भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 146

146.1

अथ रुरुक्षेत्रस्थहृषीकेशमाहात्म्यम् ॥
सूत उवाच ॥
शालग्रामस्य माहात्म्यं श्रुत्वा गुह्यं महौजसम् ॥
विस्मयं परमं गत्वा हृष्टा वचनमब्रवीत्

146.2

धरण्युवाच ॥
अहो क्षेत्रस्य माहात्म्यं यत्त्वया भाषितं हरे ॥
एतच्छ्रुत्वा महाभाग जातास्मि विगतज्वरा

146.3

रुरुषण्डमिति प्रोक्तं यत्त्वया परमार्च्चितम् ॥
रुरुर्नाम कथं को वा आसीत्पूर्वं जनार्दन

146.4

यन्नाम्ना परमं क्षेत्रं हृषीकेश त्वयाश्रितम् ॥
कथयस्व जगन्नाथ यद्यनुग्राह्यता मयि

146.5

श्रीवराह उवाच ॥
आसीत्पुरा महाभागो देवदत्त इति द्विजः ॥
भृगुवंशे समुत्पन्नो वेदवेदाङ्गपारगः

146.6

यज्ञविद्यासु कुशलो व्रतनिष्ठोऽतिथिप्रियः ॥
तत्राश्रमपदं पुण्यं पुण्यद्रुमलतान्वितम्

146.7

शान्तैर्मृगगणैः कीर्णं कन्दमूलफलान्वितम् ॥
तत्र तीव्रं तपोऽतप्यद्देवदत्तो मुनीश्वरः

146.8

वर्षाणामयुतं साग्रं तत इन्द्रो व्यचिन्तयत् ॥
कामं वसन्तसहितं गन्धर्वान् स सखीन्पुनः

146.9

उवाच मधुरं वाक्यं क्षुब्धेन्द्रियमनाः प्रभुः ॥
अहो सखायः किंचिन्मे महत्कार्यमुपस्थितम्

146.146.10

तस्य मे चिन्तयानस्य यूयमेव परा गतिः ॥
भवत्प्रसादात्स्वस्थोऽहं निर्भयस्तद्विचिन्त्यताम्

146.11

तदिन्द्रस्य वचः श्रुत्वा ते काममलयानिलाः ॥
प्रत्यूचुर्देवराजानमाज्ञापय निजं प्रियम्

146.12

जितेन्द्रियस्यापि मनः कस्य संक्षोभयामहे ॥
कं वा सुतीव्रात्तपसो भ्रंशयामः सुपेशलम्

146.13

आज्ञाप्रसादं ते लब्ध्वा वद शीघ्रं सुखी भव ॥
इत्युक्तः शतमन्युर्वै प्रत्युवाचाऽथ मानयन्

146.14

तदैव मे गता चिन्ता भवतां दर्शनं यदा ॥
जातमेवाऽखिलं कार्यं मम तच्छृणुताखिलाः

146.15

हिमशैले महारम्ये हृषीकेशाश्रितो मुनिः ॥
देवदत्त इति ख्यातस्तपस्यति महत्तपः

146.16

जिघृक्षुर्मे पदं नूनं तत्तपो विनिवर्त्यताम् ॥
इत्युक्तास्ते तदाज्ञां वै गृहीत्वा शिरसा द्रुतम्

146.17

प्रस्थानाय मतिं चक्रुः कामदेवपुरःसराः ॥
प्रस्थाप्याग्रे वसन्तं च मलयानिलमेव च

146.18

ततः सुरपतिः शक्रः प्रम्लोचां नाम नामतः ॥
प्रशस्य प्रणयात्पूर्वं मानयन्निदमब्रवीत्

146.19

गच्छ स्वस्तिमती देवि विजयाय मुनेर्भुवि ॥
यत्राश्रमपदं तस्य देवदत्तस्य वै मुनेः

146.146.20

ललितैः स्वैर्विलासैस्तं मोहयित्वा वशं कुरु ॥
यथा मत्प्रीतिरतुला त्वं मे कार्यकरी सदा

