भाषा

ENहिગુ
ग्रंथ पाठ

वेदार्थसंग्रह · श्लोक 124-143

124

किं च लिङादिशब्दवाच्यं स्थायिरूपं किम् इत्य् अपूर्वम् आश्रीयते । स्वर्गकामपदसमभिव्याहारानुपपत्तेर् इति चेत् । कात्रानुपपत्तिः । सिषाधयिषितस्वर्गो हि स्वर्गकामः । तस्य स्वर्गकामस्य कालान्तरभाविस्वर्गसिद्धौ क्षणभङ्गिनी यागादिक्रिया न समर्थेति चेत् । अनाघ्रातवेदसिद्धान्तानाम् इयम् अनुपपत्तिः । सर्वैः कर्मभिर् आराधितः परमेश्वरो भगवान् नारायणस् तत्तदिष्टं फलं ददातीति वेदविदो वदन्ति । यथाहुर् वेदविदग्रेसरा द्रमिडाचार्याः -- फलसंबिभत्सया हि कर्मभिर् आत्मानं पिप्रीषन्ति स प्रीतो ऽलं फलायेति शास्त्रमर्यादा इति । फलसंबन्धेच्छया कर्मभिर् यागदानहोमादिभिर् इन्द्रियादिदेवतामुखेन तत्तदन्तर्यामिरूपेणावस्थितम् इन्द्रादिशब्दवाच्यं परमात्मानं भगवन्तं वासुदेवम् आरिराधयिषन्ति,
स हि कर्मभिर् आराधितस् तेषाम् इष्टानि फलानि प्रयच्छतीत्यर्थः । तथा च श्रुतिः -- इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिर् इति । इष्टापूर्तम् इति सकलश्रुतिस्मृतिचोदितं कर्मोच्यते । तद्विश्वं बिभर्ति -- इन्द्राग्निवरुणादिसर्वदेवतासंबन्धितया प्रतीयमानं तत्तदन्तरात्मतयावस्थितः परमपुरुषः स्वयम् एव बिभर्ति स्वयम् एव स्वीकरोति । भुवनस्य नाभिः -- ब्रह्मक्षत्रादिसर्ववर्णपूर्णस्य भुवनस्य धारकः -- तैस् तैः कर्मभिर् आराधितस् तत्तदिष्टफलप्रदानेन भुवनानां धारक इति नाभिर् इत्युक्तः । अग्निवायुप्रभृतिदेवतान्तरात्मतया तत्तच्छब्दाभिधेयो ऽयम् एवेत्य् आह -- तद् एवाग्निस् तद्वायुस् तत्सूर्यस् तद् उ चन्द्रमा इति । यथोक्तं भगवता --
यो यो याम् यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति ।
तस्य तस्याचलां श्रद्धां ताम् एव विदधाम्य् अहम् ॥
स तस्य श्रद्धया युक्तस् तस्याराधनम् ईहते ।
लभते च ततः कामान् मयैव विहितान् इह तान् ॥ इति ।
यां यां तनुम् इतीन्द्रादिदेवताविशेषास् तत्तदन्तर्यामितयावस्थितस्य भगवतस् तनवः शरीराणीत्यर्थः ।
अहं हि सर्वयज्ञानां भोक्ता च प्रभुर् एव च ।
इत्यादि । प्रभुर् एव चेति सर्वफलानां प्रदाता चेत्यर्थः । यथा च
यज्ञैस् त्वम् इज्यसे नित्यं सर्वदेवमयाच्युत ।
यैः स्वधर्मपरैर् नाथ नरैर् आदाधितो भवान् ।
ते तरन्त्य् अखिलाम् एतां मयाम् आत्मविमुक्तये ॥
इति । सेतिहासपुराणेषु सर्वेष्व् एव वेदेषु सर्वाणि कर्माणि सर्वेश्वराराधनरूपाणि, तैस् तैः कर्मभिर् आराधितः पुरुषोत्तमस् तत्तदिष्टं फलं ददातीति तत्र तत्र प्रपञ्चितम् । एवम् हि सर्वशक्तिं सर्वज्ञं सर्वेश्वरं भगवन्तम् इन्द्रादिदेवतान्तर्यामिरूपेण यागदानहोमादिवेदोदितसर्वकर्मणां भोक्तारं सर्वफलानां प्रदातारं च सर्वाः श्रुतयो वदन्ति । चतुर्होतारो यत्र संपदं गच्छन्ति देवैर् इत्याद्याः । चतुर्होतारो यज्ञाः, यत्र परमात्मनि देवेष्व् अन्तर्यामिरूपेणावस्थिते, देवैः संपदं गच्छन्ति -- देवैः संबन्धं गच्छन्ति यज्ञा इत्यर्थः । अन्तर्यामिरूपेणावस्थितस्य परमात्मनः शरीरतयावस्थितानाम् इन्द्रादीनां यागादिसंबन्ध इत्य् उक्तं भवति । यथोक्तं भगवता --
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
इति । तस्माद् अग्न्यादिदेवतान्तरात्मभूतपरमपुरुषाराधनरूपभूतानि सर्वाणि कर्माणि, स एव चाभिलषितफलप्रदातेति किम् अत्रापूर्वेण व्युत्पत्तिपथदूरवर्तिना वाच्यतयाभ्युपगतेन कल्पितेन वा प्रयोजनम् । एवं च सति लिङादेः को ऽयम् अर्थः परिगृहीतो भवति । यज देवपूजायाम् इति देवताराधनभूतयागादेः प्रकृत्यर्थस्य कर्तृव्यापारसाध्यतां व्युत्पत्तिसिद्धां लिङादयो ऽभिदधतीति न किंचिद् अनुपपन्नम् । कर्तृवाचिनां प्रत्ययानां प्रकृत्यर्थस्य कर्तृव्यापारसंबन्धप्रकारो हि वाच्यः । भूतवर्तमानादिकम् अन्ये वदन्ति । लिङादयस् तु कर्तृव्यापारसाध्यतां वदन्ति ।

125

अपि च कामिनः कर्तव्यता कर्म विधाय कर्मणो देवताराधनरूपतां तद्द्वारा फलसंभवं च तत्तत्कर्मविधिवाक्यान्य् एव वदन्ति । वायव्यं श्वेतम् आलभत भूतिकामो वायुर् वै क्षेपिष्ठा देवता वायुम् एव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयतीत्यादीनि । नात्र फलसिद्ध्यनुपपत्तिः कापि दृश्यत इति फलसाधनत्वावगतिर् औपादानिकीत्य् अपि न संगच्छति । विध्यपेक्षितं यागादेः फलसाधनत्वप्रकारं वाक्यशेष एव बोधयतीत्यर्थः । तस्माद् ब्राह्मणाय नापगुरेतेत्य् अत्रापगोरणनिषेधविधिपरवाक्यशेषे श्रूयमाणं निषेध्यस्यापगोरणस्य शतयातनासाधनत्वं निषेधविध्युपयोगीति हि स्वीक्रियते । अत्र पुनः कामिनः कर्तव्यतया विहितस्य यागादेः काम्यस्वर्गादिसाधनत्वप्रकारं वाक्यशेषावगतम्
अनादृत्य किम् इत्य् उपादानेन यागादेः फलसाधनत्वं परिकल्प्यते । हिरण्यनिधिम् अपवरके निधाय याचते कोद्रवादिलुब्धः कृपणं जनम् इति श्रूयते तद् एतद् युष्मासु दृश्यते । शतयातनासाधनत्वम् अपि नादृष्टद्वारेण । चोदितान्य् अनुतिष्ठो विहितं कर्माकुर्वतो निन्दितानि च कुर्वतः सर्वाणि सुखानि दुःखानि च परमपुरुषानुग्रहनिग्रहाभ्याम् एव भवन्ति । एष ह्य् एवानन्दयति -- अथो सो ऽभयं गतो भवति -- अथ तस्य भयं भवति -- भीषास्माद् वातः पवते भीषोदेति सूर्यो भीषास्माद् अग्निश् चन्द्रश् च मृत्युर् धावति पञ्चमः -- इति । एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः -- एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवा दर्वीं पितरो ऽन्वायत्ता इत्याद्यनेकविधाः
श्रुतयः सन्ति । यथोक्तं द्रमिडभाष्ये -- तस्याज्ञया धावति वायुर् नद्यः स्रवन्ति तेन च कृतसीमानो जलाशयाः समदा इव मेषविर्सपितं कुर्वन्तीति । तत्संकल्पनिबन्धना हीमे लोके न च्यवन्ते न स्फुटन्ते । स्वशासनानुवर्तिनां ज्ञात्वा कारुण्यात् स भगवान् वर्धयेत विद्वान् कर्मदक्ष इति च ।

126

परमपुरुषयाथात्म्यज्ञानपूर्वकतदुपासनादिविहितकर्मानुष्ठायिनस् तत्प्रसादात् तत्प्राप्तिपर्यन्तानि सुखान्य् अभयं च यथाधिकारं भवन्ति । तज्ज्ञानपूर्वकं तदुपासनादिविहितं कर्माकुर्वतो निन्दितानि च कुर्वतस् तन्निग्रहाद् एव तदप्राप्तिपूर्वकापरिमितदुःखानि भयं च भवन्ति । यथोक्तं भगवता --
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्य् अकर्मणः ।
इत्यादिना कृत्स्नं कर्म ज्ञानपूर्वकम् अनुष्ठेयं विधाय --
मयि सर्वाणि कर्माणि संन्यस्य
इति सर्वस्य कर्मणः स्वाराधनताम् आत्मनां स्वनियाम्यतां च प्रतिपाद्य --
ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तो ऽनसूयन्तो मुच्यन्ते ते ऽपि कर्मभिः ॥
ये त्व् एतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस् तान् विद्धि नष्टान् अचेतसः ॥
इति स्वाज्ञानुवर्तिनः प्रशस्य विपरीतान् विनिन्द्य पुनर् अपि स्वाज्ञानुपालनम् अकुर्वताम् आसुर् अप्रकृत्यन्तर्भावम् अभिधायाधमा गतिश् चोक्ता --
तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥
आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि ।
माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम् ॥ इति ।
सर्वकर्माण्य् अपि सदा कुर्वाणो मद्व्य्पाश्रयः ।
मत्प्रसादाद् अवाप्नोति शाश्वतं पदम् अव्ययम् ॥
इति च स्वाज्ञानुवर्तिनां शाश्वतं पदं चोक्तम् । अश्रुतवेदान्तानां कर्मण्य् अश्रद्धा मा भूद् इति देवताधिकरणे ऽतिवादाः कृताः कर्ममात्रे यथा श्रद्धा स्याद् इति सर्वम् एकशास्त्रम् इति वेदवित्सिद्धान्तः ।

127

तस्यैतस्य परस्य ब्रह्मणो नारायणस्यापरिच्छेद्यज्ञानानन्दामलत्वस्वरूपवज्ज्ञानशक्तिबलाइश्वर्यवीर्यतेजःप्रभृत्यनवधिकातिशयासंख्येयकल्याणगुणवत्स्वसंकल्पप्रवर्त्यस्वेतरसमस्तचिदचिद्वस्तुजातवत्स्वाभिमतस्वानुरूपैकरूपदिव्यरूपतदुचितनिरतिशयकल्याणविविधानंतभूषणस्वशक्तिसदृशापरिमितानन्ताश्चर्यनानाविधायुधस्वाभिमतानुरूपस्वरूपगुणविभवाइश्वर्यशीलाद्यनवधिकमहिममहिसीस्वानुरूपकल्याणज्ञानक्रियाद्यपरिमेयगुणानन्तपरिजनपरिच्छेदस्वोचितनिखिलभोग्यभोगोपकरणाद्यनन्तमहाविभवावाङ्मनसगोचरस्वरूपस्वभावदिव्यस्थानादिनित्यतानिरवद्यतागोचराश् च सहस्रशः श्रुतयः सन्ति । वेदाहम् एतं पुरुषं महान्तम् आदित्यवर्णं तमसः
परस्तात् । य एषो ऽन्तरादित्ये हिरण्मयः पुरुषः । तस्य यथा कप्यासं पुण्डरीकम् एवम् अक्षिणी । य एषो ऽन्तर्हृदय आकाशस् तस्मिन्न् अयं पुरुषो मनोमयो ऽमृतो हिरण्मयः -- मनोमय इति मनसैव विशुद्धेन गृह्यत इत्यर्थः -- सर्वे निमेषा जज्ञिरे विद्युतः पुरुषाद् अधि -- विद्युद्वर्णात् पुरुषाद् इत्यर्थः -- नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा -- मध्यस्थनीलतोयदा विद्युल्लेखेव सेयं दहरपुण्डरीकमध्यस्थाकाशवर्तिनी वह्निर्शिखा स्वान्तर्निहितनीलतोयदाभपरमात्मस्वरूपा अवान्तर्निहितनीलतोयदा विस्युद् इवाभातीत्यर्थः । मनोमयः प्राणशरीरो भारूपः । सत्यकामः सत्यसंकल्पः । आकाशात्मा सर्वकामा सर्वकामः सर्वगन्धः सर्वरसः सर्वम् इदम् अभ्यात्तो ऽवाक्यानादरः ।
माहारजनं वास इत्याद्याः । अस्येशाना जगतो विष्णुपत्नी । ह्रीश् च ते लक्ष्मीश् च पत्न्यौ ।तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । क्षयन्तम् अस्य रजसः पराके । यद् एकम् अव्यक्तम् अनन्तरूपं विश्वं पुराणं तमसः परस्तात् । यो वेद निहितं गुहायां परमे व्योमन् । यो ऽस्याध्यक्षः परमे व्योमन् । तद् एव तद् उ भव्यमा इदं तदक्षरे परमे व्योमन् नित्यादिश्रुतिशतनिश्चितो ऽयम् अर्थः ।

128

तद्विष्णोः परमं पदम् इति विष्णोः परस्य ब्रह्मणः परं पदं सदा पश्यन्ति सूरय इति वचनात् सर्वकालदर्शनवन्तः परिपूर्णज्ञानाः केचन सन्तीति विज्ञायते । ये सूरयस् ते सदा पश्यन्तीति वचनव्यक्तिः, ये सदा पश्यन्ति ते सूरय इति वा । उभयपक्षे ऽप्य् अनेकविधानं न संभवतीति चेत् । न । अप्राप्तत्वात् सर्वस्य सर्वविशिष्टं परमस्थानं विधीयते । यथोक्तं -- तद्गुणास् ते विधीयेरन्न् अविभागाद् विधानार्थे न चेद् अन्येन शिष्टा इति । यथा यदाग्नेयो ऽष्टाकपाल इत्यादिकर्मविधौ कर्मणो गुणानां चाप्राप्तत्वेन सर्वगुणविशिष्टं कर्म विधीयते तथात्रापि सूरिभिः सदा दृश्यत्वेन विष्णोः परमस्थानम् अप्राप्तं प्रतिपादयतीति न कश्चिद् विरोधः । करणमन्त्राः क्रियमाणानुवादिनः स्तोत्रशस्त्ररूपा
जपादिषु विनियुक्ताश् च प्रकरणपथिताश् चाप्रकरणपथिताश् च स्वार्थं सर्वं यथावस्थितम् एवाप्राप्तम् अविरुद्धं ब्राह्मणवद् बोधयन्तीति हि वैदिकाः । प्रगीतमन्त्रसाध्यगुणगुणिअभिमानं स्तोत्रम् । अप्रगीतमन्त्रसाध्यगुणगुणिनिष्ठगुणाभिधानं शस्त्रम् । नियुक्तार्थप्रकाशनां च देवतादिष्व् अप्राप्ताविरुद्धगुणविशेषप्र्तिपादनं विनियोगानुगुणम् एव । नेयं श्रुतिर् मुक्तजनविषया । तेशां सदादर्शनानुपपत्तेः । न+पि मुक्तप्रवाहविषया । सदा पश्यन्तीत्य् एकैककर्तृकविषयतया प्रतीतेः श्रुतिभङ्गप्रसङ्गात् । मन्त्रार्थवादगता ह्य् अर्थाः कार्यपरत्वे ऽपि सिद्ध्यन्तीत्युक्तम् । किं पुनः सिद्धवस्तुन्य् एव तात्पर्ये व्युत्पत्तिसिद्ध इति सर्वम् उपपन्नम् । ननु चात्र तद्विष्णोः परमं पदम् इति परस्वरूपम्
एव परमपदशब्देनाभिधीयते । समस्तहेयरहितं विष्ण्वाख्यं परं पदम् इत्यादिष्व् अव्यतिरेकदर्शनात् । नैवम् । क्षयन्तम् अस्य रजतः पराके, तदक्षरे परमे व्योमन्, यो अस्याध्याक्षः परमे व्योमन्, यो वेद निहितं गुहायां परमे व्योमन् नित्यादिषु परमस्थानस्यैव दर्शनम् । तद्विष्णोः परमं पदम् इति व्यतिरेकनिर्देशाच् च । विष्ण्वाख्यं परमं पदम् इति विशेषणाद् अन्यद् अपि परमं पदं विद्यत इति च तेनैव ज्ञायते । तद् इदं परस्थानं सूरिभिः सदादृश्यत्वेन प्रतिपाद्यते ।

129

एतदुक्तं भवति -- क्वचित्परस्थानं परमपदशब्देन प्रतिपाद्यते, क्वचित्प्रकृतिवियुक्तात्मस्वरूपं, क्वचिद्भगवत्स्वरूपम् । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरय इति परस्थानम् ।
सर्गस्थित्यन्तकालेषु त्रिविधैव प्रवर्तते ।
गुणप्रवृत्त्या परमं पदं तस्यागुणं महत् ॥
इत्यत्र प्रकृतिवियुक्तात्मस्वरूपम् ।
समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ।
इत्यत्र भगवत्स्वरूपम् । त्रीण्य् अप्य् एतानि परमप्राप्तत्वेन परमपदशब्देन प्रतिपाद्यन्ते । कथं त्रयाणां परमप्राप्यत्वम् इति चेत् । भगवत्स्वरूपं परमप्राप्यत्वाद् एव परमं पदम् । इतरयोर् अपि भगवत्प्राप्तिगर्भत्वाद् एव परमपदत्वम् । सर्वकर्मबन्धविनिर्मुक्तात्मस्वरूपावाप्तिर् भगवत्प्राप्तिगर्भा । त इमे सत्याः कामा अनृतापिधाना इति भगवतो गुणगणस्य तिरोधायकत्वेनानृतशब्देन स्वकर्मणः प्रतिपादनम् ।

130

अनृतरूपतिरोधानं क्षेत्रज्ञकर्मेति कथम् अवगम्यत इति चेत् ।
अविद्या कर्मसंज्ञान्या तृतीया शक्तिर् इष्यते ।
यथा क्षेत्रज्ञशक्तिः सा वेष्टिता नृप सर्वगा ॥
संसारतापान् अखिलान् अवाप्नोत्य् अतिसंततान् ।
तया तिरोहितत्वाच् च
इत्यादिवचनात् ।

131

परस्थानप्राप्तिर् अपि भगवत्प्राप्तिगर्भैवेति सुव्यक्तम् । क्षयन्तम् अस्य रजसः पराक इति रजतःशब्देन त्रिगुणात्मिका प्रकृतिर् उच्यते केवलस्य रजसो ऽनवस्थानात् । इमां त्रिगुणात्मिकां प्रकृतिम् अतिक्रम्य स्थिते स्थाने क्षयन्तम् -- वसन्तम् इत्यर्थः । अनेन त्रिगुणात्मकात् क्षेत्रज्ञस्य भोग्यभूताद् वस्तुनः परस्ताद् विष्णोर् वासस्थानम् इति गम्यते । वेदाहम् एतं
पुरुषं महान्तम् आदित्यवर्णं तमसः परस्ताद् इत्यत्रापि तमःशब्देन सैव प्रकृतिर् उच्यते । केवलस्य तमसो ऽनवस्थानाद् एव । रजसः पराके क्षयन्तम् इत्यनेनैकवाक्यत्वात् तमसः परस्ताद् वसन्तं महान्तम् आदित्यवर्णं पुरुषम् अहं वेदेत्य् अयम् अर्थो ऽवगम्यते । सत्यं ज्ञानम् अनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । तदक्षरे परमे व्योमन्न् इति तत्स्थानम् अविकाररूपं परमव्योमशब्दाभिधेयम् इति च गम्यते । अक्षरे परमे व्योमन् नित्यस्य स्थानस्याक्षरत्वश्रवणात् क्षररूपादित्यमण्डलादयो न परमव्योमशब्दाभिधेयाः । यत्र पूर्वे साध्याः सन्ति देवाः, यत्र र्षयः प्रथमजा ये पुराणा इत्यादिषु च त एव सूरय इत्य् अवगम्यते । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते विष्णोर् यत्परं पदम् इत्यत्रापि विप्रासो
-- मेधाविनः, विपन्यवः -- स्तुतिशीलाः, जागृवांसः -- अस्खलितज्ञानास् त एवास्खलितज्ञानास् तद्विष्णोः परमं पदं सदा स्तुवन्तः समिन्धत इत्यर्थः ।

132

एतेषां परिजनस्थानादीनां सद् एव सोम्येदम् अग्र आसीद् इत्यत्र ज्ञानबलाइश्वर्यादिकल्याणगुणगणवत्परब्रह्मस्वरूपान्तर्भूतत्वात् सद् एवैकम् एवाद्वितीयम् इति ब्रह्मान्तर्भावो ऽवगम्यते । एषाम् अपि कल्याणगुणैकदेशत्वाद् एव सद् एव सोम्येदम् अग्र आसीद् इत्य् अत्रेदम् इति शब्दस्य कर्मवश्यभोक्तृवर्गमिश्रतद्भोग्यभूतप्रपञ्चविषयत्वाच् च सदा पश्यन्ति सूरय इति सदादर्शित्वेन च तेषां कर्मवश्यानन्तर्भावात् । अपहतपाप्मेत्याद्य् अपिपास इत्यन्तेन सलीलोपकरणभूतत्रिगुणप्रकृतिप्राकृततत्संसृष्टपुरुषगतं हेयस्वभावं सर्वं प्रतिषिध्य सत्यकाम इत्यनेन स्वभोग्यभोगोपकरणजातस्य सर्वस्य सत्यता प्रतिपादिता । असत्याः कामा यस्यासौ सत्यकामः । काम्यन्त इति कामाः । तेन परेण ब्रह्मणा स्वभोग्यतदुपकरणादयः
स्वाभिमता ये काम्यन्ते ते सत्याः -- नित्या इत्यर्थः । अन्यस्य लीलोपकरणस्यापि वस्तुनः प्रमाणसंबन्धयोग्यत्वे सत्य् अपि विकारास्पदत्वेनास्थिरत्वाद् तद्विपरीतं स्थिरत्वम् एषां सत्यपदेनोच्यते । सत्यसंकल्प इत्येतेषु भोग्यतदुपकरणादिषु नित्येषु निरतिशयेष्व् अनन्तेषु सत्स्वप्यपूर्वाणाम् अपरिमितानाम् अर्थानाम् अपि संकल्पमात्रेण सिद्धिं वदति । एषां च भोगोपकरणानां लीलोपकरणानां चेतनानाम् अचेतनानां स्थिराणाम् अस्थिराणाम् च तत्संकल्पायत्तस्वरूपस्थितिप्रवृत्तिभेदादि सर्वं वाति सत्यसंकल्प इति ।

133

इतिहासपुराणयोर् वेदोपबृंहणयोश् चायम् अर्थ उच्यते --
तौ ते मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ ।
वेदोपबृंहणार्थाय ताव् अग्राहयत प्रभुः ॥
इति वेदोपबृंहणतया प्रारब्धे श्रीमद्रामायणे --
व्यक्तम् एष महायोगी परमात्मा सनातनः ।
अनादिमध्यनिधनो महतः परमो महान् ॥
तमसः परमो धाता शङ्खचक्रगदाधरः ।
श्रीवत्सवक्षा नित्यश्रीर् अजय्यः शाश्वतो ध्रुवः ॥
शारा नानाविधाश् चापि धनुर् आयतविग्रहम् ।
अन्वगच्छन्त काकुत्स्थं सर्वे पुरुषविग्रहाः ॥
विवेश वैष्णवं तेजः सशरीरः सहानुगः ॥
श्रीमद्वैष्णवपुराणे --
समस्ताः शक्तयश् चैता नृप यत्र प्रतिष्ठिताः ।
तद्विश्वैरूप्यं रूपम् अन्त्यद्धरेर् महत् ॥
मूर्तं ब्रह्म महाभाग सर्वब्रह्ममयो हरिः ॥
नित्यैवैषा जगन्माता विष्णोः श्रीर् अनपायिनी ।
यथा सर्वगतो विष्णुस् तथैवेयं द्विजोत्तम ॥
देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी ।
विष्णोर् देहानुरूपां वै करोत्य् एषात्मनस् तनुम् ॥
एकान्तिनः सदा ब्रह्मध्यायिनो योगिनो हि ये ।
तेषां तत्परं स्थानं यद् वै पश्यन्ति सूरयः ॥
कलामुहूर्तादिमयश् च कालो न यद्विभूतेः परिणामहेतुः ॥
महाभारते च --
दिव्यं स्थानम् अजरं चाप्रमेयं दुर्विज्ञेय, चागमैर् गम्यमाद्यम् ।
गच्छ प्रभो रक्ष चास्मान् प्रपन्नान् कल्पे कल्पे जायमानः स्वमूर्त्या ॥
कालः स पचते तत्र न कालस् तत्र वै प्रभुः ।
इति । परस्य ब्रह्मणो रूपवत्त्वं सूत्रकारश् च वदति -- अन्तस् तद्धर्मोपदेशाद् इति

134

यो ऽसाव् आदित्यमण्डलान्तर्वर्ती तप्तकार्तस्वरगिरिवरप्रभः सहस्रांशुशतसहस्रकिरणो गम्भीराम्भःसमुद्भूतसुमृष्टनालविकरविकसितपुण्डरीकदलामलायतेक्षणः सुभ्रूललाटः सुनासः सुस्मिताधरविद्रुमः सुरुचिरकोमलगण्डः कम्बुग्रीवः समुन्नतांसविलम्बिचारुरूपदिव्यकर्णकिसलयः पीनवृत्तायतभुजश् चारुतरातम्रकरतलानुरक्ताङ्गुलीभिर् अलंकृतस् तनुमध्यो विशालवक्षःस्थलः समविभक्तसर्वाङ्गो ऽनिर्देश्यदिव्यरूपसंहननः स्निग्धवर्णः प्रबुद्धपुण्डरीकचारुचरणयुगलः स्वानुरूपपीताम्बरधो ऽमलकिरीटकुण्डलहारकौस्तुभकेयूरकटकनूपुरोदरबन्धनाद्यपरिमिताश्चर्यानन्तदिव्यभूषणः शङ्खचक्रगदासिश्रीवत्सवनमालालङ्कृतो
ऽनवधिकातिशयसौन्दर्याहृताशेषमनोदृष्टिवृत्तिर् लावण्यामृतपूरिताशेषचराचरभूतजातो ऽत्यद्भुताचिन्त्यनित्ययौवनः पुष्पहाससुकुमारः पुण्यगन्धवासितानन्तदिगन्तरालस् त्रैलोक्याक्रमणप्रवृत्तगम्भीरभावः करुणानुरागमधुरलोचनावलोकिताश्रितवर्गः पुरुषवरो दरीदृश्यते । स च निखिलजगदुदयविभवलयलीलो निरस्तसमस्तहेयः समस्तकल्याणगुणगणनिधिः स्वेतरसमस्तवस्तुविलक्षणः परमात्मा परं ब्रह्म नारायण इत्य् अवगम्यते । तद्धर्मोपदेशात् -- स एष सर्वेषां लोकानाम् ईष्टे सर्वेषां कामानाम् -- स एष सर्वेभ्यः पापभ्य उदित इत्यादिदर्शनात् । तस्यैते गुणाः सर्वस्य वशी सर्वस्येशानः -- अपहतपाप्मा विजर इत्यादि सत्यसंकल्प इत्यन्तम् -- विश्वतः परमं
नित्यं विश्वं नारायणं हरिम् । पतिं विश्वस्यात्मेश्वरम् इत्यादिवाक्यप्रतिपादिताः ।

135

वाक्यकारैश् चैतत्सर्वं सुस्पष्टम् आह -- हिरण्यमयः पुरुषो दृश्यत इति प्राज्ञः सर्वान्तरः स्याल् लोककामेशोपदेशात् तथोदयात् पाप्मनाम् इत्यादिना । तस्य च रूपस्यानित्यतादि वाक्यकारेणैव प्रतिषिद्धम् -- स्यात् तद्रूपं कृतकम् अनुग्रहार्थं तच्चेतनानाम् ऐश्वर्याद् इत्य् उपासितुर् अनुग्रहार्थः परमपुरुषस्य रूपसंग्रह इति पूर्वपक्षं कृत्वा, रूपं वातीन्द्रियम् अन्तःकरणप्रत्यक्षं तन्निर्देशाद् इति । यथा ज्ञानादयः परस्य ब्रह्मणः स्वरूपतया निर्देशात् स्वरूपभूतगुणास् तथेदम् अपि रूपं श्रुत्या स्वरूपतया निर्देशात् स्वरूपभूतम् इत्यर्थः । भाष्यकारेणैतद् व्याख्यातम् -- अञ्जसैव विश्वसृजो रूपं तत् तु न चक्षुषा ग्राह्यं मनसा त्व् अकलुषेण साधनान्तरवता गृह्यते, न चक्षुषा
गृह्यते नापि वाचा मनसा तु विशुद्धेनेति श्रुतेः, न ह्य् रूपाया देवताया रूपम् उपदिश्यते, यथाभूतवादि हि शास्त्रम्, महारजनं वासः -- वेदाहम् एतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्ताद् इति प्रकरणान्तरनिर्देशाच् च साक्षिण इत्यादिना हिरण्यमय इति रूपसामान्याच् चन्द्रमुखवत्, न मयड् अत्र विकारम् आदाय प्रयुज्यते, अनारभ्यत्वाद् आत्मन इति । यथा ज्ञानादिकल्याणगुणगणानन्तर्यनिर्देशाद् अपरिमितकल्याणगुणगणविशिष्टं परं ब्रह्मेत्य् अवगम्यत एवम् आदित्यवर्णं पुरुषम् इत्यादिनिर्देशात् स्वाभिमतस्वानुरूपकल्याणतमरूपः परब्रह्मभूतः पुरुषोत्तमो नारायण इति ज्ञायते । तथास्येशना जगतो विष्णुपत्नी -- ह्रीश् च ते लक्ष्मीश् च पत्न्यौ -- सदा पश्यन्ति सूरयः -- तमसः परस्तात्
-- क्षयन्तम् अस्य रजसः पराक इत्यादिना पत्नीपरिजनस्थानादीनां निर्देशाद् एव तथैव सन्तीत्य् अवगम्यते । यथाह भाष्यकार -- यथाभूतवादि हि शास्त्रम् इति ।

136

एतदुक्तं भवति -- यथा सत्यं ज्ञानं अनन्तं ब्रह्मेति निर्देशात् परमात्मस्वरूपं समस्तहेयप्रत्यनीकानवधिकानन्तैकतानतयापरिच्छेद्यतया च सकलेतरविलक्षणं तथा यः सर्वज्ञः सर्ववित् -- परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च -- तम् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभातीत्यादिनिर्देशान् निरतिशयासंख्येयाश् च गुणाः सकलेतरविलक्षणाः । तथादित्यवर्णम् इत्यादिनिर्देशाद् रूपपरिजनस्थानादयश् च सकलेतरविलक्षणाः स्वासाधारणा अनिर्देश्यस्वरूपस्वभावा इति ।

137

वेदाः प्रमाणं चेद् विध्यर्थवादमन्त्रगतं सर्वम् अपूर्वम् अविरुद्धम् अर्थजातं यथावस्थितम् एव बोधयन्ति । प्रामाण्यं च वेदानाम् औत्पत्तिकस् तु शब्दस्यार्थेन संबन्ध इत्युक्तम् । यथाग्निजलादीनाम् औष्ण्यादिशक्तियोगः स्वाभाविकः, यथा च चक्षुरादीनाम् इन्द्रियाणां बुद्धिविशेषजनशक्तिः स्वाभाविकी तथा शब्दस्यापि बोधनशक्तिः स्वाभाविकी । न च हस्तचेष्टादिवत् संकेतमूलं शब्दस्य बोधकत्वम् इति वक्तुं शक्यम् । अनाद्यनुसंधानाविच्छेदे ऽपि संकेतयितृपुरुषाज्ञानात् । यानि संकेतमूलानि तानि सर्वाणि साक्षाद् वा परंपरया वा ज्ञायन्ते । न च देवदत्तादिशब्दवत् कल्पयितुं युक्तम् । तेषु च साक्षाद् वा परंपरया वा संकेतो ज्ञायते । गवादिशब्दानां त्व् अनाद्यनुसंधानाविच्छेदे ऽपि संकेताज्ञानाद्
एव बोधकत्वशक्तिः स्वाभाविकी । अतो ऽग्न्यादीनां दाहकत्वादिशक्तिवद् इन्द्रियाणां बोधकत्वशक्तिवच् च शब्दस्यापि बोधकत्वशक्तिर् आश्रयणीया ॥

138

ननु चेन् इन्द्रियवच् छब्दस्यापि बोधकत्वं स्वाभाविकं संबन्धग्रहणं बोधकत्वाय किम् इत्य् अपेक्षते, लिङ्गादिवद् इति उच्यते -- यथा ज्ञातसंबन्धनियमं धूमाद्यग्न्यादिविज्ञानजनकं तथा ज्ञातसंबन्धनियमः शब्दो ऽप्य् अर्थविशेषबुद्धिजनकः । एवं तर्हि शब्दो ऽप्य् अर्थविशेषस्य लिङ्गम् इत्य् अनुमानं स्यात् -- नैवम् । शब्दार्थयोः संबन्धो बोध्यबोध्कभाव एव धूमादीनां तु संबन्धान्तर इति तस्य संबन्धस्य ज्ञानद्वारेण बुद्धिजनकत्वम् इति विशेषः । एवं गृहीतसंबन्धस्य बोधकत्वदर्शनाद् अनाद्यनुसंधानाविच्छेदे ऽपि संकेताज्ञानाद् बोधकत्वशक्तिर् एवेति निश्चीयते ।

139

एवं बोधकानां पदसंघातानां संसर्गविशेषबोधकत्वेन वाक्यशब्दाभिधेयानाम् उच्चारणक्रमो यत्र पुरुषबुद्धिपूर्वकस् ते पौरुषेयाः शब्दा इत्य् उच्यन्ते । यत्र तु तदुच्चारणक्रमः पूर्वपूर्वोच्चरणक्रमजनितसंस्कारपूर्वकः सर्वदापौरुषेयास् ते च वेदा इत्य्+उच्यन्ते । एतद् एव वेदानाम् अपौरुषेयत्वं नित्यत्वं च यत्पूर्वोच्चारणक्रमजनितसंस्कारेण तम् एव क्रमविशेषं स्मृत्वा तेनैव क्रमेणोच्चार्यमाणत्वम् । ते चानुपूर्वीविशेषेण संस्थिता अक्षरराशयो वेदा ऋग्यजुःसामाथर्वभेदभिन्ना अनन्तशाखा वर्तन्ते । ते च विध्यर्थवादमन्त्ररूपा वेदाः परब्रह्मभूतनारायणस्वरूपं तदाराधनप्रकाराधितात् फलविशेषं च बोधयन्ति । परमपुरुषवत्
तत्स्वरूपतदाराधनतत्फलज्ञापकवेदाख्यशब्दजातं नित्यम् एव । वेदानाम् अनन्तत्वाद् दुरवगाहत्वाच् च परमपुरुषनियुक्ताः परमर्षयः कल्पे कल्पे निखिलजगदुपकारार्थं वेदार्थं स्मृत्वा विध्यर्थवादमन्त्रमूलानि धर्मशास्त्राणीतिहासपुराणानि च चक्रुः । लौकिकाश् च शब्दा वेदराशेर् उद्धृत्यैव तत्तदर्थविशेषनामतया पूर्ववत् प्रयुक्ताः पारंपर्येण प्रयुज्यन्ते । ननु च वैदिक एव सर्वे वाचकाः शब्दाश् चेच् छन्दस्यैवं भाषायाम् एवम् इति लक्षणभेदः कथम् उपपद्यते । उच्यते -- तेषाम् एव शब्दानां तस्याम् एवानुपूर्व्यां वर्तमानां तथैव प्रयोगः । अन्यत्र प्रयुज्यमानानाम् अन्यथेति न कश्चिद् दोषः ।

140

एवम् इतिहासपुराणधर्मशास्त्रोपबृंहितसाङ्गवेदवेद्यः परब्रह्मभूतो नारायणो निखिलहेयप्रत्यनीकः सकलेतरविलक्षणो ऽपरिच्छिन्नज्ञानानन्दैकस्वरूपः स्वाभाविकानवधिकातिशयासंख्येयकल्याणगुणगणाकरः स्वसंकल्पानुविधायिस्वरूपस्थितिप्रवृत्तिभेदचिदचिद्वस्तुजातो ऽपरिच्छेद्यस्वरूपस्वभावानन्तमहाविभूतिर् नानाविधानन्तचेतनाचेतनात्मकप्रपञ्चलीलोपकरण इति प्रतिपादितम् । सर्वं खल्व् इदं ब्रह्म -- ऐतदात्म्यम् इदं सर्वं -- तत् त्वम् असि श्वेतकेतो --
एनम् एके वदन्त्य् अग्निं मरुतो ऽन्यो प्रजापतिम् ।
इन्द्रम् एके परे प्राणम् अपरे ब्रह्म शाश्वतम् ॥
ज्योतींषि शुक्लानि च यानि लोके त्रयो लोका लोकपालास् त्रयी च ।
त्रयो ऽग्नयश् चाहुतयश् च पञ्च सर्वे देव देवकीपुत्र एव ॥
त्वं यज्ञस् त्वं वषट्कारस् त्वम् ओंकारः परंतपः ।
ऋतुधामा वसुः पूर्वो वसूनां त्वं प्रजापतिः ॥
जगत्सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् ।
अग्निः कोपः प्रसादस् ते सोमः श्रीवत्सलक्षणः ॥
ज्योतींषि विष्णुर् भुवनानि विष्णुर् वनानि विष्णुर् गिरयो दिशश् च ।
नद्यः समुद्राश् च स एव सर्वं यद् अस्ति यन् नास्ति च विप्रवर्य ॥
इत्यादिसामानाधिकरण्यप्रयोगेषु सर्वैः शब्दैः सर्वशरीरतया सर्वप्रकारं ब्रह्मैवाभिधीयत इति चोक्तम् । सत्यसंकलपं परं ब्रह्म स्वयम् एव बहुप्रकारं स्याम् इति संकल्प्याचित्समष्टिरूपमहाभूतसूक्ष्मवस्तु भोक्तृवर्गसमूहं च स्वस्मिन् प्रलीनं स्वयम् एव विभज्य तस्माद् भूतसूक्ष्माद् वास्तुनो महाभूतानि सृष्ट्वा तेषु च भोक्तृवर्गात्मतया प्रवेश्य तैश्चिद् अधिष्ठितैर् महाभूतैर् अन्योन्यसंसृष्टैः कृत्स्नं जगद् विधाय स्वयम् अपि सर्वस्यात्मतया प्रविश्य परमात्मत्वेनावस्थितं सर्वशरीरं बहुप्रकारम् अवतिष्ठते । यद् इदं महाभूतसूक्ष्मं वस्तु तद् एव प्रकृतिशब्देनाभिधीयते । भोक्तृवर्गसमूह एव पुरुषशब्देन चोच्यते । तौ च प्रकृतिपुरुषौ परमात्मशरीरतया परमात्मप्रकारभूतौ
। तत्प्रकारः परमात्मैव प्रकृतिपुरुषशब्दाभिदेयः । सो ऽकामयत बहु स्यां प्रजायेयेति -- तत्सृष्ट्वा तद् एवानुप्रविशत् -- तद् अनुप्रविश्य सच् च त्यच् चाभवन् निरुक्तं चानिरुक्तं च निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यम् अभवद् इति पूर्वोक्तं सर्वम् अनयैव श्रुत्या व्यक्तम् ।

141

ब्रह्मप्राप्त्युपायश् च शास्त्राधिगततत्त्वज्ञानपूर्वकस्वकर्मानुगृहीतभक्तिनिष्ठासाध्यानवधिकातिशयप्रियविशदतमप्रत्यक्षतापन्नानुध्यानरूपपरभक्तिर् एवेत्युक्तम् । भक्तिशब्दश् च प्रीतिविशेषे वर्तते । प्रीतिश् च ज्ञानविशेष एव । ननु च सुखं प्रीतिर् इत्यनर्थान्तरम् । सुखं च ज्ञानविशेषसाध्यं पदार्थान्तरम् इति हि लौकिकाः । नैवम् । येन ज्ञानविशेषेण तत्साध्यम् इत्य् उच्यते स एव ज्ञानविशेषः सुखम् ।

142

एतद् उक्तं भवति -- विषयज्ञानानि सुखदुःखमध्यसाधारणानि । तानि च विषयाधीनविशेषाणि तथा भवन्ति । येन च विषयविशेषेण विशेषितं ज्ञानं सुखस्य जनकम् इत्य् अभिमतं तद्विषयं ज्ञानम् एव सुखं, तदतिरेकि पदार्थान्तरं नोपलभ्यते । तेनैव सुखित्वव्यवहारोपपत्तेश् च । एवंविधसुखस्वरूपज्ञानस्य विशेषकत्वं ब्रह्मव्यतिरिक्तस्य वस्तुनः सातिशयम् अस्थिरं च । ब्रह्मणस् त्व् अनवधिकातिशयं स्थिरं चेति । आनन्दो ब्रह्मेत्य् उच्यते । विषयायत्तत्वाज् ज्ञानस्य सुखस्वरूपतया ब्रह्मैव सुखम् । तद् इदम् आह -- रसो वै सः -- रसं हे एवायं लब्ध्वानन्दी भवतीति ब्रह्मैव सुखम् इति ब्रह्म लब्ध्वा सुखी भवतीत्यर्थः । परमपुरुषः स्वेनैव स्वयम् अनवधिकातिशयसुखः सन् परस्यापि सुखं भवति । सुखस्वरूपत्वाविशेषात्
। ब्रह्म यस्य ज्ञानविषयो भवति स सुखी भवतीत्यर्थः । तद् एवं परस्य ब्रह्मणो ऽनवधिकातिशयासंख्येयकल्याणगुणगणाकरस्य निरवद्यस्यानन्तमहाविभूतेर् अनवधिकातिशयसौशील्यसौन्दर्यवात्सल्यजलधेः सर्वशेषित्वाद् आत्मनः शेषत्वात् प्रतिबंधितयानुसंधीयमानम् अनवधिकातिशयप्रीतिविषयं सत् परं ब्रह्मैवैनम् आत्मानं प्रापयतीति ।

143

ननु चात्यन्तशेषतैवात्मनो ऽनवधिकातिशयसुखम् इत्युक्तं भवति । तद् एतत् सर्वलोकविरुद्धम् । तथा हि सर्वेषाम् एव चेतनानां स्वातन्त्र्यम् एव इष्टतमं दृश्यते, पारतन्त्र्यं दुःखतरम् । स्मृतिश् च --
सर्वं परवशम् दुःखं सर्वम् आत्मवशं सुखम् ।
तथा हि --
सेवा श्ववृत्तिर् आख्याता तस्मात् तां परिवर्जयेत् ।
इति । तद् इदम् अनधिगतदेहातिरिक्तात्मरूपाणां शरीरात्माभिमानविजृम्भितम् । तथा हि -- शरीरं हि मनुष्यत्वादिजातिगुणाश्रयपिण्डभूतं स्वतन्त्रं प्रतीयते । तस्मिन्न् एवाहम् इति संसारिणां प्रतीतिः । आत्माभिमानो यादृशस् तदनुगुणैव पुरुषार्थप्रतीतिः । सिंहव्याघ्रवराहमनुष्ययक्षरक्षःपिशाचदेवदानवस्त्रीपुंसव्यवस्थितात्माभिमानानां सुखानि व्यवस्थितानि । तानि च परस्परविरुद्धानि । तस्माद् आत्माभिमानानुगुणपुरुषार्थव्यवस्थया सर्वं समाहितम् । आत्मस्वरूपं तु देवादिदेहविलक्षणं ज्ञानैकाकारम् । तच् च परशेषतैकस्वरूपम् । यथावस्थितात्माभिमाने तदनुगुणैव पुरुषार्थप्रतीतिः । आत्मा ज्ञानमयो ऽमल इति स्मृतेर् ज्ञानैकाकारता प्रतिपन्ना । पतिं विश्वस्येत्यादि
श्रुतिगुणैः परमात्मशेषतैकाकारता च प्रतीता । अतः सिंहव्याघ्रादिशरीरात्माभिमानवत् स्वातन्त्र्याभिमानो ऽपि कर्मकृतविपरीतात्मज्ञानरूपो वेदितव्यः । अतः कर्मकृतम् एव परमपुरुषव्यतिरिक्तविषयाणां सुखत्वम् । अत एव तेषाम् अल्पत्वम् अस्थिरत्वं च परमपुरुषस्यैव स्वत एव सुखत्वम् । अतस् तद् एव स्थिरम् अनवधिकातिशयं च -- कं ब्रह्म खं ब्रह्म -- आनन्दो ब्रह्म -- सत्यं ज्ञानम् अनन्तं ब्रह्मेति श्रुतेः । ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य वस्तुनः स्वरूपेण सुखत्वाभावः कर्मकृतत्वेन चास्थिरत्वं भगवता पराशरेणोक्तम् --
नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम ।
वस्त्व् एकम् एव दुःखाय सुखायेर्ष्यागमाय च ।
कोपाय च यतस् तस्माद् वस्तु वस्त्वात्मकं कुतः ॥
सुखदुःखाद्येकान्तरूपिणो वस्तुनो वस्तुत्वं कुतः । तदेकान्तता पुण्यपापकृतेत्यर्थः । एवम् अनेकपुरुषापेक्षया कस्यचित् सुखम् एव कस्यचिद् दुःखं भवतीत्यवस्थां प्रतिपाद्य, एकस्मिन्न् अपि पुरुषे न व्यवस्थितम् इत्याह --
तद् एव प्रीयते भूत्वा पुनर्सुःखाय जायते ।
तद् एव कोपाय यतः प्रसादाय च जायते ॥
तस्माद् दुःखात्मकं नास्ति न च किंचित् सुखात्मकम् ।
इति सुखदुःखात्मकत्वं सर्वस्य वस्तुनः कर्मकृतं न वस्तुस्वरूपकृतम् । अतः कर्मावसाने तद् अपैतीत्यर्थः ।

मूल पाठ: Vedārthasaṃgraha · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc