भाषा

ENहिગુ
ग्रंथ पाठ

वेदार्थसंग्रह · श्लोक 63-82

63

सो ऽयम् इति बुद्धिः प्रकाराइक्याद् अयम् अपि दण्डीति बुद्धिमत् । अयम् च जात्यादिप्रकारो वस्तुनो भेद इत्य् उच्यते । तद्योग एव वस्तुनो भिन्नम् इति व्यवहारहेतुर् इत्यर्थः । स च वस्तुनो भेदव्यवहारहेतुः स्वस्य च संवेदनवत् । यथा संवेदनं वस्तुनो व्यवहारहेतुः स्वस्य व्यवहारहेतुश् च भवति ।

64

अत एव सन्मात्रग्राहि प्रत्यक्षं न भेदग्राहीत्यादिवादा निरस्ताः । जात्यादिसंस्थानसंस्थितस्यैव वस्तुनः प्रत्यक्षेण गृहीतत्वात् तस्यैव संस्थानरूपजात्यादेः प्रतियोग्यपेक्षया भेदव्यवहारहेतुत्वाच् च । स्वरूपपरिणामदोषश् च पूर्वम् एवोक्तः ।

65

यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति एष त आत्मान्तर्याम्यमृतः । य आत्मनि तिष्ठन्न् आत्मनो ऽन्तरो य आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति एष त आत्मान्तर्याम्यमृतः । यः पृथिवीम् अन्तरे संचरन् यस्य पृथिवी शरीरं यं पृथिवी न वेदेत्यादि -- यो ऽक्षरम् अन्तरे संचरन् यस्याक्षरं शरीरं अक्षरं न वेद -- यो मृत्युम् अन्तरे संचरन् यस्य मृत्युः शरीरं यं मृत्युर् न वेद -- एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः । द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो ऽभिचाकशीति । अन्तः प्रविष्टः शास्ता जनानां
सर्वात्मा । तत्सृष्ट्वा तद् एवानुप्राविशत् । तदनुप्रविश्य सच् च त्यच् चानृतं च सत्यम् अभवत् । अनेन जीवेनात्मनेत्यादि । पृथगात्मानं प्रेरितारं मत्वा जष्टस् ततस् तेनामृतत्वम् एति । भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्म, एतत् । नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् । प्रधानक्षेत्रज्ञपतिर् गुणेशः । ज्ञाज्ञौ द्वव् अजव् ईशानीशव् इत्यादिश्रुतिशतैस् तदुपबृंहणैः --
जगत् सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् ॥
यत् किंचित् सृज्यते येन सत्त्वजातेन वै द्विज ।
तस्य सृज्यस्य संभूतौ तत्सर्वं वै हरेस् तनुः ॥
अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः ॥
सर्वस्य चाहं हृदि संनिविष्टो
मत्तः स्मृतिर् ज्ञानम् अपोहनं च ॥
इत्यादिवेदविदग्रेसरवाल्मीकिपराशरद्वैपायनवचोभिश् च परस्य ब्रह्मणः सर्वस्यात्मत्वावगमाच् चिदचिदात्मकस्य वस्तुनस् तच्छरीरत्वावगमाच् च शरीरस्य शरीरिणं प्रति प्रकारतयैव पदार्थत्वाच् शरीरशरीरिणोश् च धर्मभेदे ऽपि तयोर् असंकरात् सर्वशरीरं ब्रह्मेति ब्रह्मणो वैभवं प्रतिपादयद्भिः सामानाधिकरण्यादिभिर् मुख्यवृत्तैः सर्वचेतनाचेतनप्रकारं ब्रह्मैवाभिधीयते । सामानाधिकरण्यं हि द्वयोः पदयोः प्रकारद्वयमुखेनैकार्थनिष्ठत्वं । तस्य चैतस्मिन् पक्षे मुख्यता । तथा हि तत् त्वम् इति सामानाधिकरण्ये तद् इत्यनेन जगत्कारणं सर्वकल्याणगुणगणाकरं निरवद्यं ब्रह्मोच्यते । त्वम् इति च चेतनसामानाधिकरण्यवृत्तेन जीवान्तर्यानिरूपि तच्छरीरं तदात्मतयावस्थितं तत्प्रकारं
ब्रह्मोच्यते । इतरेषु पक्षेषु सामानाधिकरण्यहानिर् ब्रह्मणः सदेषता च स्यात् ।

66

एतद् उक्तं भवति । ब्रह्मैवम् अवस्थितम् इत्य् अत्रैवंशब्दार्थभूतप्रकारतयैव विचित्रचेतनाचेतनात्मकप्रपञ्चस्य स्थूलस्य सूक्ष्मस्य च सद्भावः । तथा च बहु स्यां प्रजायेयेत्य् अयम् अर्थः संपन्नो भवति । तस्यैवेश्वरस्य कार्यतया कारणतया च नानासंस्थानसंस्थितस्य संस्थानतया चिदचिद्वस्तुजातम् अवस्थितम् इति ।

67

ननु च संस्थानरूपेण प्रकारतयैवंशब्दार्थत्वम् जातिगुणयोर् एव दृष्टं न द्रव्यस्य । स्वतन्त्रसिद्धियोग्यस्य पदार्थस्यैवंशब्दार्थतयेश्वरस्य प्रकारमात्रत्वम् अयुक्तं । उच्यते -- द्रव्यस्यापि दण्डकुण्डलादेर् द्रव्यान्तरप्रकारत्वं दृष्टम् एव । ननु च दण्डादेः स्वतन्त्रस्य द्रव्यान्तरप्रकारत्वे मत्वर्थीयप्रत्ययो दृष्टः । यथा दण्डी कुण्डलीति । अतो गोत्वादितुल्यतया चेतनाचेतनस्य द्रव्यभूतस्य वस्तुन ईश्वरप्रकारतया सामानाधिकरण्येन प्रतिपादनं न युज्यते । अत्रोच्यते -- गौर् अश्वो मनुष्यो देव इति भूतसंघातरूपाणां द्रव्याणाम् एव देवदत्तो मनुष्यो जातः पुण्यविशेषेण यज्ञदत्तो गौर्जातः पापेन, अन्यश् चेतनः पुण्यातिरेकेण देवो जात इत्यादिदेवादिशरीराणां चेतनप्रकारतया
लोकदेवयोः सामानाधिकरण्येन प्रतिपादनं दृष्टम् ।

68

अयम् अर्थः -- जातिर् वा गुणो वा द्रव्यं वा न तत्रादरः । कंचन द्रव्यविशेषं प्रति विशेषणतयैव यस्य सद्भावस् तस्य तदपृथक्सिद्धेस् तत्प्रकारतया तत्सामानाधिकरण्येन प्रतिपादनं युक्तम् । यस्य पुनर् द्रव्यस्य पृथक्सिद्धस्यैव कदाचित्क्वचिद्द्रव्यान्तरप्रकारत्वम् इष्यते तत्र मत्वर्थीयप्रत्यय इति विशेषः । एवम् एव स्थावरजङ्गमात्मकस्य सर्वस्य वस्तुन ईश्वरशरीरत्वेन तत्प्रकारतयैव स्वरूपसद्भाव इति । तत्प्रकारीश्वर एव तत्तच्छब्देनाभिधीयत इति तत्सामानाधिकरण्येन प्रतिपादनं युक्तं । तद् एवैतत् सर्वं पूर्वम् एव नामरूपव्याकरणश्रुतिविवरणे प्रपञ्चितम् ।

69

अतः प्रकृतिपुरुषमहदहंकारतन्मात्रभूतेन्द्रियतदारब्धचतुर्दशभुवनात्मकब्रह्माण्डतदन्तर्वर्तिदेवतिर्यङ्मनुष्यस्थावरादिसर्वप्रकारसंस्थानसंस्थितं कार्यम् अपि सर्वं ब्रह्मैवेति कारणभूतब्रह्मविज्ञानाद् एव सर्वं विज्ञातं भवतीत्य् एकविज्ञानेन सर्वविज्ञानम् उपपन्नतरम् । तद् एवं कार्यकारणभावादिमुखेन कृत्स्नस्य चिदचिद्वस्तुनः परब्रह्मप्रकारतया तदात्मकत्वम् उक्तम् ।

70

ननु च परस्य ब्रह्मणः स्वरूपेण परिणामास्पदत्वं निर्विकारत्वनिरवद्यत्वश्रुतिव्याकोपप्रसञ्गेन निवारितम् । प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधाद् इत्य् एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानमृत्तत्कार्यदृष्टान्ताभ्यां परमपुरुषस्य जगदुपादानकारणत्वं च प्रतिपादितम् । उपादानकारणत्वं च परिणामास्पदत्वम् एव । कथम् इदम् उपपद्यते ।

71

अत्रोच्यते -- सजीवस्य प्रपञ्चस्याविशेषेण कारणत्वम् उक्तम् । तत्रेश्वरस्य जीवरूपपरिणामाभ्युपगमेन नात्मा श्रुतेर् नित्यत्वाच् च ताभ्य इति विरुध्यते । वैषम्यनैर्घृण्यपरिहारश् च जीवनम् अनादित्वाभ्युपगमेन तत्कर्मनिमित्ततया प्रतिपादितः -- वैषम्यनैर्घृण्ये न सापेक्षत्वान् न कर्मविभागाद् इति चेन् न -- अनादित्वाद् उपपद्यते चाप्य् उपलभ्यते चेत्यकृताभ्यागमकृतविप्रणाशप्रसङ्गश् चानित्यत्वे ऽभिहितः ।

72

तथा प्रकृतेर् अप्य् अनादिता श्रुतिभिः प्रतिपदिता --
अजाम् एकां लोहितशुक्लकृष्णां बह्नीं प्रजां जनयन्तीं सरूपाम् ।
अजो ह्य् एको जुषमाणो ऽनुशेते जहात्य् एनां भुक्तभोगाम् अजो ऽन्यः ॥
इति प्रकृतिपुरुषयोर् अजत्वं दर्शयति । अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया संनिरुद्धः -- मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् इति प्रकृतिर् एव स्वरूपेण विकारास्पदम् इति च दर्शयति । गौर् अनाद्यन्तवती सा जनित्री भूतभाविनीति च । स्मृतिश् च भवति --
प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभव् अपि ।
विकारांश् च गुणांश् चैव विद्धि प्रकृतिसंभवान् ॥
भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च ।
अहंकार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ॥
अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥
प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः ।
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ॥
इत्यादिका ।

73

एवं च प्रकृतेर् अपीश्वरशरीरत्वात् प्रकृतिशब्दो ऽपि तदात्मभूतस्येश्वरस्य तत्प्रकारसंस्थितस्य वाचकः । पुरुषशब्दो ऽपि तदात्मभूतस्येश्वरस्य पुरुषप्रकारसंस्थितस्य वाचकः । अतस् तद्विकाराणाम् अपि तथेश्वर एवात्मा । तद् आह --
व्यक्तं विष्णुस् तथाव्यक्तं पुरुषः काल एव च ।
सा एव क्षोभको ब्रह्मन् क्षोभ्यश् च परमेश्वरः ॥
इति । अतः प्रकृतिप्रकारसंस्थिते परमात्मनि प्रकारभूतप्रकृत्यंसे विकारः प्रकार्यंसे चाविकारः । एवम् एव जीवप्रकारसंस्थिते परमात्मनि च प्रकारभूतजीवांशे सर्वे चापुरुषार्थाः प्रकार्यंशो नियन्ता निरवद्यः सर्वकल्याणगुणाकरः सत्यसंकल्प एव ।

74

तथा च सति कारणावस्थ ईश्वर एवेति तदुपादानकजगत्कार्यावस्थो ऽपि स एवेति कार्यकारणयोर् अनन्यत्वं सर्वश्रुत्यविरोधश् च भवति । तद् एवं नामरूपविभागानर्हसूक्ष्मदशापन्नप्रकृतिपुरुषशरीरं ब्रह्म कारणावस्थं, जगतस् तदापत्तिर् एव च प्रलयः । नामरूपविभागविभक्तस्थूलचिदचिद्वस्तुशरीरं ब्रह्म कार्यत्वं, ब्रह्मणस् तथाविधस्थूलभाव एव जगतः सृष्टिर् इत्य् उच्यते । यथोक्तं भगवता पराशरेण --
प्रधानपुंसोर् अजयोः कारणं कार्यभूतयोः । इति ।

75

तस्माद् ईश्वरप्रकारभूतसर्वावस्थप्रकृतिपुरुषवाचिनः शब्दास् तत्प्रकारविशिष्टतयावस्थिते परमात्मनि मुख्यतया वर्तन्ते । जीवात्मवाचिदेवमनुष्यशब्दवत् । यथा देवमनुष्यादिशब्दा देवमनुष्यादिप्रकृतिपरिणामविशेषाणां जीवात्मप्रकारतयैव पदार्थत्वात् प्रकारिणि जीवात्मनि मुख्यतया वर्तन्ते । तस्मात् सर्वस्य चिदचिद्वस्तुनः परमात्मशरीरतया तत्प्रकारत्वात् परमात्मनि मुख्यतया वर्तन्ते सर्वे वाचकाः शब्दाः ।

76

अयम् एव चात्मशरीरभावः पृथक्सिद्ध्यनर्हाधाराधेयभावो नियन्तृनियाम्यभावः शेषशेषिभावश् च । सर्वात्मनाधारतया नियन्तृतया शेषितया च -- आप्नोतीत्य् आत्मा सर्वात्मनाधेयतया नियाम्यतया शेषतया च -- अपृथक्सिद्धं प्रकारभूतम् इत्य् आकारः शरीरम् इति चोच्यते । एवम् एव हि जीवात्मनः स्वशरीरसंबन्धः । एवम् एव परमात्मनः सर्वशरीरत्वेन सर्वशब्दवाच्यत्वम् ।

77

तद् आह श्रुतिगणः -- सर्वे वेदा यत्पदम् आमनन्ति सर्वे वेदा यत्रैकं भवन्तीति । तस्यैकस्य वाच्यत्वाद् एकार्थवाचिनो भवन्तीत्यर्थः । एको देवो बहुधा निविष्टः, सहैव सन्तं न विजानन्ति देवा इत्यादि । देवा इन्द्रियाणि । देवमनुष्यादीनाम् अन्तर्यामितयात्मत्वेन निविश्य सहैव सन्तं तेषाम् इन्द्रियाणि मनःपर्यन्तानि न विजानन्तीत्यर्थः । तथा च पौराणिकानि वचांसि --
नताः स्म सर्ववचसां प्रतिष्ठा यत्र शश्वती ।
वाच्ये हि वचसः प्रतिष्ठा ।
कार्याणां कारणां पूर्वं वचसां वाच्यम् उत्तमम् ।
वेदैश् च सर्वैर् अहम् एव वेद्यः ।
इत्यादीनि सर्वाणि हि वचांसि सशरीरात्मविशिष्टम् अन्तर्यामिणम् एवाचक्षते । हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मानुप्रविश्य नामरूपे व्याकरवाणीति हि श्रुतिः । तथा च मानवं वचः --
प्रशासितारं सर्वेषाम् अणीयांसम् अणीयसाम्
रुक्माभं स्वप्नधीगम्यं विद्यात् तं पुरुषं परम् ॥
अन्तः प्रविश्यान्तर्यामितया सर्वेषां प्रशासितारं नियन्तारम् -- अणीयांस आत्मानः कृत्स्नस्याचेतनस्य व्यापकतया सूक्ष्मभूतास् ते तेषाम् अपि व्यापकत्वात् तेभ्यो ऽपि सूक्ष्मतर इत्यर्थः -- रुक्माभः आदित्यवर्णः -- स्वप्नकल्पबुद्धिप्राप्यः, विशदतमप्रत्यक्षतापन्नानुध्यानैकलभ्य इत्यर्थः ।
एनम् एके वदन्त्य् अग्निं मारुतो ऽन्ये प्रजापतिम् ।
इन्द्रम् एके परे प्रमाणम् अपरे ब्रह्म शाश्वतम् ॥
इति । एके -- वेदा इत्यर्थः । उक्तरीत्या परस्यैव ब्रह्मणः सर्वस्य प्रशासितृत्वेन सर्वान्तरात्मतया प्रविश्यावस्थितत्वाद् अग्न्यादयः शब्दा अपि शाश्वतब्रह्मशब्दवत् तस्यैव वाचका भवन्तीत्यर्थः । तथा च स्मृत्यन्तरम् --
ये यजन्ति पित्qन् देवान् ब्राह्मणान् सहुताशनान् ।
सर्वभूतान्तरात्मानं विष्णुम् एव यजन्ति ते ॥
इति । पितृदेवब्राह्मणहुताशनादिशब्दास् तन्मुखेन तदन्तरात्मभूतस्य विष्णोर् एव वाचका इत्युक्तं भवति ।

78

अत्रेदं सर्वशास्त्रहृदयम् -- जीवात्मानः स्वयम् असंकुचितापरिच्छिन्ननिर्मलज्ञानस्वरूपाः सन्तः कर्मरूपाविद्यावेष्टितास् तत्तत्कर्मानुरूपज्ञानसंकोचम् आपन्नाः, ब्रह्मादिस्तम्बपर्यन्तविविधविचित्रदेहेषु प्रविश्टास् तत्तद्देहोचितलब्धज्ञानप्रसरास् तत्तद्देहात्माभिमानिनस् तदुचितकर्माणि कुर्वाणास् तदनुगुणसुखदुःखोपभोगरूपसंसारप्रवाहं प्रतिपद्यन्ते । एतेषां संसारमोचनं भगवत्प्रपत्तिम् अन्तरेण नोपपद्यत इति तदर्थः प्रथमम् एषां देवादिभेदरहितज्ञानैकाकारतया सर्वेषां साम्यं प्रतिपाद्य, तस्यापि स्वरूपस्य भगवच्छेषतैकरसतया भगवदात्मकताम् अपि प्रतिपाद्य, भगवत्स्वरूपं च हेयप्रत्यनीलकल्याणैकतानतया सकलेतरविसजातीयम् अनवधिकातिशयासंख्येयकल्याणगुणगणाश्रयं
स्वसंकल्पप्रवृत्तसमस्तचिदचिद्वस्तुजाततया सर्वस्यात्मभूतं प्रतिपाद्य, तदुपासन साङ्गं तत्प्रापकं प्रतिपदयन्ति शास्त्राणीति ।

79

यथोक्तम् --
निर्वाणमय एवायम् आत्मा ज्ञानमयो ऽमलः ।
दुःखाज्ञानमला धर्मा प्रकृतेस् ते न चात्मनः ।
इति प्रकृतिसंसर्गकृतकर्ममूलत्वान् नात्मद्वरूपप्रयुक्ता धर्मा इत्यर्थः । प्राप्ताप्राप्तविवेकेन प्रकृतेर् एव धर्मा इत्युक्तम् ।
विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पाण्डिताः समदर्शिनः ।
इति । देवतिर्यङ्मनुष्यस्थावररूपप्रकृतिसंसृष्टस्यात्मनः स्वरूपविवेचनी बुद्धिर् एषां ते पण्डिताः । तत्तत् प्रकृतिविशेषवियुक्तात्मयाथात्म्यज्ञानवन्तस् तत्र तत्रात्यन्तविषमाकारे वर्तमानम् आत्मानं समानाकारं पश्यन्तीति समदर्शिन इत्य् उक्तम् । तद् इदम् आह --
इहैव तैर् जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥
इति । निर्दोषं -- देवादिप्रकृतिविशेषसंसर्गरूपदोषरहितं स्वरूपेणावस्थितं सर्वम् आत्मवस्तु निर्वाणरूपज्ञानैकाकारतया समम् इत्यर्थः ।

80

तस्यैवंभूतस्यात्मनो भगवच्छेषतैकरसता तन्नियाम्यता तदेकाधारता च तच्छरीरतत्तनुप्रभृतिभिः शब्दैस् तत्समानाधिकरण्येन च श्रुतिस्मृतीतिहासपुराणेषु प्रतिपाद्यत इति पूर्वम् एवोक्तम् ।

81

दैवी ह्य् एषा गुणमयी मम माया दुरत्यया ।
माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥
इति तस्यात्मनः कर्मकृतविचित्रगुणमयप्रकृतिसंसर्गरूपात् संसारान् मोक्षो भगवत्प्रपत्तिम् अन्तरेण नोपपदयत इत्युक्तं भवति । नान्यः पन्था अयनाय विद्यत इत्यादिश्रुतिभिश् च ।
मया ततम् इदं सर्वं जगद् अव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेषु अवस्थितः ॥
न च मत्स्थानि भूतानि पश्य मे योगम् ऐश्वरम् ॥
इति सर्वशक्तियोगात् स्वाइश्वर्यवैचित्र्यम् उक्तम् । तद् आह --
विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् ।
इति -- अनन्तविचित्रमहाश्चर्यरूपं जगन् ममायुतांशेनात्मतया प्रविश्य सर्वं मत्संकल्पेन विष्टभ्यानेन रूपेणानन्तमहाविभूतिपरिमितोदारगुणसागरो निरतिशयाश्चर्यभूतः स्थितो ऽहम् इत्यर्थः । तद् इदम् आह --
एकत्वे सति नानात्वं नानात्वे सति चैकता ।
अचिन्त्यं ब्रह्मणो रूपं कुतस् तद्वेदितुम् अर्हति ॥
इति । प्रशासितृत्वेनैक एव सन्विचित्रचिदचिद्वस्तुष्व् अन्तरात्मतया प्रविश्य तत्तद्रूपेण विचित्रप्रकारो विचित्रकर्म कारयन् नानारूपां भजते । एवं स्वल्पांशेन तु सर्वाश्चर्यं नानारूपं जगत्तदन्तरात्मतया प्रविश्य विष्टभ्य नानात्वेनावस्थितो ऽपि सन्न् अनवधिकातिशयासंख्येयकल्याणगुणगणः सर्वेश्वरः परब्रह्मभूतः पुरुषोत्तमो नारायणो निरतिशयाश्चर्यभूतो नीलतोयदसंकाशः पुण्डरीकदलामलायतेक्षणः सहस्रांशुसहस्रकिरणः परमे व्योम्नि यो वेद निहितं गुहायां परमे व्योमंस् तदक्षरे परमे व्योमन्न् इत्यादिश्रुतिसिद्ध एक एवातिष्ठते ।

82

ब्रह्मव्यतिरिक्तस्य कस्यचिद् अपि वस्तुन एकस्वभावस्यैककार्यशक्तियुक्तस्यैकरूपस्य रूपान्तरयोगः स्वभावान्तरयोगः शक्त्यन्तरयोगश् च न घटते । तस्यैतस्य परब्रह्मणः सर्ववस्तुविजातीयतया सर्वस्वभावत्वं सर्वशक्तियोगश् चेत्य् एकस्यैव विचित्रानन्तरूपता च पुनर् अप्य् अनन्तापरिमिताश्चर्ययोगेनैकरूपता च न विरुद्धेति वस्तुमात्रसाम्याद् विरोधचिन्ता न युक्तेत्यर्थः । यथोक्तं --
शक्तयः सर्वभावानाम् अचिन्त्यज्ञानगोचराः ।
यतो ऽतो ब्रह्मणस् तास् तु सर्गाद्या भावशक्तयः ॥
भवन्ति तपसां श्रेष्ट पावकस्य यथोष्णता ॥इति ।
एतद् उक्तं भवति -- सर्वेषाम् अग्निजलादीनां भावानाम् एकस्मिन्न् अपि भावे दृष्टैव शक्तिस् तद्विजातीयभावान्तरे ऽपीति न चिन्तयितुं युक्ता जलादाव् अदृष्टापि तद्विजातीयपावके भास्वरत्वोष्णतादिशक्तिर् यथा दृश्यते, एवम् एव सर्ववस्तुविसजातीये ब्रह्मणि सर्वसाम्यं नानुमातुं युक्तम् इति । अतो विचित्रानन्तशक्तियुक्तं ब्रह्मैवेत्यर्थः तद् आह --
जगद् एतन् महाश्चर्यं रूपं यस्य महात्मनः ।
तेनाश्चर्यवरेणाहं भवता कृष्ण संगतः ॥
इति ।

मूल पाठ: Vedārthasaṃgraha · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc