भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 147

147.1

अथ गोनिष्क्रमणमाहात्म्यम्॥
धरण्युवाच ॥
अत्याश्चर्यं श्रुतं ह्येतद्रुरुक्षेत्रसमुद्भवम् ॥
हृषीकेशस्य महिमा त्वया य उपवर्णितः

147.2

अन्यच्च यत्परं गुह्यं क्षेत्रं परमपावनम् ॥
वक्तुमर्हसि देवेश परं कौतूहलं मम

147.3

श्रीवराह उवाच ॥
शृणु भूमे प्रयत्नेन कारणं परमं मम ॥
गुह्यमस्त्यपरं चैव हिमशृङ्ग शिलोच्चये

147.4

गोनिष्क्रमणकं नाम गावो यत्र प्रतारिताः ॥
यथा निष्क्रमणं प्राप्य सुरभीणां वसुन्धरे

147.5

सप्ततिर्यत्र कल्पानि और्वो यत्र प्रजापतिः ॥
तपश्चचार परमं मम मायाबलान्वितः

147.6

तस्यैवं वर्त्तमानस्य याति काले महत्तरे ॥
एवं हि तप्यमानस्य सर्वलोकस्य संशयः

147.7

न वरं प्रार्थयत्येष लाभालाभसमन्वितः ॥
सूचकोऽपि न विद्येत बलिकर्मसु संयतः

147.8

अथ दीर्घस्य कालस्य कश्चिद्ब्रह्मयतिस्तदा ॥
तपस्तपस्यति मुनौ तस्मिन्शैलोच्चये धरे

147.9

ईश्वरोऽपि महाभागे तत्पार्श्वं समुपागतः ॥
गोनिष्क्रमेति विख्याते तस्मिंस्तीर्थे महौजसि

147.147.10

तत्र त्वौर्वो महाभागे तप्यते समदर्शनः ॥
पद्मानां कारणादौर्वो गंगाद्वारमुपागतः

147.11

तन्निर्गतं ततो ज्ञात्वा और्वं सर्वे तपस्विनः ॥
महेश्वरो महातेजाः सम्भ्रमात्समुपागतः

147.12

फलपुष्पसमाकीर्णा लक्ष्मीश्चैवोपजायते ॥
आश्रमं रूपसम्पन्नं फलपुष्पोपशोभितम्

147.13

तच्च वै भस्मसाद्भूतं महारुद्रस्य तेजसा॥
दग्ध्वा तं चाश्रमं पुण्यमौरवस्य सुमहत्प्रियम्

147.14

ईश्वरोऽपि ततः प्राप्तः शीघ्रमेव हिमालयम् ॥
एतस्मिन्नन्तरे देवि गृह्य पुष्पकरण्डकम्

147.15

आश्रमं समनुप्राप्त और्वोऽपि मुनिपुंगवः ॥
शान्तो दान्तः क्षमाशीलः सत्यव्रतपरायणः

147.16

दृष्ट्वा स्वमाश्रमं दग्धं बहुपुष्पफलोदकम् ॥
मन्युना परमाविष्टो दुःखनेत्रपरिप्लुतः

147.17

उवाच क्रोधरक्ताक्षो वचनं निर्दहन्निव ॥
येनैष चाश्रमो दग्धो बहुपुष्पफलोदकः

147.18

सोऽपि दुःखेन सन्तप्तः सर्वलोकान्भ्रमिष्यति ॥
एवमौर्वेण दत्ते तु शापे तस्मिन्महौजसि

147.19

महाभयात्तु लोकानां न कश्चित्पर्यवारयत् ॥
तत्क्षणादेव देवेशि ईशोऽपि जगतो विभुः

147.147.20

महादाहेन सन्तप्तः शम्भुर्देवीमुवाच ह ॥
और्वस्य तु तपो दृष्ट्वा भीतैर्देवैरुदाहृतम्

147.21

दह्यते स्म जगत्सर्वं स तु किञ्चिन्न चेच्छति ॥
को वा प्रति विधिस्तत्र यथा सर्वस्य सम्भवेत्

147.22

एवमुक्ते मया क्रोधादीक्षितस्तस्य चाश्रमः ॥
दग्धोऽभवत्क्षणेनैव वयं तस्माद्विनिर्गताः

147.23

एतद्दुःखेन सन्तप्तो मन्युना च परिप्लुतः ॥
और्वः शशाप रोषेण तेन तप्ता वयं शिवे

147.24

ततोऽभ्रमद्विरूपाक्षः शं न प्राप्नोति कर्हिचित् ॥
अहं च परितप्तोऽस्मि आत्मत्वादीश्वरस्य च

147.25

तेन दाहेन सन्तप्तो न शक्नोमि विचेष्टितुम् ॥
पार्वत्या च ततः प्रोक्तः आवां नारायणं प्रति

147.26

गच्छावस्तस्य वाक्येन सुखं यत्र भविष्यति ॥
ततो नारायणं गत्वा सह तेन तमौर्वकम्

147.27

विज्ञापयामो रुद्रस्य शापोऽयं विनिवर्त्तताम् ॥
सन्तप्ताः स्म वयं सर्वे तस्माच्छापं निवर्त्तय

147.28

और्वोऽप्युवाच नोक्तं मे अनृतं तु कदाचन ॥
सुरभीगणमानीय गत्वैतं स्नापयन्तु वै

147.29

रुद्रशापो निवृत्तः स्यात्तेनैव किल नान्यथा ॥
एतस्मिन्नन्तरे देवि मया गावोऽवतारिताः

147.147.30

सप्तसप्ततिः कल्याणि सौरभेया महौजसः ॥
तेनाप्लावितदेहाश्च परां निर्वृतिमागताः

147.31

तच्च गोनिष्क्रमं नाम तीर्थं परमपावनम् ॥
तत्र स्नानं तु कुर्वीत एकरात्रोषितो नरः

147.32

गोलोकं च समासाद्य मोदते नात्र संशयः ॥
अथात्र मुञ्चते प्राणान्कृत्वा कर्म सुदुष्करम्

147.33

शंखचक्रगदायुक्तो मम लोके महीयते ॥
पंच धाराः पतन्त्यत्र मूले मूलवटस्य हि

147.34

तत्र स्नानं प्रकुर्वीत पंचरात्रोषितो नरः ॥
पंचानामपि यज्ञानां फलमाप्नोति मानवः

147.35

अथात्र मुञ्चते प्राणान्कृत्वा कर्म सुदुष्करम् ॥
पंचयज्ञफलं भुक्त्वा मम लोकं प्रपद्यते

147.36

अस्ति पंचपदं नाम तस्मिन्क्षेत्रे परं मम॥
मम पूर्वेण पार्श्वेण दृढाः पंच महाशिलाः

147.37

मत्पूर्वां दिशमाश्रित्य तत्र ब्रह्मपदद्वयम् ॥
मध्ये तु तस्य कुण्डस्य शिला विस्तीर्णसंश्रिता

147.38

ऊर्द्ध्वं नालपरीणाहं तत्र विष्णुपदं मम ॥
तत्र स्नानं तु कुर्वीत पंचरात्रोषितो नरः

147.39

यांति शुद्धांस्तु लोकांस्ते ये च भागवतप्रियाः ॥
अथात्र मुञ्चते प्राणान्युक्तः पञ्चपदे नरः

147.147.40

विमुक्तः सर्वसंसारान्मम लोकं च गच्छति ॥
ततो ब्रह्मपदं नाम क्षेत्रं गुह्यं परं मम

147.41

यत्र धारा पतत्येका पश्चिमां दिशमाश्रिता ॥
तत्र स्नानं तु कुर्वीत एकरात्रोषितो नरः

147.42

ब्रह्मलोकमवाप्नोति ब्रह्मणा सह मोदते ॥
कौमुदस्य तु मासस्य शुक्लपक्षस्य द्वादशी

147.43

यज्ञानां वाजपेयानां फलं प्राप्नोति मानवः ॥
अथात्र मुंचते प्राणान्मम कर्मसु निष्ठितः

147.44

वाजपेयफलं भुक्त्वा मम लोकं प्रपद्यते ॥
अस्ति कोटिवटं नाम तस्मिन् क्षेत्रे परं मम

147.45

पंचक्रोशं ततो गत्वा वायव्यां दिशि संस्थितः ॥
तत्र स्नानं तु कुर्वीत षष्ठकालोषितो नरः

147.46

बहुयज्ञस्य कोटीनां फलं प्राप्नोति निष्कलम् ॥
अथात्र मुंचते प्राणान्भूमे कोटिवटे शुभे

147.47

यज्ञकोटिफलं भुक्त्वा मम कोटिं प्रपद्यते ॥
अस्ति विष्णुसरो नाम तस्मिन् क्षेत्रे परं मम

147.48

पूर्वोत्तरेण पार्श्वेन पंचक्रोशं न संशयः ॥
मत्सरः पद्मपत्राक्षि आगाधं परिसंस्थितम्

147.49

पंचक्रोशश्च विस्तारः पर्वतः परिमण्डलः ॥
तत्र भ्रमति यो भद्रे कुर्याच्चैव प्रदक्षिणम्

147.147.50

उपवासं त्रिरात्रं तु कृत्वा कर्म सुदुष्करम् ॥
यावन्ति भ्रममाणस्य पदानि ननु सुन्दरि

147.51

तावद्वर्षसहस्राणि ब्रह्मलोके महीयते ॥
अथाऽत्र मुंचते प्राणान्स्वकर्मपरिनिष्ठितः

147.52

ब्रह्मलोकं समुत्सृज्य मम लोके महीयते ॥
तस्मिन् क्षेत्रे महाभागे आश्चर्यं शृणु सुन्दरि

147.53

गवां वै श्रूयते शब्दो मम कर्मसुखावहः ॥
अथात्र ज्येष्ठमासस्य शुक्लपक्षस्य द्वादशी

147.54

श्रूयते सुमहाञ्छब्दः स्वयमेतन्न संशयः ॥
एवं गोस्थलके पुण्ये महाभागवतः शुचिः

147.55

करोति शुभकर्माणि शीघ्रं मुच्येत किल्बिषात् ॥
एवं तेन महाभागे ईश्वरेण यशस्विनि

147.56

शापदाहो विनिर्मुक्तः सर्वैः सह मरुद्गणैः॥
एतद्गोस्थलकं नाम सर्वशान्तिकरं परम्

147.57

कथितं देवि कार्त्स्न्येन तवानुग्रहकाम्यया॥
एषोऽध्यायो महाभागे सर्वमङ्गलकारकः

147.58

मम मार्गानुसाराणां मम च प्रीतिवर्द्धनः ॥
श्रेष्ठानां परमं श्रेष्ठं मङ्गलानां च मङ्गलम्

147.59

लाभानां परमो लाभो धर्माणां धर्म उत्तमः ॥
लभन्ते पठमाना वै मम मार्गानुसारिणः

147.147.60

तेजः श्रियं च लक्ष्मीं च सर्वकामान्यशस्विनि ॥
यावन्ति चाक्षराणि स्युरत्राध्याये मनस्विनि

147.61

तावद्वर्षसहस्राणि मम लोके महीयते ॥
पतनं च न विद्येत पठमानो दिने दिने

147.62

तारितानि कुलान्येभिः सप्त सप्त च सप्त च ॥
पिशुनाय न दातव्यं न मूर्खाय शठाय च

147.63

देयं पुत्राय शिष्याय यश्च जानाति सेवितुम् ॥
एतन्मरणकाले तु न कदाचित्तु विस्मरेत्

147.64

श्लोकं वा यदि वा पादं यदीच्छेत्परमां गतिम् ॥
तत्क्षेत्रं तु महाभागे पंचयोजनमण्डलम्

147.65

तिष्ठामि परया प्रीत्या दिशं पूर्वामुपाश्रितः ॥
पश्चिमेन वहेद्गङ्गां निष्कामेन वसुन्धरे

147.66

एवं रहस्यं गुह्यं च सर्वकर्मसुखावहम् ॥
एतत्ते परमं भद्रे गुह्यं धर्मसमन्वितम्

147.67

मम क्षेत्रं महाभागे यत्त्वया परिपृच्छितम्

147.147

इति श्रीवराहपुराणे भगवच्छास्त्रे गोनिष्क्रमण माहात्म्यं नाम सप्तचत्वारिंशदधिकशततमोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc