वल्लालचरित · अध्याय 2.8
इत्यानन्दभट्टप्रोक्ते वल्लालचरिते देवलानां निर्व्वासनं नाम सप्तमो ऽध्यायः ।
[[040]]
अथ अष्टमो ऽध्यायः
ओं नमः शिवाय ।
नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम् ।
देवीं स्वरस्वतीं व्यासं ततोजयमुदीरयेत्
ओं नमो भगवते वासुदेवाय ।
नमो ऽस्तु सिंहगिरये प्रभवे ऽद्भुतशक्तये ।
वल्लालभूपति र्निन्ये मार्गे येन सनातने
अथ श्रीवल्लालसेनः पुरा गौडे पुरोत्तमे ।
नानारत्नज्वलत्शोभासभायां सुखमासत
नीलकुञ्चितकेशान्तव्यालोलचूर्णकुन्तलाः ।
सभाजनाक्षिभ्रमरैः पीयमानमुखाम्बुजाः
कञ्चुकितस्तनाभोगाः क्वनद्वलयकङ्कणाः ।
सुवस्त्राश्चारुसर्व्वाङ्ग्यः आरक्तदशनच्छदाः
आविष्कुर्व्वद्वाहुमूला नृत्यद्धस्ता इव स्त्रियः ।
सेवयन्ति नृपं तत्र चलच्चामरमारुतैः
राजन्या राजपुत्राश्च वावदूकविटादयः ।
उपासते स्म वल्लालं ब्राह्मणाश्च महौजसः
गीतै र्हल्लीषै र्लास्यैश्च नट्यो हरिणलोचनाः ।
भ्रुकुंशाश्च वाद्यविदो वाद्यैश्चरमयन्ति तम्
कदाचिद्वेदवेदाङ्गोपनिषद्धर्म्मशास्त्रवित् ।
इतिहासपुराणानां वेत्ता लोकनमस्कृतः
मेधावी नयवान् वाग्मी महाराजगुरुर्मुनिः ।
योगीश्वरो महाप्राज्ञः सर्व्वशास्त्रविशारदः
भट्टः सिंहगिरि र्नाम शिष्यैः परिवृतस्तदा ।
उद्भासयन् दिशः सर्व्वाः श्रिया परमया ज्वलन्
सभास्थं राजवल्लालं द्रष्टुकामो मनोजवः ।
वदरिकाश्रमोद्देशं भ्रमन् तामगमत् सभां
जयाशीर्भि र्वर्द्धयन्तं विलोक्य नृपति र्मुनिम् ।
प्रत्युत्पत्यासनात् तूर्णं बबन्दे चरणौ मुनेः
दत्त्वासनं ततस्तस्मै भक्त्या प्रीत्या च पार्थिवः ।
धनैः रत्नै र्यथाकामैः पूजयामास यत्नतः
वल्लालेनार्च्चितो राज्ञा मुनिः प्रीतमनास्तदा ।
अनामयञ्चाव्ययञ्य पर्य्यपृच्छज्जनेश्वरम्
वलदेवं समागम्य सस्मितो मुनिसत्तमः ।
प्रतिपूज्य यथान्यायं पप्रच्छ कुशलं तदा
स हृष्टमानसो राजा भट्टसिंहगिरिं मुनिम् ।
उवाच परमप्रीतस्तापसं द्योतितप्रभम्
[[042]]
अद्य मे सफलं जन्म महद्गृञ्च पवित्रितम् ।
भवदभ्यागमेनैव सुप्रभाता विभावरी
ततो विश्रान्तमालक्ष्य तं मुनिं संशितव्रतम् ।
सुखासीनमुपासीन उवाच भुवनेश्वरः
राजोवाच:
भगवन् सर्व्वशास्त्रज्ञः सर्वज्ञः सर्वतत्त्ववित् ।
भवतो ऽविदितं किञ्चिन्नास्तीति कृपया वद
चतुर्व्वर्णसमुत्पत्तिं गोत्रवंशादिकं शुभम् ।
वर्णानां शङ्करोत्पत्तिं कथयस्व च मे मुने
इति राज्ञो वचः श्रुत्वा सन्तोषविशदाननः ।
प्रत्युवाच महातेजा स्ततो नारायणात्मजः
सिंहगिरिरुवाच:
शुश्रूषुभ्यो यथा राजन् राजर्षिभ्यस्तपोनिधिः ।
कृष्णद्वैपायरगः प्राह तथाद्य कथयामि ते
वदरिकाश्रमे पुण्ये देवदारुवनालये ।
नानापक्षिमृगाकीर्णे शान्तिकान्तिनिकेतने
हुतहव्यं त्रिकालज्ञं महर्षिं चिरजीविनम् ।
व्यासं राजर्षयः सुस्थं प्रणिपत्योपतस्थिरे
राजर्षय ऊचुः:
गताः स्म नैमिषारण्यं पुरीं वाराणसीमपि ।
भवान् न च शुको दृष्टः सौति वां शौनकादयः
दिष्ट्या दृष्टो ऽसि भगवं श्चिरेणाद्य गिराविह ।
सुचिरं मार्गमाणानां कृष्णो भक्तिमतामिव
विभाजितस्त्वया वेदः पुरा सत्यवतीसुत ।
इतिहासपुराणानि कथितान्यनुकम्पया
कथितं धर्म्मशास्त्रञ्च कलिः सम्प्रति वर्त्तते ।
कृष्णो ऽपि पलितैः केशैः शुक्लतां गतवानसि
अतोद्य कथय ब्रह्मन् स्वयमेव महामुने ।
पुराणं धर्म्मतत्वज्ञ ह्यनुग्राह्या वयं तव
भवन्तं नहि त्यक्ष्यामः पुराणकथनं विना ।
बद्धो ऽस्ति पदयो र्भक्तिदामभि स्त्ववशो भवान्
इति तेषां वचः श्रुत्वा स किञ्चित् प्रहसन्निव ।
उवाच वाग्विदां श्रेष्ठः श्रूयतां कथयामि वः
मूल पाठ: Vallālacarita · Edition: Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904 (Bibliotheca Indica, 164) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0