भाषा

ENहिગુ
ग्रंथ पाठ

वेदार्थसंग्रह · श्लोक 23-42

23

शोधकवाक्यान्य् अपि निरवद्यं सर्वकल्याणगुणाकरं परं ब्रह्म बोधयन्ति । सर्वप्रत्यनीकाकारताबोधने ऽपि तत्तत्प्रत्यनीकाकारतायां भेदस्यावर्जनीयत्वान् न निर्विशेषवस्तुसिद्धिः ।

24

ननु च ज्ञानमात्रं ब्रह्मेति प्रतिपादिते निर्विशेषज्ञानमात्रं ब्रह्मेति निश्चीयते । नैवं । स्वरूपनिरूपणधर्मशब्दा हि धर्ममुखेन स्वरूपम् अपि प्रतिपादयन्ति । गवादिशब्दवत् । तद् आह सूत्रकारः -- तद्गुणसारत्वात् तद्व्यपदेशः प्राज्ञवत् । यावद् आत्मभावितत्वाच् च न दोष इति । ज्ञानेन धर्मेण स्वरूपम् अपि निरूपितं न ज्ञानमात्रं ब्रह्मेति । कथम् इदम् अवगम्यत इति चेद् यः सर्वज्ञः सर्वविद् इत्यादिज्ञातृत्वश्रुतेः परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च । विज्ञातारम् अरे केन विजानीयाद् इत्यादिश्रुतिशतसमधिगतम् इदम् । ज्ञानस्य धर्ममात्रत्वाद् धर्ममात्रस्यैकस्य वस्तुत्वप्रतिपादनानुपपत्तेश् च । अतः सत्यज्ञानादिपदानि स्वार्थभूतज्ञानादिविशिष्टम् एव ब्रह्म प्रतिपादयन्ति । तत् त्वम् इति द्वयोर्
अपि पदयोः स्वार्थप्रहाणेन निर्विशेषवस्तुस्वरूपोपस्थापनपरत्वे मुख्यार्थपरित्यागश् च ।

25

नन्व् ऐक्ये तात्पर्यनिश्चयान् न लक्षणादोषः । सो ऽयं देवदत्त इतिवत् । यथा सो ऽयम् इत्य् अत्र स इति शब्देन देशान्तरकालान्तरसंबन्धी पुरुषः प्रतीयत अयम् इति च संनिहितदेशवर्तमानकालसंबन्धी, तयोः सामानाधिकरण्येनाइक्यं प्रतीयते । तत्रैकस्य युगपद्विरुद्धदेशकालसंबन्धितया प्रतीतिर् न घटत इति द्वयोर् पदयोः स्वरूपमात्रोपस्थापनपरत्वं स्वरूपस्य चाइक्यं प्रतिपद्यत इति चेन् नैतद् एवम् । सो ऽयं देवदत्त इत्य् अत्रापि लक्षणागन्धो न विद्यते । विरोधाभावात् । एकस्य भूतवर्तमानक्रियाद्वयसंबंधो न विरुद्धः । देशान्तरस्थितिर् भूत्वा संनिहितदेशस्थितिर् वर्तते । अतो भूतवर्तमानक्रियाद्वयसंबन्धितयाइक्यप्रतिपादनम् अविरुद्धम् । देशद्वयविरोधश् च कालभेदेन परिहृतः । लक्षणायाम् अपि न द्वयोर् अपि पदयोर्
लक्षणासमाश्रयणम् । एतेनैव लक्षितेन विरोधपरिहारात् । लक्षणाभाव एवोक्तः । देशान्तरसंबन्धितया भूतस्यैवान्यदेशसंबन्धितया वर्तमानत्वाविरोधात् ।

26

एवम् अत्रापि जगत्कारणबूतस्यैव परस्य ब्रह्मणो जीवान्तर्यामितया जीवात्मत्वम् अविरुद्धम् इति प्रतिपादितम् । यथा भूतयोर् एव हि द्वयोर् ऐक्यं सामानाधिकरण्येन प्रतीयते । तत्परित्यागेन स्वरूपमात्राइक्यं न सामानाधिकरण्यार्थः -- भिन्नप्रवृत्तिनिमित्तानां शब्दानाम् एकस्मिन्न् अर्थे वृत्तिः सामानाधिकरण्यम् इति हि तद्विदः । तथाभूतयोर् ऐक्यम् उपपादितम् अस्माभिः । उपक्रमविरोध्युपसंहारपदेन वाक्यतात्पर्यनिश्चयश् च न घटते । उपक्रमे हि तद् ऐक्षत बहु स्याम् इत्यादिना सत्यसंकल्पत्वं जगदेककारणत्वम् अप्य् उक्तम् । तद्विरोधि चाविद्याश्रयत्वादि ब्रह्मणः ।

27

अपि चार्थभेदतत्संसर्गविशेषबोधनकृतपदवाक्यस्य स्वरूपतालब्धप्रमाणभावस्य शब्दस्य निर्विशेषवस्तुबोधनासामर्थान् न निर्विशेषवस्तुनि शब्दः प्रमाणम् । निर्विशेष इत्यादिशब्दास् तु केनचिद् विशेषेण विशिष्टतयावगतस्य वस्तुनो वस्त्वन्तरगतविशेषनिषेधपरतया बोधकाः । इतरथा तेषम् अप्य् अनवबोधकत्वम् एव । प्रकृतिप्रत्ययरूपेण पदस्यैवानेकविशेषगर्भत्वाद् अनेकपदार्थसंसर्गबोधकत्वाच् च वाक्यस्य ।

28

अथ स्यात् -- नास्माभिर् निर्विशेषे स्वयंप्रकाशे वस्तुनि शब्दः प्रमाणम् इत्य् उच्यते । स्वतःसिद्धस्य प्रमाणानपेक्षत्वात् । सर्वैः शब्दैस् तदुपरागविशेषा ज्ञातृत्वादयः सर्वे निरस्यन्ते । सर्वेषु विशेषेषु निवृत्तेषु वस्तुमात्रम् अनवच्छिन्नं स्वयंप्रकाशं स्वत एवावतिष्ठत इति । नैतद् एवम् । केन शब्देन तद्वस्तु निर्दिश्य तद्गतविशेषा निरस्यन्ते । ज्ञप्तिमात्रशब्देनेति चेन् न । सो ऽपि सविशेषम् एव वस्त्ववलम्बते । प्रकृतिप्रत्ययरूपेण विशेषगर्भत्वात् । ज्ञा अवबोधन इति सकर्मकः सकर्तृकः क्रियाविशेषः क्रियान्तरव्यावर्तकस्वभावविशेषश् च प्रकृत्यावगम्यते । प्रत्ययेन च लिङ्गसंख्यादयः । स्वतःसिद्धाव् अप्य् एतत्स्वभावविशेषविरहे सिद्धिर् एव न स्यात् । अन्यसाधनस्वभावतया हि ज्ञप्तेः स्वतःसिद्धिर् उच्यते ।

29

ब्रह्मस्वरूपं कृत्स्नं सर्वदा स्वयम् एव प्रकाशते चेन् न तस्मिन्न् अन्यधर्माध्यासः संभवति । न हि रज्जुस्वरूपे ऽवभासमाने सर्पत्वादिर् अध्यस्यते । अत एव हि भवद्भिर् आच्छादिकाविद्याभ्युपगम्यते । ततश् च शास्त्रीयनिवर्तकज्ञानस्य ब्रह्मणि तिरोहितांशो विषयः । अन्यथा तस्य निवर्तकत्वं च न स्यात् । अधिष्ठानातिरेकिरज्जुत्वप्रकाशनेन हि सर्पत्वं बाध्यते । एकश् चेद् विशेषो ज्ञानमात्रे वस्तुनि शब्देनाभिधीयते स च ब्रह्मविशेषणं भवतीति सर्वश्रुतिप्रतिपादितसर्वविशेषणविशिष्टं ब्रह्म भवति ।

30

अतः प्रामाणिकानां न केनापि प्रमाणेन निर्विशेषवस्तुसिद्धिः । निर्विकल्पकप्रत्यक्षे ऽपि सविशेषम् एव वस्तु प्रतीयते । अन्यथा सविकल्पके सो ऽयम् इति पूर्वावगतप्रकारविशिष्टप्रत्ययानुपपत्तेः । वस्तुसंस्थानविशेषरूपत्वाद् गोत्वादेर् निर्विकल्पतदशायाम् अपि ससंस्थानम् एव वस्त्व् इत्थम् इति प्रतीयते । द्वितीयादिप्रत्ययेषु तस्य संस्थानविशेषस्यानेकवस्तुनिष्ठतामात्रं प्रतीयते । संस्थानरूपप्रकाराख्यस्य पदार्थस्यानेकवस्तुनिष्ठतयानेकवस्तुविशेषणत्वं द्वितीयादिप्रत्ययावगम्यम् इति द्वितीयादिप्रत्ययाः सविकल्पका इत्य् उच्यन्ते । अत एवैकस्य पदार्थस्य भिन्नाभिन्नत्वरूपेण द्व्यात्मकत्वं विरुद्धं प्रत्युक्तम् । संस्थानस्य संस्थानिनः प्रकारतया पदार्थान्तरत्वम् । प्रकारत्वाद् एव पृथक्सिद्ध्यनर्हत्वं पृथगनुपलम्भश्
चेति न द्व्यात्मकत्वसिद्धिः ।

31

अपि च निर्विशेषवस्त्वादिना स्वयंप्रकाशे वस्तुनि तदुपरागविशेषाः सर्वैः शब्दैर् निरस्यन्त इति वदता के ते शब्दा निषेधका इति वक्तव्यम् । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यम् इति विकारनामधेययोर् वाचारम्भणमात्रत्वात् । यत् तत्र कारणतयोपलक्ष्यते वस्तुमात्रं तद् एव सत्यम् अन्यद् असत्यम् इतीयं श्रुतिर् वदतीति चेन् नैतद् उपपद्यते । एकस्मिन् विज्ञाते सर्वं विज्ञातं भवतीति प्रतिज्ञाते ऽन्यज्ञानेनान्यज्ञानासंभवं मन्वानस्यैकम् एव वस्तु विकाराद्यवस्थाविशेषेण पारमार्थिकेनैव नामरूपम् अवस्थितं चेत् तत्रैकस्मिन् विज्ञाते तस्माद् विलक्षणसंस्थानान्तरम् अपि तद् एवेति तत्र दृष्टान्तो ऽयं निदर्शितः । नात्र कस्यचिद् विशेषस्य निषेधकः को ऽपि शब्दो दृश्यते । वाचारम्भणम् इति वाचा व्यवहारेणारभ्यत
इत्य् आरम्भणम् । पिण्डरूपेणावस्थितायाः मृत्तिकाया नाम वान्यद्व्यवहारश् चान्यः । घटशरावादिरूपेणावस्थितायास् तस्या एव मृत्तिकाया अन्यानि नामधेयानि व्यवहाराश् चान्यद्दशाः । तथापि सर्वत्र मृत्तिकाद्रव्यम् एकम् एव नानासंस्थाननानानामधेयाभ्यां नानाव्यवहारेण चारभ्यत इत्येतद् एव सत्यम् इत्य् अनेनान्यज्ञानेनान्यज्ञानसंभवो निदर्शितः । नात्र किंचिद् वस्तु निषिध्यत इति पूर्वम् एवायम् अर्थः प्रपञ्चितः ।

32

अपि च येनाश्रुतं श्रुतम् इत्यादिना ब्रह्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्वं प्रतिज्ञातं चेद् यथा सोम्यैकेन मृत्पिण्डेनेत्यादिदृष्टान्तः साध्यविकलः स्यात् । रज्जुसर्पादिवन् मृत्तिकाविकारस्य घटशरावादेर् असत्यत्वं श्वेतकेतोः शुश्रूषोः प्रमाणान्तरेण युक्त्या चासिद्धम् इत्य् एतद् अपि सिषाधयिषितम् इति चेत् । यथेति दृष्टान्तयोपादानं न घटते ।

33

सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् एवाद्वितीयम् इत्य् अत्र सद् एवैकम् एवेत्य् अवधारणद्वयेनाद्वितीयम् इत्य् अनेन च सन्मात्रातिरेकिसजातीयविजातीयाः सर्वे विशेषा निषिद्धा इति प्रतीयत इति चेन्न् एतद् एवम् । कार्यकारणभावावस्थाद्वयावस्थितस्यैकस्य वस्तुन एकावस्थावस्थितस्य ज्ञानेनावस्थान्तरावस्थितस्यापि वस्त्वैक्येन ज्ञाततां दृष्टान्तेन दर्शयित्वा श्वेतकेतोर् अप्रज्ञातं सर्वस्य ब्रह्मकारणत्वं च वक्तुं सद् एव सोम्येदम् इत्य् आरब्धम् । इदम् अग्रे सद् एवासीद् इति । अग्र इति कालविशेषः । इदंशब्दवाच्यस्य प्रपञ्चस्य सदापत्तिरूपां क्रियां सद्रव्यतां च वदति । एकम् एवेति चास्य नानानामरूपविकारप्रहाणम् । एतस्मिन् प्रतिपादिते ऽस्य जगतः सदुपादानता प्रतिपादिता भवति । अन्यत्रोपादानकारणस्य स्वव्यतिरिक्ताधिष्ठात्रपेक्षादर्शने
ऽपि सर्वविलक्षणत्वाद् अस्य सर्वज्ञस्य ब्रह्मणः सर्वशक्तियोगो न विरुद्ध इत्य् अद्वितीयपदम् अधिष्ठात्रन्तरं निवारयति । सर्वशक्तियुक्तत्वाद् एव ब्रह्मणः । काश्चन श्रुतयः प्रथमम् उपादानकारणत्वं प्रतिपाद्य निमित्तकारणम् अपि तद् एवेति प्रतिपादयन्ति । यथेयं श्रुतिः । अन्याश् च श्रुतयो ब्रह्मणो निमित्तकारणत्वम् अनुज्ञायास्यैवोपादानतादि कथम् इति परिचोद्य, सर्वशक्तियुक्तत्वाद् उपादानकारणं तदितराशेषोपकरणं च ब्रह्मैवेति परिहरन्ति -- किंस्विद् वनं क उ स वृक्ष आसीद् यतो द्यावापृथिवी निष्टक्षुर्मणीषिणो मनसा पृच्छतेद् उत्द्यद् अध्यतिष्ठद् भुवनानि धारयन् । ब्रह्म वनं ब्रह्म स वृक्ष आसीद् यतो द्यावापृथिवी निष्टतक्षुर् मनीषिणो मनसा विब्रवीमि वः ब्रह्माध्यतिष्ठद् भुवनानि
। धारयन्न् इति सामान्यतो दृष्टेन विरोधम् आशङ्क्य ब्रह्मणः सर्वविलक्षणत्वेन परिहार उक्तः । अतः सद् एव सोम्येदम् अग्र आसीद् इत्य् अत्राप्य् अग्र इत्याद्यनेकविशेषा ब्रह्मणो प्रतिपादिताः । भवदभिमतविशेषनिषेधवाची को ऽपि शब्दो न दृश्यते । प्रत्य् उत जगद्ब्रह्मणोः कार्यकारणभावज्ञापनायाग्र इति कालविशेषसद्भावः । आसीद् इति क्रियाविशेषो, जगदुपादानता जगन्निमित्तता च, निमित्तोपादानयोर् भेदनिरसनेन तस्यैव ब्रह्मणः सर्वशक्तियोगश् चेत्य् अप्रज्ञातः सहस्रशो विशेषा एव प्रतिपादिताः ।

34

यतो वास्तवकार्यकारणभावादिविज्ञाने प्रवृत्तम् अत एवासद् एवेदम् अग्र आसीद् इत्यारभ्यासत्कार्यवादनिषेधश् च क्रियते -- कुतस् तु खलु सोम्यैवं स्याद् इति । प्रागसत उत्पत्तिर् अहेतुकेत्यर्थः । तद् एवोपपादयति -- कथम् असतः सज् जायेतेति । असत उत्पन्नम् असदात्मकम् एव भवतीत्यर्थः । यथा मृद् उत्पन्नं घटादिकं मृदात्मकम् । सत उत्पत्तिर् नाम व्यवहारविशेषहेतुभूतो ऽवस्थाविशेषयोगः ।

35

एतद् उक्तं भवति । एकम् एव कारणभूतं द्रव्यम् अवस्थान्तरयोगेन कार्यम् इत्य् उच्यत इत्य् एकविज्ञानेन सर्वविज्ञानं प्रतिपिपादयिषितम् । तद् असत्कार्यवादे न सेत्स्यति । तथा हि निमित्तसमवाय्यसमवायिप्रभृतिः कारणैर् अवयव्याख्यं कार्यं द्रव्यान्तरम् एवोत्पद्यत इति कारणभूताद् वस्तुनः कार्यस्य वस्त्वन्तरत्वान् न तज्ज्ञानेनास्य ज्ञातता कथम् अपि संभवतीति । कथम् अवयवि द्रव्यान्तरं निरस्यत इति चेत् । कारणगतावस्थान्तरयोगस्य द्रव्यान्तरोत्पत्तिवादिनः संप्रतिपन्नस्यैवैकत्वनामान्तरादेर् उपपादकत्वाद् द्रव्यान्तरादर्शनाच् चेति कारणम् एवावस्थान्तरापन्नं कार्यम् इत्य् उच्यत इत्य् उक्तम् ।

36

ननु निरधिष्ठानभ्रमासंभवज्ञापनायासत्कार्यवादनिरासः क्रियते । तथा ह्य् एकं चिद्रूपं सत्यम् एवाविद्याच् छादितं जगद्रूपेण विवर्तत इत्य् अविद्याश्रयत्वाय मूलकारणं सत्यम् इत्य् अभ्युपगन्तव्यम् इत्य् असत्कार्यवादनिरासः । नैतद् एवम् । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञादृष्टान्तमुखेन सत्कार्यवादस्यैव प्रसक्तत्वाद् इत्य् उक्तम् । भवत्पक्षे निरधिष्ठानभ्रमासंभवस्य दुरुपपादत्वाच् च । यस्य हि चेतनगतदोषः पारमार्थिको दोषाश्रयत्वं च पारमार्थिकं तस्य पारमार्थिकदोषेण युक्तस्यापारमार्थिकगन्धर्वनगरादिदर्शनम् उपपन्नं, यस्य तु दोषश् चापारमार्थिको दोषाश्रयत्वं चापारमार्थिकं तस्यापारमार्थिकेनाप्य् आश्रयेण तद् उपपन्नम् इति भवत्पक्षे न निरधिष्ठानभ्रमासंभवः ।

37

शोधकेष्व् अपि सत्यं ज्ञानम् अनन्तं ब्रह्म, आनन्दो ब्रह्मेत्यादिषु वाक्येषु सामान्याधिकरण्यव्युत्पत्तिसिद्धानेकगुणविशिष्टैकार्थावबोधनम् अविरुद्धम् इति सर्वगुणविशिष्टं ब्रह्माभिधीयत इति पूर्वम् एवोक्तम् ।

38

अथात आदेशो नेति नेतीति बहुधा निषेधो दृष्यत इति चेत् । किम् अत्र निषिध्यत इति वक्तव्यम् । द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं चेति मूर्तामूर्तात्मकः प्रपञ्चः सर्वो ऽपि निषिध्यत इति चेन् नैवम् । ब्रह्मणो रूपतयाप्रज्ञातं सर्वं रूपतयोपदिश्य पुनर् तद् एव निषेद्धुम् अयुक्तम् । प्रक्षालनाद् धि पङ्कस्य दूराद् अस्पर्शनं वरम् इति न्यायात् । कस् तर्हि निषेधवाक्यार्थः । सूत्रकारः स्वयम् एव वदति -- प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय इति । उत्तरत्र अथ नामधेयं सत्य् अस्य सत्यं प्राणा वै सत्यं तेषाम् एष सत्यम् इति सत्यादिगुणगणस्य प्रतिपादितत्वात् पूर्वप्रकृतैतावन्मात्रं न भवति ब्रह्मेति, ब्रह्मण एतावन्मात्रता प्रतिषिध्यत इति सूत्रार्थः ।

39

नेह नानास्ति किंचनेत्यादिना नानात्वप्रतिषेध एव दृष्यत इति चेत् । अत्राप्य् उत्तरत्र सर्वस्य वशी सर्वस्येशन इति सत्यसङ्कल्पत्वसर्वेश्वरत्वप्रतिपादनाच् चेतनवस्तुशरीर ईश्वर इति सर्वप्रकारसंस्थितः स एक एवेति तत्प्रत्यनीकाब्रह्मात्मकनानात्वं प्रतिषिद्धं न भवदभिमतम् । सर्वास्व् एवंप्रकारासु श्रुतिष्व् इयम् एव स्थितिर् इति न क्वचिद् अपि ब्रह्मणः सविशेषत्वनिषेधकवाची को ऽपि शब्दो दृश्यते ।

40

अपि च निर्विशेषज्ञानमात्रं ब्रह्म तच् चाछादिकाविद्यातिरोहितस्वरूपं स्वगतनानात्वं पश्यतीत्य् अयम् अर्थो न घटते । तिरोधानं नाम प्रकाशनिवारणम् । स्वरूपातिरेकिप्रकाशधर्मानभ्युपगमेन प्रकाशस्यैव स्वरूपत्वात् स्वरूपनाश एव स्यात् । प्रकाशपर्यायं ज्ञानं नित्यं स च प्रकाशो ऽविद्यातिरोहित इति बालिशभाषितम् इदम् । अविद्यया प्रकाशतिरोहित इति प्रकाशोत्पत्तिप्रतिबन्धो विद्यमानस्य विनाशो वा । प्रकाशस्यानुत्पाद्यत्वाद् विनाश एव स्यात् । प्रकाशो नित्यो निर्विकारस् तिष्ठतीति चेत् । सत्याम् अप्य् अविद्यायां ब्रह्मणि न किंचित् तिरोहितम् इति नानात्वं पश्यतीति भवताम् अयं व्यवहारः सत्स्व् अनिर्वचनीय एव ।

41

ननु च भवतो ऽपि विज्ञानस्वरूप आत्माभ्युपगन्तव्यः । स च स्वयंप्रकाशः । तस्य च देवादिस्वरूपात्माभिमाने स्वरूपप्रकाशतिरोधानम् अवश्यम् आश्रयणीयम् । स्वरूपप्रकाशे सति स्वात्मन्य् आकारान्तराध्यासायोगात् । अतो भवतश् चायं समानो दोषः । किं चास्माकम् एकस्मिन्न् एवात्मनि भवदुदीरितं दुर्घटत्वम् भवताम् आत्मानन्त्याभ्युपगमात् सर्वेष्व् अयं दोषः परिहरणीयः ।

42

अत्रोच्यते -- स्वभावतो मलप्रत्यनीकानन्तज्ञानानन्दैकस्वरूपं स्वाभाविकानवधिकातिशयापरिमितोदारगुणसागरं निमेषकाष्ठाकलामुहूर्तादिपरार्धपर्यन्तापरिमितव्यवच्छेदस्वरूपसर्वोत्पत्तिस्थितिविनाशादिसर्वपरिणामनिमित्तभूतकालकृतपरिणामास्पष्टानन्तमहाविभूति स्वलीलापरिकरस्वांशभूतानन्तबद्धमुक्तनानाविधचेतनतद्भोग्यभूतानन्तविचित्रपरिणामशक्तिचेतनेतरवस्तुजातान्तर्यामित्वकृतसर्वशक्तिशरीरत्वसर्वप्रकर्शावस्थानावस्थितं परं ब्रह्मैव वेद्यं,
तत्साक्षात्कारक्षमभगवद्द्वैपायनपराशरवाल्मीकिमनुयाज्ञवल्क्यगौतमापस्तम्बप्रभृतिमुनिगणप्रणीतविध्यर्थवादमन्त्रस्वरूपवेदमूलेतिहासपुराणधर्मशास्त्रोपभृंहितपरमार्थभूतानादिनिधनाविच्छिन्नपाठसंप्रदायर्ग्यजुःसामाथर्वरूपानन्तशाखं वेदं चाभ्युपगच्छताम् अस्माकं किं न सेत्स्यति । यथोक्तं भगवता द्वैपायनेन महाभारते --
यो माम् अजम् अनादिं च वेत्ति लोकमहेश्वरम् ।
द्वाव् इमौ पुरषौ लोके क्षरश् चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥
उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः ।
यो लोकत्रयम् आविश्य विभर्त्यव्यय ईश्वरः ॥
कालं च पचते तत्र न कालस् तत्र वै प्रभूः ।
एते वै निरयास् तात स्थानस्य परमात्मनः ॥
अव्यक्तादिविशेषान्तं परिणामर्द्धिसंयुक्तम् ।
क्रीडा हरेर् इदं सर्वं क्षरम् इत्य् अवधार्यताम् ॥
कृष्ण एव हि लोकानाम् उत्पत्तिर् अपि चाप्ययः ।
कृष्णस्य हि कृते भूतम् इदं विश्वं चराचरम् ॥
इति । कृष्णस्य हि कृत इति कृष्णस्य शेषभूतं सर्वम् इत्यर्थः ।
भगवता पराशरेणाप्य् उक्तम् --
शुद्धे महाविभूत्याख्ये परे ब्रह्मणि शब्द्यते ।
मैत्रेय भगवच्छब्दः सर्वकारणकारणे ॥
ज्ञानशक्तिबलाइश्वर्यवीर्यतेजांस्य् अशेषतः ।
भगवच्छब्दवाच्यानि विना हेयैर् गुणादिभिः ॥
एवम् एष महाशब्दो मैत्रेय भगवान् इति ।
परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥
तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः ।
शब्दो ऽयं नोपचारेण त्व् अन्यत्र ह्य् उपचारतः ॥
एवंप्रकारम् अमलं सत्यं व्यापकम् अक्षयम् ।
समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ॥
कलामुहूर्तादिमयश् च कालो न यद्विभूतेः परिणामहेतुः ॥
क्रीडतो बालकस्येव चेष्टास् तस्य निशामय ॥
इत्यादि । मनुनापि --
प्रशासितारं सर्वेषाम् अणीयांसम् अणीयसाम् ।
इत्युक्तम् । याज्ञवल्क्येनापि --
क्षेत्रस्येश्वरज्ञानाद् विशुद्धिः परमा मता ।
इति । आपस्तम्बेनापि -- पूः प्राणिनः सर्व एव गुहाशयस्येति । सर्वे प्राणिनो गुहाशयस् परमात्मनः पूः -- पुरं शरीरम् इत्यर्थः । प्राणिन इति सजीवात्मभूतसंघातः ।

मूल पाठ: Vedārthasaṃgraha · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc