वल्लालचरित · अध्याय 2.7
इत्यानन्दभट्टप्रोक्ते वल्लालचरिते उग्रमाधवपूजनं नाम षष्ठोध्यायः ।
अथ सप्तमा ऽध्यायः
कस्मिंश्चित् काले पद्माक्षी वल्लालदयिता पुरा ।
शङ्करं पूजितुं तत्र महास्थानमुपागता
गृहीत्वा बहुद्रव्याणि हैमानि राजतानि च ।
आतपत्रञ्च देवस्य देव्याश्च कर्णपालिकाम्
प्रालम्बिकाञ्च कटकं किरीटं कण्ठभूषणम् ।
अङ्गदं कङ्कणं सारशनञ्च नूपुरादिकम्
वस्त्राणि च महार्हाणि पताकाश्च ध्वजानि च ।
यज्ञसूत्राणि गन्धानि नानोपकरणानि च
अर्चयामास देवं सा देवीं च स पुरोहितः ।
नैवेद्ये स्तैरलङ्कारैच्छत्रेण च परं मुदा
पूजयित्वा गता देवी सारुह्य हयनं वरम् ।
पुरोहितः स्थितस्तत्र द्रव्याणामंशकाङ्क्षया
स महान्तम् धर्म्मगिरिं वलदेव उवाच ह ।
भदन्त देहि मे भागम् मत्प्राप्यमचिरेण भोः
तच्छ्रत्वा तद्वचः स्थानाधिपः स प्रत्युवाच तम् ।
अददाम न कस्मैचित् भागमेव कदाचन
[[038]]
अतो न दद्यां भवते गच्छ गच्छ गृहं व्रज ।
इत्थं ताभ्यामभूत्तत्र वाक्पारुष्यं कियत्क्षणम्
वलदेवस्ततः क्रद्धो देवलेशं शशाप ह ।
निपतध्वमरे मूढ न ते भद्रं भविष्यति
श्रुत्वा तद्देवलेशस्त्वं क्रोधम्लेच्छाननाननः ।
वलदेवं गण्डदेशे चपेटेन व्यतीतडत्
आदिशत् व्यायतान् शिष्यान् एषोपसार्य्यतामिति ।
ततस्ते पुरुषाश्चक्रुः गुरोराज्ञाप्रपालनम् ।
वलदेवस्ततो ऽगच्छद्रुदन्नृपतिसन्निधिम्
आद्योपान्तं यथावृत्तं नृपे सर्व्वमचीकथत् ।
पार्षद्या ब्राह्मणाश्चापि चक्रुस्तस्य समर्थनम्
वलदेवस्य वाक्यस्य प्रोचुश्च दण्ड्यतां गिरेः ।
एवं विज्ञाय राजासावपमानं पुरोधसः ।
मन्युना स प्रजज्वाल वह्निना पटलं यथा
निर्व्वास्यतां धर्म्मगिरी राष्ट्रान्मे स्वगणैः सह ।
इति राजा रुद्रनागमन्वशात् दण्डनायकम्
निधिर्गुणानां स्वजनैकबन्धुः सत्यं विधातुर्द्विजवर्य्यवाक्यम् ।
चकार राष्ट्रात् स वहिष्कृतं तं गणेन सार्द्धं किल राजसिंहः
मूल पाठ: Vallālacarita · Edition: Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904 (Bibliotheca Indica, 164) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0