भाषा

ENहिગુ
ग्रंथ पाठ

वेदार्थसंग्रह · श्लोक 3-22

3

अशेषजगद्धितानुशासनश्रुतिनिकरशिरसि समधिगतो ऽयम् अर्थः जीवपरमात्मयाथात्म्यज्ञानपूर्वकवर्णाश्रमधर्मेतिकर्तव्यताकपरमपुरुषचरणयुगलध्यानार्चनप्रणामादिर् अत्यर्थप्रियस् तत्प्राप्तिफलः ।

4

अस्य जीवात्मनो ऽनाद्यविद्यासंचितपुण्यपापरूपकर्मप्रवाहहेतुकब्रह्मादिसुरनरतिर्यक्स्थावरात्मकचतुर्विधदेहप्रवेशकृततत्तदभिमानजनितावर्जनीयभवभयविध्वंसनाय देहातिरिक्तात्मस्वरूपतत्स्वभावतदन्तरयामिपरमात्मस्वरूपतत्स्वभावतदुपासनतत्फलभूतात्मस्वरूपाविर्भावपूर्वकानवधिकातिशयानन्दब्रह्मानुभवज्ञापने प्रवृत्तं हि वेदान्तवाक्यजातम्, तत् त्वम् असि । अयम् आत्मा ब्रह्म । य आत्मनि तिष्ठन्न् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः । एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः । तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन । ब्रह्मविद् आप्नोति परम् । तम् एवं विद्वान्
अमृत इह भवति नान्यः पन्था अयनाय विद्यत इत्यादिकम् ।

5

जीवात्मनः स्वरूपं देवमनुष्यादिप्रकृतिपरिणामविशेषरूपनानाविधभेदरहितं ज्ञानानन्दैकगुणं, तस्यैतस्य कर्मकृतदेवादिभेदे ऽपध्वस्ते स्वरूपभेदो वाचाम् अगोचरः स्वसंवेद्यः, ज्ञानस्वरूपम् इत्य् एतावद् एव निर्देश्यम् । तच् च सर्वेषाम् आत्मनां समानम् ।

6

एवंविधचिदचिदात्मकप्रपञ्चस्योद्भवस्थितिप्रलयसंसारनिर्वर्तनैकहेतुभूतः समस्तहेयप्रत्यनीकानन्तकल्याणतया च स्वेतरसमस्तवस्तुविलक्षणस्वरूपो ऽनवधिकातिशयासंख्येयकल्याणगुणगणः सर्वात्मपरब्रह्मपरज्योतिःपरतत्त्वपरमात्मसदादिशब्दभेदैर् निखिलवेदान्तवेद्यो भगवान् नारायणः पुरुषोत्तम इत्य् अन्तर्यामिस्वरूपम् । अस्य च वैभवप्रतिपादनपराः श्रुतयः स्वेतरसमस्तचिदचिद्वस्तुजातान्तरात्मतया निखिलनियमनं तच्छक्तितदंशतद्विभूतितद्रूपतच्छरीरतत्तनुप्रभृतिभिः शब्दैस् तत्सामानाधिकरण्येन च प्रतिपादयन्ति ।

7

तस्य वैभवप्रतिपादनपराणाम् एषां सामानाधिकरण्यादीनां विवरणे प्रवृत्ताः केचन निर्विशेषज्ञानमात्रम् एव ब्रह्म, तच् च नित्यमुक्तस्वप्रकाशस्वभावम् अपि तत् त्वम् अस्य् आदिसामानाधिकरण्यावगतजीवाइक्यं, ब्रह्मैवाज्ञं बध्यते मुच्यते च, निर्विशेषचिन्मात्रातिरेकेश्वरेशितव्याद्यनन्तविकल्परूपं कृत्स्नं जगन्मिथ्या, कश्चिद् बद्धः, कश्चिन् मुक्त इत्य् इयम् अवस्था न विद्यते । इतः पूर्वं केचन मुक्ता इत्य् अयम् अर्थो मिथ्या । एकम् एव शरीरं जीववन् निर्जीवानीतराणि, तच्छरीरं किम् इति न व्यवस्थितम्, आचार्यो ज्ञानस्योपदेष्टा मिथ्या शास्त्रं च मिथ्या शास्त्रप्रमाता च मिथ्या शास्त्रजन्यं ज्ञानं च मिथ्या -- एतत् सर्वं मिथ्याभूतेनैव शास्त्रेणावगम्यत इति वर्णयन्ति ।

8

अपरे त्व् अपहतपाप्मत्वादिसमस्तकल्याणगुणोपेतम् अपि ब्रह्मैतेनैवाइक्यावबोधेन केनचिद् उपाधिविशेषेण संबद्धं बध्यते मुच्यते च नानाविधमलरूपपरिणामास्पदं चेति व्यवस्थिताः ।

9

अन्ये पुनर् ऐक्यावबोधयाथात्म्यं वर्णयन्तः स्वाभाविकनिरतिशयापरिमितोदारगुणसागरं ब्रह्मैव सुरनरतिर्यक्स्थावरनारकिस्वर्ग्यपवर्गिचेतनेषु स्वभावतो विलक्षणम् अविलक्षणं च वियदादिनानाविधमलरूपपरिणामास्पदं चेति प्रत्यवतिष्ठन्ते ।

10

तत्र प्रथमपक्षस्य श्रुत्यर्थपर्यालोचनपरा दुष्परिहारान् दोषान् उदाहरन्ति । प्रकृतपरामर्शितच्छब्दावगतस्वसंकल्पकृतजगदुदयविभवविलयादयस् तद्+ऐक्षत बहु स्यां प्रजायेयेत्यारभ्य सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा इत्यादिभिः पदैः प्रतिपादितास् तत्संबन्धितया प्रकरणान्तरनिर्दिष्टाः सर्वज्ञतासर्वशक्तित्वसर्वेश्वरत्वसर्वप्रकारत्वसमाभ्यधिकनिवृत्तिसत्यकामत्वसत्यसंकल्पत्वसर्वावभासकत्वाद्यनवधिकातिशयासंख्येयकल्याणगुणगणा अपहतपाप्मेत्याद्यनेकवाक्यावगतनिरस्तनिखिलदोषता च सर्वे तस्मिन् पक्षे विहन्यन्ते ।

11

अथ स्यात् -- उपक्रमे ऽप्य् एकविज्ञानेन सर्वविज्ञानमुखेन कारणस्यैव सत्यतां प्रतिज्ञाय तस्य कारणभूतस्यैव ब्रह्मणः सत्यतां विकारजातस्यासत्यतां मृद्दृष्टान्तेन दर्शयित्वा सत्यभूतस्यैव ब्रह्मणः सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् इति सजातीयविजातीयनिखिलभेदनिरसनेन निर्विशेषतैव प्रतिपादिता । एतच् छोधकानि प्रकरणान्तरगतवाक्यान्य् अपि सत्यं ज्ञानम् अनन्तं ब्रह्म, निष्कलं निष्क्रियं निर्गुणं, विज्ञानम् आनन्दम् इत्यादीनि सर्वविशेषप्रत्यनीकैकाकारतां बोधयन्ति । न चैकाकारताबोधने पदानां पर्यायता । एकत्वे ऽपि वस्तुनः सर्वविशेषप्रत्यनीकतोपस्थापनेन सर्वपदानाम् अर्थवत्त्वाद् इति ।

12

नैतद् एवम् । एकविज्ञानेन सर्वविज्ञानं सर्वस्य मिथ्यात्वे सर्वस्य ज्ञातव्यस्याभावान् न सेत्स्यति । सत्यत्वमिथ्यात्वयोर् एकताप्रसक्तिर् वा । अपि त्व् एकविज्ञानेन सर्वविज्ञानं सर्वस्य तदात्मकत्वेनैव सत्यत्वे सिध्यति ।

13

अयम् अर्थः -- श्वेतकेतुं प्रत्याह स्तब्धो ऽस्य् उत तम् आदेशम् अप्राक्ष्य इति परिपूर्ण इव लक्ष्यसे तान् आचार्यान् प्रति तम् अप्य् आदेशं पृष्टवान् असीति । आदिश्यते ऽनेनेत्य् आदेशः । आदेषः प्रशासनम् । एतस्य वा अक्षरस्य गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत इत्य् आदिभिर् ऐक्यर्थ्यात् । तथा च मानवं वचः -- प्रशासितारं सर्वेषाम् इत्यादि । अत्राप्य् एकम् एवेति जगदुपादानतां प्रतिपाद्याद्वितीयपदेनाधिष्ठातरनिवारणाद् अस्यैवाधिष्ठातृत्वम् अपि प्रतिपाद्यते ।अतस् तं प्रशासितारं जगदुपादानभूतम् अपि पृष्टवान् असि येन श्रुतेन मतेन विज्ञातेनाश्रुतम् अमतम् अविज्ञानं श्रुतं मतं विज्ञातं भवतीत्य् उक्तं स्यात् । निखिलजगदुदयविभवविलयादिकारणभूतं सर्वज्ञत्वसत्यकामत्वसत्यसंकल्पत्वपरिमितोदारगुणगणसागरं
किं ब्रह्मापि त्वया श्रुतम् इति हार्दो भावः । तस्य निखिलकारणतया कारणम् एव नानासंस्थानविशेषसंस्थितं कार्यम् इत्य् उच्यत इति कारणभूतसूक्ष्मचिदचिद्वस्तुशरीरकब्रह्मविज्ञानेन कार्रभूतम् अखिलं जगद् विज्ञातं भवतीति हृदि निधाय येनाश्रुतं श्रुतं भवत्य् अमतं मतम् अविज्ञातं विज्ञातं स्याद् इति पुत्रं प्रति पृष्टवान् पिता । तद् एतत्सकलस्य वस्तुजातस्यैककारणत्वं पितृहृदि निहितम् अजानन् पुत्रः परस्परविलक्षणेषु वस्तुष्व् अन्यस्य ज्ञानेन तदन्यविज्ञानस्याघटमानतां बुद्ध्वा परिचोदयति -- कथं नु बगवः स आदेश इति ।

14

परिचोदितः पुनस् तद् एव हृदि निहितं ज्ञानानन्दामलत्वैकस्वरूपम् अपरिच्छेद्यमाहात्म्यं सत्यसंकल्पत्वमिश्रैर् अनवधिकातिशयासंख्येयकल्याणगुणगणैर् जुष्टम् अविकारस्वरूपं परं ब्रह्मैव नामरूपविभागानर्हसूक्ष्मचिदचिद्वस्तुशरीरं स्वलीलायै स्वसंकल्पेनानन्तविचित्रस्थिरत्रसस्वरूपजगत्संस्थानं स्वांशेनावस्थितम् इति ।

15

तज्ज्ञानेनास्य निखिलस्य ज्ञाततां ब्रुवंल् लोकदृष्टं कार्यकारणयोर् अनन्यत्वं दर्शयितुं दृष्टान्तम् आह -- यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद् वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यम् इति । एकम् एव मृद्द्रव्यं स्वैकदेशेन नानाव्यवहारास्पदत्वाय घटशरावादिनानासंस्थानावस्थारूपविकारापन्नं नानानामधेयम् अपि मृत्तिकासंस्थानविशेषत्वान् मृद्द्रव्यम् एवेत्थम् अवस्थितं न वस्त्वन्तरम् इति । यथा मृत्पिण्डविज्ञानेन तत्संस्थानविशेषरूपम् घटशरावादि सर्वं ज्ञातम् एव भवतीत्यर्थः ।

16

ततः कृत्स्नस्य जगतो ब्रह्मैककारणताम् अजानन् पुत्रः पृच्छति -- भगवांस् त्व् एव मे तद् ब्रवीत्व् इति । ततः सर्वज्ञं सर्वशक्ति ब्रह्मैव सर्वकारणम् इत्य् उपदिशन् स होवाच सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् इति । अत्रेदम् इति जगन् निर्दिष्टम् । अग्र इति च सृष्टेः पूर्वकालः । तस्मिन् काले जगतः सदात्मकतां सद् एवेति प्रतिपाद्य, तत्सृष्टिकाले ऽप्य् अविशिष्टम् इति कृत्वैकम् एवेति सदापन्नस्य जगतस् तदानीम् अविभक्तनामरूपतां प्रतिपाद्य तत्प्रतिपादनेनैव सतो जगदुपादानत्वं प्रतिपादितम् इति स्वव्यतिरिक्तनिमित्तकारणम् अद्वितीयपदेन प्रतिषिद्धम् ।

17

तम् आदेशम् प्राक्ष्यो येनाश्रुतं श्रुतं भवतीत्यादाव् एव प्रशास्तितैव जगदुपादानम् इति हृदि निहितम् इदानीम् अभिव्यक्तम् । स्वयम् एव जगदुपादानं जगन्निमित्तं च सत् तद् ऐक्षत बहु स्यां प्रजायेयेति । तद् एतच्छब्दवाच्यं परं ब्रह्म सर्वज्ञं सर्वशक्ति सत्यसङ्कल्पम् अवाप्तसमस्तकामम् अपि लीलार्थं विचित्रानन्तचिदचिन्मिश्रजगद्रूपेणाहम् एव बहु स्यां तदर्थं प्रजायेयेति स्वयम् एव संकल्प्य स्वांशैकदेशाद् एव वियदादिभूतानि सृष्ट्वा पुनर् अपि सैव सच्छब्दाभिहिता परा देवतैवम् ऐक्षत हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति । अनेन जीवेनात्मनेति - जीवस्य ब्रह्मात्मकत्वं प्रतिपाद्य ब्रह्मात्मजीवानुप्रवेशाद् एव कृत्स्नस्याचिद्वस्तुनः पदार्थत्वम् एवंभूतस्यैव सर्वस्य
वस्तुनो नामभाक्त्वम् इति च दर्शयति । एतदुक्तं भवति -- जीवात्मा तु ब्रह्मणः शरीरतया प्रकारत्वाद् ब्रह्मात्मकः । यस्यात्मा शरीरम् इति श्रुत्यन्तरात् । एवंभूतस्य जीवस्य शरीरतया प्रकारभूतानि देवमनुष्यादिसंस्थानानि वस्तूनीति ब्रह्मात्मकानि तानि सर्वाणि । अतो देवो मनुष्यो राक्षसः पशुर् मृगः पक्षी वृक्षो लता काष्ठं शिला तृणं घटः पट इत्यादयः सर्वे प्रकृतिप्रत्यययोगेनाभिधायकतया प्रसिद्धाः शब्दा लोके तत्तद्वाच्यतया प्रतीयमानतत्तत्संस्थानवस्तुमुखेन तदभिमानिजीवतदन्तर्यामिपरमात्मपर्यन्तसंघातस्यैव वाचका इति ।

18

एवं समस्तचिदचिदात्मकप्रपञ्चस्य सदुपादानतासन्निमित्ततासदाधारतासन्नियम्यतासच्छेषतादि सर्वं च सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा इत्यादिना विस्तरेण प्रतिपाद्य कार्यकारणभावादिमुखेनाइतदात्म्यम् इदं सर्वं तत्सत्यम् इति कृत्स्नस्य जगतो ब्रह्मात्मकत्वम् एव सत्यम् इति प्रतिपाद्य कृत्स्नस्य जगतः स एवात्मा कृत्स्नं जगत् तस्य शरीरं तस्मात् त्वंशब्दवाच्यम् अपि जीवप्रकारं ब्रह्मैवेति सर्वस्य ब्रह्मात्मकत्वं प्रतिज्ञातं तत् त्वम् असीति जीवविशेष उपसंहृतम् ।

19

एतद् उक्तं भवति । ऐतदात्म्यम् इदं सर्वम् इति चेतनाचेतनप्रपञ्चम् इदं सर्वम् इति निर्दिश्य तस्य प्रपञ्चस्यैष आत्मेति प्रतिपादितः, प्रपञ्चोद्देशेन ब्रह्मात्मकत्वं पतिपादितम् इत्यर्थः । तद् इदं ब्रह्मात्मकत्वं किम् आत्मशरीरभावेनोत स्वरूपेणेति विवेचनीयम् । स्वरूपेण चेद् ब्रह्मणः सत्यसङ्कल्पाद्यः -- तद् ऐक्षत बहु स्यं प्रजायेयेत्य् उपक्रमावगता बाधिता भवन्ति । शरीरात्मभावेन च तद् आत्मकत्वं श्रुत्यन्तराद् विशेषतो ऽवगतम् अन्तःप्रविष्टः शास्ता जनानां सर्वात्मेति प्रशासितृत्वरूपात्मत्वेन सर्वेषां जनानाम् अन्तःप्रविष्टो ऽतः सर्वात्मा सर्वेषां जनानाम् आत्मा सर्वं चास्य शरीरम् इति विशेषतो ज्ञायते ब्रह्मात्मकत्वम् । य आत्मनि तिष्ठन्न् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम्
अन्तरो यमयति स त आत्मान्तर्याम्यमृत इति च । अत्राप्य् अनेन जीवेनात्मनेतीदम् एव ज्ञायत इति पूर्वम् एवोक्तम् । अतः सर्वस्य चिदचिद्वस्तुनो ब्रह्मशरीरत्वात् सर्वप्रकारं सर्वशब्दैर् ब्रह्मैवाभिधीयत इति तत् त्वम् इति सामानाधिकरण्येन जीवशरीरतया जीवप्रकारं ब्रह्मैवाभिहितम् ।

20

एवम् अभिहिते सत्य् अयम् अर्थो ज्ञायते -- त्वम् इति यः पूर्वं देहस्याधिष्ठातृतया प्रतीतः स परमात्मशरीरतया परमात्मप्रकारभूतः परमात्मपर्यन्तः । अतस् त्वम् इति शब्दस् त्वत्प्रकारविशिष्टं त्वदन्तर्यामिणम् एवाचष्ट इति । अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ब्रह्मात्मकतयैव जीवस्य शरीरिणः स्वनामभाक्त्वात् तत् त्वम् इति सामानाधिकरण्यप्रवृत्तयोर् द्वयोर् अपि पदयोर् ब्रह्मैव वाच्यम् । तत्र च तत्पदं जगत्कारणभूतं सकलकल्याणगुणगणाकरं निर्वद्यं निर्विकारम् आचष्टे । त्वम् इति च तद् एव ब्रह्म जीवान्तर्यामिरूपेण सशरीरप्रकारविशिष्टम् आचष्टे । तद् एवं प्रवृत्तिनिमित्तभेदेनैकस्मिन् ब्रह्मण्य् एव तत् त्वम् इति द्वयोः पदयोर् वृत्तिर् उक्ता । ब्रह्मणो निरवद्यं निर्विकारं
सकलकल्याणगुणगणाकरत्वं जगत्कारणत्वं चाबाधितम् ।

21

अश्रुतवेदान्ताः पुरुषाः पदार्थाः सर्वे जीवात्मनश् च ब्रह्मात्मका इति न पश्यति सर्वशब्दानां च केवलेषु तत्तत्पदार्थेषु वाच्यैकदेशेषु वाच्यपर्यवसानं मन्यन्ते । इदानीं वेदान्तवाक्यश्रवणेन ब्रह्मकार्यतया तदन्तर्यामितया च सर्वस्य ब्रह्मात्मकत्वं सर्वशब्दानां तत्तत्प्रकारसंस्थितब्रह्मवाचित्वं च जानन्ति । नन्व् एवं गवादिशब्दानां तत्तत्पदार्थवाचितया व्युत्पत्तिर् बाधिता स्यात् । नैवं सर्वे शब्दा अचिज्जीवविशिष्टस्य परमात्मनो वाचका इत्य् उक्तम् । नामरूपे व्याकरवाणीत्य् अत्र । तत्र लौकिकाः पुरुषाः शब्दं व्याहरन्तः शब्दवाच्ये प्रधानांशस्य परमात्मनः प्रत्यक्षाद्यपरिच्छेद्यत्वाद् वाच्यैकदेशभूते वाच्यसमाप्तिं मन्यन्ते । वेदान्तश्रवणेन च व्युत्पत्तिः पूर्यते । एवम् एव वैदिकाः
सर्वे शब्दाः परमात्मपर्यन्तान् स्वार्थान् बोधयन्ति । वैदिका एव सर्वे शब्दा वेदादव् उद्धृत्योद्धृत्य परेणैव ब्रह्मणा सर्वपदार्थान् पूर्ववत् सृष्ट्वा तेषु परमात्मपर्यन्तेषु पूर्ववन् नामतया प्रयुक्ताः । तद् आह मनुः --
सर्वेषां तु नामानि कर्माणि च पृथक् पृथक् ।
वेदशब्देभ्य एवादौ पृथक्संस्थाश् च निर्ममे ॥
इति । संस्थाः संस्थानानि रूपाणीति यावत् । आह च भगवान् पराशरः --
नाम रूपं भूतानां कृत्यानां प्रपञ्चनम् ।
वेदशब्देभ्य एवादौ दैवादीनां चकार सः ॥
इति । श्रुतिश् च -- सूर्याचन्द्रमसौ धाता यथापूर्वम् अकल्पयद् इति । सूर्यादीन् पूर्ववत् परिकल्प्य नामानि च पूर्ववच् चकार इत्यर्थः ।

22

एवं जगद्ब्रह्मणोर् अनन्यत्वं प्रपञ्चितम् । तेनैकेन ज्ञातेन सर्वस्य ज्ञाततो ऽपपादिता भवति । सर्वस्य ब्रह्मकार्यत्वप्रतिपादनेन तदात्मकतयैव सत्यत्वं नान्यथेति तत् सत्यम् इत्युक्तम् । यथा दृष्टान्ते सर्वस्य मृद्विकारस्य मृदात्मनैव सत्यत्वम् ।

मूल पाठ: Vedārthasaṃgraha · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc