वेदार्थसंग्रह · श्लोक 43-62
ननु च किम् अनेनाडम्बरेण । चोद्यं तु न परिहृतम् । उच्यते । एवम् अभ्युपगच्छताम् अस्माकम् आत्मधर्मभूतस्य चैतन्यस्य स्वाभाविकस्यापि कर्मणा पारमार्थिकं संकोचं विकासं च ब्रुवतां सर्वम् इदं परिहृतम् । भवस् तु प्रकाश एव स्वरूपम् इति प्रकाशो न धर्मभूतस् तस्य संकोचविकासौ वा नाब्युपगम्येते । प्रकाशप्रसारानुत्पत्तिम् एव तिरोधानभूताः कर्मादयः कुर्वन्ति । अविद्या चेत् तिरोधानं तिरोधानभूततयाविद्यया स्वरूपभूतप्रकाशनाश इति पूर्वम् एवोक्तम् । अस्माकं त्व् अविद्यारूपेण कर्मणा स्वरूपनित्यधर्मभूतप्रकाशः संकुचितः । तेन देवादिस्वरूपात्माभिमानो भवतीति विशेषः । यथोक्तम् --
अविद्या कर्मसंज्ञान्या तृतीया शक्तिर् इष्यते ॥
यथा क्षेत्रशक्तिः सा वेष्टिता नृप सर्वगा ।
संसारतापान् अखिलान् अवाप्नोत्य् अतिसंततान् ॥
तया तिरोहितत्वाच् च शक्तिः क्षेत्रज्ञसंज्ञिता ।
सर्वभूतेषु भूपाले तारतम्येन वर्तते ॥
इति । क्षेत्रज्ञानां स्वधर्मभूतस्य ज्ञानस्य कर्मसंज्ञाविद्यया संकोचं विकासं च दर्शयति ।
अपि चाच्छादिकाविद्या श्रुतिभिश् चाइक्योपदेशबलाच् च ब्रह्मस्वरूपतिरोधानहेयदोषरूपाश्रीयते तस्याश् च मिथ्यारूपत्वेन प्रपञ्चवत्स्वदर्शनमूलदोषापेक्षत्वात् । न सा मिथ्या दर्शनमूलदोषः स्याद् इति ब्रह्मैव मिथ्यादर्शनमूलं स्यात् । तस्याश् चानादित्वे ऽपि मिथ्यारूपत्वाद् एव ब्रह्मदृश्यत्वेनैवानादित्वात् तद्दर्शनमूलपरमार्थदोषानभ्युपगमाच् च ब्रह्मैव तद्दर्शनमूलं स्यात् । तस्य नित्यत्वाद् अनिर्मोक्ष एव ।
अत एवेदम् अपि निरस्तम् -- एकम् एव शरीरं जीववत्, निर्जीवानीतराणि शरीराणि स्वप्नदृष्टनानाविधानन्तशरीराणां यथा निर्जीवत्वम् । तत्र स्वप्ने द्रष्टुः शरीरम् एकम् एव जीववत् । तस्य स्वप्नवेलायां दृश्यभूतनानाविधशरीराणां निर्जीवत्वम् एव । अनेनैकेनैव परिकल्पितत्वाज् जीवा मिथ्याभूता इति ब्रह्मणा स्वस्वरूपव्यतिरिक्तस्य जीवभावस्य सर्वशरीराणां च कल्पितत्वाद् एकस्मिन्न् अपि शरीरे शरीरवज् जीवभावस्य च मिथ्यारूपत्वात् सर्वाणि शरीराणि मिथ्यारूपाणि, तत्र जीवभावश् च मिथ्यारूप इत्य् एकस्य शरीरस्य तत्र जीवभावस्य च न कश्चिद् विशेषः । अस्माकं तु स्वप्ने द्रष्टुः स्वशरीरस्य तस्मिन्न् आत्मसद्भावस्य च प्रबोधवेलायाम् अबाधितत्वान् अन्येषां शरीराणां तद्गतजीवानां च बाधितत्वात्
ते सर्वे मिथ्याभूताः स्वशरीरम् एकं तस्मिञ् जीवभावश् च परमार्थ इति विशेषः ।
अपि च केन वा विद्यानिवृत्तिः सा कीदृशीति विवेचनीयम् । ऐक्यज्ञानं निवर्तकं निवृत्तिश् चानिर्वचनीयप्रत्यनीकाकारेति चेत् । अनिर्वचनीयप्रत्यनीकं निर्वचनीयं तच् च सद् वासद् वा द्विरूपं वा कोट्यन्तरं न विद्यते । ब्रह्मव्यतिरेकेणैतदभ्युपगमे पुनर् अविद्या न निवृत्ता स्यात् । ब्रह्मैव चेन् निवृत्तिस् तत्प्राग् अप्य् अविशिष्टम् इति वेदान्तज्ञानात् पूर्वम् एव निवृत्तिः स्यात् । ऐक्यज्ञानं निवर्तकं तदभावात् संसार इति भवद्दर्शनं विहन्यते ।
किञ् च निवर्तकज्ञानस्याप्य् अविद्यारूपर्वात् तन्निवर्तनं केनेति वक्तव्यम् । निवर्तकज्ञानं स्वेतरसमस्तभेदं निवर्त्य क्षणिकत्वाद् एव स्वयम् एव विनश्यति दावानलविषनाशनविषान्तरवद् इति चेन् न । निवर्तकज्ञानस्य ब्रह्मव्यतिरिक्तत्वेन तत्स्वरूपतदुत्पत्तिविनाशानां मिथ्यारूपत्वात् तद्विनाशरूपा विद्या तिष्ठत्य् एवेति तद्विनाशदर्शनस्य निवर्तकं वक्तच्यम् एव । दावाग्न्यादीनाम् अपि पूर्वावस्थाविरोधिपरिणामपरंपरावर्जनीयैव ।
अपि च चिन्मात्रब्रह्मव्यतिरिक्तकृत्स्ननिषेधविषयज्ञानस्य को ऽयं ज्ञाता । अध्यासरूप इति चेन् न । तस्य निषेधतया निवर्तकज्ञानकर्मत्वात् तत्कर्तृत्वानुपपत्तेः । ब्रह्मस्वरूप एवेति चेन् न । ब्रह्मणो निवर्तकज्ञानं प्रति ज्ञातृत्वं किं स्वरूपम् उताध्यस्तम् । अध्यस्तं चेद् अयम् अध्यासस् तन्मूलविद्यान्तरं च निवर्तकज्ञानविषयतया तिष्ठत्य् एव । तन्निवर्तकान्तराभ्युपगमे तस्यापि त्रिरूपतयानवस्थैव । सर्वस्य हि ज्ञानस्य त्रिरूपकत्वविरहे ज्ञानत्वम् एव हीयते । कस्यचित् कंचनार्थविशेषं प्रति सिद्धिरूपत्वात् । ज्ञानस्य त्रिरूपत्वविरहे भवतां स्वरूपभूतज्ञानवन् निवर्तकज्ञानम् अप्य् अनिवर्तकं स्यात् । ब्रह्मस्वरूपस्यैव ज्ञातृत्वाभ्युपगमे ऽस्मदीय एव पक्षः परिगृहीतः स्यात् । निवर्तकज्ञानस्वरूपज्ञातृत्वं च स्वनिवर्त्यान्तर्गतम्
इति वचनं भूतलव्यतिरिक्तं कृत्स्नं छिन्नं देवदत्तेनेत्य् अस्याम् एव छेदनक्रियायाम् अस्याश् छेदनक्रियायाश् छेत्तृत्वस्य च छेद्यान्तर्भाववचनवद् उपहास्यम् ।
अपि च निखिलभेदनिवर्तकम् इदम् ऐक्यज्ञानं केन जातम् इति विमर्शनीयम् । श्रुत्यैवेति चेन् न । तस्या ब्रह्मव्यतिरिक्ताया अविद्यापरिकल्पितत्वात् प्रपञ्चबाधकज्ञानस्योत्पादकत्वं न संभवति । तथा हि दुष्टकारणजातम् अपि रज्जुसर्पज्ञानं न दुष्टकारणजन्येन रज्जुर् इयं न सर्प इति ज्ञानेन बाध्यते । रज्जुसर्पज्ञानभये वर्तमाने केनचिद्भ्रान्तेन पुरुषेण रज्जुर् इयं न सर्प इत्युक्ते ऽप्य् अयं भ्रान्त इति ज्ञाते सति तद्वचनं रज्जुसर्पज्ञानस्य बाधकं न भवति भयं च न निवर्तते । प्रयोजकज्ञानवतः श्रवणवेलायाम् एव हि ब्रह्मव्यतिरिक्तत्वेन श्रुतेर् अपि भ्रान्तिमूलत्वं ज्ञातम् इति । निवर्तकज्ञानस्य ज्ञातुस् तत्सामग्रीभूतशास्त्रस्य च ब्रह्मव्यतिरिक्ततया यदि बाध्यत्वम् उच्यते हन्त तर्हि प्रपञ्चनिवृत्तेर् मिथ्यात्वम् आपततीति प्रपञ्चस्य सत्यता स्यात् ।
स्वप्नदृष्टपुरुषवाक्यावगतपित्रादिमरणस्य मिथ्यात्वेन पित्रादिसत्यतावत् । किञ्च तत् त्वम् अस्य् आदिवाक्यं न प्रपञ्चस्य बाधकम् । भ्रान्तिमूलत्वाद् भ्रान्तप्रयुक्तरज्जुसर्पबाधकवाक्यवत् ।
ननु च स्वप्ने कस्मिंश्चिद् भये वर्तमाने स्वप्नदशायाम् एवायं स्वप्न इति ज्ञाते सति पूर्वभयनिवृत्तिर् दृष्टा । तद्वद् अत्रापि संभवतीति । नैवम् । स्वप्नवेलायाम् एव सो ऽपि स्वप्न इति ज्ञाते सति पुनर्भयानिवृत्तिर् एव दृष्टेति न कश्चिद् विशेषः ।
श्रवणवेलायाम् एव सोऽपि स्वप्न इति ज्ञातम् एवेत्युक्तम् । यद् अपि चेदम् उक्तं भ्रान्तिपरिकल्पितत्वेन मिथ्यारूपम् अपि शास्त्रम् अद्वितीयं ब्रह्मेति बोधयति तस्य सतो ब्रह्मणो विषयस्य पश्चात् तनबाधादर्शनाद् ब्रह्म सुस्थितम् एवेति । तद् अयुक्तम् । शून्यम् एव तत् त्वम् इति वाक्येन तस्यापि बाधितत्वात् । इदं भ्रान्तिमूलवाक्यम् इति चेत् । सद् अद्वितीयं ब्रह्मेति वाक्यम् अपि भ्रान्तिमूलम् इति त्वयैवोक्तम् । पश्चात् तनबाधादर्शनं तु सर्वशून्यवाक्यस्यैवेति विशेषः । सर्वशून्यवादिनो ब्रह्मव्यतिरिक्तवस्तुमिथ्यात्ववादिनश् च स्वपक्षसाधनप्रमाणपारमार्थ्यानब्युपगमेनाभियुक्तैर् वादानधिकार एव प्रतिपादितः । अधिकारो ऽनभ्युपायत्वान् न वादे शून्यवादिनः । इति ।
अपि च प्रत्यक्षदृष्टस्य प्रपञ्चस्य मिथ्यात्वं केन प्रमाणेन साध्यते । प्रत्यक्षस्य दोषमूलत्वेनान्यथासिद्धिसंभवान् निर्दोषं शास्त्रम् अनन्यथासिद्धं प्रत्यक्षस्य बाधकम् इति चेत् । केन दोषेण जातं प्रत्यक्षम् अनन्तभेदविषयम् इति वक्तव्यम् । अनादिभेदवासनाख्यदोषजातं प्रत्यक्षम् इति चेत् । हन्त तर्ह्य् अनेनैव दोषेण जातं शास्त्रम् अपीत्य् एकदोषमूलत्वाच् छास्त्रप्रत्यक्षयोर् न बाध्यबाधकभावसिद्धिः ।
आकाशवाय्वादिभूततदारब्धशब्दस्पर्शादियुक्तमनुष्यत्वादिसंस्थानसंस्थितपदार्थग्राहि प्रत्यक्षम् । शास्त्रं तु प्रत्यक्षाद्यपरिच्छेद्यसर्वान्तरात्मत्वसत्यत्वाद्यनन्तविशेषणविशिष्टब्रह्मस्वरूपतदुपासनाद्याराधनप्रकारतत्प्राप्तिपूर्वकतत्प्रसादलभ्यफलविशेषतदनिष्टकरणमूलनिग्रहविशेषविषयम् इति न शात्रप्रत्यक्षयोर् विरोधः । अनादिनिधनाविच्छिन्नपाटसंप्रदायताद्यनेकगुणविशिष्टस्य शास्त्रस्य बलीयस्त्वं वदता प्रत्यक्षपारमार्थ्यम् अवश्यम् अभ्युपगन्तव्यम् इत्य् अलम् अनेन श्रुतिशतविततिवातवेगपराहतकुदृष्टिदुष्टयुक्तिजालतूलनिरसनेनेत्य् उपरम्यते ।
द्वितीये तु पक्ष उपाधिब्रह्मव्यतिरिक्तवस्त्वन्तरानभ्युपगमाद् ब्रह्मण्य् एवोपाधिसंसर्गाद् औपाधिकाः सर्वे दोषा ब्रह्मण्य् एव भवेयुः । ततश् चापहतपाप्मत्वादिनिर्दोषत्वश्रुतयः सर्वे विहन्यन्ते ।
यथा घटाकाशादेः परिच्छिन्नतया महाकाशाद् वैलक्षण्यं परस्परभेदश् च दृश्यते -- तत्रस्था गुणा वा दोषा वानवच्छिन्ने महाकाशे न संबध्यन्ते एवम् उपाधिकृतभेदव्यवस्थितजीवगता दोषा अनुपहिते परे ब्रह्मणि न संबध्यन्त इति चेत् । नैतद् उपपद्यते । निरवयवस्याकाशस्यानवच्छेद्यस्य घटादिभिश् छेदासंभवात् तेनैवाकाशेन घटादयः संयुक्ता इति ब्रह्मणो ऽप्य् अच्छेद्यत्वाद् ब्रह्मैवोपाधिसंयुक्तं स्यात् । घटसंयुक्ताकाशप्रदेशो ऽन्यस्माद् आकाशप्रदेशाद् भिद्यत इच् चेत् । आकाशस्यैकस्यैव प्रदेशभेदेन घटादिसंयोगाद् घटादौ गच्छति तस्य च प्रदेशभेदस्यानियम इति तद्वद् ब्रह्मण्य् एव प्रदेशभेदानियमेनोपाधिसंसर्गाद् उपाधौ गच्छति संयुक्तवियुक्तब्रह्मप्रदेशभेदाच् च ब्रह्मण्य् एवोपाधिसंसर्गः
क्षणे क्षणे बन्धमोक्षौ स्याताम् इति सन्तः परिहसन्ति ।
निरवयवस्यैवाकाशस्य श्रोत्रेन्द्रियत्वे ऽपीन्द्रियव्यवस्थावद् ब्रह्मण्य् अपि व्यवस्थोपपद्यत इति चेत् । न वायुविशेषसंस्कृतकर्णप्रदेशसंयुक्तस्यैवाकाशप्रदेशस्येन्द्रियत्वात् तस्य च प्रदेशान्तराभेदे ऽपीन्द्रियव्यवस्थोपपद्यते । आकाशस्य तु सर्वेषां शरीरेषु गच्छत् स्वनियमेन सर्वप्रदेशसंयोग इति ब्रह्मण्य् उपाधिसंयोगप्रदेशानियम एव ।
आकाशस्य स्वरूपेणैव श्रोत्रेन्द्रियत्वम् अभ्युपगम्यापीन्द्रियव्यवस्थोकता । परमार्थतस् त्व् आकाशो न श्रोत्रेन्द्रियम् । वैकारिकाद् अहंकाराद् एकादशेन्द्रियाणि जायन्त इति हि वैदिकाः । यथोक्तं भगवता पराशरेण --
तैजसानीन्द्रियाण्य् आहुर् देवा वैकारिका दश ।
एकादशं मनश् चात्र देवा वैकारिकाः स्मृताः ॥ इति ।
अयम् अर्थः । वैकारिकस् तैजसो भूतादिर् इति त्रिविधो ऽहंकारः । स च क्रमात् सात्त्विको राजसस् तामसश् च । तत्र तामसाद् भूतादेर् आकाशादीनि भूतानि जायन्त इति सृष्टिक्रमम् उक्त्वा तैजसाद् राजसाद् अहंकाराद् एकदशेन्द्रियाणि जायन्त इति परमतम् उपन्यस्य सात्त्विकाहंकाराद् वैकारिकानीन्द्रियाणि जायन्त इति स्वमतम् उच्यते -- देवा वैकारिकाः स्मृता इति । देवा इन्द्रियाणि । एवम् इन्द्रियाणाम् आहंकारिकाणां भूतैश् चाप्य् आयनं महाभारत उच्यते । भौतिकत्वे ऽपीन्द्रियाणाम् आकाशादिभूतविकारत्वाद् एवाकाशादिभूतपरिणामविशेषा व्यवस्थिता एव शरीरवत् पुरुषाणाम् इन्द्रियाणि भवन्तीति ब्रह्मण्य् अच्छेद्ये निरवयवे निर्विकारे त्व् अनियमेनानन्तहेयोपाधिसंसर्गदोषो दुष्परिहर एवेति श्रद्दधानानाम् एवायम् पक्ष इति शास्त्रविदो
न बहु मन्यन्ते । स्वरूपपरिणामाभ्युपगमाद् अविकारत्वश्रुतिर् बाध्यते । निरवद्यता च ब्रह्मणः शक्तिपरिणाम इति चेत् । केयं शक्तिर् उच्यते । किं ब्रह्मपरिणामरूपा । उत ब्रह्मणो ऽनन्या कापीति । उभयपक्षे ऽपि स्वरूपपरिणामो ऽवर्जनीय एव ।
तृतीये ऽपि पक्षे जीवब्रह्मणोर् भेदवद् अभेदस्य चाभ्युपगमात् तस्य च तद्भावात् सौभरिभेदवच् च स्वावतारभेदवच् च सर्वस्येश्वरभेदतात् सर्वे जीवगता दोषास् तस्यैव स्युः । एतद् उक्तं भवति । ईश्वरः स्वरूपेणैव सुरनरतिर्यक्स्थावरादिभेदेनावस्थित इति हि तदात्मकत्ववर्णनं क्रियते । तथा सत्य् एकमृत्पिण्डारब्धघटशरावादिगतान्य् उदकाहरणादीनि सर्वकार्याणि यथा तस्यैव भवन्ति, एवं सर्वजीवगतसुखदुःखादि सर्वम् ईश्वरगतम् एव स्यात् ।
घटशरावादिसंस्थानानुपयुक्तमृद्द्रव्यं यथा कार्यान्तरान्वितम् एवम् एव सुरपशुमनुजादिजीवत्वानुपयुक्तेश्वरः सर्वज्ञः सत्यसंकल्पत्वादिकल्याणगुणाकर इति चेत् सत्यं स एवेश्वर एकेनांशेन कल्याणगुणगणाकरः स एवान्येनांशेन हेयगुणाकर इत्य् उक्तम् । द्वयोर् अंशयोर् ईश्वराविशेषात् । द्वव् अंशौ व्यवस्थितव् इति चेत् । कस् तेन लाभः । एकस्यैवानेकांशेन नित्यदुःखित्वाद् अंशान्तरेण सुखित्वम् अपि नेश्वरत्वाय कल्पते । यथा देवदत्तस्यैकस्मिन् हस्ते चन्दनपङ्कानुलेपकेयूरकटकाङ्गुलीयालंकारस् तस्यैवान्यस्मिन् हस्ते मुद्गराभिघातः कालानलज्वालानुप्रवेशश् च तद्वद् एवेश्वरस्य स्याद् इति ब्रह्माज्ञानपक्षाद् अपि पापीयान् अयं भेदाभेदपक्षः । अपरिमितदुःखस्य पारमार्थिकत्वात्
संसारिणाम् अनन्तत्वेन दुस्तरत्वाच् च ।
तस्माद् विलक्षणो ऽयं जीवांश इति चेत् । आगतो ऽसि तर्हि मदीयं पन्थानम् । ईश्वरस्य स्वरूपेण तादात्म्यवर्णने स्याद् अयं दोषः । आत्मशरीरभावेन तु तादात्म्यप्रतिपादने न कश्चिद् दोषः । प्रत्य् उत निखिलभुवननियमनादिर् महान् अयं गुणगणः प्रतिपादितो भवति । सामानाधिकरण्यं च मुख्यवृत्तम् ।
अपि चैकस्य वस्तुनो भिन्नाभिन्नत्वं विरुद्धत्वान् न संभवतीत्युक्तम् । घटस्य पटाद् भिन्नत्वे सति तस्य तस्मिन्न् अभावः । अभिन्नत्वे सति तस्य च भाव इति । एकस्मिन् काले चैकस्मिन् देशे चैकस्य हि पदार्थस्य युगपत्सद्भावो ऽसद्भावश् च विरुद्धः ।
जात्यात्मना भावो व्यक्त्यात्मना चाभाव इति चेत् । जातेर् मुण्डेन चाभावे सति खण्डे मुण्डस्यापि सद्भावप्रसङ्गः । खण्डेन च जातेर् अभिन्नत्वे सद्भावो भिन्नत्वे चासद्भावः अश्वे महिशत्वस्यैवेति विरोधो दुष्परिहर एव । जात्यादेर् वस्तुसंस्थानतया वस्तुनः प्रकारत्वात् प्रकारप्रकारिणोश् च पदार्थान्तरत्वं प्रकारस्य पृथक्सिद्ध्यनर्हत्वं पृथगनुपलम्भश् च तस्य च संस्थानस्य चानेकवस्तुषु प्रकारतयावस्थितश् चेत्यादि पूर्वम् उक्तम् ।
मूल पाठ: Vedārthasaṃgraha · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0