वल्लालचरित · अध्याय 2.9
इति वल्लालचरिते व्यासपुराणे अष्टमो ऽध्यायः ।
[[044]]
अथ नवमा ऽध्यायः
व्यास उवाच:
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्त्वा अत्यतिष्ठदशाङ्गुलम्
तस्माद्विराडजायत विराजो ऽधिपूरुषः ।
ततो ऽभिध्यायतो रुद्रो ललाटाच्च व्यजायत
चन्द्रमा मनसो जातश्चक्षोः सूर्य्यो ऽजायत ।
मुखादिन्द्रश्च अग्निश्च प्राणाद्वायुरजायत
मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ।
वशिष्ठञ्च महातेजाः सो ऽसृजत्सप्त मानसान्
लोकानान्तु विवृद्ध्यर्थं मुखवाहूरुपादतः ।
ब्राह्मणं क्षत्रियं वैश्यं शूद्रञ्च निरवर्त्तयत्
सृज्यमामाः प्रजा नैव विवर्द्धन्ते यदा यदा ।
द्विधा कृत्वात्मनो देहमर्द्धेन पुरुषो ऽभवत् ।
अर्द्धेन नारी तस्यां स ससृजे विविधाः प्रजाः
दिवञ्च पृथिवीञ्चैव महिम्ना व्याप्य तिष्ठतः ।
पित्ःणान्तु गणाः सप्त पुराणे कथिता मया
वैराजा अग्निष्वात्ताश्च तथा वर्हिषदः स्मृताः ।
सुकालाश्च हविष्मन्त सुस्वधाश्चव सोमपाः
एषामाद्यास्त्रयो भूपाः पितरो ऽमूर्त्तयः स्मृताः ।
सकालाद्याश्च चत्वारः सप्तैवैते गणाः स्मृताः
विराट्सुताः सोमसदः अग्निष्वात्ता मरीचिजाः ।
पौलस्त्याश्च बर्हिषदः सुकालाश्च वशिष्ठजाः ।
सुस्वधाः पुलहाज्जाताः सोमपास्तु कवेः सुताः
सुकालाञ्च हविष्यन्तान् सुस्वधाञ्चैव सोमपान् ।
ब्रह्मक्षत्रियविट्शूद्रा भावयन्ति फलार्थिनः
यत्र ते तु गणा मुख्याः पित्ःणां परिकीर्त्तिताः ।
तेषामपि ह विज्ञेयं पुत्रपौत्रमनन्तकम्
विश्वो विश्वभुगाराध्यो धर्म्मो धन्यः शुभाननः ।
भूतिदो भूतिकृद्भतिः पित्ःणाञ्च गणा नव
कल्याण कल्यताकर्त्ता कल्यः कल्यतराश्रयः ।
कल्यताहेतुरनघः षडिमे च गणाः स्मृताः
वरो वरेण्यो वरदः पुष्टिदस्तुष्टिदस्तथा ।
विश्वपाता तथा धाता सप्तैवैते तथा गणाः
महान् महात्मा महितो महिमावान् महाबलः ।
गणाः पञ्च तथैवैते पित्ःणां पापनाशनाः
सुखदो धनदश्चान्यो धर्म्मदो न्यश्च भूतिदः ।
पित्ःणां कथ्यते चैतत् तथा गणचतुष्टयम्
मूल पाठ: Vallālacarita · Edition: Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904 (Bibliotheca Indica, 164) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0