146.21

तथा कुरुष्व भद्रं ते हृषीकेशसमीपतः ॥
इन्द्रस्याज्ञां समादाय ययौ तस्याश्रमं प्रति

146.22

समीपोपवने रम्ये नानाद्रुमलताकुले ॥
मधुरालापबहुले कोकिलानां कलाकुले

146.23

रसालमञ्जरीव्याप्तरसामोदालिसंकुले ॥
गुंजन्मत्तालिसन्नादश्रुतिश्रुतिधरान्विते

146.24

गन्धर्वगीतसंमिश्रे मलयानिलशीतले ॥
सम्फुल्लपङ्कजवने सुनिर्मलजलाशये

146.25

मुनिप्रभावसन्त्यक्तक्रौर्यस्थलजलाशये ॥
मधुरामोदमधुरे चित्तक्षोभविधायिनि

146.26

प्रविश्य सा वरारोहा गीतं सुमधुरं जगौ ॥
यदा ध्यानादुपरतः समाधेर्विरताश्चिरात्

146.27

गान्धर्वं प्रारभंस्ते तु गन्धर्वाः सुरसम्मताः ॥
तस्मिन्नेव क्षणे लब्ध्वाऽवसरं पंच सायकः

146.28

विचकर्ष धनुः पौष्पं सायकान् समयूयुजत् ॥
संलक्ष्य तं मुनिं शान्तं भाविदैवबलात्कृतम्

146.29

श्रुत्वा तन्मधुरं गीतं पञ्चमालापसुन्दरम् ॥
क्षुब्धचित्तः समभवत्स मुनिः संशितव्रतः

146.146.30

चकर्ष च धनुः कामः पुनःपुनरतन्द्रितः ॥
देवव्रतोऽपि स मुनिः क्षुब्धात्मा नियतोऽपि सन्

146.31

विचचाराश्रमपदं पश्यन्सन्तुष्टमानसः॥
दूराद्ददर्श तन्वङ्गीं क्रीडन्तीं कन्दुकेन ताम्

146.32

दृष्ट्वैव तां तु चार्वंगीं विद्धः कामेन पत्रिणा ॥
तस्याः समीपमगमत्स्मयमानो महामुनिः

146.33

सापि दृष्ट्वा देवदत्तं सज्जन्ती हरिणेक्षणा ॥
कटाक्षयन्ती सहसा लज्जमाना विगूहति

146.34

करेण कन्दुकं घ्नन्ती चञ्चलाक्षी सुपेशला ॥
स्रंसता केशपासेन गलत्पुष्पेण राजता

146.35

मनो हरन्ती तस्यर्षेः ललितैर्विभ्रमोद्भवैः ॥
एतस्मिन्नन्तरे तस्या दक्षिणः पवनोऽहरत्

146.36

वासः सूक्ष्मंगलन्नीवि कांचीदामगुणान्वितम् ॥
पुष्पबाणोऽप्यविध्यत्तं दृष्ट्वा ऽवसरमन्तिके

146.37

सम्मोहितः स तु मुनिर्गत्वान्तिकमथाब्रवीत् ॥
का त्वं कस्यासि सुभगे वनेऽस्मिन्किञ्चिकीर्षसि

146.38

मादृशान्किं मृगयसे बाहुपाशेन वा मृगान् ॥
बद्ध्वा गृहीत्वा वामोरु किं वाऽस्मान्कर्त्तुमिच्छसि

146.39

सर्वथाऽस्मांस्तवाधीनान् यद्यद्वा कारयिष्यति ॥
तत्तत्कुर्मो वयं नित्यं तदधीनाः स्म सर्वथा

146.146.40

अथ तां हसमानां च गृहीत्वा दक्षिणे करे॥
समालिङ्ग्य विषज्जंतीं रमयामास मोहितः

146.41

ऽ
रममाणस्तया सार्द्धं भुञ्जन्भोगान् मनोरमान् ॥
तपःप्रभावोपनतान्दिवारात्रमतंद्रितः

146.42

बहूनहर्गणानेवं रममाणो यदृच्छया ॥
सुप्तोत्थित इवाकस्माद्विवकेन समन्वितः

146.43

निर्वेदं प्राप्तवान्सद्यस्तदोवाच भृशातुरः ॥
अहो भागवती माया ययाहं भृशमोहितः

146.44

जानन्नपि तपोभ्रंशं प्राप्तो दैवबलात्कृतः ॥
अग्निकुण्डसमा नारी घृतकुम्भसमः पुमान्

146.45

इति प्रवादो मूर्खाणां विचारान्महदन्तरम् ॥
घृतकुम्भोऽग्नि योगेन द्रवते न तु दर्शनात्

146.46

पुमांस्त्रीदर्शनादेव द्रवते यद्विमोहितः ॥
नापराधस्त्वतो नार्याः स्वयं यदजितेन्द्रियः

146.47

इत्युक्त्वाऽसौ निवृत्तात्मा विससर्ज सुराङ्गनाम् ॥
प्रम्लोचा दैववशगो मनस्येतदचिन्तयत्

146.48

उपसर्गो महानत्र तपसो भ्रंशकारकः ॥
त्यक्त्वाश्रममिमं चान्यत्स्थानं गत्वा समाहितः

146.49

तपस्तीव्रं समास्थाय शोषयिष्ये कलेवरम् ॥
इति निश्चित्य मनसा गत्वा भृग्वाश्रमं प्रति

146.146.50

गण्डकीसंगमे स्नात्वा सन्तर्प्य पितृदेवताः ॥
विष्णुं शिवं च सम्पूज्य तपःस्थानं विचिंतयन्

146.51

पश्यन्भृग्वाश्रमं रम्यमुत्तरं गतवान् शनैः ॥
गण्डक्याः पूर्वभागे तु विविक्तं विजनं शुभम्

146.52

दृष्ट्वा तीरेषु विश्रांतस्तपोभूमिमचिंतयत् ॥
भृगुतुंगं समासाद्य शङ्कराराधने रतः

146.53

अतप्यत तपो घोरं शिवदर्शनलालसः ॥
अथ दीर्घेण कालेन सन्तुष्टः स महेश्वरः

146.54

लिंगरूपधरः साक्षादुपर्यपि तथा ह्यधः ॥
तिर्यक् च जलधाराभिर्युक्तस्तत्तापशांतिकृत्

146.55

उवाच च प्रसन्नात्मा मुने पश्य च मां शिवम् ॥
मामेवावेहि विष्णुं त्वं मा पश्यस्वांतरं मम

146.56

पूर्वमन्तरभावेन दृष्टवानसि यन्मम ॥
तेन विघ्नोऽभवद्येन गलितं त्वत्तपो महत्

146.57

आवामेकेन भावेन पश्यंस्त्वं सिद्धिमाप्स्यसि ॥
तपःप्रभावाल्लिंगानि प्रादुर्भूतानि यत्र वै

146.58

समंगमिति विख्यातमेतत्स्थानं भविष्यति ॥
स्नात्वाऽत्र गण्डकीतीर्थे मम लिंगानि योऽर्च्चयेत्

146.59

तस्य योगफलं सम्यग्भविष्यति न संशयः ॥
इति दत्त्वा वरं शम्भुस्तत्रैवान्तरधीयत

146.146.60

देवदत्तोऽपि स मुनिः सम्प्राप्य ज्ञानमुत्तमम् ॥
शिवोपदिष्टमार्गेण सायुज्यं परमं गतः

146.61

प्रम्लोचापि मुनेर्गर्भं सम्प्राप्याश्रममन्तिकात् ॥
प्रसूतां कन्यकां त्यक्त्वा स्वर्गमेव जगाम ह

146.62

पुनर्जातमिवात्मानं मन्यमाना शुचिस्मिता ॥
सापि कन्या मृगैस्तत्र रुरुभिर्वर्द्धिता सती

146.53

रुरुरित्वेव विख्याता पितुरेवाश्रमे स्थिता ॥
युवभिः प्रार्थ्यमानापि चित्ते कञ्चन नाध्यगात्

146.64

ततः सुनिश्चयं कृत्वा तपसे धृतमानसा ॥
चिन्तयन्ती जगन्नाथं भगवन्तं रमापतिम्

146.65

मासे सा प्रथमे बाला फलाहारपरायणा ॥
एकांतरं दिनं प्राप्य द्वितीये त्रिदिनान्तरे

146.66

तृतीये पंचम दिने चतुर्थे सप्तमांतरे ॥
पञ्चमे नवरात्रेण षष्ठे पञ्चदशाहके

146.67

मासेन सप्तमे चैव शीर्णपर्णाशनाष्टमे ॥
त्यक्त्वा तान्यपि सा बाला वाय्वाहारा बभूव ह

146.68

सैवं वर्षशतं स्थित्वा हरावेकाग्रमानसा ॥
समाधिना समा भूत्वा स्थाणुवन्निश्लाऽभवत्

146.69

द्वन्द्वानि नाविदच्चापि आत्मभूतान्तरं विना ॥
परां काष्ठां समापन्ना प्रकाशमयकांतिधृक्

146.146.70

तत्तेजसा वृतं सर्वं तदा दृष्ट्वा वसुन्धरे ॥
अहं विस्मयमापन्नस्तस्याः प्रत्यक्षतां गतः

146.71

सन्निरुद्धेन्द्रियग्रामा नाचक्षत बहिःस्थितम् ॥
तदा हृषीकाण्याविश्य संहृत्य स्वं हृदो बहिः

146.72

स्थितोऽहं वसुधे देवि अक्ष्णोः प्रत्यक्षतां गतः ॥
हृषीकाणि नियम्याहं यतः प्रत्यक्षतां गतः

146.73

हृषीकेश इति ख्यातो नाम्ना तत्रैव संस्थितः ॥
सा मां यदैव नापश्यदुन्मील्य नयने ततः

146.74

बहिः स्थितं च मां दृष्ट्वा प्रणनाम कृताञ्जलिः ॥
गद्गदस्वरसंयुक्ता अश्रुक्लिन्नविलोचना

146.79

रोमांचिततनुश्चासीत्कदम्बमुकुलाकृतिः ॥
तथा भूतां तु तां दृष्ट्वा प्रावोचमहमङ्गनाम्

146.76

अयि बाले विशालाक्षि तुष्टोऽहं तपसस्तव ॥
वरं याचय मत्तस्त्वं यत्ते मनसि वर्त्तते

146.77

अदेयमपि ते दद्मि यदन्येषां सुदुर्ल्लभम् ॥
इति श्रुत्वा प्रभोर्वाक्यं प्रणम्य च पुनः पुनः

146.78

स्तुत्वा तं देवदेवेशं प्रबद्धकरसंपुटा ॥
ददासि चेद्वरं मह्यं देवदेव जगत्पते

146.79

अनेनैव स्वरूपेण भगवन्स्थातुमर्हसि ॥
स्थितोऽस्म्यत्रैव भद्रं ते अपरं वरयाशु मे

146.146.80

दुर्लभं ते वरं दद्मि तपसाहं प्रतोषितः ॥
इत्युक्त्वा मां प्रणम्याह रुरुः सा संशितव्रता

146.81

यदि प्रसन्नो देवेश तदा मां कुरु पावनीम् ॥
मन्नाम्ना क्षेत्रमेतच्च ख्यातं भवतु नान्यथा

146.82

तामहं देवि सुभगे प्रावोचं पुनरेव हि॥
तीर्थानां परमं तीर्थं तव देहो भवत्वयम्

146.83

तव नाम्नां च विख्यातमेतत्क्षेत्रं भविष्यति ॥
तव तीर्थे कृतस्नानस्त्रिरात्रोपोषितो नरः

146.84

विलोक्य मां भवेत्पूतो मम वाक्यान्न संशयः ॥
ब्रह्महत्यादि पापानि ज्ञात्वाऽज्ञात्वा कृतान्यपि

146.89

यास्यन्ति विलयं क्षिप्रमेवमेतन्न संशयः ॥
इति दत्त्वा वरांस्तस्यै तत्रैवान्तर्हितः स्थितः

146.86

सापि कालेन सञ्जाता तीर्थभूता तथाऽभवत् ॥
एतत्ते कथितं देवि रुरुमाहात्म्यमुत्तमम्

146.87

रुरुक्षेत्रस्य प्रभवमेतद्गुह्यं परं मम

146.146

इति श्रीवराहपुराणे भगवच्छास्त्रे रुरुक्षेत्रऋषीकेशयोर्माहात्म्यं नाम षट्चत्वारिंशदधिकशततमोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc