयाभावाच् च निर्मलम् ॥
तद् एव सर्वम् एवैतद्व्यक्ताव्यक्तस्वरूपवत् ।
तथा पुरुषरूपेण कालरूपेण च स्थितम् ॥
स सर्वभूतप्रकृतिं विकारान् गुणादिदोषांश् च मुने व्यतीतः ।
अतीतसर्वावरणो ऽखिलात्मा तेनास्तृतं यद् भुवनान्तराले ॥
समस्तकल्याणगुणात्मको ऽसौ स्वशक्तिलेशोद्धृतभूतवर्गः ।
इच्छागृहीताभिमतोरुदेहः संसाधिताशेषजगद्धितो ऽसौ ॥
तेजोबलाइश्वर्यमहावबोधसुवीर्यशक्त्यादिगुणैकराशिः ।
परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे ॥
स ईश्वरो व्यष्टिसमष्टिरूपो ऽव्यक्तस्वरूपः प्रकटस्वरूपः ।
सर्वेश्वरः सर्वदृक्सर्ववेत्ता समस्तशक्तिः परमेश्वराख्यः ॥
संज्ञायते येन तद् अस्तदोषं शुद्धं परं निर्मलम् एकरूपम् ।
संदृश्यते वाप्य् अधिगम्यते वा तज्ज्ञानम् अज्ञानम् अतो ऽन्यद् उक्तम् ॥
इति परब्रह्मस्वरूपविशेषनिर्णयायैव प्रवृत्तम् ।

111

अन्यानि सर्वाणि पुराणान्य् एतदविरोधेन नेयानि । अन्यपरत्वं च तत्तदारम्भप्रकारैर् अवगम्यते । सर्वात्मना विरुद्धांशस् तामसत्वाद् अनादरणीयः ।

112

नन्व् अस्मिन्न् अपि --
सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्नुशिवात्मिकां ।
स संज्ञा याति भगवान् एक जनार्दनः ॥
इति त्रिमूर्तोसाम्यं प्रतीयते । नैतद् एवम् । एक एव जनार्दन इति जन अर्दनस्यैव ब्रह्मशिवादिकृत्स्नप्रपञ्चतादात्म्यं विधीयते । जगच् च स इति पूर्वोक्तम् एव विवृणोति -- स्रष्टा सृजति चात्मानं विष्णुः पाल्यं च पाति च ।
उपसंह्रियते चान्ते संहर्ता च स्वत्यंप्रभुः ॥
इति च स्रष्टृत्वेनावस्थितं ब्रह्मणं सृज्यं च संहर्तारं संहार्यं च युगपन् निर्दिश्य सर्वस्य विष्णुतादात्म्योपदेशात् सृज्यसंहार्यभूताद् वस्तुनः स्रष्टृसंहर्त्रोर् जनार्दनविभूतित्वेन विशेषो दृश्यते । जनार्दनविष्णुशब्दयोः पर्यायत्वेन ब्रह्मविष्णुशिवात्मिकाम् इति विभूतिम् । अत एव स्वेच्छया लीलार्थं विभूत्यन्तर्भाव उच्यते । यथेदम् अनन्तरम् एवोच्यते --
पृथिव्यापस् तथा तेजो वायुर् आकाश एव च ।
सर्वेन्द्रियान्तःकरणं पुरुषाख्यं हि यज् जगत् ॥
स एव सर्वभूतात्मा विश्वरूपो यतो ऽव्ययः ।
सर्गादिकं ततो ऽस्यैव भूतस्थम् उपकारकम् ॥
स एव सृज्यः स च सर्वकर्ता स एव पात्यत्ति च पाल्यते च ।
ब्रह्माद्यवस्थाभिर् अशेषमूर्तिर् विष्णुर् वरिष्ठो वरदो वरेण्यः ॥ इति ।

113

अत्र सामानाधिकरण्यनिर्दिष्टं हेयमिश्रप्रपञ्चतादात्म्यं निरवद्यस्य निर्विकारस्य समस्तकल्याणगुणात्मकस्य ब्रह्मणः कथम् उपपद्यत इत्य् आशङ्ख्य स एव सर्वभूतात्मा विश्वरूपो यतो ऽव्यय इति स्वयम् एवोपपादयति । स एव सर्वेश्वरः परब्रह्मभूतो विष्णुर् एव सर्वं जगद् इति प्रतिज्ञाय सर्वभूतात्मा विश्वरूपो यतो ऽव्यय इति हेतुर् उक्तः । सर्वभूतानाम् अयम् आत्मा विश्वशरीरो यतो ऽव्यय इत्यर्थः । वक्ष्यति च -- सत्सर्वं वै हरेस् तनुर् इति ।
एतद् उक्तं भवति । अस्याव्ययस्यापि परस्य ब्रह्मणो विष्णोर् विश्वशरीरतया तादात्म्यविरुद्धम् इत्य् आत्मशरीरयोश् च स्वभावा व्यवस्थिता एव । एवंभूतस्य सर्वेश्वरस्य विष्णोः प्रपञ्चान्तर्भूतनियाम्यकोटिनिविष्टब्रह्मादिदेवतिर्यङ्मनुष्येषु तत् तत् समाश्रयणीयत्वाय स्वेच्छावतारः पूर्वोक्तः । तद् एतद् ब्रह्मादीनां भावनात्रयान्वयेन कर्मवश्यत्वं भगवतः परब्रह्मभूतस्य वासुदेवस्य निखिलजगदुपकाराय स्वेच्छया स्वेनैव रूपेण देवादिष्व् अवतार इति च षष्टे ऽंशे शुभाश्रयप्रकरणे सुव्यक्तम् उक्तम् । अस्य देवादिरूपेणावतारेष्व् अपि न प्राकृतो देह इति महाभारते -- न भूतसंघसंस्थानो देहो ऽस्य परमात्मनः । इति प्रतिपादितः । श्रुतिभिश् च -- अजायमानो बहुधा विजायते -- तस्य धीराः परिजानन्ति
योनिम् इति । कर्मवश्यानां ब्रह्मादीनाम् अनिच्छताम् अपि तत्तत्कर्मानुगुणप्रकृतिपरिणामरूपभूतसंघसंस्थानविशेषदेवादिशरीरप्रवेशरूपं जन्मावर्जनीयम् । अयं तु सर्वेश्वरः सत्यसंकल्पो भगवान् एवंभूतशुभेतरजन्माकुर्वन्न् अपि स्वेच्छया स्वेनैव निरतिशयकल्याणरूपेण देवादिषु जगदुपकाराय बहुधा जायते, तस्यैतस्य शुभेतरजन्माकुर्वतो ऽपि स्वकल्याणगुणानन्त्येन बहुधा योनिं बहुविधजन्म धीराधीरमताम् अग्रेसरा जानन्तीत्यर्थः ।

114

तदेतन्निखिलजगन्निमित्तोपादानभूताज् जन्माद्य् अस्य यतः -- प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधादित्यादिसूत्रैः प्रतिपादितात् परस्माद् ब्रह्मणः परमपुरुषाद् अन्यस्य कस्यचित् परतरत्वं परमतः सेतून् मानसंबन्धभेदव्यपदेशेभ्य इत्याशङ्क्य सामान्यात् तु -- बुद्ध्यर्थः पादवत् -- स्थानविशेषात् प्रकाशादिवत् -- उपपत्तेश् च -- तथान्यप्रतिषेधात् -- अनेन सर्वगतत्वमायाम् आदिशब्दादिभ्य इति सूत्रकारः स्वयम् एव निराकरोति ।

115

मानवे च शास्त्रे --
प्रादुरासीत् तमोनुदः सिसृक्षुर् विविधाः प्रजाः ।
अप एव ससर्जादौ तासु वीर्यम् अपासृजत् ॥
तस्मिञ् जज्ञे स्वयं ब्रह्म
इति ब्रह्मणो जन्मश्रवणात् क्षेत्रज्ञत्वम् एवावगम्यते । तथा च स्रष्टुः परमपुरुषस्य तद्विसृष्टस्य च ब्रह्मणः
अयं तस्य ताः पूर्वं तेन नारायणः स्मृतः ।
तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते ॥
इति नामनिर्देशाच् च । तथा च वैष्णवे पुराणे हिरण्यगर्भादीनां भावनात्रयान्वयाद् अशुद्धत्वेन शुभाश्रयत्वानर्हतोपपादनात् क्षेत्रज्ञत्वं निश्चीयते ।

116

यद् अपि कैश्चिद् उक्तम् -- सर्वस्य शब्दजातस्य विध्यर्थवादमन्त्ररूपस्य
कार्याभिधायित्वेनैव प्रामाण्यं वर्णनीयम् । व्यवहाराद् अन्यत्र शब्दस्य बोधकत्वशक्त्यवधारणासंभवाद् व्यवहारस्य च कार्यबुद्धिमूलत्वात् कार्यरूप एव शब्दार्थः । न परिनिष्पन्ने वस्तुनि शब्दः प्रमाणम् इति । अत्रोच्यते । प्रवर्तकवाक्यव्यवहार एव शब्दानाम् अर्थबोधकत्वशक्त्यवधारणं कर्तव्यम् इति किम् इयं राजाज्ञा । सिद्धवस्तुषु शब्दस्य बोधकत्वशक्तिग्रहणम् अत्यन्तसुकरम् । तथा हि -- केनचिद् धस्तचेष्टादिनापवरके दण्डः स्थित इति देवदत्ताय ज्ञापयेति प्रेषितः कश्चित् तज्ज्ञापने प्रवृत्तो ऽपवरके दण्डः स्थित इति शब्दं प्रयुङ्क्ते । मूकवद् धस्तचेष्टाम् इमां जानन् पार्श्वस्थो ऽन्यः प्राग्व्युत्पन्नो ऽपि तस्यार्थस्य बोधनायापवरके दण्डः स्थित इत्यस्य शब्दस्य प्रयोगदर्शनाद् अस्यार्थस्यायं शब्दो
बोधक इति जानातीति किम् अत्र दुष्करम् । तथा बालस् तातो ऽयम् इयं मातायं मातुलो ऽयं मनुष्यो ऽयं मृगश् चन्द्रो ऽयम् अयं च सर्प इति मातापितृप्रभृतिभिः शब्दैः शनैः शनैर् अङ्गुल्या निर्देशने तत्र तत्र बहुशः शिक्षितस् तैर् एव शब्दैस् तेष्व् अर्थेषु स्वात्मनश् च बुद्ध्युत्पत्तिं दृष्ट्वा तेष्व् अर्थेषु तेषां शब्दानाम् अङ्गुल्या निर्देशपूर्वकः प्रयोगः सम्बन्धान्तराभावात् संकेतयितृपुरुषाज्ञानाच् च बोधकत्वनिबन्धन इति क्रमेण निश्चित्य पुनर् अप्य् अस्य शब्दस्यायम् अर्थ इति पूर्ववृद्धैः शिक्षितः सर्वशब्दानाम् अर्थम् अवगम्य स्वयम् अपि सर्वं वाक्यजातं प्रयुङ्क्ते । एवम् एव सर्वपदानां स्वार्थाभिधायित्वं संघातविशेषणां च यथावस्थितसंसर्गविशेषवाचित्वं च जानातीति कार्यार्थैव
व्युत्तिपत्तिर् इत्यादिनिर्बन्धो निर्बन्धनः । अतः परिष्पन्नः वस्तुनि शब्दस्यबोधकत्वशक्त्यवधारणात् सर्वाणि वेदान्तवाक्यानि सकलजगत्कारणं सर्वकल्याणगुणाकरमुक्तलक्षणं ब्रह्म बोधयन्त्य् एव ।

117

अपि च कार्यार्थ एव व्युत्पत्तिर् अस्तु । वेदान्दवाक्यान्य् अप्य् उपासनविषयकार्याधिकृतविशेषणभूतफलत्वेन दुःखासंभिन्नदेशविशेषरूपस्वर्गादिवद् रात्रिसत्रप्रतिष्ठानादिवद् अपगोरणशतयातनासाध्यसाधनभाववच् च कर्योपयोगितयैव सर्वं बोधयन्ति । तथा+हि -- ब्रह्मविद् आप्नोति परम् इत्यत्र ब्रह्मोपासनविषयकार्याधिकृतविशेषणभूतफलत्वेन ब्रह्मप्राप्तिः श्रूयते -- परप्राप्तिकामो ब्रह्म विद्याद् इत्यत्र प्राप्यतया प्रतीयमानं ब्रह्मस्वरूपं तद्विशेषणं च सर्वं कार्योपयोगितयैव सिद्धं भवति । तदन्तर्गतम् एव जगत्स्रष्टृत्वं संहर्तृत्वम् आधारत्वम् अन्तरात्मत्वम् इत्याद्य् उक्तम् अनुक्तं च सर्वम् इति न किंचिद् अनुपपन्नम् ।

118

एवं च सति मन्त्रार्थवादगता ह्य् अविरुद्धा अपूर्वाश् चार्थाः सर्वे विधिशेषतयैव सिद्धा भवन्ति । यथोक्तं द्रमिडभाष्ये -- ऋणं हि वै जायत इति श्रुतेर् इत्य् उपक्रम्य यद्य् अप्य् अवदानस्तुतिपरं वाक्यं तथापि नासता स्तुतिर् उपपद्यत इति । एतद् उक्तं भवति -- सर्वो ह्य् अर्थवादभागो देवताराधनभूतयागादेः साङ्गस्याराध्यदेवतायाश् चादृष्टरूपान् गुणान् सहस्रशो वदन् सहस्रशः कर्मणि प्राशस्त्यबुद्धिम् उत्पादयति । तेषाम् असद्भावे प्राशस्त्यबुद्धिर् एव न स्याद् इति कर्मणि प्राशस्त्यबुद्ध्यर्थं गुणसद्भावम् एव बोधयतीति । अनयैव दिशा सर्वे मन्त्रार्थवादावगता अर्थाः सिद्धाः ।

119

अपि च कार्यवाक्यार्थवादिभिः किम् इदं कार्यत्वं नामेति वक्तव्यम् । कृतिभावभाविता कृत्युद्देश्यता चेति चेत् । किम् इदं कृत्युद्देश्यत्वम् । यद् अधिकृत्य कृतिर् वर्तते तत् कृत्युद्देश्यत्वम् इति चेत् । पुरुषव्यापाररूपायाः कृतेः को ऽयम् अधिकारो नाम । यत्प्राप्तीच्छया कृतिम् उत्पादयति पुरुषः तत् कृत्युद्देश्यत्वम् इति चेद् धन्त तर्हीष्टत्वम् एव कृत्युद्देश्यत्वम् । अथैवं मनुषे इष्टस्यैव रूपद्वयम् अस्ति । इच्छाविषयतया स्थितिः पुरुषप्रेरकत्वं च । तत्र प्रेरकत्वाकारः कृत्युद्देश्यत्वम् इति सो ऽयं स्वपक्षाभिनिवेशकारितो वृथाश्रमः । तथा हीच्छाविषयतया प्रतीतस्य स्वप्रयत्नोत्पत्तिम् अन्तरेणासिद्धिर् एव प्रेरकत्वम् । तत एव प्रवृत्तेः । इच्छायां जातायाम् इष्टस्य स्वप्रयत्नोत्पत्तिम् अन्तरेणासिद्धिः प्रतीयते चेत् ततश्
चिकीर्षा जायते ततः प्रवर्तते पुरुष इति तत्त्वविदां प्रक्रिया । तस्माद् इष्टस्य कृत्यधीनात्मलाभत्वातिरेकि कृत्युद्देश्यत्वं नाम किम् पि न दृष्यते । अथोच्यते -- इष्टताहेतुश् च पुरुषानुकूलता । तत्पुरुषानुकूलत्वं कृत्युद्देश्यत्वम् इति चेत् । नैवम् । पुरुषानुकूलं सुखम् इत्य् अनर्थान्तरम् । तथा पुरुषानुकूलं दुःखपर्यायम् । अतः सुखव्यतिरिक्तस्य कस्यापि पुरुषानुकूलत्वं न संभवति ।
ननु च दुःखनिवृत्तेर् अपि सुखव्यतिरिक्तायाः पुरुषानुकूलता दृष्टा । नैतत् । आत्मानुकूलं सुखम् आत्मप्रतिकूलं दुःखम् इति हि सुखदुःखयोर् विवेकः । तत्रात्मानुकूलं सुखम् इष्टं भवति । तत्प्रतिकूलं दुःखं चानिष्टम् । अतो दुःखसंयोगस्यासह्यतया तन्निवृत्तिर् अपीष्टा भवति । तत एवेष्टतासाम्याद् अनुकूलताभ्रमः । तथा हि -- प्रकृतिसंसृष्टस्य संसारिणः पुरुषस्यानुकूलसंयोगः प्रतिकूलसंयोगः स्वरूपेणावस्थितिर् इति च तिस्रो ऽवस्थाः । तत्र प्रतिकूलसंबन्धनिवृत्तिश् चानुकूलसंबन्धनिवृत्तिश् च स्वरूपेणावस्थितिर् एव । तस्मात् प्रतिकूलसंयोगे वर्तमाने तन्निवृत्तिरूपा स्वरूपेणावस्थितिर् अपीष्टा भवति । तत्रेष्टतासाम्याद् अनुकूलताभ्रमः ।

120

अतः सुखरूपत्वाद् अनुकूलतायाः नियोगस्यानुकूलतां वदन्तं प्रामाणिकाः परिहसन्ति । इष्टस्यार्थविशेषस्य निवर्तकतयैव हि नियोगस्य नियोगत्वं स्थिरत्वम् अपूर्वत्वं च प्रतीयते । स्वर्गकामो यजेतेत्य् अत्र कार्यस्य क्रियातिरिक्ता स्वर्गकामपदसमभिव्याहारेण स्वर्गसाधनत्वनिश्चयाद् एव भवन्ति । न च वाच्यं यजेतेत्य् अत्र प्रथमं नियोगः स्वप्रधानतयैव प्रतीयते स्वर्गकामपदसमभिव्याहारात् स्वसिद्धये स्वर्गसिद्ध्यनुकूलता च नियोगस्येति । यजेतेति हि धात्वर्थस्य पुरुषप्रयत्नसाध्यता प्रतीयते । स्वर्गकामपदसमभिव्याहाराद् एव धात्वर्थातिरेकिणो नियोगत्वं स्थिरत्वम् अपूर्वत्वं चेत्यादि । तच् च स्वर्गसाधनत्वप्रतीतिनिबन्धनम् । समभिव्याहृतस्वर्गकामपदार्थान्वययोग्यं स्वर्गसाधनम् एव कार्यं लिङादयो ऽभिदधतीति लोकव्युत्पत्तिर्
अपि तिरस्कृता । एतद् उक्तं भवति -- समभिव्यहृतपदान्तरवाच्यार्थान्वययोग्यम् एवेतरपदप्रतिपाद्यम् इत्यन्विताभिधायिपदसंघातरूपवाक्यश्रवणसमन् अन्तरम् एव प्रतीयते । तच् च स्वर्गसाधनरूपम् । अतः क्रियावद् अनन्यार्थतापि विरोधाद् एव परित्यक्तेति । अत एव गङ्गायां घोष इत्यादौ घोषप्रतिवासयोग्यार्थोपस्थापनपरत्वं गङ्गापदस्याश्रीयते । प्रथमं गङ्गापदेन गङ्गार्थः स्मृत इति गङ्गापदार्थस्य पेयत्वं न वाक्यार्थान्वयीभवति । एवम् अत्र अपि यजेतेत्येतावन्मात्रश्रवणे कार्यम् अनन्यार्थं स्मृतम् इति वाक्यार्थान्वयसमये कार्यस्यानन्यार्थता नावतिष्ठते । कार्याभिधायिपदश्रवणवेलायां प्रथमं कार्यम् अनन्यार्थं प्रतीतम् इत्य् एतद् अपि न संगच्छते । व्युत्पत्तिकाले गवानयनादिक्रियाया दुःखरूपाया
इष्टविशेषसाधनतयैव कार्यताप्रतीतेः । अतो नियोगस्य पुरुषानुकूलत्वं सर्वलोकविरुद्धं नियोगस्य सुखरूपपुरुषानुकूलतां वदतः स्वानुभवविरोधश् च । करीर्या वृष्टिकामो यजेय्तेत्यादिषु सिद्धे ऽपि नियोगे वृष्ट्यादिसिद्धिनिमित्तस्य वृष्टिव्यतिरेकेण नियोगस्यानुकूलता नानुभूयते । यद्य् अप्य् अस्मिञ् जन्मनि वृष्ट्यादिसिद्धेर् अनियमस् तथाप्य् अनियमाद् एव नियोगसिद्धिर् अवश्याश्रयणीया । तस्मिन्न् अनुकूलतापर्यायसुखानुभूतिर् न दृश्यते । एवम् उक्तरीत्या कृतिसाध्येष्टत्वातिरेकि कृत्युद्देश्यत्वं न दृश्यते ।

121

कृतिं प्रति शेषित्वं कृत्युद्देश्यत्वम् इति चेत् । किम् इदं शेषित्वं किं च शेषत्वम् इति वक्तव्यम् । कार्यं प्रति संबन्धी शेषः । तत्प्रतिसंबन्धित्वं शेषित्वम् इति चेत् । एवं तर्हि कार्यत्वम् एव शेषित्वम् इत्य् उक्तं भवति । कार्यत्वम् एव विचार्यते । परोद्देशप्रवृत्तकृतिव्याप्त्यर्हत्वम् शेषत्वम् इति चेत् । को ऽयं परोद्देशो नामेति । अयम् एव हि विचार्यते । उद्देश्यत्वं नामेप्सितत्वसाध्यत्वम् इति चेत् । किम् इदम् ईप्सितत्वम् । कृतिप्रयोजनत्वम् इति चेत् पुरुषस्य कृत्यारम्भप्रयोजनम् एव हि कृतिप्रयोजनम् । स चेच्छाविषयः कृत्यधीनात्मलाभ इति पूर्वोक्त एव । अयम् एव हि सर्वत्र शेषशेषिभावः । परगतातिशयाधानेच्छोपादेयत्वम् एव यस्य स्वरूपं स शेषः परः शेषी । फलोत्पत्तीच्छया यागादेस् तत्प्रयत्नस्य चोपादेयत्वं यागादिसिद्धीच्छयान्यत्
सर्वम् उपादेयम् ।

122

एवं गर्भदासादीनाम् अपि पुरुषविशेषातिशयाधानोपादेयत्वम् एव स्वरूपम् । एवम् ईश्वरगतातिशयाधानेच्छयोपादेयत्वम् एव चेतनाचेतनात्मकस्य नित्यस्यानित्यस्य च सर्वस्य वस्तुनः स्वरूपम् इति सर्वम् ईश्वरशेषत्वम् एव सर्वस्य चेश्वरः शेषीति सर्वस्य वशी सर्वस्येशानः पतिं विश्वस्येत्याद्युक्तम् । कृतिसाध्यं प्रधानं यत् तत्कार्यम् अभिधीयत इत्य् अयम् अर्थः श्रद्दधानेष्व् एव शोभते ।

123

अपि च स्वर्गकामो यजेतेत्यादिषु लकारवाच्यकर्तृविशेषसमर्पणपराणां स्वर्गकामादिपदानां नियोज्यविशेषसमर्पणपरत्वं शब्दानुशासनविरुद्धं केनावगम्यते । साध्यस्वर्गविशिष्टस्य स्वर्गसाधने कर्तृत्वान्वयो न घटत इति चेत् । नियोज्यत्वान्वयो ऽपि न घटत इति हि स्वर्गसाधनत्वनिश्चयः । स तु शास्त्रसिद्धे कर्तृत्वान्वये स्वर्गसाधनत्वनिश्चयः क्रियते । यथा भोक्तुकामो देवदत्तगृहं गच्छेद् इत्युक्ते भोजनकामस्य देवदत्तगृहगमने कर्तृत्वश्रवणाद् एव प्रागज्ञातम् अपि भोजनसाधनत्वं देवदत्तगृहगमनस्यावगम्यते । एवम् अत्रापि भवति । न क्रियान्तरं प्रति कर्तृतया श्रुतस्य क्रियान्तरे कर्तृत्वकल्पनं युक्तम् -- यजेतेति हि यागकर्तृतया श्रुतस्य बिद्धौ कर्तृत्वकल्पनं क्रियते । बुद्धेः कर्तृत्वकल्पनम् एव हि
नियोज्यत्वम् । यथोक्तं --
नियोज्य सर्वकार्यं यः स्वकीयत्वेन बुध्यते ।
इति । यष्टृत्वानुगुणं तद्बोधृत्वम् इति चेत् । देवदत्तः पचेद् इति पाके कर्तृतया श्रुतस्य देवदत्तस्य पाकार्थगमनं पाकानुगुणम् इति गमने कर्तृत्वकल्पनं न युज्यते ।

मूल पाठ: Vedārthasaṃgraha · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc